मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवमहिम्नःस्तोत्रम्

Also spelled: Shivamahimnahstotram · Shivamahimnahsthothram

3

पुष्पदन्तविरचितम्

ॐ नमः शिवाय

महिम्नः पारं ते परमविदुषो यद्यसदृशी

स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्

ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥

॥१॥

अतीतः पन्थानं तव च महिमा वाङ्मनसयोः

अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः

पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥

॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवतः

तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः

पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥

॥३॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्

त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन्वरद रमणीयामरमणीं

विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥

॥४॥

किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं

किमाधारो धाता सृजति किमुपादान इति च ।

अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः

कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् ॥

॥५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां

अधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद्भुवनजनने कः परिकरो

यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥

॥६॥

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति

प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।

रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां

नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥

॥७॥

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः

कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।

सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां

न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥

॥८॥

ध्रुवं कश्चिद्ब्रूते सकलमपरस्त्वं ध्रुवमिति

परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव

स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥

॥९॥

तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधः

परिच्छेत्तुं यातावनिलमनल स्कन्धवपुषः ।

ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्

स्वयं तस्थे ताभ्यां त्वयि किमनुवृत्तिर्न फलति ॥

॥१०॥

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं

दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।

शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः

स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥

॥११॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं

बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि

प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥

॥१२॥

यदङ्घ्रिं सुत्राम्णो वरद परमोच्चैरपि सतीं

अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।

न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः

न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥

॥१३॥

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा

विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो

विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥

॥१४॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे

निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्

स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥

॥१५॥

मही पादाघाताद्व्रजति सहसा संशयपदं

पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्ण ग्रहगणम् ।

मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत जटाताडित तटा

जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥

॥१६॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः

प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।

जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति

अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥

॥१७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो

रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः

विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥

॥१८॥

हरिस्ते साहस्रं कमलबलिमाधाय पदयोः

यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।

गतो भक्त्युद्रेकः परिणतिमसौ चक्र वपुषा

त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥

॥१९॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां

क्व कर्मप्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं

श्रुतौ श्रद्धां बद्धा दृढपरिकरः कर्मसु जनः ॥

॥२०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां

ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।

क्रतुभ्रेषस्त्वत्तः क्रतुफलविधान व्यसनिनः

ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥

॥२१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं

गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं

त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥

॥२२॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्

पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदिस्त्रैणं देवी यमनिरतदेहार्ध घटनात्

अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥

॥२३॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः

चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।

अमङ्गल्यं शीलं तव भवतु नामैवमखिलं

तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥

॥२४॥

मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः

प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः ।

यदालोक्याह्लादं ह्रद इव निमज्यामृतमये

दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥

॥२५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः

त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं

न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥

॥२६॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्

अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः

समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥

॥२७॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः स च महांस्

तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।

अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि

प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते ॥

॥२८॥

नमो नेदिष्ठाय प्रिय वरदविष्ठाय च नमः

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः

नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥

॥२९॥

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः ।

प्रबलतमसे तत्संहारे हराय नमो नमः

प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥

॥३०॥

कृशपरिणतिचेतः क्लेशवश्यं क्वचेदं

क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।

इति चकितममन्दीकृत्य मां भक्तिराधात्

वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥

॥३१॥

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे

सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

यदि लिखति गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानामीश पारं न याति ॥

॥३२॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः

ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकलगुणवरिष्ठः पुष्पदन्ताभिधानः

रुचिरमलघुवृत्तं स्तोत्रमेतच्चकार ॥

॥३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्

पठति परमभक्त्या शुद्धचित्तः पुमान्यः ।

स भवति शिवलोके रुद्रतुल्यस्तथात्र

प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥

॥३४॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥

॥३५॥

फलश्रुतिः

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।

महिम्नःस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥

॥३६॥

कुसुमदशननामा सर्वगन्धर्वराजः

शशिधरवरमौलेर्देवदेवस्य दासः ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्

स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥

॥३७॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं

पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।

व्रजति शिवसमीपं किन्नरैः स्तूयमानः

स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥

॥३८॥

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।

अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥

॥३९॥

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।

अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥

॥४०॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।

या दृशोऽसि महादेव तादृशाय नमो नमः ॥

॥४१॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

॥४२॥

श्री पुष्पदन्तमुखपङ्कजनिर्गतेन

स्तोत्रेण किल्बिषहरेण हरप्रियेण ।

कण्ठस्थितेन पठितेन समाहितेन

सुप्रीणितो भवति भूतपतिर्महेशः ॥

॥४३॥

इति श्रीपुष्पदन्तविरचितं शिवमहिम्नःस्तोत्रं सम्पूर्णम् ।