श्रीपतञ्जलिमुनिप्रणीतम्
सदञ्चित-मुदञ्चित-निकुञ्चित-पदं झलझलञ्चलित-मञ्जु-कटकं
पतञ्जलि-दृगञ्जन-मनञ्जन-मचञ्चलपदं जनन-भञ्जन-करम् ।
कदम्बरुचिमम्बरवसं परममम्बुद-कदम्बक-विडम्बक-गलं
चिदम्बुधि-मणिं बुध-हृदम्बुज-रविं-पर-चिदम्बर-नटं हृदि भज ॥
॥१॥हरं त्रिपुर-भञ्जनम् अनन्तकृतकङ्कणम् अखण्डदय-मन्तरहितं
विरिञ्चिसुरसंहतिपुरन्धर-विचिन्तितपदं तरुणचन्द्रमकुटम् ।
परं पद-विखण्डितयमं भसित-मण्डिततनुं मदनवञ्चन-परं
चिरन्तनममुं प्रणवसञ्चितनिधिं पर-चिदम्बर-नटं हृदि भज ॥
॥२॥अनन्तमखिलं जगदभङ्ग-गुणतुङ्गममतं धृतविधुं सुरसरित्
तरङ्ग-निकुरम्ब-धृति-लम्पट-जटं शमनदम्बसुहरं भवहरम् ।
शिवं दशदिगन्तर-विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं पर-चिदम्बर-नटं हृदि भज ॥
॥३॥अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं
मुकुन्दविधि-हस्तगतमद्दल-लयध्वनिधिमिद्धिमित-नर्तन-पदम् ।
शकुन्तरथ-बर्हिरथ-नन्दिमुख-शृङ्गिरिटि-भृङ्गिगण-सङ्घनिकटं
सनन्दसनक-प्रमुख-वन्दित-पदं पर-चिदम्बर-नटं हृदि भज ॥
॥४॥अनन्तमहसं त्रिदशवन्द्य-चरणं मुनि-हृदन्तर-वसन्तममलं
कबन्ध-वियदिन्द्ववनि-गन्धवह-वह्निमख-बन्धुरविमञ्जु-वपुषम् ।
अनन्तविभवं त्रिजगदन्तर-मणिं त्रिनयनं त्रिपुर-खण्डन-परं
सनन्द-मुनि-वन्दित-पदं सकरुणं पर-चिदम्बर-नटं हृदि भज ॥
॥५॥अचिन्त्यमलिवृन्द-रुचि-बन्धुरगलं कुरित-कुन्द-निकुरम्ब-धवलं
मुकुन्द-सुरवृन्द-बलहन्तृ-कृतवन्दन-लसन्तम्-अहिकुण्डल-धरम् ।
अकम्पमनुकम्पित-रतिं सुजन-मङ्गलनिधिं गजहरं पशुपतिं
धनञ्जयनुतं प्रणत-रञ्जनपरं पर-चिदम्बर-नटं हृदि भज ॥
॥६॥परं सुरवरं पुरहरं पशुपतिं जनित-दन्तिमुख-षण्मुखममुं
मृडं कनक-पिङ्गल-जटं सनकपङ्कज-रविं सुमनसं हिमरुचिम् ।
असङ्घमनसं जलधि-जन्मकरलं कवलयन्त-मतुलं गुणनिधिं
सनन्द-वरदं शमितमिन्दु-वदनं पर-चिदम्बर-नटं हृदि भज ॥
॥७॥अजं क्षितिरथं भुजगपुङ्गवगुणं कनक-शृङ्गि-धनुषं करलसत्
कुरङ्ग-पृथु-टङ्क-परशुं रुचिर-कुङ्कुम-रुचिं डमरुकं च दधतम् ।
मुकुन्द-विशिखं नमदवन्ध्य-फलदं निगम-वृन्द-तुरगं निरुपमं
सचण्डिकममुं झटिति संहृतपुरं पर-चिदम्बर-नटं हृदि भज ॥
॥८॥अनङ्गपरिपन्थिनमजं क्षिति-धुरन्धरमलं करुणयन्तमखिलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुख-वन्दितपदम् ।
उदञ्चदरविन्दकुल-बन्धुशत-बिम्बरुचि-संहति-सुगन्धि-वपुषं
पतञ्जलिनुतं प्रणवपञ्जर-शुकं पर-चिदम्बर-नटं हृदि भज ॥
॥९॥इति स्तवममुं भुजगपुङ्गव-कृतं प्रतिदिनं पठति यः कृतमुखः
सदः प्रभुपद-द्वितयदर्शनपदं सुललितं चरण-शृङ्ग-रहितम् ।
सरःप्रभव-सम्भव-हरित्पति-हरिप्रमुख-दिव्यनुत-शङ्करपदं
स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥
॥१०॥इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित-नटराजस्तोत्रं सम्पूर्णम्