प्रथमा कण्डिका
अथातः पञ्चयज्ञाः
॥१॥देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ इति
॥२॥तद्यदग्नौ जुहोति स देवयज्ञो यद्बलिङ्करोति स भूतयज्ञो यत्पितृभ्यो ददाति स पितृयज्ञो यत्स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्ययज्ञ इति
॥३॥तानेतान्यज्ञानहरहः कुर्वीत
॥४॥द्वितीया कण्डिका
अथ स्वाध्यायविधिः
॥१॥प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्य शुचौ देशे यज्ञोपवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानान्तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव तद्ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः संमील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम्
॥२॥ॐपूर्वा व्याहृतीः
॥३॥सावित्रीमन्वाह पच्चोऽर्द्धर्चशः सर्वामिति तृतीयम्
॥४॥तृतीया कण्डिका
अथ स्वाध्यायमधीयीत ऋचो यजूंषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान्गाथा नाराशंसीरितिहासपराणानीति
॥१॥यदृचोऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति यद्यजूंषि घृताहुतिभिर्यत्सामानि मध्वाहुतिभिर्यदथर्वाङ्गिरसः सोमाहुतिभिर्यद्ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृताहुतिभिः
॥२॥यदृचोऽधीते पयसः कुल्यास्य पितॄन्त्स्वधा उपक्षरन्ति यद्यजूंषि घृतस्य कुल्या यत्सामानि मध्वः कुल्या यदथर्वाङ्गिरसः सोमस्य कुल्या यद्ब्राह्मणानि कल्पान्गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कुल्याः
॥३॥स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमीति
॥४॥चतुर्थी कण्डिका
देवतास्तर्पयति प्रजापतिर्ब्रह्मा वेदा देवा ऋषयः सर्वाणि च्छन्दांस्योङ्कारो वषट्कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अन्तरिक्षमहोरात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसो नागा वयांसि गावः साध्या विप्रा यक्षा रक्षांसि भूतान्येवमन्तानि
॥१॥अथ ऋषयः शतर्चिनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासूक्ता इति
॥२॥प्राचीनावीती
॥३॥सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्या जानन्ति बाहविगार्ग्यगौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेया गर्गी वाचक्नवी वडवा प्रातिथेयी सुलभा मैत्रेयी कहोलं कौषीतकं महाकौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं शाङ्खायनमैतरेयं महैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं महौदवाहिं सौजामिं शौनकमाश्वलायनं ये चान्य आचार्यास्ते सर्वे तृप्यन्त्विति
॥४॥प्रतिपुरुषं पितॄंस्तर्पयित्वा गृहानेत्य यद्ददाति सा दक्षिणा
॥५॥अथापि विज्ञायते स यदि तिष्ठन् व्रजन्नासीनः शयानो वा यं यं क्रतुमधीते तेन तेन हास्य क्रतुने ष्टम्भवतीति
॥६॥विज्ञायते तस्य द्वावनध्यायौ यदात्माशुचिर्यद्देशः
॥७॥पञ्चमी कण्डिका
अथातोऽध्यायोपाकरणम्
॥१॥ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य
॥२॥पञ्चम्यां हस्तेन वा
॥३॥आज्यभागौ हुत्वाज्याहुतीर्जुहुयात्सावित्र्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमतये छन्दोभ्य ऋषिभ्यश्चेति
॥४॥अथ दधिसक्तून्जुहोति
॥५॥अग्निमीळे पुरोहितमित्येका
॥६॥कुषुम्भकस्तदब्रवीदावदंस्त्वं शकुने भद्रमावद गृणाना जमदग्निना धामन्ते विश्वम्भुवनमधिश्रितं गन्ता नो यज्ञं यज्ञियाः सुशमियो नः स्वो अरणः प्रचक्ष्व विचक्ष्वाग्ने याहि मरुत्सखा यत्ते राजञ्छतं हविरिति द्व्यृचाः
॥७॥समानीव आकूतिरित्येका
॥८॥तच्छंयोरावृणीमह इत्येका
॥९॥अध्येष्यमाणोऽध्याप्यैरन्वारब्ध एताभ्यो देवताभ्यो हुत्वा सौविष्टकृतं हुत्वा दधिसक्तून्प्राश्य ततो मार्जनम्
॥१०॥अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान्कृत्वा ब्रह्माञ्जलिकृतो जपेत्
॥११॥ॐपूर्वा व्याहृतीः सावित्रीं च त्रिरभ्यस्य वेदादिमारभेत्
॥१२॥तथोत्सर्गे
॥१३॥षण्मासानधीयीत
