- १ॐ श्रीरङ्गनायक्यै नमः
- २ॐ गोदायै नमः
- ३ॐ विष्णुचित्तात्मजायै नमः
- ४ॐ सत्यै नमः
- ५ॐ गोपीवेषधरायै नमः
- ६ॐ देव्यै नमः
- ७ॐ भूसुतायै नमः
- ८ॐ भोगशालिन्यै नमः
- ९ॐ तुलसीकाननोद्भूतायै नमः
- १०ॐ श्रीधन्विपुरवासिन्यै नमः
- ११ॐ भट्टनाथप्रियकर्यै नमः
- १२ॐ श्रीकृष्णहितभोगिन्यै नमः
- १३ॐ आमुक्तमाल्यदायै नमः
- १४ॐ बालायै नमः
- १५ॐ रङ्गनाथप्रियायै नमः
- १६ॐ परायै नमः
- १७ॐ विश्वम्भरायै नमः
- १८ॐ कलालापायै नमः
- १९ॐ यतिराजसहोदर्यै नमः
- २०ॐ कृष्णानुरक्तायै नमः
- २१ॐ सुभगायै नमः
- २२ॐ सुलभश्रियै नमः
- २३ॐ सलक्षणायै नमः
- २४ॐ लक्ष्मीप्रियसख्यै नमः
- २५ॐ श्यामायै नमः
- २६ॐ दयाञ्चितदृगञ्चलायै नमः
- २७ॐ फल्गुन्याविर्भवायै नमः
- २८ॐ रम्यायै नमः
- २९ॐ धनुर्मासकृतव्रतायै नमः
- ३०ॐ चम्पकाशोक-पुन्नाग-मालती-विलसत्-कचायै नमः
- ३१ॐ आकारत्रयसम्पन्नायै नमः
- ३२ॐ नारायणपदाश्रितायै नमः
- ३३ॐ श्रीमदष्टाक्षरीमन्त्र-राजस्थित-मनोरथायै नमः
- ३४ॐ मोक्षप्रदाननिपुणायै नमः
- ३५ॐ मनुरत्नाधिदेवतायै नमः
- ३६ॐ ब्रह्मण्यायै नमः
- ३७ॐ लोकजनन्यै नमः
- ३८ॐ लीलामानुषरूपिण्यै नमः
- ३९ॐ ब्रह्मज्ञानप्रदायै नमः
- ४०ॐ मायायै नमः
- ४१ॐ सच्चिदानन्दविग्रहायै नमः
- ४२ॐ महापतिव्रतायै नमः
- ४३ॐ विष्णुगुणकीर्तनलोलुपायै नमः
- ४४ॐ प्रपन्नार्तिहरायै नमः
- ४५ॐ नित्यायै नमः
- ४६ॐ वेदसौधविहारिण्यै नमः
- ४७ॐ श्रीरङ्गनाथमाणिक्यमञ्जर्यै नमः
- ४८ॐ मञ्जुभाषिण्यै नमः
- ४९ॐ पद्मप्रियायै नमः
- ५०ॐ पद्महस्तायै नमः
- ५१ॐ वेदान्तद्वयबोधिन्यै नमः
- ५२ॐ सुप्रसन्नायै नमः
- ५३ॐ भगवत्यै नमः
- ५४ॐ श्रीजनार्दनदीपिकायै नमः
- ५५ॐ सुगन्धवयवायै नमः
- ५६ॐ चारुरङ्गमङ्गलदीपिकायै नमः
- ५७ॐ ध्वजवज्राङ्कुशाब्जाङ्क-मृदुपाद-लताञ्चितायै नमः
- ५८ॐ तारकाकारनखरायै नमः
- ५९ॐ प्रवालमृदुलाङ्गुल्यै नमः
- ६०ॐ कूर्मोपमेय-पादोर्ध्वभागायै नमः
- ६१ॐ शोभनपार्ष्णिकायै नमः
- ६२ॐ वेदार्थभावतत्त्वज्ञायै नमः
- ६३ॐ लोकाराध्याङ्घ्रिपङ्कजायै नमः
- ६४ॐ आनन्दबुद्बुदाकार-सुगुल्फायै नमः
- ६५ॐ परमायै नमः
- ६६ॐ अणुकायै नमः
