मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिव सहस्र नाम स्तोत्रम् (विष्णुकृतम्)

3

पारम्परिकम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

॥१॥

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥

॥२॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

॥३॥

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं

वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।

वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं

वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥

॥४॥

ऋषय ऊचुः

कथं देवेन वै सूत देवदेवान्महेश्वरात् ।

सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥

॥५॥

सूत उवाच

देवानामसुरेन्द्राणामभवच्च सुदारुणः ।

सर्वेषामेव भूतानां विनाशकरणो महान् ॥

॥६॥

ते देवाः शक्तिमुसलैः सायकैर्नतपर्वभिः ।

प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥

॥७॥

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।

प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥

॥८॥

तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः ।

प्रणिपत्य स्थितान् देवानिदं वचनमब्रवीत् ॥

॥९॥

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।

समागताः ससन्तापा वक्तुमर्हथ सुव्रताः ॥

॥१०॥

तस्य तद् वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।

प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥

॥११॥

भगवन् देवदेवेश विष्णो जिष्णो जनार्दन ।

दानवैः पीडिताः सर्वे वयं शरणमागताः ॥

॥१२॥

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।

त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥

॥१३॥

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।

हन्तुमर्हसि तस्मात् त्वं दानवान् दानवार्दन ॥

॥१४॥

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।

कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः ॥

॥१५॥

वायव्यैश्च तथाऽऽग्नेयैरेशानैर्वार्षिकैः शुभैः ।

सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥

॥१६॥

अवध्या वरलाभात् ते सर्वे वारिजलोचन ।

सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥

॥१७॥

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।

दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥

॥१८॥

पुरा जलन्धरं हेतुं निर्मितं त्रिपुरारिणा ।

रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥

॥१९॥

तस्मात् तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।

ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥

॥२०॥

वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्।

श्रीविष्णुरुवाच

भो भो देवा महादेवं सर्वैर्देवैः सनातनैः॥१७॥

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।

देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा ॥

॥२१॥

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।

सर्वान् धुन्धुमुखान् दैत्यान् अष्टषष्टिशतान् सुरान् ॥

॥२२॥

सबान्धवान् क्षणादेव युष्मान् सन्तारयाम्यहम्।

सूत उवाच

एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्॥२०॥

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।

लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥

॥२३॥

मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा ।

त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥

॥२४॥

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।

तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥

॥२५॥

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।

पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥

॥२६॥

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।

प्रतिनाम स पद्मेन पूजयामास शङ्करम् ॥

॥२७॥

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।

स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥

॥२८॥

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम्।

न्यासः

अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य श्रीविष्णुः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्रीशङ्करो देवता।

