प्रथमा कण्डिका
Devanāgarīउक्तानि वैतानिकानि गृह्याणि वक्ष्यामः
॥१॥ IAST
Devanāgarīत्रयः पाकयज्ञाः
॥२॥ IAST
Devanāgarīहुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः
॥३॥ IAST
Devanāgarīअथाप्यृच उदाहरन्ति यः समिधा य आहुती यो वेदेनेति
॥४॥ IAST
Devanāgarīसमिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति
॥५॥ IAST
द्वितीया कण्डिका
Devanāgarīअथ सायंप्रातःसिद्धस्य हविष्यस्य जुहुयात्
॥१॥ IAST
Devanāgarīअग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे
॥२॥ IAST
Devanāgarīस्वाहेत्यथ बलिहरणम्
॥३॥ IAST
Devanāgarīएताभ्यश्चैव देवताभ्योऽद्भ्य ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यः
॥४॥ IAST
Devanāgarīइन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशम्
॥५॥ IAST
Devanāgarīब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये
॥६॥ IAST
Devanāgarīविश्वेभ्यो देवेभ्यः
॥७॥ IAST
Devanāgarīसर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा
॥८॥ IAST
Devanāgarīनक्तञ्चारिभ्य इति नक्तम्
॥९॥ IAST
Devanāgarīरक्षोभ्य इत्युत्तरतः
॥१०॥ IAST
Devanāgarīस्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत्
॥११॥ IAST
तृतीया कण्डिका
Devanāgarīअथ खलु यत्र क्व च होष्यन्त्यस्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड्लेखा उदगायतां पश्चात्प्रागायते नानान्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदकसंस्थन्तूष्णीं पर्युक्षणम्
॥१॥ IAST
Devanāgarīपवित्राभ्यामाज्यस्योत्पवनम्
॥२॥ IAST
Devanāgarīअप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीम्
॥३॥ IAST
Devanāgarīकृताकृतमाज्यहोमेषु परिस्तरणम्
॥४॥ IAST
Devanāgarīतथाज्यभागौ पाकयज्ञेषु
॥५॥ IAST
Devanāgarīब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम्
॥६॥ IAST
Devanāgarīअमुष्मै स्वाहेति जुहुयात्
॥७॥ IAST
Devanāgarīअग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मेत्यनादेशे
॥८॥ IAST
Devanāgarīएकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः
॥९॥ IAST
Devanāgarīतदेषाभियज्ञगाथा गीयते । पाकयज्ञान्समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते इति
॥१०॥ IAST
चतुर्थी कण्डिका
Devanāgarīउदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः
॥१॥ IAST
Devanāgarīसार्वकालमेके विवाहम्
॥२॥ IAST
Devanāgarīतेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात्
॥३॥ IAST
Devanāgarīअग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिर्वा
॥४॥ IAST
Devanāgarīसमुच्चयमेके
॥५॥ IAST
Devanāgarīनैके काञ्चन
॥६॥ IAST
Devanāgarīत्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम्
॥७॥ IAST
पञ्चमी कण्डिका
Devanāgarīकुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुरस्तात्
॥१॥ IAST
Devanāgarīबुद्धिमते कन्यां प्रयच्छेत्
॥२॥ IAST
Devanāgarīबुद्धिरूपशीललक्षणसम्पन्नामरोगामुपयच्छेत
॥३॥ IAST
Devanāgarīदुर्विज्ञेयानि लक्षणानीति
॥४॥ IAST
Devanāgarīअष्टौ पिण्डान्कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद्दृश्यतामिति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति
॥५॥ IAST
