मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

चतुर्थोऽध्यायः

3
आश्वलायनगृह्यसूत्रम् · 4

प्रथमा कण्डिका

आहिताग्निश्चेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत्

॥१॥

ग्रामकामा अग्नय इत्युदाहरन्ति

॥२॥

आशंसन्त एनं ग्राममाजिगमिषन्तोऽगदङ्कुर्युरिति ह विज्ञायते

॥३॥

अगदः सोमेन पशुनेष्ट्येष्ट्वावस्येत्

॥४॥

अनिष्ट्वा वा

॥५॥

संस्थिते भूमिभागं खानयेद्दक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा

॥६॥

दक्षिणाप्रवणं प्राग्दक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके

॥७॥

यावानुद्वाहुकः पुरुषस्तावदायामम्

॥८॥

व्याममात्रन्तिर्यक्

॥९॥

वितस्त्यवाक

॥१०॥

अभित आकाशं श्मशानम्

॥११॥

बहुलौषधिकम्

॥१२॥

कण्टकिक्षीरिणस्त्विति यथोक्तं पुरस्तात्

॥१३॥

यत्र सर्वत आपः प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य

॥१४॥

केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात्

॥१५॥

द्विगुल्फं बर्हिराज्यञ्च

॥१६॥

दधन्यत्र सर्पिरानयन्त्येतत्पित्र्यं पृषदाज्यम्

॥१७॥

द्वितीया कण्डिका

अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च

॥१॥

अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः

॥२॥

पीठचक्रेण गोयुक्तेनेत्येके

॥३॥

अनुस्तरणीम्

॥४॥

गाम्

॥५॥

अजां वैकवर्णाम्

॥६॥

कृष्णामेके

॥७॥

सव्ये बाहौ बद्ध्वानुसङ्कालयन्ति

॥८॥

अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः

॥९॥

प्राप्यैवं भूमिभागङ्कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन्प्रोक्षत्यपेत वीत वि च सर्पतात इति

॥१०॥

दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति

॥११॥

उत्तरपश्चिमे गार्हपत्यम्

॥१२॥

दक्षिणपश्चिमे दक्षिणम्

॥१३॥

अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति

॥१४॥

तस्मिन्बर्हिरास्तीर्य कृष्णाजिनञ्चोत्तरलोम तस्मिन्प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसम्

॥१५॥

उत्तरत्तः तत्नीम्

॥१६॥

धनुश्च क्षत्रियाय

॥१७॥

तामुथापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्वनार्यभिजीवलोकमिति

॥१८॥

कर्ता वृषले जपेत्

॥१९॥

धनुर्हस्तादाददानो मृतस्येति धनुः

॥२०॥

उक्तं वृषले

॥२१॥

अधिज्यं कृत्वा सञ्चितिमचित्वा संशीर्यानु प्रहरेत्

॥२२॥

तृतीया कण्डिका

अथैतानि पात्राणि योजयेत्

॥१॥

दक्षिणे हस्ते जुहूम्

॥२॥

सव्य उपभृतं

॥३॥

दक्षिणे पार्श्वे स्फ्यम् । सव्येग्निहोत्रहवणीम्

॥४॥

उरसि ध्रुवाम् । शिरसि कपालानि । दत्सु ग्राव्णः

॥५॥

नासिकयोः स्रुवौ

॥६॥

भित्वा चैकम्

॥७॥

कर्णयोः प्राशित्रहरणे

॥८॥

भित्वा चैकम्

॥९॥

उदरे पात्रीम्

॥१०॥

समवत्तधानञ्च चमसम्

॥११॥

उपस्थे शम्याम्

॥१२॥

अरणी ऊर्वोः । उलूखलमुसले जद्घयोः

॥१३॥

पादयोः शूर्पे

॥१४॥

छित्वा चैकम्

॥१५॥

आसेचनवन्ति पृषदाज्यस्य पूरयन्ति

॥१६॥

अमा पुत्रो दृषदुपले कुर्वीत

॥१७॥

लौहायसञ्च कौलालम्

॥१८॥

अनुस्तरण्यावपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेति

॥१९॥

वृक्का उद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम्

॥२०॥

हृदये हृदयं

॥२१॥

पिण्ड्यौ चैके

॥२२॥

वृक्कापचार इत्येके

॥२३॥

सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्ने चमसं मा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते

॥२४॥

सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयादग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति

॥२५॥

पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसौ स्वर्गाय लोकाय स्वाहेति

॥२६॥

चतुर्थी कण्डिका

प्रेष्यति युगपदग्नीन्प्रज्वालयतेति

॥१॥

आहवनीयश्चेत्पूर्वं प्राप्नुयात्स्वर्गलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः

॥२॥

गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः

॥३॥

दक्षिणाग्निश्चेत्पूर्वं प्राप्नुयान्मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः

॥४॥

युगपत्प्राप्तौ परामृद्धिं वदन्ति

॥५॥

तन्दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति समानम्

॥६॥

स एवंविदा दह्यमानः सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते

॥७॥

उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गर्तं खात्वावकां शीपालमित्यवधापयेत्ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते

॥८॥

इमे जीवा वि मृतैराववृत्रन्निति सव्यावृतो व्रजन्त्यनवेक्ष्यमाणाः

॥९॥

यत्रोदकमवहद्भवति तत्प्राप्य सकृदुन्मज्ज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तीर्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योदग्दशानि विसृज्यासत आनक्षत्रदर्शनात्

॥१०॥

आदित्यस्य वा दृश्यमाने प्रविशेयुः

॥११॥

कनिष्ठप्रथमा ज्येष्ठजघन्याः

॥१२॥

प्राप्यागारमश्मानमग्निङ्गोमयमक्षतांस्तिलानप उपस्पृशन्ति

॥१३॥

नैतस्यां रात्न्यामन्नम्पचेरन्

॥१४॥

क्रीतोत्पन्नेन वा वर्तेरन्

॥१५॥

त्रिरात्रमक्षारलवणाशिनः स्युः

॥१६॥

द्वादशरात्रं वा महागुरुषु दानाध्ययने वर्जयेरन्

॥१७॥

दशाहं सपिण्डेषु

॥१८॥

गुरौ चासपिण्डे

॥१९॥

अप्रत्तासु च स्त्रीषु

॥२०॥

त्रिरात्रमितरेष्वाचार्येषु

॥२१॥

ज्ञातौ चासपिण्डे

॥२२॥

प्रत्तासु च स्त्रीषु

॥२३॥

अदन्तजाते

॥२४॥

अपरिजाते च

॥२५॥

एकाहं सब्रह्मचारिणि

॥२६॥

समानग्रामीये च श्रोत्रिये

॥२७॥

पञ्चमी कण्डिका

सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेकनक्षत्रे

॥१॥

अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजोऽमिथुनाः प्रवयसः

॥२॥

क्षीरोदकेन शमीशाखया त्रिःप्रसव्यमायतनं परिव्रजन्प्रोक्षति शीतिके शीतिकावतीति

॥३॥

अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तोऽवदध्युः पादौ पूर्वं शिर उत्तरम्

॥४॥

सुसञ्चितं सञ्चित्य पवनेन सम्पूय यत्र सर्वत आपो नाभिस्यन्देरन्नन्या वर्षाभ्यस्तत्र गर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति

॥५॥

उत्तरया पांसूनवकिरेत्

॥६॥

अवकीर्योत्तराम्

॥७॥

उत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्रद्धमस्मै दद्युः

॥८॥

षष्ठी कण्डिका

गुरुणाभिमृता अन्यतोवापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन्

॥१॥

पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चेन

॥२॥

तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः पाणिभिः सव्यानूरूनाघ्नानाः

॥३॥

अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयीरन्नवान्मणिकान्कुम्भानाचमनीयांश्च शमीसुमनोमालिनः शमीमयमिध्मं शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चर्म च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्जूलानि

॥४॥

अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन

॥५॥

तन्दीपयमाना आसत आ शान्तरात्रादायुष्मतां कथाः कीर्तयन्तो माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः

॥६॥

उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्वारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेत्तन्तुन्तन्वन्रजसोभानुमन्विहीत्युत्तरस्मात्

॥७॥

अथाग्निमुपसमाधाय पश्चादस्यानडुहञ्चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति

॥८॥

इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात्

॥९॥

अन्तर्मृत्युन्दधतां पर्वतेनेत्यश्मानमित्युत्तरतोऽग्नेः कृत्वा परं मृत्यो अनु परेहि पन्थामिति चतसृभिः प्रत्यृचं हुत्वा यथाहान्यनुपूर्वं भवन्तीत्यमात्यानीक्षेत

॥१०॥

युवतयः पृथक्पाणिभ्यां दर्भतरुणकैर्नवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी आज्य पराच्यो विसृजेयुः

॥११॥

इमा नारीरविधवाः सुपत्नीरित्यञ्जाना ईक्षेत

॥१२॥

अश्मन्वतीरीयते संरभध्वमित्यश्मानङ्कर्ता प्रथमोऽभिमृशेत्

॥१३॥

अथापराजितायान्दिश्यवस्थायाग्निनानडुहेन गोमयेन चाविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन परीमे गामनेषतेति परिक्रामत्सु जपेत्

॥१४॥

पिङ्गलोऽनड्वान्परिणेयः स्यादित्युदाहरन्ति

॥१५॥

अथोपविशन्ति यत्राभिरंस्यमाना भवत्यहतेन वाससा प्रच्छाद्य

॥१६॥

आसतेऽस्वपन्त ओदयात्

॥१७॥

उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्याप नः शोशुचदघमिति प्रत्यृचं हुत्वा ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत गौः कंसोऽहतं वासश्च दक्षिणा

॥१८॥

सप्तमी कण्डिका

अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा

॥१॥

ब्राह्मणान्श्रुतशीलवृत्तसम्पन्नानेकेन वो काले ज्ञापितान्स्नातान्कृतपच्छौचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकम्य द्वौद्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वं न त्वेवैकं सर्वेषाम्

॥२॥

काममनाद्ये

॥३॥

पिण्डैर्व्याख्यातम्

॥४॥

अपः प्रदाय

॥५॥

दर्भान्द्विगुणभुग्नानासनं प्रदाय

॥६॥

अपः प्रदाय

॥७॥

तैजसाश्ममयमृण्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नम इति

॥८॥

प्रसव्येन

॥९॥

इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद्दक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति

॥१०॥

अप्पूर्वम्

॥११॥

ताः प्रतिग्राहयिष्यन्सकृत्सकृत्स्वधा अर्घ्या इति

॥१२॥

प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति संस्रवान्समवनीयताभिरद्भिः पुत्रकामो मुखमनक्ति

॥१३॥

नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम् आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् उद्धरेद्यदि चेत्पात्रं विवृतं वा यदा भवेत् तदासुरं भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः इति

॥१४॥

अष्टमी कण्डिका

एतस्मिन्काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम्

॥१॥

उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा

॥२॥

प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति

॥३॥

अथाग्नौ जुहोति यथोक्तं पुरस्तात्

॥४॥

अभ्यनुज्ञायां पाणिष्वेव वा

॥५॥

अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम्

॥६॥

यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति

॥७॥

अन्नमन्ने

॥८॥

सृष्टं दत्तमृध्नुकमिति

॥९॥

तृप्तान्ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च

॥१०॥

सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत्

॥११॥

अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पिण्डान्निदध्यात्

॥१२॥

आचान्तेष्वेके

॥१३॥

प्रकीर्यान्नमुपवीयॐ स्वधोच्यतामिति विसृजेत्

॥१४॥

अस्तु स्वधेति वा

॥१५॥

नवमी कण्डिका

अथ शूलगवः

॥१॥

शरदि वसन्ते वार्द्रया

॥२॥

श्रेष्ठं स्वस्य यूथस्य

॥३॥

अकुष्ठिपृषत्

॥४॥

कल्माषमित्येके

॥५॥

कामं कृष्णमालोहवांश्चेत्

॥६॥

व्रीहियवमतीभिरद्भिरभिषिच्य

॥७॥

शिरस्त आभसत्तः

॥८॥

रुद्राय महादेवाय जुष्टो वर्धस्वेति

॥९॥

तं वर्धयेत्सम्पन्नदन्तमृषभं वा

॥१०॥

यज्ञियायां दिशि

॥११॥

असन्दर्शने ग्रामात्

॥१२॥

ऊर्द्ध्वमर्धरात्रात् । उदित इत्येके

॥१३॥

वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामार्द्रशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति

॥१४॥

प्रोक्षणादि समानं पशुना विशेषान्वक्ष्यामः

॥१५॥

पात्र्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते

॥१६॥

हराय मृडाय शर्वाय शिवाय भवाय महादेवायोग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति

॥१७॥

षड्भिर्वोत्तरैः

॥१८॥

रुद्राय स्वाहेति वा

॥१९॥

चतसृषुचतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एनं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनम्

॥२०॥

चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्रायेमा रुद्रायाते पितरिमा रुद्राय स्थिरधन्वन इति

॥२१॥

सर्वरुद्रयज्ञेषु दिशामुपस्थानम्

॥२२॥

तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यग्नावनुप्रहरेत्

॥२३॥

भोगं चर्मणा कुर्वीतेति शांवत्यः

॥२४॥

उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छ्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति

॥२५॥

अथोदङ्ङावृत्य श्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति सर्पेभ्यो यत्तत्रासृगूवध्यं वावस्रुतं भवति तद्धरन्ति सर्पाः

॥२६॥

सर्वाणि ह वा अस्य नामधेयानि

॥२७॥

सर्वाः सेनाः

॥२८॥

सर्वाण्युच्छ्रयणानि

॥२९॥

इत्येवंविद्यजमानं प्रीणाति

॥३०॥

नास्य ब्रुवाणं च न हिनस्तीति विज्ञायते

॥३१॥

नास्य प्राश्नीयात्

॥३२॥

नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति

॥३३॥

अमात्यानन्ततः प्रतिषेधयेत्

॥३४॥

नियोगात्तु प्राश्नीयात्स्वस्त्ययन इति

॥३५॥

स शूलगवो धन्यो लोक्यः पुण्यः पुत्र्यः पशव्य आयुष्यो यशस्यः

॥३६॥

इष्ट्वान्यमुत्सृजेत्

॥३७॥

नानुत्सृष्टः स्यात्

॥३८॥

न हापशुर्भवतीति विज्ञायते

॥३९॥

शन्तातीयं जपन्गृहानियात्

॥४०॥

पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत्

॥४१॥

स्थालीपाकं सर्वहुतम्

॥४२॥

बर्हिराज्यञ्चानुप्रहृत्य धूमतो गा आनयेत्

॥४३॥

शन्तातीयं जपन्पशूनां मध्यमियान्मध्यमियात्

॥४४॥

नमः शौनकाय नमः शौनकाय

॥४५॥