मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

बिल्वाष्टकम्

3

परम्परा

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥

॥१॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥

॥२॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥

॥३॥

शालिग्राम-शिलामेकां विप्राणां जातु चार्पयेत् ।

सोमयज्ञ-महापुण्यं एकबिल्वं शिवार्पणम् ॥

॥४॥

दन्तिकोटि-सहस्राणि वाजपेय-शतानि च ।

कोटिकन्या-महादानं एकबिल्वं शिवार्पणम् ॥

॥५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥

॥६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥

॥७॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥

॥८॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥

॥९॥

बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥

॥१०॥

इति बिल्वाष्टकं सम्पूर्णम्