पारम्परिकम्
स्तोत्रम्
तुलसी पावनी पूज्या वृन्दावननिवासिनी ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता
सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा ।
कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥
॥१॥लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी ।
हरिद्रान्नैकनिरता हरिपादकृतालया ॥
॥२॥पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा ।
सुरूपाऽऽरोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥
॥३॥देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया ।
भूतवेतालभीतिघ्नी महापातकनाशिनी ॥
॥४॥मनोरथप्रदा मेधा कान्तिर्विजयदायिनी ।
शङ्खचक्रगदापद्मधारिणी कामरूपिणी ॥
॥५॥अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी ।
वैकुण्ठवासिनी नन्दा बिम्बोष्ठी कोकिलस्वरा ॥
॥६॥कपिला निम्नगाजन्मभूमिरायुष्यदायिनी ।
वनरूपा दुःखनाशिन्यविकारा चतुर्भुजा ॥
॥७॥गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी ।
श्रीविष्णुमूलिका पुष्टिस्त्रिवर्गफलदायिनी ॥
॥८॥महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता ।
सुमङ्गल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥
॥९॥चातुर्मास्योत्सवाराध्या विष्णुसान्निध्यदायिनी ।
उत्थानद्वादशीपूज्या सर्वदेवप्रपूजिता ॥
॥१०॥गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया ।
अपमृत्युहरा राधाप्रिया मृगविलोचना ॥
॥११॥अम्लाना हंसगमना कमलासनवन्दिता ।
भूलोकवासिनी शुद्धा रामकृष्णादिपूजिता ॥
॥१२॥सीतापूज्या राममनःप्रिया नन्दनसंस्थिता ।
सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥
॥१३॥प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा ।
नारायणी सन्ततिदा मूलमृद्धारिपावनी ॥
॥१४॥अशोकवनिकासंस्था सीताध्याता निराश्रया ।
गोमतीसरयूतीररोपिता कुटिलालका ॥
॥१५॥अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धि ।
श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥
॥१६॥नाम्नां शतं साष्टकं तत्तुलस्याः सर्वमङ्गलम् ।
सौमङ्गल्यप्रदं प्रातः पठेद् भक्त्या सुभाग्यदम् ॥
॥१७॥। लक्ष्मीपतिप्रसादेन सर्वविद्याप्रदं नृणाम्
इति श्री-तुलस्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्