ध्यानम्
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
- १ॐ श्रीमात्रे नमः
- २ॐ श्रीमहाराज्ञै नमः
- ३ॐ श्रीमत्सिंहासनेश्वर्यै नमः
- ४ॐ चिदग्निकुण्डसम्भूतायै नमः
- ५ॐ देवकार्यसमुद्यतायै नमः
- ६ॐ उद्यद्भानुसहस्राभायै नमः
- ७ॐ चतुर्बाहुसमन्वितायै नमः
- ८ॐ रागस्वरूपपाशाढ्यायै नमः
- ९ॐ क्रोधाकाराङ्कुशोज्ज्वलायै नमः
- १०ॐ मनोरूपेक्षुकोदण्डायै नमः
- ११ॐ पञ्चतन्मात्रसायकायै नमः
- १२ॐ निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डलायै नमः
- १३ॐ चम्पकाशोकपुन्नागसौगन्धिकलसत्कचायै नमः
- १४ॐ कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डितायै नमः
- १५ॐ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितायै नमः
- १६ॐ मुखचन्द्रकलङ्काभमृगनाभिविशेषकायै नमः
- १७ॐ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिकायै नमः
- १८ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः
- १९ॐ नवचम्पकपुष्पाभनासादण्डविराजितायै नमः
- २०ॐ ताराकान्तितिरस्कारिनासाभरणभासुरायै नमः
- २१ॐ कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरायै नमः
- २२ॐ ताटङ्कयुगलीभूततपनोडुपमण्डलायै नमः
- २३ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः
- २४ॐ नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदायै नमः
- २५ॐ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वलायै नमः
- २६ॐ कर्पूरवीटिकामोदसमाकर्षि दिगन्तरायै नमः
- २७ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः
- २८ॐ मन्दस्मितप्रभापूरमज्जत्कामेशमानसायै नमः
- २९ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः
- ३०ॐ कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः
- ३१ॐ कनकाङ्गदकेयूरकमनीयमुजान्वितायै नमः
- ३२ॐ रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्वितायै नमः
- ३३ॐ कामेश्वरप्रेमरत्नमणिप्रतिपणस्तन्यै नमः
- ३४ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः
- ३५ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः
- ३६ॐ स्तनभारदलन्मध्यपट्टबन्धवलित्रयायै नमः
- ३७ॐ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतट्यै नमः
- ३८ॐ रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः
- ३९ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः
- ४०ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः
- ४१ॐ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिकायै नमः
- ४२ॐ गूढगुल्फायै नमः
- ४३ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः
- ४४ॐ नखदीधितिसञ्छन्ननमज्जनतमोगुणायै नमः
- ४५ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः
- ४६ॐ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजायै नमः
- ४७ॐ मरालीमन्दगमनायै नमः
- ४८ॐ महालावण्यशेवधये नमः
- ४९ॐ सर्वारुणायै नमः
- ५०ॐ अनवद्याङ्ग्यै नमः
- ५१ॐ सर्वाभरणभूषितायै नमः
- ५२ॐ शिवकामेश्वराङ्कस्थायै नमः
- ५३ॐ शिवायै नमः
- ५४ॐ स्वाधीनवल्लभायै नमः
