मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमोऽध्यायः

3
पराशरस्मृतिः · 1

अथातो हिमशैलाग्रे देवदारुवनालये

व्यासमेकाग्रमासीनमपृच्छन्नृषयः पुरा

॥१॥

मानुषाणां हितं धर्मं वर्तमाने कलौ युगे

शौचाचारं यथावच्च वद सत्यवतीसुत

॥२॥

तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसंनिभः

प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः

॥३॥

न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहं

अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽब्रवीत्

॥४॥

ततस्त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः

ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमम्

॥५॥

नानापुष्पलताकीर्णं फलवृष्कैरलंकृतम्

नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं

॥६॥

मृगपक्षिनिनादाढ्यं देवतायतनावृतम्

यक्षगन्धर्वसिद्धैश्च नृत्यगीतैरलंकृतम्

॥७॥

तस्मिन्नृषिसभामध्ये शक्तिपुत्रं पराशरम्

सुखासीनं महातेजा मुनिमुख्यगणावृतम्

॥८॥

कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह

प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत्

॥९॥

ततः संतुष्टहृदयः पराशरमहामुनिः

आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः

॥१०॥

कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम्

यदि जानासि भक्तिं मे स्नेहाद्वा भक्तवत्सल

॥११॥

धर्मं कथय मे तात अनुग्राह्यो ह्यहं तव

श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास्तथा

॥१२॥

गर्गेया गौतमीयाश्च तथा चोशनसा स्मृताः

अत्रेर्विष्णोश्च संवर्ताद्दक्षादङ्गिरसस्तथा

॥१३॥

शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च

आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च

॥१४॥

कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः

श्रुता ह्येते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः

॥१५॥

अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे

सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे

॥१६॥

चातुर्वर्ण्यसमाचारं किंचित्साधारणं वद

चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः

॥१७॥

ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात्

व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः

॥१८॥

धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात्

शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा

॥१९॥

कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः

श्रुतिस्मृतिसदाचारनिर्णेतारश्च सर्वदा

॥२०॥

न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः

तथैव धर्मान्स्मरति मनुः कल्पान्तरेऽन्तरे

॥२१॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे

अन्ये कलियुगे नॄणां युगरूपानुसारतः

॥२२॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते

द्वापरे यज्ञमेवाहुः दानमेव कलौ युगे

॥२३॥

कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः

द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः

॥२४॥

त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत्

द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे

॥२५॥

कृते संभाषणादेव त्रेतायां स्पर्शनेन च

द्वापरे त्वन्नमादाय कलौ पतति कर्मणा

॥२६॥

कृते तात्कालिकः शापस्त्रेतायां दशभिर्दिनैः

द्वापरे चैकमासेन कलौ संवत्सरेण तु

॥२७॥

अभिगम्य कृते दानं त्रेतास्वाहूय दीयते

द्वापरे याचमानाय सेवया दीयते कलौ

॥२८॥

अभिगम्योत्तमं दानमाहूयैव तु मध्यमम्

अधमं याचमानाय सेवादानं तु निष्फलम्

॥२९॥

जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च

जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ

॥३०॥

सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति

कुमार्यश्च प्रसूयन्ते अस्मिन्कलियुगे सदा

॥३१॥

कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमाश्रिताः

द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः

॥३२॥

युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः

तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः

॥३३॥

युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम्

पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते

॥३४॥

अहमद्यैव तत्सर्वमनुस्मृत्य ब्रवीमि वः

चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः

॥३५॥

पराशरमतं पुण्यं पवित्रं पापनाशनम्

चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च

॥३६॥

चतुर्णामपि वर्णानामाचारो धर्मपालकः

आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः

॥३७॥

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः

हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति

॥३८॥

संध्यास्नानं जपो होमो देवतातिथिपूजनम्

आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने

॥३९॥

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा

संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंग्रमः

॥४०॥

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम्

अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः

॥४१॥

नैकग्रामीणमतिथिं संगृह्णीत कदाचन

अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते

॥४२॥

अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना

अर्घ्यासनप्रदानेन पादप्रक्षालनेन च

॥४३॥

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च

गच्छन्तं चानुयानेन प्रीतिमुत्पादयेद्गृही

॥४४॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते

पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च

॥४५॥

काष्ठभारसहस्रेण घृतकुम्भशतेन च

अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः

॥४६॥

सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम्

सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति

॥४७॥

न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा

हृदये कल्पयेद्देवं सर्वदेवमयो हि सः

॥४८॥

अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातितिहिर्यथा

वेदाभ्यासरतो नित्यं तावपूर्वौ दिने दिने

॥४९॥

वैश्वदेवे तु संप्राप्ते भिक्षुके गृहमागते

उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत्

॥५०॥

यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ

तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्

॥५१॥

दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम्

इच्छया च ततो दद्याद्विभवे सत्यवारितम्

॥५२॥

यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम्

तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम्

॥५३॥

यस्य छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत्

ऐन्द्रं स्थानमुपासीत तस्मात्तं न विचारयेत्

॥५४॥

वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम्

न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति

॥५५॥

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः

सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ

॥५६॥

वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः

सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च

॥५७॥

पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः

वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः

॥५८॥

यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः

वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते

॥५९॥

अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः

तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः

॥६०॥

क्षत्रियो हि प्रजा रक्षञ्शस्त्रपाणिः प्रदण्डवान्

निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत्

॥६१॥

पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत्

मालाकार इवारामे न यथाङ्गारकारकः

॥६२॥

लाभकर्म तथा रत्नं गवां च परिपालनम्

कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता

॥६३॥

शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते

अन्यथा कुरुते किंचित्तद्भवेत्तस्य निष्फलम्

॥६४॥

लवणं मधुतैलं च दधितक्रं घृतं पयः

न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयम्

॥६५॥

विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम्

कुर्वन्नगम्या गमनं शूद्रः पतति तत्क्षणात्

॥६६॥

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च

वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत्

॥६७॥