ध्यानम्

मूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं

वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् ।

नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिनेत्रं

वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम् ॥

॥२९॥

स्तोत्रम्

श्रीविष्णुरुवाच

भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ।

अर्थितव्यः सदाचारः सर्वशम्भुमहेश्वरः ॥

॥३०॥

ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ।

वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ॥

॥३१॥

गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ।

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ॥

॥३२॥

चन्द्रापीडश्चन्द्रमौलिर्विद्वान् विश्वामरेश्वरः ।

वेदान्तसारसन्दोहः कपाली नीललोहितः ॥

॥३३॥

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥

॥३४॥

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।

वामदेवो महादेवः पाण्डुः परिदृढोऽदृढः ॥

॥३५॥

विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ।

सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः ॥

॥३६॥

ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ॥

॥३७॥

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।

उन्मत्तवेषश्चक्षुष्यो दुर्वासाः स्मरशासनः ॥

॥३८॥

दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ।

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ॥

॥३९॥

कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ।

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ॥

॥४०॥

विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।

धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ॥

॥४१॥

उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ।

दान्तोदयाकरो दक्षः कपर्दी कामशासनः ॥

॥४२॥

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।

लोककर्ता भूतपतिर्महाकर्ता महौषधी ॥

॥४३॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ॥

॥४४॥

सोमपोऽमृतपः सोमो महानीतिर्महामतिः ।

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ॥

॥४५॥

लोककारो वेदकारः सूत्रकारः सनातनः ।

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥

॥४६॥

पिनाकपाणिर्भूर्देवः स्वस्तिदः स्वस्तिकृत् सदा ।

त्रिधामा सौभगः शर्वसर्वज्ञः सर्वगोचरः ॥

॥४७॥

ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ।

शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः ॥

॥४८॥

गङ्गाप्लवोदको भावः सकलः स्थपतिस्थिरः ।

विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥

॥४९॥

सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ।

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥

॥५०॥

भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ॥

॥५१॥

चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ।

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ॥

॥५२॥

अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।

शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ॥

॥५३॥

भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ।

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥

॥५४॥

महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ।

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥

॥५५॥

अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ।

पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ॥

॥५६॥

सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ।

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥

॥५७॥

आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ।

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥

॥५८॥

धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ।

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥

॥५९॥

अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ।

वीतरागो विनीतात्मा तपस्वी भूतभावनः ॥

॥६०॥

उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ।

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥

॥६१॥

तपःस्वी तारको धीमान् प्रधानप्रभुरव्ययः ।

लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥

॥६२॥

वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ।

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥

॥६३॥

भक्तिगम्यः परब्रह्ममृगबाणार्पणोऽनघः ।

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ॥

॥६४॥

सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः ।

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥

॥६५॥

अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ।

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥

॥६६॥

अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ।

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ॥

॥६७॥

वसुर्वसुमनाः सत्यसर्वपापहरो हरः ।

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥

॥६८॥

कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ।

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥

॥६९॥

अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।

कालयोगी महानादो महोत्साहो महाबलः ॥

॥७०॥

महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।

निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः ॥

॥७१॥

अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः ।

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ॥

॥७२॥

ओजस्तेजोद्युतिकरो नर्तकः सर्वकामकः ।

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ॥

॥७३॥

बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ।

युगादिकृद् युगावर्तो गम्भीरो वृषवाहनः ॥

॥७४॥

इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ।

अपां निधिरधिष्ठानविजयो जयकालवित् ॥

॥७५॥

प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ।

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ॥

॥७६॥

बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ।

करणं कारणं कर्ता सर्वबन्धविमोचनः ॥

॥७७॥

विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ।

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥

॥७८॥

दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः ।

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ॥

॥७९॥

वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ।

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥

॥८०॥

वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ।

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥

॥८१॥

मघवान् कौशिको गोमान् विश्रामः सर्वशासनः ।

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥

॥८२॥

अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।

परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ॥

॥८३॥

रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ।

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतोऽजनः ॥

॥८४॥

युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ।

कैलासपतिकामारिः सविता रविलोचनः ॥

॥८५॥

विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ।

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥

॥८६॥

दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥

॥८७॥

अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ।

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ॥

॥८८॥

जननो जनजन्मादिः प्रीतिमान् नीतिमान् नयः ।

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ॥

॥८९॥

प्रणवः सप्तधाचारो महाकायो महाधनुः ।

जन्माधिपो महादेवः सकलागमपारगः ॥

॥९०॥

तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ।

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ॥

॥९१॥

यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ।

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥

॥९२॥

पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ।

आत्मयोनिरनाद्यन्तः षड्विंशत्सप्तलोकधृक् ॥

॥९३॥

गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।

शिशुर्गिरिरतः सम्राट्सुषेणः सुरशत्रुहा ॥

॥९४॥

अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ।

स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ॥

॥९५॥

पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रत्रयीतनुः ।

ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ॥

॥९६॥

भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ।

उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥

॥९७॥

नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ।

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ॥

॥९८॥

हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ।

विष्णुर्ग्रहपतिः कृष्णः समर्थोऽर्थननाशनः ॥

॥९९॥

अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ।

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥

॥१००॥

जगद्धितैषिसुगतः कुमारः कुशलागमः ।

हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः ॥

॥१०१॥

अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ।

बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः ॥

॥१०२॥

मातामहो मातरिश्वा नभस्वान् नागहारधृक् ।

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥

॥१०३॥

निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ।

आत्मभूरनिरुद्धोऽत्रिज्ञानमूर्तिर्महायशाः ॥

॥१०४॥

लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ।

व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ॥

॥१०५॥

अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ।

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ॥

॥१०६॥

असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ।

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥

॥१०७॥

जर्यो जराधिशमनो लोहितश्च तनूनपात् ।

पृषदश्वो नभो योनिः सुप्रतीकस्तमिस्रहा ॥

॥१०८॥

निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ।

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥

॥१०९॥

वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।

अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः ॥

॥११०॥

पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ।

मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥

॥१११॥

तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ।

अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥

॥११२॥

शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ।

चारुधीर्जनकश्चारुविशल्यो लोकशल्यकृत् ॥

॥११३॥

चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ।

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥

॥११४॥

बहुरूपो महारूपः सर्वरूपश्चराचरः ।

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥

॥११५॥

सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ।

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ॥

॥११६॥

पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ।

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ॥

॥११७॥

पद्मासनः परञ्ज्योतिः परावरपरम्फलः ।

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥

॥११८॥

परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ।

देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥

॥११९॥

देवासुरमहामात्रो देवासुरमहाश्रयः ।

देवादिदेवो देवर्षिदेवासुरवरप्रदः ॥

॥१२०॥

देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ।

सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥

॥१२१॥

ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ।

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ॥

॥१२२॥

शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ।

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ॥

॥१२३॥

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥

॥१२४॥

लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ।

स्ववशः सवशः स्वर्गस्वरः स्वरमयस्वनः ॥

॥१२५॥

बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः ।

दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ॥

॥१२६॥

श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ।

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ॥

॥१२७॥

अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ।

वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ॥

॥१२८॥

धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ।

आधारः सकलाधारः पाण्डुराभो मृडो नटः ॥

॥१२९॥

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ॥

॥१३०॥

मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ॥

॥१३१॥

सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ।

मानी मान्यो महाकालः सद्भूतिः सत्परायणः ॥

॥१३२॥

चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ।

लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ॥

॥१३३॥

अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ।

तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥

॥१३४॥

शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ।

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥

॥१३५॥

तुम्बवीणी महाकायो विशोकः शोकनाशनः ।

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः ॥

॥१३६॥

अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।

वरशीलो वरतुलो मानो मानधनो मयः ॥

॥१३७॥

ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ।

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ॥

॥१३८॥

कैलासशिखरावासी सर्वावासी सतां गतिः ।

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ॥

॥१३९॥

भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ।

संयोगी योगविद् ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ॥

॥१४०॥

देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ।

विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ॥

॥१४१॥

निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ।

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ॥

॥१४२॥

सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ।

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥

॥१४३॥

अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥

॥१४४॥

सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ।

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥

॥१४५॥

सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ।

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ॥

॥१४६॥

अपराजितः सर्वसहो विदग्धः सर्ववाहनः ।

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ॥

॥१४७॥

वराहशृङ्गधृग् वायुर्बलवानेकनायकः ।

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥

॥१४८॥

श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ।

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ॥

॥१४९॥

अकायो भक्तकायस्थः कालज्ञानी कलावपुः ।

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ॥

॥१५०॥

परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ।

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ॥

॥१५१॥

स्वभावरुद्द्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ।

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ॥

॥१५२॥

मेखली कवची खड्गी मायी संसारसारथिः ।

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥

॥१५३॥

असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् कार्यकोविदः ।

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ॥

॥१५४॥

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ॥

॥१५५॥

कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ।

महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥

॥१५६॥

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ॥

॥१५७॥

एकज्योतिर्निरातङ्को नरो नारायणप्रियः ।

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥

॥१५८॥

स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ।

निरवद्यपदोपायो विद्याराशिरविक्रमः ॥

॥१५९॥

प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ।

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ॥

॥१६०॥

परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ।

रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥

॥१६१॥

सूत उवाच

एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्॥१५९॥

॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे अष्टनवतितमे अध्याये भगवता विष्णुना प्रोक्तं श्रीशिवसहस्रनामस्तोत्रम् ॥