- ५५ॐ सुमेरुमध्यशृङ्गस्थायै नमः
- ५६ॐ श्रीमन्नगरनायिकायै नमः
- ५७ॐ चिन्तामणिगृहान्तस्थायै नमः
- ५८ॐ पञ्चब्रह्मासनस्थितायै नमः
- ५९ॐ महापद्माटवीसंस्थायै नमः
- ६०ॐ कदम्बवनवासिन्यै नमः
- ६१ॐ सुधासागरमध्यस्थायै नमः
- ६२ॐ कामाक्ष्यै नमः
- ६३ॐ कामदायिन्यै नमः
- ६४ॐ देवर्षिगणसङ्घातस्तूयमानात्मवैभायै नमः
- ६५ॐ भण्डासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः
- ६६ॐ सम्पत्करीसमारूढसिन्दुरव्रजसेवितायै नमः
- ६७ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः
- ६८ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः
- ६९ॐ गेयचक्ररथारूढमन्त्रिणीपरिसेवितायै नमः
- ७०ॐ किरिचक्ररथारूढदण्डनाथापुरस्कृतायै नमः
- ७१ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः
- ७२ॐ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः
- ७३ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः
- ७४ॐ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दितायै नमः
- ७५ॐ मन्त्रिण्यम्बाविरचितविषङ्गवधतोषितायै नमः
- ७६ॐ विशुक्रप्राणहरणवाराहीवीर्यनन्दितायै नमः
- ७७ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः
- ७८ॐ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षितायै नमः
- ७९ॐ भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः
- ८०ॐ कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः
- ८१ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः
- ८२ॐ कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः
- ८३ॐ ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः
- ८४ॐ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः
- ८५ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः
- ८६ॐ कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः
- ८७ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः
- ८८ॐ मूलमन्त्रात्मिकायै नमः
- ८९ॐ मूलकूटत्रयकलेवरायै नमः
- ९०ॐ कुलामृतैकरसिकायै नमः
- ९१ॐ कुलसङ्केतपालिन्यै नमः
- ९२ॐ कुलाङ्गनायै नमः
- ९३ॐ कुलान्तस्थायै नमः
- ९४ॐ कौलिन्यै नमः
- ९५ॐ कुलयोगिन्यै नमः
- ९६ॐ अकुलायै नमः
- ९७ॐ समयान्तस्थायै नमः
- ९८ॐ समयाचारतत्परायै नमः
- ९९ॐ मूलाधारैकनिलयायै नमः
- १००ॐ ब्रह्मग्रन्थिविभेदिन्यै नमः
- १०१ॐ मणिपूरान्तरुदितायै नमः
- १०२ॐ विष्णुग्रन्थिविभेदिन्यै नमः
- १०३ॐ आज्ञाचक्रान्तरालस्थायै नमः
- १०४ॐ रुद्रग्रन्थिविभेदिन्यै नमः
- १०५ॐ सहस्राराम्बुजारूढायै नमः
- १०६ॐ सुधासाराभिवर्षिण्यै नमः
- १०७ॐ तटिल्लतासमरुच्यै नमः
- १०८ॐ षट्चक्रोपरिसंस्थितायै नमः
- १०९ॐ महासक्त्यै नमः
- ११०ॐ कुण्डलिन्यै नमः
- १११ॐ बिसतन्तुतनीयस्यै नमः
- ११२ॐ भवान्यै नमः
- ११३ॐ भावनागम्यायै नमः
- ११४ॐ भवारण्यकुठारिकायै नमः
- ११५ॐ भद्रप्रियायै नमः
- ११६ॐ भद्रमूर्त्यै नमः
- ११७ॐ भक्तसौभाग्यदायिन्यै नमः
- ११८ॐ भक्तिप्रियायै नमः
- ११९ॐ भक्तिगम्यायै नमः
- १२०ॐ भक्तिवश्यायै नमः
- १२१ॐ भयापहायै नमः
- १२२ॐ शाम्भव्यै नमः