Devanāgarīक्षेत्राच्चेदुभयतःसस्याद्गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याद्गोष्ठात्पशुमती वेदिपुरीषाद्ब्रह्मवर्चस्विन्यविदासिनो ह्रदात्सर्वसम्पन्ना देवनात्कितवी चतुष्पथाद्द्विप्रव्राजिनीरिणादधन्या श्मशानात् पतिघ्नी
॥६॥ IAST
षष्ठी कण्डिका
Devanāgarīअलंकृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहः । तस्यां जातो द्वादशावरान्द्वादश परान्पुनात्युभयतः
॥१॥ IAST
Devanāgarīऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो दशावरान्दश परान्पुनात्युभयतः
॥२॥ IAST
Devanāgarīसह धर्मं चरत इति प्राजापत्योऽष्टावरानष्ट परान्पुनात्युभयतः
॥३॥ IAST
Devanāgarīगोमिथुनं दत्त्वोपयच्छेत स आर्षः सप्तावरान्सप्त परान्पुनात्युभयतः
॥४॥ IAST
Devanāgarīमिथः समयं कृत्वोपयच्छेत स गान्धर्वः
॥५॥ IAST
Devanāgarīधनेनोपतोष्योपयच्छेत स आसुरः
॥६॥ IAST
Devanāgarīसुप्तानां प्रमत्तानां वापहरेत् स पैशाचः
॥७॥ IAST
Devanāgarīहत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत् स राक्षसः
॥८॥ IAST
सप्तमी कण्डिका
Devanāgarīअथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात्
॥१॥ IAST
Devanāgarīयत्तु समानं तद्वक्ष्यामः
॥२॥ IAST
Devanāgarīपश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मुख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरन्निति
॥३॥ IAST
Devanāgarīअङ्गुलीरेव स्त्रीकामः
॥४॥ IAST
Devanāgarīरोमान्ते हस्तं साङ्गुष्ठमुभयकामः
॥५॥ IAST
Devanāgarīप्रदक्षिणमग्निमुदकुम्भञ्च त्रिः परिणयञ्जपति । अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेह विवहावहै प्रजां प्रजनयावहै सम्प्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति
॥६॥ IAST
Devanāgarīपरिणीय परिणीयाश्मानमारोहयतीममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ प्रतन्यत इति
॥७॥ IAST
Devanāgarīवध्वञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति
॥८॥ IAST
Devanāgarīत्रिर्जामदग्न्यानाम्
॥९॥ IAST
Devanāgarīप्रत्यभिघार्य हविः
॥१०॥ IAST
IAST
Devanāgarīएषोऽवदानधर्मः
॥१२॥ IAST
Devanāgarīअर्यमणं नु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातुनामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात्
॥१३॥ IAST
Devanāgarīअपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम्
॥१४॥ IAST
Devanāgarīओप्योप्य हैके लाजान्परिणयन्ति तथोत्तमे आहुती न सन्निपततः
॥१५॥ IAST
Devanāgarīअथास्यै शिखे विमुञ्चति यदि कृते भवतः
॥१६॥ IAST
Devanāgarīऊर्णास्तुके केशपक्षयोर्बद्धे भवतः । प्र त्वा मुञ्चामि वरुणस्य पाशादिति
॥१७॥ IAST
Devanāgarīउत्तरामुत्तरया
॥१८॥ IAST
Devanāgarīअथैनामपराजितायान्दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान्विन्दावहै बहूंस्ते सन्तु जरदष्टय इति
॥१९॥ IAST
Devanāgarīउभयोः सन्निधाय शिरसी उदकुम्भेनावसिच्य
॥२०॥ IAST
Devanāgarīब्राह्मण्याश्च वृद्धाया जीवपत्न्या जीवप्रजाया अगार एतां रात्रिं वसेत्
॥२१॥ IAST
Devanāgarīध्रुवमरुन्धतीं सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नीं प्रजां विन्देयेति
॥२२॥ IAST
अष्टमी कण्डिका
Devanāgarīप्रयाण उपपद्यमाने पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्
॥१॥ IAST
Devanāgarīअश्मन्वतीरीयते संरभध्वमित्यर्द्धर्चेन नावमारोहयेत्
॥२॥ IAST
Devanāgarīउत्तरेणोक्त्रमयेत्
॥३॥ IAST
Devanāgarīजीवं रुदन्तीति रुदत्याम्
