वृकश्वानसृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः
स्नात्वा जपेत्स गायत्रीं पवित्रां वेदमातरम्
॥१॥गवां शृङ्गोदकैः स्नानं महानद्योस्तु संगमे
समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत्
॥२॥वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि
स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति
॥३॥सव्रतस्तु शुना दष्टो यस्त्रिरात्रमुपावसेत्
घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत्
॥४॥अव्रतः सव्रतो वापि शुना दष्टो भवेद्द्विजः
प्रणिपत्य भवेत्पूतो विप्रैश्चक्षुर्निरीक्षितः
॥५॥शुना घ्रातावलीढस्य नखैर्विलिखितस्य च
अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचूलनम्
॥६॥शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत्
॥७॥कृष्णपक्षे यदा सोमो न दृश्येत कदाचन
यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत्
॥८॥असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः
वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर्भवेत्
॥९॥चण्डालेन श्वपाकेन गोभिर्विप्रैर्हतो यदि
आहिताग्निर्मृतो विप्रो विषेणात्महतो यदि
॥१०॥दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम्
स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा
॥११॥प्राजापत्यं चरेत्पश्चाद्विप्राणामनुशासनात्
दग्धास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्द्विजः
॥१२॥पुनर्दहेत्स्वाग्निना तु स्वतन्त्रेण पृथक्पृथक्
आहिताग्निर्द्विजः कश्चित्प्रवसन्कालचोदितः
॥१३॥देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे
प्रेताग्निहोत्रसंस्कारः श्रूयतामृषिपुङ्गवाः
॥१४॥कृष्णाजिनं समास्तीर्य कुशैस्तु पुरुषाकृतिम्
षट्शतानि शतं चैव पलाशानां च वृन्ततः
॥१५॥चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत्
बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैव तु
॥१६॥शतं तु जघने दद्याद्द्विशतं तूदरे तथा
दद्यादष्टौ वृषणयोः पञ्च मेध्रे तु विन्यसेत्
॥१७॥एकविंशतिमूरुभ्यां द्विशतं जानुजङ्घयोः
पादाङ्गुलीषु षड्दद्याद्यज्ञपात्रं ततो न्यसेत्
॥१८॥शम्यं शिश्ने विनिःक्षिप्य अरणीं मुष्कयोरपि
जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत्
॥१९॥कर्णे चोलूखलं दद्यात्पृष्ठे च मुसलं न्यसेत्
उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे
॥२०॥श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थलीं तु चक्षुषोः
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत्
॥२१॥अग्निहोत्रोपकरणमशेषं तत्र निक्षिपेत्
असौ स्वर्गाय लोकाय स्वाहेत्येकाहुतिं सकृत्
॥२२॥दद्यात्पुत्रोऽथवा भ्राताप्यन्यो वापि च बान्धवः
यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः
॥२३॥ईदृशं तु विधिं कुर्याद्ब्रह्मलोकगतिः स्मृता
दहन्ति ये द्विजास्तं तु ते यान्ति परमां गतिम्
॥२४॥अन्यथा कुर्वते कर्म त्वात्मबुद्ध्या प्रचोदिताः
भवन्त्यल्पायुषस्ते वै पतन्ति नरकेऽशुचौ
॥२५॥