- १२३ॐ शारदाराध्यायै नमः
- १२४ॐ शर्वाण्यै नमः
- १२५ॐ शर्मदायिन्यै नमः
- १२६ॐ शाङ्कर्यै नमः
- १२७ॐ श्रीकर्यै नमः
- १२८ॐ साध्व्यै नमः
- १२९ॐ शरच्चन्द्रनिभाननायै नमः
- १३०ॐ शातोदर्यै नमः
- १३१ॐ शान्तिमत्यै नमः
- १३२ॐ निराधारायै नमः
- १३३ॐ निरञ्जनायै नमः
- १३४ॐ निर्लेपायै नमः
- १३५ॐ निर्मलायै नमः
- १३६ॐ नित्यायै नमः
- १३७ॐ निराकारायै नमः
- १३८ॐ निराकुलायै नमः
- १३९ॐ निर्गुणायै नमः
- १४०ॐ निष्कलायै नमः
- १४१ॐ शान्तायै नमः
- १४२ॐ निष्कामायै नमः
- १४३ॐ निरुपप्लवायै नमः
- १४४ॐ नित्यमुक्तायै नमः
- १४५ॐ निर्विकारायै नमः
- १४६ॐ निष्प्रपञ्चायै नमः
- १४७ॐ निराश्रयायै नमः
- १४८ॐ नित्यशुद्धायै नमः
- १४९ॐ नित्यबुद्धायै नमः
- १५०ॐ निरवद्यायै नमः
- १५१ॐ निरन्तरायै नमः
- १५२ॐ निष्कारणायै नमः
- १५३ॐ निष्कलङ्कायै नमः
- १५४ॐ निरुपाधये नमः
- १५५ॐ निरीश्वरायै नमः
- १५६ॐ नीरागायै नमः
- १५७ॐ रागमथन्यै नमः
- १५८ॐ निर्मदायै नमः
- १५९ॐ मदनाशिन्यै नमः
- १६०ॐ निश्चिन्तायै नमः
- १६१ॐ निरहङ्कारायै नमः
- १६२ॐ निर्मोहायै नमः
- १६३ॐ मोहनाशिन्यै नमः
- १६४ॐ निर्ममायै नमः
- १६५ॐ ममताहन्त्र्यै नमः
- १६६ॐ निष्पापायै नमः
- १६७ॐ पापनाशिन्यै नमः
- १६८ॐ निष्क्रोधायै नमः
- १६९ॐ क्रोधशमन्यै नमः
- १७०ॐ निर्लोभायै नमः
- १७१ॐ लोभनाशिन्यै नमः
- १७२ॐ निःसंशयायै नमः
- १७३ॐ संशयघ्न्यै नमः
- १७४ॐ निर्भवायै नमः
- १७५ॐ भवनाशिन्यै नमः
- १७६ॐ निर्विकल्पायै नमः
- १७७ॐ निराबाधायै नमः
- १७८ॐ निर्भेदायै नमः
- १७९ॐ भेदनाशिन्यै नमः
- १८०ॐ निर्नाशायै नमः
- १८१ॐ मृत्युमथन्यै नमः
- १८२ॐ निष्क्रियायै नमः
- १८३ॐ निष्परिग्रहायै नमः
- १८४ॐ निस्तुलायै नमः
- १८५ॐ नीलचिकुरायै नमः
- १८६ॐ निरपायायै नमः
- १८७ॐ निरत्ययायै नमः
- १८८ॐ दुर्लभायै नमः
- १८९ॐ दुर्गमायै नमः
- १९०ॐ दुर्गायै नमः
- १९१ॐ दुःखहन्त्र्यै नमः
- १९२ॐ सुखप्रदायै नमः
- १९३ॐ दुष्टदूरायै नमः
- १९४ॐ दुराचारशमन्यै नमः
- १९५ॐ दोषवर्जितायै नमः
- १९६ॐ सर्वज्ञायै नमः
- १९७ॐ सान्द्रकरुणायै नमः
- १९८ॐ समानाधिकवर्जितायै नमः
- १९९ॐ सर्वशक्तिमय्यै नमः
- २००ॐ सर्वमङ्गलायै नमः
- २०१ॐ सद्गतिप्रदायै नमः
- २०२ॐ सर्वेश्वर्यै नमः
- २०३ॐ सर्वमय्यै नमः
- २०४ॐ सर्वमन्त्रस्वरूपिण्यै नमः
- २०५ॐ सर्वयन्त्रात्मिकायै नमः
- २०६ॐ सर्वतन्त्ररूपायै नमः
- २०७ॐ मनोन्मन्यै नमः
- २०८ॐ माहेश्वर्यै नमः
- २०९ॐ महादेव्यै नमः
- २१०ॐ महालक्ष्म्यै नमः
- २११ॐ मृडप्रियायै नमः
- २१२ॐ महारूपायै नमः
- २१३ॐ महापूज्यायै नमः
- २१४ॐ महापातकनाशिन्यै नमः
- २१५ॐ महामायायै नमः
- २१६ॐ महासत्वायै नमः
- २१७ॐ महाशक्त्यै नमः
- २१८ॐ महारत्यै नमः
- २१९ॐ महाभोगायै नमः
- २२०ॐ महैश्वर्यायै नमः
- २२१ॐ महावीर्यायै नमः
- २२२ॐ महाबलायै नमः
- २२३ॐ महाबुद्ध्यै नमः
- २२४ॐ महासिद्ध्यै नमः
- २२५ॐ महायोगेश्वरेश्वर्यै नमः
- २२६ॐ महातन्त्रायै नमः
- २२७ॐ महामन्त्रायै नमः
- २२८ॐ महायन्त्रायै नमः
- २२९ॐ महासनायै नमः
- २३०ॐ महायागक्रमाराध्यायै नमः
- २३१ॐ महाभैरवपूजितायै नमः
- २३२ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः
- २३३ॐ महाकामेशमहिष्यै नमः
- २३४ॐ महात्रिपुरसुन्दर्यै नमः
- २३५ॐ चतुःषष्ट्युपचाराढ्यायै नमः
- २३६ॐ चतुःषष्टिकलामय्यै नमः
- २३७ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः
- २३८ॐ मनुविद्यायै नमः
- २३९ॐ चन्द्रविद्यायै नमः
- २४०ॐ चन्द्रमण्डलमध्यगायै नमः
- २४१ॐ चारुरूपायै नमः
- २४२ॐ चारुहासायै नमः
- २४३ॐ चारुचन्द्रकलाधरायै नमः
- २४४ॐ चराचरजगन्नाथायै नमः
- २४५ॐ चक्रराजनिकेतनायै नमः
- २४६ॐ पार्वत्यै नमः
- २४७ॐ पद्मनयनायै नमः
- २४८ॐ पद्मरागसमप्रभायै नमः
- २४९ॐ पञ्चप्रेतासनासीनायै नमः
- २५०ॐ पञ्चब्रह्मस्वरूपिण्यै नमः
- २५१ॐ चिन्मय्यै नमः
- २५२ॐ परमानन्दायै नमः
- २५३ॐ विज्ञानघनरूपिण्यै नमः
- २५४ॐ ध्यानध्यातृध्येयरूपायै नमः
- २५५ॐ धर्माधर्मविवर्जितायै नमः
- २५६ॐ विश्वरूपायै नमः
- २५७ॐ जागरिण्यै नमः
- २५८ॐ स्वपत्न्यै नमः
- २५९ॐ तैजसात्मिकायै नमः
- २६०ॐ सुप्तायै नमः
- २६१ॐ प्राज्ञात्मिकायै नमः
- २६२ॐ तुर्यायै नमः
- २६३ॐ सर्वावस्थाविवर्जितायै नमः
- २६४ॐ सृष्टिकर्त्र्यै नमः
- २६५ॐ ब्रह्मरूपायै नमः
- २६६ॐ गोप्त्र्यै नमः
- २६७ॐ गोविन्दरूपिण्यै नमः
- २६८ॐ संहारिण्यै नमः
- २६९ॐ रुद्ररूपायै नमः
- २७०ॐ तिरोधानकर्यै नमः
- २७१ॐ ईश्वर्यै नमः
- २७२ॐ सदाशिवायै नमः
- २७३ॐ अनुग्रहदायै नमः
- २७४ॐ पञ्चकृत्यपरायणायै नमः
- २७५ॐ भानुमण्डलमध्यस्थायै नमः
- २७६ॐ भैरव्यै नमः
- २७७ॐ भगमालिन्यै नमः
- २७८ॐ पद्मासनायै नमः
- २७९ॐ भगवत्यै नमः
- २८०ॐ पद्मनाभसहोदर्यै नमः
- २८१ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः
- २८२ॐ सहस्रशीर्षवदनायै नमः
- २८३ॐ सहस्राक्ष्यै नमः
- २८४ॐ सहस्रपदे नमः
- २८५ॐ आब्रह्मकीटजनन्यै नमः
- २८६ॐ वर्णाश्रमविधायिन्यै नमः
- २८७ॐ निजाज्ञारूपनिगमायै नमः
- २८८ॐ पुण्यापुण्यफलप्रदायै नमः
- २८९ॐ श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः
- २९०ॐ सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः
- २९१ॐ पुरुषार्थप्रदायै नमः
- २९२ॐ पूर्णायै नमः
- २९३ॐ भोगिन्यै नमः
- २९४ॐ भुवनेश्वर्यै नमः
- २९५ॐ अम्बिकायै नमः
- २९६ॐ अनादिनिधनायै नमः
- २९७ॐ हरिब्रह्मेन्द्रसेवितायै नमः
- २९८ॐ नारायण्यै नमः
- २९९ॐ नादरूपायै नमः
- ३००ॐ नामरूपविवर्जितायै नमः
- ३०१ॐ ह्रीङ्कार्यै नमः
- ३०२ॐ ह्रीमत्यै नमः
- ३०३ॐ हृद्यायै नमः
- ३०४ॐ हेयोपादेयवर्जितायै नमः
- ३०५ॐ राजराजार्चितायै नमः
- ३०६ॐ राज्ञै नमः
- ३०७ॐ रम्यायै नमः
- ३०८ॐ राजीवलोचनायै नमः
- ३०९ॐ रञ्जन्यै नमः
- ३१०ॐ रमण्यै नमः
- ३११ॐ रस्यायै नमः
- ३१२ॐ रणत्किङ्किणिमेखलायै नमः
- ३१३ॐ रमायै नमः
- ३१४ॐ राकेन्दुवदनायै नमः
- ३१५ॐ रतिरूपायै नमः
- ३१६ॐ रतिप्रियायै नमः
- ३१७ॐ रक्षाकर्यै नमः
- ३१८ॐ राक्षसघ्न्यै नमः
- ३१९ॐ रामायै नमः
- ३२०ॐ रमणलम्पटायै नमः
- ३२१ॐ काम्यायै नमः
- ३२२ॐ कामकलारूपायै नमः
- ३२३ॐ कदम्बकुसुमप्रियायै नमः
- ३२४ॐ कल्याण्यै नमः
- ३२५ॐ जगतीकन्दायै नमः
- ३२६ॐ करुणारससागरायै नमः
- ३२७ॐ कलावत्यै नमः
- ३२८ॐ कलालापायै नमः
- ३२९ॐ कान्तायै नमः