॥४॥ IAST
Devanāgarīविवाहाग्निमग्रतोऽजस्रन्नयन्ति
॥५॥ IAST
Devanāgarīकल्याणेषु देशवृक्षचतुष्पथेषु माविदन्परिपन्थिन इति जपेत्
॥६॥ IAST
Devanāgarīवासेवासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत
॥७॥ IAST
Devanāgarīइह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्
॥८॥ IAST
Devanāgarīविवाहाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायाम् आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये
॥९॥ IAST
Devanāgarīअक्षारालवणाशिनौ ब्रह्मचारिणावलंकुर्वाणावधःशायिनौ स्याताम्
॥१०॥ IAST
Devanāgarīअत ऊर्द्ध्वं त्रिरात्रं द्वादशरात्रम्
॥११॥ IAST
Devanāgarīसंवत्सरं वैक ऋषिर्जायत इति
॥१२॥ IAST
Devanāgarīचरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्
॥१३॥ IAST
Devanāgarīअन्नं ब्राह्मणेभ्यः
॥१४॥ IAST
Devanāgarīअथ स्वस्त्ययनं वाचयीत
॥१५॥ IAST
नवमी कण्डिका
Devanāgarīपाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा
॥१॥ IAST
Devanāgarīनित्यानुगृहीतं स्यात्
॥२॥ IAST
Devanāgarīयदि तूपशाम्येत्पत्न्युपवसेदित्येके
॥३॥ IAST
Devanāgarīतस्याग्निहोत्रेण
॥४॥ IAST
Devanāgarīप्रादुष्करणहोमकालौ व्याख्यातौ
॥५॥ IAST
Devanāgarīहौम्यं च मांसवर्जम्
॥६॥ IAST
Devanāgarīकामं तु व्रीहियवतिलैः
॥७॥ IAST
Devanāgarīअग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयत्र
॥८॥ IAST
दशमी कण्डिका
Devanāgarīअथ पार्वणस्थालीपाकः
॥१॥ IAST
Devanāgarīतस्य दर्शपूर्णमासाभ्यामुपवासः
॥२॥ IAST
Devanāgarīइध्माबर्हिषोश्च सन्नहनम्
॥३॥ IAST
Devanāgarīदेवताश्चोपांशुयाजेन्द्रमहेन्द्रवर्जम्
॥४॥ IAST
Devanāgarīकाम्या इतराः
॥५॥ IAST
Devanāgarīतस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति पवित्रे अन्तर्द्धायामुष्मै त्वा जुष्टं निर्वपामीति
॥६॥ IAST
Devanāgarīअथैनान्प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति
॥७॥ IAST
Devanāgarīअवहतांस्त्रिष्फलीकृतान्नाना श्रपयेत्
॥८॥ IAST
IAST
Devanāgarīयदि नाना श्रपयेद्विभज्य तण्डुलानभिमृशेदिदममुष्मा इदममुष्मा इति
॥१०॥ IAST
Devanāgarīयद्यु वै समोप्य व्युद्धारं जुहुयात्
॥११॥ IAST
Devanāgarīशृतानि हवींष्यभिघार्योदगुद्वास्य बर्हिष्यासाद्येध्मभिघार्यायन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्द्धस्व चेद्ध वर्द्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति
॥१२॥ IAST
Devanāgarīतूष्णीमाघारावाघार्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहेति
॥१३॥ IAST
Devanāgarīउत्तरमाग्नेयं दक्षिणं सौम्यम्
॥१४॥ IAST
Devanāgarīविज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागौ
॥१५॥ IAST
Devanāgarīतस्मात्पुरुषस्य हि प्रत्यङ्मुखस्यासीनस्य दक्षिणमक्ष्युत्तरं भवत्युत्तरं दक्षिणम्
॥१६॥ IAST
Devanāgarīमध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्संस्थानि वोत्तरपुरस्तात्सौविष्टकृतम्
॥१७॥ IAST
Devanāgarīमध्यात्पूर्वार्द्धाच्च हविषोऽवद्यति
॥१८॥ IAST
Devanāgarīमध्यात्पूर्वार्द्धात् पश्चार्द्धादिति पञ्चावत्तिनाम्
॥१९॥ IAST
Devanāgarīउत्तरार्द्धात् सौविष्टकृतम्
॥२०॥ IAST
Devanāgarīनात्र हवींषि प्रत्यभिघारयति स्विष्टकृतं द्विरभिघारयति
॥२१॥ IAST
Devanāgarīयदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहेति
॥२२॥ IAST
Devanāgarīबर्हिषि पूर्णपात्रं निनयेत्
॥२३॥ IAST
IAST
Devanāgarīपाकयज्ञानामेतत्तन्त्रम्
॥२५॥ IAST
Devanāgarīहविरुच्छिष्टं दक्षिणा
॥२६॥ IAST
एकादशी कण्डिका
Devanāgarīअथ पशुकल्पः
॥१॥ IAST
Devanāgarīउत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमाप्लाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयार्द्रशाखया पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरोमीति
॥२॥ IAST
Devanāgarīव्रीहियवमतीभिरद्भिः पुरस्तात्प्रोक्षत्यमुष्मै त्वा जुष्टं प्रोक्षामीति
॥३॥ IAST
Devanāgarīतासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत्
॥४॥ IAST
Devanāgarīआवृतैव पर्यग्नि कृत्वोदञ्चं नयन्ति
॥५॥ IAST
Devanāgarīतस्य पुरस्तादुल्मुकं हरन्ति
॥६॥ IAST
Devanāgarīशामित्र एष भवति
॥७॥ IAST
Devanāgarīवपाश्रपणीभ्यां कर्ता पशुमन्वारभते
॥८॥ IAST
Devanāgarīकर्तारं यजमानः
॥९॥ IAST
Devanāgarīपश्चाच्छमित्रस्य प्राक्शिरसं प्रत्यक्शिरसं वोदक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्धाय वपामुत्खिद्य वपामवदाय वपाश्रपणीभ्यां परिगृह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत आसीनः श्रपयित्वा परीत्य जुहुयात्
॥१०॥ IAST
Devanāgarīएतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति
॥११॥ IAST
Devanāgarīएकादश पशोरवदानानि सर्वाङ्गेभ्योऽवदाय शामित्रे श्रपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रतो जुहुयात्
॥१२॥ IAST
Devanāgarīअवदानैर्वा सह
॥१३॥ IAST
Devanāgarīएकैकस्यावदानस्य द्विर्द्विरवद्यति
॥१४॥ IAST
Devanāgarīआवृतैव हृदयशूलेन चरन्ति
॥१५॥ IAST
द्वादशी कण्डिका
Devanāgarīचैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्
॥१॥ IAST
Devanāgarīयद्यु वै विदेशस्थं पलाशदूतेन यत्र वेत्थ वनस्पत इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति यो दूताय
॥२॥ IAST
Devanāgarīप्रतिभयं चेदन्तरा शस्त्रमपि किञ्चित्
॥३॥ IAST
Devanāgarīनाव्या चेन्नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति
॥४॥ IAST
Devanāgarīधन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत्
॥५॥ IAST
त्रयोदशी कण्डिका
Devanāgarīउपनिषदि गर्भलम्भनं पुंसवनमनवलोभनञ्च
॥१॥ IAST
Devanāgarīयदि नाधीयात्तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गोर्दधनि द्वौ द्वौ माषौ यवञ्च दधि प्रसृतेन प्राशयेत्
॥२॥ IAST
Devanāgarīकिं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति त्रिः प्रतिजानीयात्
॥३॥ IAST
Devanāgarīएवं त्रीन्प्रसृतान्
॥४॥ IAST
Devanāgarīअथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधीं नस्तःकरोति
॥५॥ IAST
Devanāgarīप्रजावज्जीवपुत्राभ्यां हैके आ ते गर्भो योनिमेतु पुमान्वाण इवेषुधिम् । आ वीरो जायतां पुत्रस्ते दशमास्यः । अग्निरेतु प्रथमो देवतानां सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदादिति
॥६॥ IAST
Devanāgarīप्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ । मन्येऽहं मां तद्विद्वांसं माहं पौत्रमघन्नियामिति
॥७॥ IAST
चतुर्दशी कण्डिका
Devanāgarīचतुर्थे गर्भमासे सोमन्तोन्नयनम्
॥१॥ IAST
Devanāgarīआपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्
॥२॥ IAST