॥१४॥समावृत्तो ब्रह्मचारिकल्पेन
॥१५॥यथान्यायमितरे
॥१६॥जायोपेयोत्येके
॥१७॥प्राजापत्यं तत्
॥१८॥वार्षिकमित्येतदाचक्षते
॥१९॥मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वाऽपोऽभ्यवयन्ति
॥२०॥एता एव तद्देवतास्तर्पयन्ति
॥२१॥आचार्यानृषीन्पितॄंश्च
॥२२॥एतदुत्सर्जनम्
॥२३॥षष्ठी कण्डिका
अथ काम्यानां स्थाने काम्याः
॥१॥चरवः
॥२॥तानेव कामानाप्नोति
॥३॥अथ व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षडाहुतिश्चरुः
॥४॥मुञ्चामि त्वा हविषा जीवनायकमित्येतेन
॥५॥स्वप्नममनोज्ञं दृष्ट्वाद्या नो देव सवितरिति द्वाभ्यां यच्च गोषु दुःस्वप्न्यमिति पञ्चभिरादित्यमुपतिष्ठेत
॥६॥यो मे राजन्युज्यो वा सखा वेति वा
॥७॥क्षुत्वा जृम्भित्वाऽमनोज्ञं दृष्ट्वा पापकं गन्धमाघ्रायाक्षिस्पन्दने कर्णध्वनने च सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां मयि दक्षक्रतू इति जपेत्
॥८॥अगमनीयां गत्वायाज्यं याजयित्वाभोज्यं भुक्त्वाप्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं चोपहत्य पुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मां पुनर्ब्राह्मणमैतु मां स्वाहा । इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पताम् । वैश्वानरो वावृधानोऽन्तर्यच्छतु मे मनो हृद्यन्तरममृतस्य केतुः स्वाहेत्याज्याहुती जुहुयात्
॥९॥समिधौ वा
॥१०॥जपेद्वा
॥११॥सप्तमी कण्डिका
अव्याधितञ्चत्स्वपन्तमादित्योऽभ्यस्तमियाद्वाग्यतोऽनुपविशन्रात्रिशेषम्भूत्वा येन सूर्यज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत
॥१॥अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तरापराभिश्चतसृभिरुपस्थानम्
॥२॥यज्ञोपवीती नित्योदकः सन्ध्यामुपासीत वाग्यतः
॥३॥सायमुत्तरापराभिमुखोऽन्वष्टमदेशं सावित्रीं जपेदर्धास्तमिते मण्डल आनक्षत्रदर्शनात्
॥४॥एवं प्रातः
॥५॥प्राङ्मुखस्तिष्ठन्नामण्डलदर्शनात्
॥६॥कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्यृचं जुहुयाज्जपेद्वा
॥७॥वयमु त्वा पथस्पत इत्यर्थचर्याञ्चरिष्यन्
॥८॥सम्पूषन्विदुषेति नष्टमधिजिगमिषन्मूळ्हो वा
॥९॥सम्पूषन्नध्वन इति महान्तमध्वानमेष्यन्प्रतिभयं वा
॥१०॥अष्टमी कण्डिका
अथैतान्युपकल्पयीत समावर्त्यमाने मणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्याय च
॥१॥यद्युभयोर्न विन्देताचार्यायैव
॥२॥समिधं त्वाहरेदपराजितायान्दिशि यज्ञियस्य वृक्षस्य
॥३॥आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ब्रह्मवर्चसकाम उपवाताम्
॥४॥उभयीमुभयकामः
॥५॥उपरि समिधं कृत्वा गामन्नञ्च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत
॥६॥आत्मनि मन्त्रान्त्संनमयेत्
॥७॥एकक्लीतकेन
॥८॥शीतोष्णाभिरद्भिः स्नात्वा युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्याश्मनस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आञ्जयीत
॥९॥अश्मनस्तेजोऽसि श्रोत्रं मे पाहि इति कुण्डले आबध्नीत
॥१०॥अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्राह्मणोऽनुलिम्पेद्बाहू राजन्य उदरं वैश्य उपस्थं स्त्र्यूरू सरणजीविनः
॥११॥अनार्त्तास्यनार्तोऽहं भूयासमिति स्रजमपि बध्नीत न मालोक्ताम्
॥१२॥मालेति चेद्ब्रूयुः स्रगित्यभिधापयीत
॥१३॥देवानां प्रतिष्ठे स्थः सर्वतो मा पातमित्युपानहावास्थाय दिवश्छद्मासीति च्छत्रभादत्ते
॥१४॥वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहीति वैणवं दण्डम्
॥१५॥आयुष्यमिति सूक्तेन मणिं कण्ठे प्रतिमुच्योष्णीषं कृत्वा तिष्ठन्त्समिधमादध्यात्
॥१६॥नवमी कण्डिका
स्मृतन्निन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टन्दत्तमधीतञ्च कृतं सत्यं श्रुतं व्रतम् । यदग्ने सेन्द्रस्य सप्रजापतिकस्य सऋषिकस्य सऋषिराजन्यस्य सपितृकस्य सपितृराजन्यस्य समनुष्यस्य समनुष्यराजन्यस्य साकाशस्य सातीकाशस्य सानुकाशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धर्वाप्सरस्कस्य सहारण्यैश्च पशुभिर्ग्राम्यैश्च यन्म आत्मन आत्मनि व्रतन्तन्मे सर्वव्रतमिदमहमग्ने सर्वव्रतो भवामि स्वाहेति