- ३३०ॐ कादम्बरीप्रियायै नमः
- ३३१ॐ वरदायै नमः
- ३३२ॐ वामनयनायै नमः
- ३३३ॐ वारुणीमदविह्वलायै नमः
- ३३४ॐ विश्वाधिकायै नमः
- ३३५ॐ वेदवेद्यायै नमः
- ३३६ॐ विन्ध्याचलनिवासिन्यै नमः
- ३३७ॐ विधात्र्यै नमः
- ३३८ॐ वेदजनन्यै नमः
- ३३९ॐ विष्णुमायायै नमः
- ३४०ॐ विलासिन्यै नमः
- ३४१ॐ क्षेत्रस्वरूपायै नमः
- ३४२ॐ क्षेत्रेश्यै नमः
- ३४३ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः
- ३४४ॐ क्षयवृद्धिविनिर्मुक्तायै नमः
- ३४५ॐ क्षेत्रपालसमर्चितायै नमः
- ३४६ॐ विजयायै नमः
- ३४७ॐ विमलायै नमः
- ३४८ॐ वन्द्यायै नमः
- ३४९ॐ वन्दारुजनवत्सलायै नमः
- ३५०ॐ वाग्वादिन्यै नमः
- ३५१ॐ वामकेश्यै नमः
- ३५२ॐ वह्निमण्डलवासिन्यै नमः
- ३५३ॐ भक्तिमत्कल्पलतिकायै नमः
- ३५४ॐ पशुपाशविमोचिन्यै नमः
- ३५५ॐ संहृताशेषपाषण्डायै नमः
- ३५६ॐ सदाचारप्रवर्तिकायै नमः
- ३५७ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः
- ३५८ॐ तरुण्यै नमः
- ३५९ॐ तापसाराध्यायै नमः
- ३६०ॐ तनुमध्यायै नमः
- ३६१ॐ तमोपहायै नमः
- ३६२ॐ चित्यै नमः
- ३६३ॐ तत्पदलक्ष्यार्थायै नमः
- ३६४ॐ चिदेकरसरूपिण्यै नमः
- ३६५ॐ स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्तत्यै नमः
- ३६६ॐ परायै नमः
- ३६७ॐ प्रत्यक् चितीरूपायै नमः
- ३६८ॐ पश्यन्त्यै नमः
- ३६९ॐ परदेवतायै नमः
- ३७०ॐ मध्यमायै नमः
- ३७१ॐ वैखरीरूपायै नमः
- ३७२ॐ भक्तमानसहंसिकायै नमः
- ३७३ॐ कामेश्वरप्राणनाड्यै नमः
- ३७४ॐ कृतज्ञायै नमः
- ३७५ॐ कामपूजितायै नमः
- ३७६ॐ शृङ्गाररससम्पूर्णायै नमः
- ३७७ॐ जयायै नमः
- ३७८ॐ जालन्धरस्थितायै नमः
- ३७९ॐ ओड्याणपीठनिलयायै नमः
- ३८०ॐ बिन्दुमण्डलवासिन्यै नमः
- ३८१ॐ रहोयागक्रमाराध्यायै नमः
- ३८२ॐ रहस्तर्पणतर्पितायै नमः
- ३८३ॐ सद्यः प्रसादिन्यै नमः
- ३८४ॐ विश्वसाक्षिण्यै नमः
- ३८५ॐ साक्षिवर्जितायै नमः
- ३८६ॐ षडङ्गदेवतायुक्तायै नमः
- ३८७ॐ षाड्गुण्यपरिपूरितायै नमः
- ३८८ॐ नित्यक्लिन्नायै नमः
- ३८९ॐ निरुपमायै नमः
- ३९०ॐ निर्वाणसुखदायिन्यै नमः
- ३९१ॐ नित्याषोडशिकारूपायै नमः
- ३९२ॐ श्रीकण्ठार्धशरीरिण्यै नमः
- ३९३ॐ प्रभावत्यै नमः
- ३९४ॐ प्रभारूपायै नमः
- ३९५ॐ प्रसिद्धायै नमः
- ३९६ॐ परमेश्वर्यै नमः
- ३९७ॐ मूलप्रकृत्यै नमः
- ३९८ॐ अव्यक्तायै नमः
- ३९९ॐ व्यक्ताव्यक्तस्वरूपिण्यै नमः
- ४००ॐ व्यापिन्यै नमः
- ४०१ॐ विविधाकारायै नमः
- ४०२ॐ विद्याविद्यास्वरूपिण्यै नमः
- ४०३ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः
- ४०४ॐ भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः
- ४०५ॐ शिवदूत्यै नमः
- ४०६ॐ शिवाराध्यायै नमः
- ४०७ॐ शिवमूर्त्यै नमः
- ४०८ॐ शिवङ्कर्यै नमः
- ४०९ॐ शिवप्रियायै नमः
- ४१०ॐ शिवपरायै नमः
- ४११ॐ शिष्टेष्टायै नमः
- ४१२ॐ शिष्टपूजितायै नमः
- ४१३ॐ अप्रमेयायै नमः
- ४१४ॐ स्वप्रकाशायै नमः
- ४१५ॐ मनोवाचामगोचरायै नमः
- ४१६ॐ चिच्छक्त्यै नमः
- ४१७ॐ चेतनारूपायै नमः
- ४१८ॐ जडशक्त्यै नमः
- ४१९ॐ जडात्मिकायै नमः
- ४२०ॐ गायत्र्यै नमः
- ४२१ॐ व्याहृत्यै नमः
- ४२२ॐ सन्ध्यायै नमः
- ४२३ॐ द्विजवृन्दनिषेवितायै नमः
- ४२४ॐ तत्त्वासनायै नमः
