मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमोऽध्यायः

3
आश्वलायनगृह्यसूत्रम् · 1

प्रथमा कण्डिका

उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः

॥१॥

त्रयः पाकयज्ञाः

॥२॥

हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः

॥३॥

अथाप्यृच उदाहरन्ति यः समिधा य आहुती यो वेदेनेति

॥४॥

समिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति

॥५॥

द्वितीया कण्डिका

अथ सायंप्रातःसिद्धस्य हविष्यस्य जुहुयात्

॥१॥

अग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे

॥२॥

स्वाहेत्यथ बलिहरणम्

॥३॥

एताभ्यश्चैव देवताभ्योऽद्भ्य ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यः

॥४॥

इन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशम्

॥५॥

ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये

॥६॥

विश्वेभ्यो देवेभ्यः

॥७॥

सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा

॥८॥

नक्तञ्चारिभ्य इति नक्तम्

॥९॥

रक्षोभ्य इत्युत्तरतः

॥१०॥

स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत्

॥११॥

तृतीया कण्डिका

अथ खलु यत्र क्व च होष्यन्त्यस्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखा उदगायतां पश्चात्प्रागायते नानान्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदकसंस्थन्तूष्णीं पर्युक्षणम्

॥१॥

पवित्राभ्यामाज्यस्योत्पवनम्

॥२॥

अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम्

॥३॥

कृताकृतमाज्यहोमेषु परिस्तरणम्

॥४॥

तथाज्यभागौ पाकयज्ञेषु

॥५॥

ब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम्

॥६॥

अमुष्मै स्वाहेति जुहुयात्

॥७॥

अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मेत्यनादेशे

॥८॥

एकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः

॥९॥

तदेषाभियज्ञगाथा गीयते । पाकयज्ञान्समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते इति

॥१०॥

चतुर्थी कण्डिका

उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः

॥१॥

सार्वकालमेके विवाहम्

॥२॥

तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात्

॥३॥

अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा

॥४॥

समुच्चयमेके

॥५॥

नैके काञ्चन

॥६॥

त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम्

॥७॥

पञ्चमी कण्डिका

कुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुरस्तात्

॥१॥

बुद्धिमते कन्यां प्रयच्छेत्

॥२॥

बुद्धिरूपशीललक्षणसम्पन्नामरोगामुपयच्छेत

॥३॥

दुर्विज्ञेयानि लक्षणानीति

॥४॥

अष्टौ पिण्डान्कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद्दृश्यतामिति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति

॥५॥

क्षेत्राच्चेदुभयतःसस्याद्गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याद्गोष्ठात्पशुमती वेदिपुरीषाद्ब्रह्मवर्चस्विन्यविदासिनो ह्रदात्सर्वसम्पन्ना देवनात्कितवी चतुष्पथाद्द्विप्रव्राजिनीरिणादधन्या श्मशानात् पतिघ्नी

॥६॥

षष्ठी कण्डिका

अलंकृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहः । तस्यां जातो द्वादशावरान्द्वादश परान्पुनात्युभयतः

॥१॥

ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो दशावरान्दश परान्पुनात्युभयतः

॥२॥

सह धर्मं चरत इति प्राजापत्योऽष्टावरानष्ट परान्पुनात्युभयतः

॥३॥

गोमिथुनं दत्त्वोपयच्छेत स आर्षः सप्तावरान्सप्त परान्पुनात्युभयतः

॥४॥

मिथः समयं कृत्वोपयच्छेत स गान्धर्वः

॥५॥

धनेनोपतोष्योपयच्छेत स आसुरः

॥६॥

सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः

॥७॥

हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षसः

॥८॥

सप्तमी कण्डिका

अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात्

॥१॥

यत्तु समानं तद्वक्ष्यामः

॥२॥

पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मुख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति

॥३॥

अङ्गुलीरेव स्त्रीकामः

॥४॥

रोमान्ते हस्तं साङ्गुष्ठमुभयकामः

॥५॥

प्रदक्षिणमग्निमुदकुम्भञ्च त्रिः परिणयञ्जपति । अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेह विवहावहै प्रजां प्रजनयावहै सम्प्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति

॥६॥

परिणीय परिणीयाश्मानमारोहयतीममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ प्रतन्यत इति

॥७॥

वध्वञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति

॥८॥

त्रिर्जामदग्न्यानाम्

॥९॥

प्रत्यभिघार्य हविः

॥१०॥

अवत्तञ्च

॥११॥

एषोऽवदानधर्मः

॥१२॥

अर्यमणं नु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातुनामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात्

॥१३॥

अपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम्

॥१४॥

ओप्योप्य हैके लाजान्परिणयन्ति तथोत्तमे आहुती न सन्निपततः

॥१५॥

अथास्यै शिखे विमुञ्चति यदि कृते भवतः

॥१६॥

ऊर्णास्तुके केशपक्षयोर्बद्धे भवतः । प्र त्वा मुञ्चामि वरुणस्य पाशादिति

॥१७॥

उत्तरामुत्तरया

॥१८॥

अथैनामपराजितायान्दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान्विन्दावहै बहूंस्ते सन्तु जरदष्टय इति

॥१९॥

उभयोः सन्निधाय शिरसी उदकुम्भेनावसिच्य

॥२०॥

ब्राह्मण्याश्च वृद्धाया जीवपत्न्या जीवप्रजाया अगार एतां रात्रिं वसेत्

॥२१॥

ध्रुवमरुन्धतीं सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नीं प्रजां विन्देयेति

॥२२॥

अष्टमी कण्डिका

प्रयाण उपपद्यमाने पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्

॥१॥

अश्मन्वतीरीयते संरभध्वमित्यर्द्धर्चेन नावमारोहयेत्

॥२॥

उत्तरेणोक्त्रमयेत्

॥३॥

जीवं रुदन्तीति रुदत्याम्

॥४॥

विवाहाग्निमग्रतोऽजस्रन्नयन्ति

॥५॥

कल्याणेषु देशवृक्षचतुष्पथेषु माविदन्परिपन्थिन इति जपेत्

॥६॥

वासेवासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत

॥७॥

इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्

॥८॥

विवाहाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायाम् आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये

॥९॥

अक्षारालवणाशिनौ ब्रह्मचारिणावलंकुर्वाणावधःशायिनौ स्याताम्

॥१०॥

अत ऊर्द्ध्वं त्रिरात्रं द्वादशरात्रम्

॥११॥

संवत्सरं वैक ऋषिर्जायत इति

॥१२॥

चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्

॥१३॥

अन्नं ब्राह्मणेभ्यः

॥१४॥

अथ स्वस्त्ययनं वाचयीत

॥१५॥

नवमी कण्डिका

पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा

॥१॥

नित्यानुगृहीतं स्यात्

॥२॥

यदि तूपशाम्येत्पत्न्युपवसेदित्येके

॥३॥

तस्याग्निहोत्रेण

॥४॥

प्रादुष्करणहोमकालौ व्याख्यातौ

॥५॥

हौम्यं च मांसवर्जम्

॥६॥

कामं तु व्रीहियवतिलैः

॥७॥

अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयत्र

॥८॥

दशमी कण्डिका

अथ पार्वणस्थालीपाकः

॥१॥

तस्य दर्शपूर्णमासाभ्यामुपवासः

॥२॥

इध्माबर्हिषोश्च सन्नहनम्

॥३॥

देवताश्चोपांशुयाजेन्द्रमहेन्द्रवर्जम्

॥४॥

काम्या इतराः

॥५॥

तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति पवित्रे अन्तर्द्धायामुष्मै त्वा जुष्टं निर्वपामीति

॥६॥

अथैनान्प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति

॥७॥

अवहतांस्त्रिष्फलीकृतान्नाना श्रपयेत्

॥८॥

समोप्य वा

॥९॥

यदि नाना श्रपयेद्विभज्य तण्डुलानभिमृशेदिदममुष्मा इदममुष्मा इति

॥१०॥

यद्यु वै समोप्य व्युद्धारं जुहुयात्

॥११॥

शृतानि हवींष्यभिघार्योदगुद्वास्य बर्हिष्यासाद्येध्मभिघार्यायन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्द्धस्व चेद्ध वर्द्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति

॥१२॥

तूष्णीमाघारावाघार्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहेति

॥१३॥

उत्तरमाग्नेयं दक्षिणं सौम्यम्

॥१४॥

विज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागौ

॥१५॥

तस्मात्पुरुषस्य हि प्रत्यङ्मुखस्यासीनस्य दक्षिणमक्ष्युत्तरं भवत्युत्तरं दक्षिणम्

॥१६॥

मध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्संस्थानि वोत्तरपुरस्तात्सौविष्टकृतम्

॥१७॥

मध्यात्पूर्वार्द्धाच्च हविषोऽवद्यति

॥१८॥

मध्यात्पूर्वार्द्धात् पश्चार्द्धादिति पञ्चावत्तिनाम्

॥१९॥

उत्तरार्द्धात् सौविष्टकृतम्

॥२०॥

नात्र हवींषि प्रत्यभिघारयति स्विष्टकृतं द्विरभिघारयति

॥२१॥

यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहेति

॥२२॥

बर्हिषि पूर्णपात्रं निनयेत्

॥२३॥

एषोऽवभृथः

॥२४॥

पाकयज्ञानामेतत्तन्त्रम्

॥२५॥

हविरुच्छिष्टं दक्षिणा

॥२६॥

एकादशी कण्डिका

अथ पशुकल्पः

॥१॥

उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरोमीति

॥२॥

व्रीहियवमतीभिरद्भिः पुरस्तात्प्रोक्षत्यमुष्मै त्वा जुष्टं प्रोक्षामीति

॥३॥

तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत्

॥४॥

आवृतैव पर्यग्नि कृत्वोदञ्चं नयन्ति

॥५॥

तस्य पुरस्तादुल्मुकं हरन्ति

॥६॥

शामित्र एष भवति

॥७॥

वपाश्रपणीभ्यां कर्ता पशुमन्वारभते

॥८॥

कर्तारं यजमानः

॥९॥

पश्चाच्छमित्रस्य प्राक्शिरसं प्रत्यक्शिरसं वोदक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्धाय वपामुत्खिद्य वपामवदाय वपाश्रपणीभ्यां परिगृह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत आसीनः श्रपयित्वा परीत्य जुहुयात्

॥१०॥

एतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति

॥११॥

एकादश पशोरवदानानि सर्वाङ्गेभ्योऽवदाय शामित्रे श्रपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात्

॥१२॥

अवदानैर्वा सह

॥१३॥

एकैकस्यावदानस्य द्विर्द्विरवद्यति

॥१४॥

आवृतैव हृदयशूलेन चरन्ति

॥१५॥

द्वादशी कण्डिका

चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्

॥१॥

यद्यु वै विदेशस्थं पलाशदूतेन यत्र वेत्थ वनस्पत इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति यो दूताय

॥२॥

प्रतिभयं चेदन्तरा शस्त्रमपि किञ्चित्

॥३॥

नाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति

॥४॥

धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत्

॥५॥

त्रयोदशी कण्डिका

उपनिषदि गर्भलम्भनं पुंसवनमनवलोभनञ्च

॥१॥

यदि नाधीयात्तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ माषौ यवञ्च दधि प्रसृतेन प्राशयेत्

॥२॥

किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति त्रिः प्रतिजानीयात्

॥३॥

एवं त्रीन्प्रसृतान्

॥४॥

अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधीं नस्तःकरोति

॥५॥

प्रजावज्जीवपुत्राभ्यां हैके आ ते गर्भो योनिमेतु पुमान्वाण इवेषुधिम् । आ वीरो जायतां पुत्रस्ते दशमास्यः । अग्निरेतु प्रथमो देवतानां सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदादिति

॥६॥

प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ । मन्येऽहं मां तद्विद्वांसं माहं पौत्रमघन्नियामिति

॥७॥

चतुर्दशी कण्डिका

चतुर्थे गर्भमासे सोमन्तोन्नयनम्

॥१॥

आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्

॥२॥

अथाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायां धाता ददातु दाशुष इति द्वाभ्यां राकामहमिति द्वाभ्यां नेजमेष इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च

॥३॥

अथास्यै युग्मेन शलाटुग्लप्सेन त्र्येण्या च शलल्या त्रिभिश्च कुशपिञ्जूलैरूर्ध्वं सीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिः

॥४॥

चतुर्वा

॥५॥

वीणागाथिनौ संशास्ति सोमं राजानं संगायेतामिति

॥६॥

सोमो नो राजाऽवतु मानुषीः प्रजा निविष्टचक्रासाविति यां नदीमुपवसिता भवन्ति

॥७॥

ब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः

॥८॥

वृषभो दक्षिणा

॥९॥

पञ्चदशी कण्डिका

कुमारं जातं पुरान्यैरालम्भात्सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति

॥१॥

कर्णयोरुपनिधाय मेधाजननं जपति । मेधान्ते देवः सविता मेधां देवी सरस्वती । मेधान्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ । इति

॥२॥

अंसावभिमृशति अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतमिति । इन्द्र श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघवन्नृजीषिन्निति च

॥३॥

नाम चास्मै दद्युः

॥४॥

घोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरम्

॥५॥

चतुरक्षरं वा

॥६॥

द्व्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः

॥७॥

युग्मानि त्वेव पुंसाम्

॥८॥

अयुजानि स्त्रीणाम्

॥९॥

अभिवादनीयं च समीक्षेत तन्मातापितरौ विद्यातामोपनयनात्

॥१०॥

प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतमिति मूर्द्धनि त्रिरवघ्राय

॥११॥

आवृतैव कुमार्यै

॥१२॥

षोडशी कण्डिका

षष्ठे मास्यन्नप्राशनम्

॥१॥

आजमन्नाद्यकामः

॥२॥

तैत्तिरं ब्रह्मवर्चसकामः

॥३॥

घृतौदनं तेजस्कामः

॥४॥

दधिमधुघृतमिश्रमन्नं प्राशयेदन्नपतेऽत्रस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि द्विपदे चतुष्पद इति

॥५॥

आवृतैव कुमार्यै

॥६॥

सप्तदशी कण्डिका

तृतीये वर्षे चौलं यथाकुलधर्मं वा

॥१॥

उत्तरतोऽग्नेर्व्रीहियवमाषतिलानां पृथक्पूर्णशरावाणि निदधाति

॥२॥

पश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति

॥३॥

मातुः पिता दक्षिणत एकविंशतिकुशपिञ्जूलान्यादाय

॥४॥

ब्रह्मा वैतानि धारयेत्

॥५॥

पश्चात्कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोष्णेन वा य उदकेनेहीति

॥६॥

तासां गृहीत्वा नवनीतं दधिद्रप्सान्वा प्रदक्षिणं शिरस्त्रिरुन्दति अदितिः केशान्वपत्वाप उन्दन्तु वर्चस इति

॥७॥

दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिञ्जूलान्यभ्यात्माग्राणि निदधाति ओषधे त्रायस्वैनमिति

॥८॥

स्वधिते मैनं हिंसीरिति निष्पोड्य लौहेन क्षुरेण

॥९॥

प्रछिनत्ति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माञ्जरदष्टिर्यथासदिति

॥१०॥

प्रच्छिद्यप्रच्छिद्य प्रागग्राञ्छमीपर्णैः सह मात्रे प्रयच्छति तानानडुहे गोमये निदधाति

॥११॥

येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयम् । येन भूयश्चरात्र्यां ज्योक्च पश्याति सूर्यम् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयम्

॥१२॥

सर्वैर्मन्त्रैश्चतुर्थम्

॥१३॥

एवमुत्तरतस्त्रिः

॥१४॥

क्षुरतेजो निमृजेद्यत्क्षुरेण मर्चयता सुपेशसा वप्ता वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति

॥१५॥

नापितं शिष्याच्छीतोष्णाभिरद्भिरवर्थं कुर्वाणोऽक्षण्वन्कुशलीकुर्विति

॥१६॥

यथाकुलधर्मं केशवेशान् कारयेत्

॥१७॥

आवृतैव कुमार्य्यै

॥१८॥

अष्टादशी कण्डिका

एतेन गोदानम्

॥१॥

षोडशे वर्षे

॥२॥

केशशब्दे तु श्मश्रुशब्दान्कारयेत्

॥३॥

श्मश्रूणीहोन्दति

॥४॥

शुन्धि शिरो मुखं मास्यायुः प्रमोषीरिति

॥५॥

केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति संप्रेष्यति

॥६॥

आप्लुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे वाचं विसृजेत वरं ददामीति

॥७॥

गोमिथुनं दक्षिणा

॥८॥

संवत्सरमादिशेत्

॥९॥

एकोनविंशी कण्डिका

अष्टमे वर्षे ब्राह्मणमुपनयेत्

॥१॥

गर्भाष्टमे वा

॥२॥

एकादशे क्षत्रियम्

॥३॥

द्वादशे वैश्यम्

॥४॥

आ षोडशाद्ब्राह्मणस्यानतीतः कालः

॥५॥

आ द्वाविंशात् क्षत्रियस्या चतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति

॥६॥

नैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्व्यवहरेयुः

॥७॥

अलङ्कृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम्

॥८॥

यदि वासांसि वसीरन्रक्तानि वसीरन्काषायं ब्राह्मणो माञ्जिष्टं क्षत्रियो हारिद्रं वैश्यः

॥९॥

तेषां मेखलाः

॥१०॥

मौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्यावी वैश्यस्य

॥११॥

तेषां दण्डाः

॥१२॥

पालाशो ब्राह्मणस्यौडुम्बरः क्षत्रियस्य बैल्वो वैश्यस्य । केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य प्राणसंमितो वैश्यस्य

॥१३॥

विंशी कण्डिका

सर्वे वा सर्वेषाम्

॥१॥

समन्वारब्धे हुत्वोत्तरतोऽग्नेः प्राङ्मुख आचार्योऽवतिष्ठते

॥२॥

पुरस्तात्प्रत्यङ्मुख इतरः

॥३॥

अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात्

॥४॥

सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम्

॥५॥

आदित्यमीक्षयेत् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः

॥६॥

कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वाकमुपनयते काय त्वा परिददामीति

॥७॥

युवा सुवासाः परिवीत आगादित्यर्द्धर्चेनैनं प्रदक्षिणमावर्तयेत्

॥८॥

तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण

॥९॥

अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते

॥१०॥

एकविंशी कण्डिका

मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति

॥१॥

स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति

॥२॥

तेजसा ह्येवात्मानं समनक्तीति विज्ञायते

॥३॥

मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति

॥४॥

तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम्

॥५॥

यथाशक्ति वाचयीत

॥६॥

हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति

॥७॥

द्वाविंशी कण्डिका

मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत्

॥१॥

ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मास्वाप्सीराचार्याधीनो वेदमधीष्वेति

॥२॥

द्वादश वर्षाणि वेदब्रह्मचर्यम्

॥३॥

ग्रहणान्तं वा

॥४॥

सायं प्रातर्भिक्षेत

॥५॥

सायं प्रातः समिधमादध्यात्

॥६॥

अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा

॥७॥

भवान् भिक्षां ददात्वित्यनुप्रवचनीयमिति वा

॥८॥

तदाचार्याय वेदयीत तिष्ठेदहःशेषम्

॥९॥

अस्तमिते ब्रह्मौदनमनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत

॥१०॥

आचार्यः समन्वारब्धे जुहुयात्सदसस्पतिमद्भुतमिति

॥११॥

सावित्र्या द्वितीयम्

॥१२॥

यद्य त्किञ्चात ऊर्ध्वमनूक्तं स्यात्

॥१३॥

ऋषिभ्यस्तृतीयम्

॥१४॥

सौविष्टकृतं चतुर्थम्

॥१५॥

ब्राह्मणान्भोजयित्वा वेदसमाप्तिं वाचयीत

॥१६॥

अत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधःशायी त्रिरात्रं द्वादशरात्रं संवत्सरं वा

॥१७॥

चरितव्रताय मेधाजननं करोति

॥१८॥

अनिन्दितायान्दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु । यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति

॥१९॥

एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातम्

॥२०॥

इत्यनुपेतपूर्वस्य

॥२१॥

अथोपेतपूर्वस्य

॥२२॥

कृताकृतं केशवपनं मेधाजननं च

॥२३॥

अनिरुक्तं परिदानम्

॥२४॥

कालश्च

॥२५॥

तत्सवितुर्वृणीमह इति सावित्रीं

॥२६॥

त्रयोविंशी कण्डिका

ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात्

॥१॥

यून ऋत्विजो वृणीत इत्येके

॥२॥

ब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम्

॥३॥

सर्वान्वा येऽहीनैकाहैर्याजयन्ति

॥४॥

सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति

॥५॥

होतारमेव प्रथमं वृणीते

॥६॥

अग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारं

॥७॥

चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणं

॥८॥

आदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् । स वृतो जपेन्महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति

॥९॥

जपित्वाग्निष्टे होता स ते होता होताहं ते मानुष इति होता प्रतिजानीते

॥१०॥

चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा

॥११॥

एवमितरे यथादेशं तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन्

॥१२॥

न्यस्तमार्त्विज्यमकार्यम्

॥१३॥

अहीनस्य नीचदक्षिणस्य

॥१४॥

व्याधितस्यातुरस्य

॥१५॥

यक्ष्मगृहीतस्य

॥१६॥

अनुदेश्यभिशस्तस्य

॥१७॥

क्षिप्तयोनेरिति चैतेषाम्

॥१८॥

सोमप्रवाकं परिपृच्छेत्को यज्ञः क ऋत्विजः का दक्षिणा इति

॥१९॥

कल्याणैः सह सम्प्रयोगः

॥२०॥

न मांसमश्नीयुर्न स्त्रियमुपेयुरा क्रतोरपवर्गात्

॥२१॥

एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्याहुतिं हुत्वा यथार्थं प्रव्रजेत्

॥२२॥

एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो न इत्येतयर्चा

॥२३॥

चतुर्विंशी कण्डिका

ऋत्विजो वृत्वा मधुपर्कमाहरेत्

॥१॥

स्नातकायोपस्थिताय

॥२॥

राज्ञे च

॥३॥

आचार्यश्वशुरपितृव्यमातुलानाञ्च

॥४॥

दधनि मध्वानीय

॥५॥

सर्पिर्वा मध्वलाभे

॥६॥

विष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्क्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते

॥७॥

अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदन्तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेदाक्रम्य वा

॥८॥

पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत्

॥९॥

सव्यं शूद्राय

॥१०॥

प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य

॥११॥

अथाचमनीयेनान्वाचामति अमृतोपस्तरणमसीति

॥१२॥

मधुपर्कमाह्रियमाणमीक्षेत मित्रस्य त्वा चक्षुषा प्रतीक्ष इति

॥१३॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य सव्ये पाणौ कृत्वा मधुवाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण च्छन्दसा भक्षयन्त्विति पुरस्तान्निमार्ष्टि

॥१४॥

रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा भक्षयन्त्विति दक्षिणत आदित्यास्त्वा जागतेन च्छन्दसा भक्षयन्त्विति पश्चाद्विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा भक्षयन्त्वित्युत्तरतो भूतेभ्यस्त्वेति मध्यात्त्रिरुद्गृह्य

॥१५॥

विराजो दोहोऽसीति प्रथमं प्राश्नीयाद्विराजो दोहमशीयेति द्वितीयं मयि दोहः पद्यायै विराज इति तृतीयम्

॥१६॥

न सर्वम्

॥१७॥

न तृप्तिङ्गच्छेत्

॥१८॥

ब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेदलाभेऽप्सु

॥१९॥

सर्वं वा

॥२०॥

अथाचमनीयेनान्वाचामत्यमृतापिधानमसीति

॥२१॥

सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम्

॥२२॥

आचान्तोदकाय गां वेदयन्ते

॥२३॥

हतो मे पाप्मा पाप्मा मे हत इति जपित्वॐकुरुतेति कारयिष्यन्

॥२४॥

माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्

॥२५॥

नामांसो मधुपर्को भवति भवति

॥२६॥