Devanāgarīअथाग्निमुपसमाधाय पश्चादस्यानडुहं चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वारब्धायां धाता ददातु दाशुष इति द्वाभ्यां राकामहमिति द्वाभ्यां नेजमेष इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च
॥३॥ IAST
Devanāgarīअथास्यै युग्मेन शलाटुग्लप्सेन त्र्येण्या च शलल्या त्रिभिश्च कुशपिञ्जूलैरूर्ध्वं सीमन्तं व्यूहति भूर्भुवः स्वरोमिति त्रिः
॥४॥ IAST
IAST
Devanāgarīवीणागाथिनौ संशास्ति सोमं राजानं संगायेतामिति
॥६॥ IAST
Devanāgarīसोमो नो राजाऽवतु मानुषीः प्रजा निविष्टचक्रासाविति यां नदीमुपवसिता भवन्ति
॥७॥ IAST
Devanāgarīब्राह्मण्यश्च वृद्धा जीवपत्यो जीवप्रजा यद्यदुपदिशेयुस्तत्तत्कुर्युः
॥८॥ IAST
Devanāgarīवृषभो दक्षिणा
॥९॥ IAST
पञ्चदशी कण्डिका
Devanāgarīकुमारं जातं पुरान्यैरालम्भात्सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्प्र ते ददामि मधुनो घृतस्य वेदं सवित्रा प्रसूतं मघोनाम् । आयुष्मान्गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन्निति
॥१॥ IAST
Devanāgarīकर्णयोरुपनिधाय मेधाजननं जपति । मेधान्ते देवः सविता मेधां देवी सरस्वती । मेधान्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ । इति
॥२॥ IAST
Devanāgarīअंसावभिमृशति अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतमिति । इन्द्र श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघवन्नृजीषिन्निति च
॥३॥ IAST
Devanāgarīनाम चास्मै दद्युः
॥४॥ IAST
Devanāgarīघोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरम्
॥५॥ IAST
Devanāgarīचतुरक्षरं वा
॥६॥ IAST
Devanāgarīद्व्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः
॥७॥ IAST
Devanāgarīयुग्मानि त्वेव पुंसाम्
॥८॥ IAST
Devanāgarīअयुजानि स्त्रीणाम्
॥९॥ IAST
Devanāgarīअभिवादनीयं च समीक्षेत तन्मातापितरौ विद्यातामोपनयनात्
॥१०॥ IAST
Devanāgarīप्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतमिति मूर्द्धनि त्रिरवघ्राय
॥११॥ IAST
Devanāgarīआवृतैव कुमार्यै
॥१२॥ IAST
षोडशी कण्डिका
Devanāgarīषष्ठे मास्यन्नप्राशनम्
॥१॥ IAST
Devanāgarīआजमन्नाद्यकामः
॥२॥ IAST
Devanāgarīतैत्तिरं ब्रह्मवर्चसकामः
॥३॥ IAST
Devanāgarīघृतौदनं तेजस्कामः
॥४॥ IAST
Devanāgarīदधिमधुघृतमिश्रमन्नं प्राशयेदन्नपतेऽत्रस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि द्विपदे चतुष्पद इति
॥५॥ IAST
Devanāgarīआवृतैव कुमार्यै
॥६॥ IAST
सप्तदशी कण्डिका
Devanāgarīतृतीये वर्षे चौलं यथाकुलधर्मं वा
॥१॥ IAST
Devanāgarīउत्तरतोऽग्नेर्व्रीहियवमाषतिलानां पृथक्पूर्णशरावाणि निदधाति
॥२॥ IAST
Devanāgarīपश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति
॥३॥ IAST
Devanāgarīमातुः पिता दक्षिणत एकविंशतिकुशपिञ्जूलान्यादाय
॥४॥ IAST
Devanāgarīब्रह्मा वैतानि धारयेत्
॥५॥ IAST
Devanāgarīपश्चात्कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोष्णेन वा य उदकेनेहीति
॥६॥ IAST
Devanāgarīतासां गृहीत्वा नवनीतं दधिद्रप्सान्वा प्रदक्षिणं शिरस्त्रिरुन्दति अदितिः केशान्वपत्वाप उन्दन्तु वर्चस इति
॥७॥ IAST
Devanāgarīदक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिञ्जूलान्यभ्यात्माग्राणि निदधाति ओषधे त्रायस्वैनमिति
॥८॥ IAST
Devanāgarīस्वधिते मैनं हिंसीरिति निष्पोड्य लौहेन क्षुरेण
॥९॥ IAST