- ४२५ॐ तस्मै नमः
- ४२६ॐ तुभ्यं नमः
- ४२७ॐ अय्यै नमः
- ४२८ॐ पञ्चकोशान्तरस्थितायै नमः
- ४२९ॐ निःसीममहिम्ने नमः
- ४३०ॐ नित्ययौवनायै नमः
- ४३१ॐ मदशालिन्यै नमः
- ४३२ॐ मदघूर्णितरक्ताक्ष्यै नमः
- ४३३ॐ मदपाटलगण्डभुवे नमः
- ४३४ॐ चन्दनद्रवदिग्धाङ्ग्यै नमः
- ४३५ॐ चाम्पेयकुसुमप्रियायै नमः
- ४३६ॐ कुशलायै नमः
- ४३७ॐ कोमलाकारायै नमः
- ४३८ॐ कुरुकुल्लायै नमः
- ४३९ॐ कुलेश्वर्यै नमः
- ४४०ॐ कुलकुण्डालयायै नमः
- ४४१ॐ कौलमार्गतत्परसेवितायै नमः
- ४४२ॐ कुमारगणनाथाम्बायै नमः
- ४४३ॐ तुष्ट्यै नमः
- ४४४ॐ पुष्ट्यै नमः
- ४४५ॐ मत्यै नमः
- ४४६ॐ धृत्यै नमः
- ४४७ॐ शान्त्यै नमः
- ४४८ॐ स्वस्तिमत्यै नमः
- ४४९ॐ कान्त्यै नमः
- ४५०ॐ नन्दिन्यै नमः
- ४५१ॐ विघ्ननाशिन्यै नमः
- ४५२ॐ तेजोवत्यै नमः
- ४५३ॐ त्रिनयनायै नमः
- ४५४ॐ लोलाक्षीकामरूपिण्यै नमः
- ४५५ॐ मालिन्यै नमः
- ४५६ॐ हंसिन्यै नमः
- ४५७ॐ मात्रे नमः
- ४५८ॐ मलयाचलवासिन्यै नमः
- ४५९ॐ सुमुख्यै नमः
- ४६०ॐ नलिन्यै नमः
- ४६१ॐ सुभ्रुवे नमः
- ४६२ॐ शोभनायै नमः
- ४६३ॐ सुरनायिकायै नमः
- ४६४ॐ कालकण्ठ्यै नमः
- ४६५ॐ कान्तिमत्यै नमः
- ४६६ॐ क्षोभिण्यै नमः
- ४६७ॐ सूक्ष्मरूपिण्यै नमः
- ४६८ॐ वज्रेश्वर्यै नमः
- ४६९ॐ वामदेव्यै नमः
- ४७०ॐ वयोऽवस्थाविवर्जितायै नमः
- ४७१ॐ सिद्धेश्वर्यै नमः
- ४७२ॐ सिद्धविद्यायै नमः
- ४७३ॐ सिद्धमात्रे नमः
- ४७४ॐ यशस्विन्यै नमः
- ४७५ॐ विशुद्धिचक्रनिलयायै नमः
- ४७६ॐ आरक्तवर्णायै नमः
- ४७७ॐ त्रिलोचनायै नमः
- ४७८ॐ खट्वाङ्गादिप्रहरणायै नमः
- ४७९ॐ वदनैकसमन्वितायै नमः
- ४८०ॐ पायसान्नप्रियायै नमः
- ४८१ॐ त्वक्स्थायै नमः
- ४८२ॐ पशुलोकभयङ्कर्यै नमः
- ४८३ॐ अमृतादिमहाशक्तिसंवृतायै नमः
- ४८४ॐ डाकिनीश्वर्यै नमः
- ४८५ॐ अनाहताब्जनिलयायै नमः
- ४८६ॐ श्यामाभायै नमः
- ४८७ॐ वदनद्वयायै नमः
- ४८८ॐ दंष्ट्रोज्वलायै नमः
- ४८९ॐ अक्षमालादिधरायै नमः
- ४९०ॐ रुधिरसंस्थितायै नमः
- ४९१ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः
- ४९२ॐ स्निग्धौदनप्रियायै नमः
- ४९३ॐ महावीरेन्द्रवरदायै नमः
- ४९४ॐ राकिण्यम्बास्वरूपिण्यै नमः
- ४९५ॐ मणिपूराब्जनिलयायै नमः
- ४९६ॐ वदनत्रयसंयुतायै नमः
- ४९७ॐ वज्राधिकायुधोपेतायै नमः
- ४९८ॐ डामर्यादिभिरावृतायै नमः
- ४९९ॐ रक्तवर्णायै नमः
- ५००ॐ मांसनिष्ठायै नमः
- ५०१ॐ गुडान्नप्रीतमानसायै नमः
- ५०२ॐ समस्तभक्तसुखदायै नमः
- ५०३ॐ लाकिन्यम्बास्वरूपिण्यै नमः
- ५०४ॐ स्वाधिष्ठानाम्बुजगतायै नमः
- ५०५ॐ चतुर्वक्त्रमनोहरायै नमः
- ५०६ॐ शूलाद्यायुधसम्पन्नायै नमः
- ५०७ॐ पीतवर्णायै नमः
- ५०८ॐ अतिगर्वितायै नमः
- ५०९ॐ मेदोनिष्ठायै नमः
- ५१०ॐ मधुप्रीतायै नमः
- ५११ॐ बन्दिन्यादिसमन्वितायै नमः
- ५१२ॐ दध्यन्नासक्तहृदयायै नमः
- ५१३ॐ काकिनीरूपधारिण्यै नमः
- ५१४ॐ मूलाधाराम्बुजारूढायै नमः
- ५१५ॐ पञ्चवक्त्रायै नमः
- ५१६ॐ अस्थिसंस्थितायै नमः
- ५१७ॐ अङ्कुशादिप्रहरणायै नमः
- ५१८ॐ वरदादि निषेवितायै नमः
- ५१९ॐ मुद्गौदनासक्तचित्तायै नमः
- ५२०ॐ साकिन्यम्बास्वरूपिण्यै नमः
- ५२१ॐ आज्ञाचक्राब्जनिलायै नमः
- ५२२ॐ शुक्लवर्णायै नमः
- ५२३ॐ षडाननायै नमः
- ५२४ॐ मज्जासंस्थायै नमः
- ५२५ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः
- ५२६ॐ हरिद्रान्नैकरसिकायै नमः
- ५२७ॐ हाकिनीरूपधारिण्यै नमः
- ५२८ॐ सहस्रदलपद्मस्थायै नमः
- ५२९ॐ सर्ववर्णोपशोभितायै नमः
- ५३०ॐ सर्वायुधधरायै नमः
- ५३१ॐ शुक्लसंस्थितायै नमः
- ५३२ॐ सर्वतोमुख्यै नमः
- ५३३ॐ सर्वौदनप्रीतचित्तायै नमः
- ५३४ॐ याकिन्यम्बास्वरूपिण्यै नमः
- ५३५ॐ स्वाहायै नमः
- ५३६ॐ स्वधायै नमः
- ५३७ॐ अमत्यै नमः
- ५३८ॐ मेधायै नमः
- ५३९ॐ श्रुत्यै नमः
- ५४०ॐ स्मृत्यै नमः
- ५४१ॐ अनुत्तमायै नमः
- ५४२ॐ पुण्यकीर्त्यै नमः
- ५४३ॐ पुण्यलभ्यायै नमः
- ५४४ॐ पुण्यश्रवणकीर्तनायै नमः
- ५४५ॐ पुलोमजार्चितायै नमः
- ५४६ॐ बन्धमोचन्यै नमः
- ५४७ॐ बर्बरालकायै नमः
- ५४८ॐ विमर्शरूपिण्यै नमः
- ५४९ॐ विद्यायै नमः
- ५५०ॐ वियदादिजगत्प्रसुवे नमः
- ५५१ॐ सर्व व्याधिप्रशमन्यै नमः
- ५५२ॐ सर्व मृत्युनिवारिण्यै नमः
- ५५३ॐ अग्रगण्यायै नमः
- ५५४ॐ अचिन्त्यरूपायै नमः
- ५५५ॐ कलिकल्मषनाशिन्यै नमः
- ५५६ॐ कात्यायन्यै नमः
- ५५७ॐ कालहन्त्र्यै नमः
- ५५८ॐ कमलाक्षनिषेवितायै नमः
- ५५९ॐ ताम्बूलपूरितमुख्यै नमः
- ५६०ॐ दाडिमीकुसुमप्रभायै नमः
- ५६१ॐ मृगाक्ष्यै नमः
- ५६२ॐ मोहिन्यै नमः
- ५६३ॐ मुख्यायै नमः
- ५६४ॐ मृडान्यै नमः
- ५६५ॐ मित्ररूपिण्यै नमः
- ५६६ॐ नित्यतृप्तायै नमः
- ५६७ॐ भक्तनिधये नमः
- ५६८ॐ नियन्त्र्यै नमः
- ५६९ॐ निखिलेश्वर्यै नमः
- ५७०ॐ मैत्र्यादिवासनालभ्यायै नमः
- ५७१ॐ महाप्रलयसाक्षिण्यै नमः
- ५७२ॐ पराशक्त्यै नमः
- ५७३ॐ परानिष्ठायै नमः
- ५७४ॐ प्रज्ञानघनरूपिण्यै नमः
- ५७५ॐ माध्वीपानालसायै नमः
- ५७६ॐ मत्तायै नमः
- ५७७ॐ मातृकावर्ण रूपिण्यै नमः
- ५७८ॐ महाकैलासनिलयायै नमः
- ५७९ॐ मृणालमृदुदोर्लतायै नमः
- ५८०ॐ महनीयायै नमः
- ५८१ॐ दयामूर्त्यै नमः
- ५८२ॐ महासाम्राज्यशालिन्यै नमः
- ५८३ॐ आत्मविद्यायै नमः
- ५८४ॐ महाविद्यायै नमः
- ५८५ॐ श्रीविद्यायै नमः
- ५८६ॐ कामसेवितायै नमः
- ५८७ॐ श्रीषोडशाक्षरीविद्यायै नमः
- ५८८ॐ त्रिकूटायै नमः
- ५८९ॐ कामकोटिकायै नमः
- ५९०ॐ कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः
- ५९१ॐ शिरःस्थितायै नमः
- ५९२ॐ चन्द्रनिभायै नमः
- ५९३ॐ भालस्थायै नमः
- ५९४ॐ इन्द्रधनुःप्रभायै नमः
- ५९५ॐ हृदयस्थायै नमः
- ५९६ॐ रविप्रख्यायै नमः
- ५९७ॐ त्रिकोणान्तरदीपिकायै नमः
- ५९८ॐ दाक्षायण्यै नमः
- ५९९ॐ दैत्यहन्त्र्यै नमः
- ६००ॐ दक्षयज्ञविनाशिन्यै नमः
- ६०१ॐ दरान्दोलितदीर्घाक्ष्यै नमः
- ६०२ॐ दरहासोज्ज्वलन्मुख्यै नमः
- ६०३ॐ गुरुमूर्तये नमः
- ६०४ॐ गुणनिधये नमः
- ६०५ॐ गोमात्रे नमः
- ६०६ॐ गुहजन्मभुवे नमः
- ६०७ॐ देवेश्यै नमः
- ६०८ॐ दण्डनीतिस्थायै नमः
- ६०९ॐ दहराकाशरूपिण्यै नमः
- ६१०ॐ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः
- ६११ॐ कलात्मिकायै नमः
- ६१२ॐ कलानाथायै नमः
- ६१३ॐ काव्यालापविनोदिन्यै नमः
- ६१४ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः
- ६१५ॐ आदिशक्तयै नमः
- ६१६ॐ अमेयायै नमः
- ६१७ॐ आत्मने नमः
- ६१८ॐ परमायै नमः