स्नापयामास च विभुः पूजयामास पङ्कजैः ।

परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥

॥१६२॥

गोपयामास कमलं तदैकं भुवनेश्वरः ।

हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत् ॥

॥१६३॥

ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।

पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥

॥१६४॥

ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।

तस्मादवतताराशु मण्डलात् पावकस्य च ॥

॥१६५॥

कोटिभास्करसङ्काशं जटामुकुटमण्डितम् ।

ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥

॥१६६॥

शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।

वरदाभयहस्तं च द्वीपिचर्मोत्तरीयकम् ॥

॥१६७॥

इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।

हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥

॥१६८॥

दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।

चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥

॥१६९॥

ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।

अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥

॥१७०॥

तदा प्राह महादेवः प्रहसन्निव शङ्करः ।

सम्प्रेक्ष्य प्रणयाद् विष्णुं कृताञ्जलिपुटं स्थितम् ॥

॥१७१॥

ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।

सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥

॥१७२॥

यद् रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।

हिताय तव यत्नेन तव भावाय सुव्रत ॥

॥१७३॥

शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।

शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥

॥१७४॥

शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनम् ।

योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥

॥१७५॥

देवैरशान्तैर्यद् रूपं मदीयं भावयाव्ययम् ।

किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥

॥१७६॥

क्षमा युधि न कार्या वै योद्धुं देवारिसूदन ।

अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥

॥१७७॥

अकालिके त्वधर्मे च अनर्थे वाऽरिसूदन ।

एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥

॥१७८॥

नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।

तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥

॥१७९॥

दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।

पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥

॥१८०॥

वरदोऽहं वरश्रेष्ठ वरान् वरय चेप्सितान् ।

भक्त्या वशीकृतो नूनं त्वयाऽहं पुरुषोत्तम ॥

॥१८१॥

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।

त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥

॥१८२॥

नान्यमिच्छामि भक्तानामार्तयो नास्ति यत् प्रभो ।

तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥

॥१८३॥

पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।

प्राह चैवं महादेवः परमात्मानमच्युतम् ॥

॥१८४॥

मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।

भविष्यसि न सन्देहो मत्प्रसादात् सुरोत्तम ॥

॥१८५॥

यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना ।

मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥

॥१८६॥

दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।

भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥

॥१८७॥

नियोगाद् ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।

मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥

॥१८८॥

मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।

द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥

॥१८९॥

इत्युक्त्वाऽन्तर्दधे रुद्रो भगवान् नीललोहितः ।

जनार्दनोऽपि भगवान् देवानामपि सन्निधौ ॥

॥१९०॥

अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।

मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥

॥१९१॥

यः पठेच्छृणुयाद् वाऽपि श्रावयेद् वा द्विजोत्तमान् ।

प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥

॥१९२॥

अश्वमेधसहस्रेण फलं भवति तस्य वै ।

घृताद्यैः स्नापयेद् रुद्रं स्थाल्या वै कलशैः शुभैः ॥

॥१९३॥

नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।

सोऽपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥

॥१९४॥

पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।

तथाऽस्त्विति तथा प्राह पद्मयोनिर्जनार्दनम् ॥

॥१९५॥

जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम्

तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः

जपेन्नाम्नां सहस्रं च स याति परमां गतिम् ॥

॥१९६॥

॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद् विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः ॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्य

दुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि ।

उत्पाततापविषभीतिम् असद्‌ग्रहार्तिं

व्याधींश्च नाशयतु मे जगतामधीशः ॥

॥१९७॥

इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम्