पारम्परिकम्
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥
॥१॥आगत्य मृत्युञ्जय चन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश ॥
॥२॥भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥
॥३॥मन्दारमल्लीकरवीरमाधवी-
पुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलैः
आधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥
॥४॥सुगन्धपुष्पप्रकरैः सुवासितैः
वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरात्
गृहाण मृत्युञ्जय सर्ववन्दित ॥
॥५॥हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥
॥६॥गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥
॥७॥पञ्चास्त्रशान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥
॥८॥जगत्त्रयीख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम ॥
॥९॥आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥
॥१०॥नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥
॥११॥विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्रम्
आधत्स्व मृत्युञ्जय भक्तिगम्य ॥
॥१२॥श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥
॥१३॥अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥
॥१४॥चम्पकपङ्कजकुरवक-
कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं
मृत्युञ्जय पुण्डरीकनयनाप्त ॥
॥१५॥माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥
॥१६॥माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञैः
अङ्गानि मृत्युञ्जय भूषयामि ॥
॥१७॥गजवदनस्कन्दधृते-
नातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं
मृत्युञ्जय भावयामि हृत्पद्मे ॥
॥१८॥मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि ॥
॥१९॥मणिमुकुरे निष्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटिसदृशं
मृत्युञ्जय पश्य वदनमात्मीयम् ॥
॥२०॥कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमन्वितं च ।
समुद्भवं पावनगन्धधूपितं
मृत्युञ्जयाङ्गं परिकल्पयामि ॥
॥२१॥वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं
सुरेश मृत्युञ्जय वंशदीपम् ॥
॥२२॥राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥
॥२३॥कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्याः ।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥
॥२४॥शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥
॥२५॥शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर ॥
॥२६॥केवलमतिमाधुर्यं
दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं
मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥
॥२७॥रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुमत्-
खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥
॥२८॥मनोज्ञरम्भावनखण्डखण्डितान्
रुचिप्रदान् सर्षपजीरकांश्च ।
ससौरभान् सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥
॥२९॥हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाँल्लवणयुतान्
मृत्युञ्जय तेऽर्पयामि जगदीश ॥
॥३०॥एलाशुण्ठीसहितं
दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं
मृत्युञ्जय भुज्यतां त्रिलोकेश ॥
॥३१॥जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान् सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र ॥
॥३२॥नागररामठयुक्तं
सुललितजम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं
पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥
॥३३॥मन्दारहेमाम्बुजगन्धयुक्तैः
मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥
॥३४॥गगनधुनीविमलजलैः
मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णैः
प्रक्षालय चारु हस्तपदयुग्मम् ॥
॥३५॥पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥
॥३६॥मौक्तिकचूर्णसमेतैः
मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानैः
मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥
॥३७॥नीराजनं निर्मलदीप्तिमद्भिः
दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥
॥३८॥विरिञ्चिमुख्यामरवृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥
॥३९॥पुन्नागनीलोत्पलकुन्दजाती-
मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥
॥४०॥पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥
॥४१॥नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥
॥४२॥संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
॥४३॥सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥
॥४४॥चतुश्चत्वारिंशद्विलसदुपचारैरभिमतैः
मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमान्
प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥
॥४५॥प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात् स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥
॥४६॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मृत्युञ्जयमानसपूजास्तोत्रं सम्पूर्णम्