श्रीशङ्करभगवत्पादकृतम्
[]
उपासकानां यदुपासनीयम्
उपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
जागर्तु चित्ते मम बोधरूपम् ॥
॥१॥अद्राक्षमक्षीणदयानिधानम्
आचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
महर्षि लोकस्य तमो नुदन्तम् ॥
॥२॥विद्राविताशेष-तमोगुणेन
मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते
देवो महांस्तत्त्वमसीति बोधम् ॥
॥३॥अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्तान्
मुनीनहं नौमि गुरुं गुरूणाम् ॥
॥४॥ममाद्यदेवो वटमूलवासी
कृपाविशेषात् कृतसन्निधानः ।
ओङ्काररूपामुपदिश्य विद्याम्
आविद्यकध्वान्तमपाकरोतु ॥
॥५॥कलाभिरिन्दोरिव कल्पिताङ्गं
मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेयम्
अनाद्यविद्यातिमिरप्रभातम् ॥
॥६॥स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम् ॥
॥७॥तत्त्वार्थमन्तेवसतामृषीणां
युवाऽपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम् ॥
॥८॥एकेन मुद्रां परशुं करेण
करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तात्
आचार्यचूडामणिराविरस्तु ॥
॥९॥आलेपवन्तं मदनाङ्गभूत्या
शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कञ्चनदेशिकेन्द्रम्
अज्ञानवाराकरबाडवाग्निम् ॥
॥१०॥चारुस्मितं सोमकलावतंसं
वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्वाम्
उपात्तनादानुभवप्रमोदम् ॥
॥११॥उपासते यं मुनयः शुकाद्याः
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेशम्
उपास्महे मोहमहार्तिशान्त्यै ॥
॥१२॥कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥
॥१३॥[]
अगौरगात्रैरललाटनेत्रैः
अशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैः
अपूर्णकामैरमरैरलं नः ॥
॥१४॥दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम् ॥
॥१५॥मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये ।
जगदीन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने ॥
॥१६॥व्यालम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम् ॥
॥१७॥उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो मे
द्रवत्यहो मानसचन्द्रकान्तः ॥
॥१८॥यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्याम्
अन्ते च वेदान्तमहारहस्यम् ॥
॥१९॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-दक्षिणामूर्तिस्तोत्रं सम्पूर्णम्