- १ॐ महीसुताय नमः
- २ॐ महाभागाय नमः
- ३ॐ मङ्गलाय नमः
- ४ॐ मङ्गलप्रदाय नमः
- ५ॐ महावीराय नमः
- ६ॐ महाशूराय नमः
- ७ॐ महाबलपराक्रमाय नमः
- ८ॐ महारौद्राय नमः
- ९ॐ महाभद्राय नमः
- १०ॐ माननीयाय नमः
- ११ॐ दयाकराय नमः
- १२ॐ मानदाय नमः
- १३ॐ अमर्षणाय नमः
- १४ॐ क्रूराय नमः
- १५ॐ तापपापविवर्जिताय नमः
- १६ॐ सुप्रतीपाय नमः
- १७ॐ सुताम्राक्षाय नमः
- १८ॐ सुब्रह्मण्याय नमः
- १९ॐ सुखप्रदाय नमः
- २०ॐ वक्रस्तम्भादिगमनाय नमः
- २१ॐ वरेण्याय नमः
- २२ॐ वरदाय नमः
- २३ॐ सुखिने नमः
- २४ॐ वीरभद्राय नमः
- २५ॐ विरूपाक्षाय नमः
- २६ॐ विदूरस्थाय नमः
- २७ॐ विभावसवे नमः
- २८ॐ नक्षत्रचक्रसञ्चारिणे नमः
- २९ॐ क्षत्रपाय नमः
- ३०ॐ क्षात्रवर्जिताय नमः
- ३१ॐ क्षयवृद्धिविनिर्मुक्ताय नमः
- ३२ॐ क्षमायुक्ताय नमः
- ३३ॐ विचक्षणाय नमः
- ३४ॐ अक्षीणफलदाय नमः
- ३५ॐ चक्षुर्गोचराय नमः
- ३६ॐ शुभलक्षणाय नमः
- ३७ॐ वीतरागाय नमः
- ३८ॐ वीतभयाय नमः
- ३९ॐ विज्वराय नमः
- ४०ॐ विश्वकारणाय नमः
- ४१ॐ नक्षत्रराशिसञ्चाराय नमः
- ४२ॐ नानाभयनिकृन्तनाय नमः
- ४३ॐ कमनीयाय नमः
- ४४ॐ दयासाराय नमः
- ४५ॐ कनत्कनकभूषणाय नमः
- ४६ॐ भयघ्नाय नमः
- ४७ॐ भव्यफलदाय नमः
- ४८ॐ भक्ताभयवरप्रदाय नमः
- ४९ॐ शत्रुहन्त्रे नमः
- ५०ॐ शमोपेताय नमः
- ५१ॐ शरणागतपोषकाय नमः
- ५२ॐ साहसिने नमः
- ५३ॐ सद्गुणाय नमः
- ५४ॐ अध्यक्षाय नमः
- ५५ॐ साधवे नमः
- ५६ॐ समरदुर्जयाय नमः
- ५७ॐ दुष्टदूराय नमः
- ५८ॐ शिष्टपूज्याय नमः
- ५९ॐ सर्वकष्टनिवारकाय नमः
- ६०ॐ दुश्चेष्टवारकाय नमः
- ६१ॐ दुःखभञ्जनाय नमः
- ६२ॐ दुर्धराय नमः
- ६३ॐ हरये नमः
- ६४ॐ दुःस्वप्नहन्त्रे नमः
- ६५ॐ दुर्धर्षाय नमः
- ६६ॐ दुष्टगर्वविमोचकाय नमः
- ६७ॐ भरद्वाजकुलोद्भूताय नमः
- ६८ॐ भूसुताय नमः
- ६९ॐ भव्यभूषणाय नमः
- ७०ॐ रक्ताम्बराय नमः
- ७१ॐ रक्तवपुषे नमः
- ७२ॐ भक्तपालनतत्पराय नमः
- ७३ॐ चतुर्भुजाय नमः
- ७४ॐ गदाधारिणे नमः
- ७५ॐ मेषवाहाय नमः
- ७६ॐ मिताशनाय नमः
- ७७ॐ शक्तिशूलधराय नमः
- ७८ॐ शक्ताय नमः
- ७९ॐ शस्त्रविद्याविशारदाय नमः
- ८०ॐ तार्किकाय नमः
- ८१ॐ तामसाधाराय नमः
- ८२ॐ तपस्विने नमः
- ८३ॐ ताम्रलोचनाय नमः
- ८४ॐ तप्तकाञ्चनसङ्काशाय नमः
- ८५ॐ रक्तकिञ्जल्कसन्निभाय नमः
- ८६ॐ गोत्राधिदेवाय नमः
- ८७ॐ गोमध्यचराय नमः
- ८८ॐ गुणविभूषणाय नमः
- ८९ॐ असृजे नमः
- ९०ॐ अङ्गारकाय नमः
- ९१ॐ अवन्तीदेशाधीशाय नमः
- ९२ॐ जनार्दनाय नमः
- ९३ॐ सूर्ययाम्यप्रदेशस्थाय नमः
- ९४ॐ यौवनाय नमः
- ९५ॐ याम्यदिङ्मुखाय नमः
- ९६ॐ त्रिकोणमण्डलगताय नमः
- ९७ॐ त्रिदशाधिपसन्नुताय नमः
- ९८ॐ शुचये नमः
- ९९ॐ शुचिकराय नमः
- १००ॐ शूराय नमः
- १०१ॐ शुचिवश्याय नमः
- १०२ॐ शुभावहाय नमः
- १०३ॐ मेषवृश्चिकराशीशाय नमः
- १०४ॐ मेधाविने नमः
- १०५ॐ मितभाषणाय नमः
- १०६ॐ सुखप्रदाय नमः
- १०७ॐ सुरूपाक्षाय नमः
- १०८ॐ सर्वाभीष्टफलप्रदाय नमः