- ६७ॐ तेजःश्रियोज्ज्वलधृतपादाङ्गुलि-सुभूषितायै नमः
- ६८ॐ मीनकेतन-तूणीर-चारुजङ्घा-विराजितायै नमः
- ६९ॐ ककुद्वज्जानुयुग्माढ्यायै नमः
- ७०ॐ स्वर्णरम्भाभसक्थिकायै नमः
- ७१ॐ विशालजघनायै नमः
- ७२ॐ पीनसुश्रोण्यै नमः
- ७३ॐ मणिमेखलायै नमः
- ७४ॐ आनन्दसागरावर्त-गम्भीराम्भोज-नाभिकायै नमः
- ७५ॐ भास्वद्बलित्रिकायै नमः
- ७६ॐ चारुजगत्पूर्ण-महोदर्यै नमः
- ७७ॐ नववल्लीरोमराज्यै नमः
- ७८ॐ सुधाकुम्भायितस्तन्यै नमः
- ७९ॐ कल्पमालानिभबुजायै नमः
- ८०ॐ चन्द्रखण्डनखाञ्चितायै नमः
- ८१ॐ सुप्रवाशाङ्गुलीन्यस्तमहारत्नाङ्गुलीयकायै नमः
- ८२ॐ नवारुणप्रवालाभ-पाणिदेश-समञ्चितायै नमः
- ८३ॐ कम्बुकण्ठ्यै नमः
- ८४ॐ सुचुबुकायै नमः
- ८५ॐ बिम्बोष्ठ्यै नमः
- ८६ॐ कुन्ददन्तयुजे नमः
- ८७ॐ कारुण्यरस-निष्यन्द-नेत्रद्वय-सुशोभितायै नमः
- ८८ॐ मुक्ताशुचिस्मितायै नमः
- ८९ॐ चारुचाम्पेयनिभनासिकायै नमः
- ९०ॐ दर्पणाकार-विपुल-कपोल-द्वितयाञ्चितायै नमः
- ९१ॐ अनन्तार्क-प्रकाशोद्यन्मणि-ताटङ्क-शोभितायै नमः
- ९२ॐ कोटिसूर्याग्निसङ्काश-नानाभूषण-भूषितायै नमः
- ९३ॐ सुगन्धवदनायै नमः
- ९४ॐ सुभ्रुवे नमः
- ९५ॐ अर्धचन्द्रललाटिकायै नमः
- ९६ॐ पूर्णचन्द्राननायै नमः
- ९७ॐ नीलकुटिलालकशोभितायै नमः
- ९८ॐ सौन्दर्यसीमायै नमः
- ९९ॐ विलसत्-कस्तूरी-तिलकोज्ज्वलायै नमः
- १००ॐ धगद्ध-गायमानोद्यन्मणि-सीमन्त-भूषणायै नमः
- १०१ॐ जाज्वल्यमान-सद्रत्न-दिव्यचूडावतंसकायै नमः
- १०२ॐ सूर्यार्धचन्द्र-विलसत्-भूषणञ्चित-वेणिकायै नमः
- १०३ॐ अत्यर्कानल-तेजोधिमणि-कञ्चुकधारिण्यै नमः
- १०४ॐ सद्रत्नाञ्चितविद्योत-विद्युत्कुञ्जाभ-शाटिकायै नमः
- १०५ॐ नानामणिगणाकीर्ण-हेमाङ्गदसुभूषितायै नमः
- १०६ॐ कुङ्कुमागरु-कस्तूरी-दिव्यचन्दन-चर्चितायै नमः
- १०७ॐ स्वोचितौज्ज्वल्य-विविध-विचित्र-मणि-हारिण्यै नमः
- १०८ॐ असङ्ख्येय-सुखस्पर्श-सर्वातिशय-भूषणायै नमः
- १०९ॐ मल्लिका-पारिजातादि दिव्यपुष्प-स्रगञ्चितायै नमः
- ११०ॐ श्रीरङ्गनिलयायै नमः
- १११ॐ पूज्यायै नमः
- ११२ॐ दिव्यदेशसुशोभितायै नमः
इति श्री-गोदाष्टोत्तरशतनामावलिः सम्पूर्णा