॥१॥ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात्
॥२॥यत्रैनं पूजयिष्यन्तो भवन्ति तत्रैतां रात्रीं वसेत्
॥३॥विद्यान्ते गुरुमर्थेन निमन्त्र्यं कृत्वानुज्ञातस्य वा स्नानम्
॥४॥तस्यैतानि व्रतानि भवन्ति
॥५॥न नक्तं स्नायात् । न नग्नः स्नायात् । न नग्नः शयीत । न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् । वर्षति न धावेत्
॥६॥न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदीन्तरेत् । न संशयमभ्यापद्येत
॥७॥महद्वै भूतं स्नातको भवतीति विज्ञायते
॥८॥दशमी कण्डिका
गुरवे प्रस्रक्ष्यमाणो नाम प्रब्रुवीत
॥१॥इदं वत्स्यामो भो३ इति
॥२॥उच्चैरूर्ध्वं नाम्नः
॥३॥प्राणापानयोरुपांशु
॥४॥आ मन्द्रैरिन्द्र हरिभिरिति च
॥५॥अतो वृद्धो जपति प्राणापानयोरुरुव्यचास्तया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च
॥६॥समाप्यॐ प्राक् स्वस्तीति जपित्वा महित्रीणामित्यनुमन्त्र्य
॥७॥एवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते
॥८॥वयसाममनोज्ञा वाचः श्रुत्वा कनिक्रदज्जनुषं प्रबुवाण इति सूक्ते जपेद्देवीं वाचमजनयन्त देवा इति च
॥९॥स्तुहि श्रुतङ्गर्तसदं युवानमिति मृगस्य
॥१०॥यस्या दिशो बिभीयाद्यस्माद्वा तान्दिशमुल्मुकमुभयतः प्रदीप्तं प्रत्यस्येन्मन्थं वा प्रसव्यमालोड्याभयं मित्रावरुणा मह्यमस्त्वर्चिषा शत्रून्दहन्तं प्रतीत्य मा ज्ञातारं मा प्रतिष्ठां विन्दन्तु मिथो भिन्दाना उभयन्तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्थं न्यञ्चङ्करोति
॥११॥एकादशी कण्डिका
सर्वतो भयादनाज्ञातादष्टावाज्याहुतीर्जुहुयात्पृथिवी वृता साग्निना वृता तया वृतया वर्त्र्या यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । अन्तरिक्षं वृतं तद्वायुना वृतन्तेन वृतेन वर्त्रेण यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । द्यौर्वृता सादित्येन वृता तया वृतया वर्त्र्या यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । दिशो वृतास्ताश्चन्द्रमसा वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । आपो वृतास्ता वरुणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । प्रजा वृतास्ताः प्राणेन वृतास्ताभिर्वृताभिर्वर्त्रीभिर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । वेदा वृतास्ते छन्दोभिर्वृतास्तैर्वृतैर्वर्त्रैर्यस्माद्भयाद्बिभेमि तद्वारये स्वाहा । सर्वं वृतं तद्ब्रह्मणा वृतन्तेन वृतेन वर्त्रेण यस्माद्भयाद्बिभेमि तद्वारये स्वाहा इति
॥१॥अथापराजितायां दिश्यवस्थाय स्वस्त्यात्रेयं जपति यत इन्द्र भयामह इति च सूक्तशेषम्
॥२॥द्वादशी कण्डिका
संग्रामे समुपोळ्हे राजानं सन्नाहयेत्
॥१॥आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय
॥२॥जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत्
॥३॥उत्तरया धनुः
॥४॥उत्तरां वाचयेत्
॥५॥स्वयञ्चतुर्थीं जपेत्
॥६॥पञ्चम्येषुधिं प्रयच्छेत्
॥७॥अभिप्रवर्तमाने षष्ठीम्
॥८॥सप्तम्याश्वान्
॥९॥अष्टमीमिषूनवेक्षमाणं वाचयति
॥१०॥अहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम्
॥११॥अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति प्र यो वां मित्रावरुणेति च द्वे
॥१२॥अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः
॥१३॥प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपर्णम्
॥१४॥सर्वा दिशोऽनुपरीर्यायात्
॥१५॥आदित्यमौशनसं वावस्थाय प्रयोधयेत्
॥१६॥उपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेत्
॥१७॥अवसृष्टा परापतेतीषून्विसर्जयेत्
॥१८॥यत्र बाणाः सम्पतन्तीति यध्यमानेषु जपेत्
॥१९॥संशि ष्याद्वा संशिष्याद्वा
॥२०॥