Devanāgarīप्रछिनत्ति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माञ्जरदष्टिर्यथासदिति
॥१०॥ IAST
Devanāgarīप्रच्छिद्यप्रच्छिद्य प्रागग्राञ्छमीपर्णैः सह मात्रे प्रयच्छति तानानडुहे गोमये निदधाति
॥११॥ IAST
Devanāgarīयेन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयम् । येन भूयश्चरात्र्यां ज्योक्च पश्याति सूर्यम् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयम्
॥१२॥ IAST
Devanāgarīसर्वैर्मन्त्रैश्चतुर्थम्
॥१३॥ IAST
Devanāgarīएवमुत्तरतस्त्रिः
॥१४॥ IAST
Devanāgarīक्षुरतेजो निमृजेद्यत्क्षुरेण मर्चयता सुपेशसा वप्ता वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति
॥१५॥ IAST
Devanāgarīनापितं शिष्याच्छीतोष्णाभिरद्भिरवर्थं कुर्वाणोऽक्षण्वन्कुशलीकुर्विति
॥१६॥ IAST
Devanāgarīयथाकुलधर्मं केशवेशान् कारयेत्
॥१७॥ IAST
Devanāgarīआवृतैव कुमार्य्यै
॥१८॥ IAST
अष्टादशी कण्डिका
Devanāgarīएतेन गोदानम्
॥१॥ IAST
Devanāgarīषोडशे वर्षे
॥२॥ IAST
Devanāgarīकेशशब्दे तु श्मश्रुशब्दान्कारयेत्
॥३॥ IAST
Devanāgarīश्मश्रूणीहोन्दति
॥४॥ IAST
Devanāgarīशुन्धि शिरो मुखं मास्यायुः प्रमोषीरिति
॥५॥ IAST
Devanāgarīकेशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति संप्रेष्यति
॥६॥ IAST
Devanāgarīआप्लुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे वाचं विसृजेत वरं ददामीति
॥७॥ IAST
Devanāgarīगोमिथुनं दक्षिणा
॥८॥ IAST
Devanāgarīसंवत्सरमादिशेत्
॥९॥ IAST
एकोनविंशी कण्डिका
Devanāgarīअष्टमे वर्षे ब्राह्मणमुपनयेत्
॥१॥ IAST
Devanāgarīगर्भाष्टमे वा
॥२॥ IAST
Devanāgarīएकादशे क्षत्रियम्
॥३॥ IAST
Devanāgarīद्वादशे वैश्यम्
॥४॥ IAST
Devanāgarīआ षोडशाद्ब्राह्मणस्यानतीतः कालः
॥५॥ IAST
Devanāgarīआ द्वाविंशात् क्षत्रियस्या चतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति
॥६॥ IAST
Devanāgarīनैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्व्यवहरेयुः
॥७॥ IAST
Devanāgarīअलङ्कृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम्
॥८॥ IAST
Devanāgarīयदि वासांसि वसीरन्रक्तानि वसीरन्काषायं ब्राह्मणो माञ्जिष्टं क्षत्रियो हारिद्रं वैश्यः
॥९॥ IAST
Devanāgarīतेषां मेखलाः
॥१०॥ IAST
Devanāgarīमौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्यावी वैश्यस्य
॥११॥ IAST
Devanāgarīतेषां दण्डाः
॥१२॥ IAST
Devanāgarīपालाशो ब्राह्मणस्यौडुम्बरः क्षत्रियस्य बैल्वो वैश्यस्य । केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य प्राणसंमितो वैश्यस्य
॥१३॥ IAST
विंशी कण्डिका
Devanāgarīसर्वे वा सर्वेषाम्
॥१॥ IAST
Devanāgarīसमन्वारब्धे हुत्वोत्तरतोऽग्नेः प्राङ्मुख आचार्योऽवतिष्ठते
॥२॥ IAST
Devanāgarīपुरस्तात्प्रत्यङ्मुख इतरः
॥३॥ IAST
Devanāgarīअपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात्
॥४॥ IAST
Devanāgarīसविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम्
॥५॥ IAST
Devanāgarīआदित्यमीक्षयेत् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः
॥६॥ IAST
Devanāgarīकस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वाकमुपनयते काय त्वा परिददामीति
॥७॥ IAST
Devanāgarīयुवा सुवासाः परिवीत आगादित्यर्द्धर्चेनैनं प्रदक्षिणमावर्तयेत्
॥८॥ IAST
Devanāgarīतस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्तरेण
॥९॥ IAST
Devanāgarīअग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते
॥१०॥ IAST
एकविंशी कण्डिका
Devanāgarīमन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति
॥१॥ IAST
Devanāgarīस समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति
॥२॥ IAST
Devanāgarīतेजसा ह्येवात्मानं समनक्तीति विज्ञायते
॥३॥ IAST
Devanāgarīमयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति
॥४॥ IAST
Devanāgarīतस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम्
॥५॥ IAST
Devanāgarīयथाशक्ति वाचयीत
॥६॥ IAST
Devanāgarīहृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति
॥७॥ IAST
द्वाविंशी कण्डिका
Devanāgarīमेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत्
॥१॥ IAST
Devanāgarīब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मास्वाप्सीराचार्याधीनो वेदमधीष्वेति
॥२॥ IAST
Devanāgarīद्वादश वर्षाणि वेदब्रह्मचर्यम्
॥३॥ IAST
Devanāgarīग्रहणान्तं वा
॥४॥ IAST
Devanāgarīसायं प्रातर्भिक्षेत
॥५॥ IAST
Devanāgarīसायं प्रातः समिधमादध्यात्
॥६॥ IAST
Devanāgarīअप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा
॥७॥ IAST
Devanāgarīभवान् भिक्षां ददात्वित्यनुप्रवचनीयमिति वा
॥८॥ IAST
Devanāgarīतदाचार्याय वेदयीत तिष्ठेदहःशेषम्
॥९॥ IAST
Devanāgarīअस्तमिते ब्रह्मौदनमनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत
॥१०॥ IAST
Devanāgarīआचार्यः समन्वारब्धे जुहुयात्सदसस्पतिमद्भुतमिति
॥११॥ IAST
Devanāgarīसावित्र्या द्वितीयम्
॥१२॥ IAST
Devanāgarīयद्य त्किञ्चात ऊर्ध्वमनूक्तं स्यात्
॥१३॥ IAST
Devanāgarīऋषिभ्यस्तृतीयम्
॥१४॥ IAST
Devanāgarīसौविष्टकृतं चतुर्थम्
॥१५॥ IAST
Devanāgarīब्राह्मणान्भोजयित्वा वेदसमाप्तिं वाचयीत
॥१६॥ IAST
Devanāgarīअत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधःशायी त्रिरात्रं द्वादशरात्रं संवत्सरं वा
॥१७॥ IAST
Devanāgarīचरितव्रताय मेधाजननं करोति
॥१८॥ IAST
Devanāgarīअनिन्दितायान्दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सौश्रवसं कुरु । यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति
॥१९॥ IAST
Devanāgarīएतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातम्
॥२०॥ IAST
Devanāgarīइत्यनुपेतपूर्वस्य
॥२१॥ IAST
Devanāgarīअथोपेतपूर्वस्य
॥२२॥ IAST
Devanāgarīकृताकृतं केशवपनं मेधाजननं च
॥२३॥ IAST
Devanāgarīअनिरुक्तं परिदानम्
॥२४॥ IAST
IAST
Devanāgarīतत्सवितुर्वृणीमह इति सावित्रीं
॥२६॥ IAST
त्रयोविंशी कण्डिका
Devanāgarīऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान्ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात्
॥१॥ IAST
Devanāgarīयून ऋत्विजो वृणीत इत्येके
॥२॥ IAST
Devanāgarīब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम्
॥३॥ IAST
Devanāgarīसर्वान्वा येऽहीनैकाहैर्याजयन्ति
॥४॥ IAST
Devanāgarīसदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति
॥५॥ IAST
Devanāgarīहोतारमेव प्रथमं वृणीते
॥६॥ IAST
Devanāgarīअग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारं
॥७॥ IAST
Devanāgarīचन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणं
॥८॥ IAST
Devanāgarīआदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् । स वृतो जपेन्महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति
॥९॥ IAST
Devanāgarīजपित्वाग्निष्टे होता स ते होता होताहं ते मानुष इति होता प्रतिजानीते
॥१०॥ IAST
Devanāgarīचन्द्रमास्ते ब्रह्मा स ते ब्रह्मा
॥११॥ IAST
Devanāgarīएवमितरे यथादेशं तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन्
॥१२॥ IAST
Devanāgarīन्यस्तमार्त्विज्यमकार्यम्
॥१३॥ IAST
Devanāgarīअहीनस्य नीचदक्षिणस्य
॥१४॥ IAST
Devanāgarīव्याधितस्यातुरस्य
॥१५॥ IAST
Devanāgarīयक्ष्मगृहीतस्य
॥१६॥ IAST
Devanāgarīअनुदेश्यभिशस्तस्य
॥१७॥ IAST
Devanāgarīक्षिप्तयोनेरिति चैतेषाम्
॥१८॥ IAST
Devanāgarīसोमप्रवाकं परिपृच्छेत्को यज्ञः क ऋत्विजः का दक्षिणा इति
॥१९॥ IAST
Devanāgarīकल्याणैः सह सम्प्रयोगः
॥२०॥ IAST
Devanāgarīन मांसमश्नीयुर्न स्त्रियमुपेयुरा क्रतोरपवर्गात्
॥२१॥ IAST
Devanāgarīएतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्याहुतिं हुत्वा यथार्थं प्रव्रजेत्
॥२२॥ IAST
Devanāgarīएवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो न इत्येतयर्चा
॥२३॥ IAST
चतुर्विंशी कण्डिका
Devanāgarīऋत्विजो वृत्वा मधुपर्कमाहरेत्
॥१॥ IAST
Devanāgarīस्नातकायोपस्थिताय
॥२॥ IAST
IAST
Devanāgarīआचार्यश्वशुरपितृव्यमातुलानाञ्च
॥४॥ IAST
Devanāgarīदधनि मध्वानीय
॥५॥ IAST
Devanāgarīसर्पिर्वा मध्वलाभे
॥६॥ IAST
Devanāgarīविष्टरः पाद्यमर्घ्यमाचमनीयं मधुपर्क्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते
॥७॥ IAST
Devanāgarīअहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदन्तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेदाक्रम्य वा
॥८॥ IAST
Devanāgarīपादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत्
॥९॥ IAST
Devanāgarīसव्यं शूद्राय
॥१०॥ IAST
Devanāgarīप्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य
॥११॥ IAST
Devanāgarīअथाचमनीयेनान्वाचामति अमृतोपस्तरणमसीति
॥१२॥ IAST
Devanāgarīमधुपर्कमाह्रियमाणमीक्षेत मित्रस्य त्वा चक्षुषा प्रतीक्ष इति
॥१३॥ IAST
Devanāgarīदेवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तदञ्जलिना प्रतिगृह्य सव्ये पाणौ कृत्वा मधुवाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण च्छन्दसा भक्षयन्त्विति पुरस्तान्निमार्ष्टि
॥१४॥ IAST
Devanāgarīरुद्रास्त्वा त्रैष्टुभेन च्छन्दसा भक्षयन्त्विति दक्षिणत आदित्यास्त्वा जागतेन च्छन्दसा भक्षयन्त्विति पश्चाद्विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा भक्षयन्त्वित्युत्तरतो भूतेभ्यस्त्वेति मध्यात्त्रिरुद्गृह्य
॥१५॥ IAST
Devanāgarīविराजो दोहोऽसीति प्रथमं प्राश्नीयाद्विराजो दोहमशीयेति द्वितीयं मयि दोहः पद्यायै विराज इति तृतीयम्
॥१६॥ IAST
IAST
Devanāgarīन तृप्तिङ्गच्छेत्
॥१८॥ IAST
Devanāgarīब्राह्मणायोदङ्ङुच्छिष्टं प्रयच्छेदलाभेऽप्सु
॥१९॥ IAST
IAST
Devanāgarīअथाचमनीयेनान्वाचामत्यमृतापिधानमसीति
॥२१॥ IAST
Devanāgarīसत्यं यशः श्रीर्मयि श्रीः श्रयतामिति द्वितीयम्
॥२२॥ IAST
Devanāgarīआचान्तोदकाय गां वेदयन्ते
॥२३॥ IAST
Devanāgarīहतो मे पाप्मा पाप्मा मे हत इति जपित्वॐकुरुतेति कारयिष्यन्
॥२४॥ IAST
Devanāgarīमाता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्
॥२५॥ IAST
Devanāgarīनामांसो मधुपर्को भवति भवति
॥२६॥ IAST