- ६१९ॐ पावनाकृतये नमः
- ६२०ॐ अनेककोटिब्रह्माण्डजनन्यै नमः
- ६२१ॐ दिव्यविग्रहायै नमः
- ६२२ॐ क्लीङ्कार्यै नमः
- ६२३ॐ केवलायै नमः
- ६२४ॐ गुह्यायै नमः
- ६२५ॐ कैवल्यपददायिन्यै नमः
- ६२६ॐ त्रिपुरायै नमः
- ६२७ॐ त्रिजगद्वन्द्यायै नमः
- ६२८ॐ त्रिमूर्त्यै नमः
- ६२९ॐ त्रिदशेश्वर्यै नमः
- ६३०ॐ त्र्यक्षर्यै नमः
- ६३१ॐ दिव्यगन्धाढ्यायै नमः
- ६३२ॐ सिन्दूरतिलकाञ्चितायै नमः
- ६३३ॐ उमायै नमः
- ६३४ॐ शैलेन्द्रतनयायै नमः
- ६३५ॐ गौर्यै नमः
- ६३६ॐ गन्धर्वसेवितायै नमः
- ६३७ॐ विश्वगर्भायै नमः
- ६३८ॐ स्वर्णगर्भायै नमः
- ६३९ॐ अवरदायै नमः
- ६४०ॐ वागधीश्वर्यै नमः
- ६४१ॐ ध्यानगम्यायै नमः
- ६४२ॐ अपरिच्छेद्यायै नमः
- ६४३ॐ ज्ञानदायै नमः
- ६४४ॐ ज्ञानविग्रहायै नमः
- ६४५ॐ सर्ववेदान्तसंवेद्यायै नमः
- ६४६ॐ सत्यानन्दस्वरूपिण्यै नमः
- ६४७ॐ लोपामुद्रार्चितायै नमः
- ६४८ॐ लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः
- ६४९ॐ अदृश्यायै नमः
- ६५०ॐ दृश्यरहितायै नमः
- ६५१ॐ विज्ञात्र्यै नमः
- ६५२ॐ वेद्यवर्जितायै नमः
- ६५३ॐ योगिन्यै नमः
- ६५४ॐ योगदायै नमः
- ६५५ॐ योग्यायै नमः
- ६५६ॐ योगानन्दायै नमः
- ६५७ॐ युगन्धरायै नमः
- ६५८ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः
- ६५९ॐ सर्वाधारायै नमः
- ६६०ॐ सुप्रतिष्ठायै नमः
- ६६१ॐ सदसद्रूपधारिण्यै नमः
- ६६२ॐ अष्टमूर्त्यै नमः
- ६६३ॐ अजाजैत्र्यै नमः
- ६६४ॐ लोकयात्राविधायिन्यै नमः
- ६६५ॐ एकाकिन्यै नमः
- ६६६ॐ भूमरूपायै नमः
- ६६७ॐ निद्वैतायै नमः
- ६६८ॐ द्वैतवर्जितायै नमः
- ६६९ॐ अन्नदायै नमः
- ६७०ॐ वसुदायै नमः
- ६७१ॐ वृद्धायै नमः
- ६७२ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः
- ६७३ॐ बृहत्यै नमः
- ६७४ॐ ब्राह्मण्यै नमः
- ६७५ॐ ब्राह्म्यै नमः
- ६७६ॐ ब्रह्मानन्दायै नमः
- ६७७ॐ बलिप्रियायै नमः
- ६७८ॐ भाषारूपायै नमः
- ६७९ॐ बृहत्सेनायै नमः
- ६८०ॐ भावाभावविर्जितायै नमः
- ६८१ॐ सुखाराध्यायै नमः
- ६८२ॐ शुभकर्यै नमः
- ६८३ॐ शोभनासुलभागत्यै नमः
- ६८४ॐ शोभनायै सुलभायै गत्यै ॐ राजराजेश्वर्यै नमः
- ६८५ॐ राज्यदायिन्यै नमः
- ६८६ॐ राज्यवल्लभायै नमः
- ६८७ॐ राजत्कृपायै नमः
- ६८८ॐ राजपीठनिवेशितनिजाश्रितायै नमः
- ६८९ॐ राज्यलक्ष्म्यै नमः
- ६९०ॐ कोशनाथायै नमः
- ६९१ॐ चतुरङ्गबलेश्वर्यै नमः
- ६९२ॐ साम्राज्यदायिन्यै नमः
- ६९३ॐ सत्यसन्धायै नमः
- ६९४ॐ सागरमेखलायै नमः
- ६९५ॐ दीक्षितायै नमः
- ६९६ॐ दैत्यशमन्यै नमः
- ६९७ॐ सर्वलोकवंशकर्यै नमः
- ६९८ॐ सर्वार्थदात्र्यै नमः
- ६९९ॐ सावित्र्यै नमः
- ७००ॐ सच्चिदानन्दरूपिण्यै नमः
- ७०१ॐ देशकालापरिच्छिन्नायै नमः
- ७०२ॐ सर्वगायै नमः
- ७०३ॐ सर्वमोहिन्यै नमः
- ७०४ॐ सरस्वत्यै नमः
- ७०५ॐ शास्त्रमय्यै नमः
- ७०६ॐ गुहाम्बायै नमः
- ७०७ॐ गुह्यरूपिण्यै नमः
- ७०८ॐ सर्वोपाधिविनिर्मुक्तायै नमः
- ७०९ॐ सदाशिवपतिव्रतायै नमः
- ७१०ॐ सम्प्रदायेश्वर्यै नमः
- ७११ॐ साधुने नमः
- ७१२ॐ यै नमः
- ७१३ॐ गुरुमण्डलरूपिण्यै नमः
- ७१४ॐ कुलोत्तीर्णायै नमः
- ७१५ॐ भगाराध्यायै नमः
- ७१६ॐ मायायै नमः
- ७१७ॐ मधुमत्यै नमः
- ७१८ॐ मह्यै नमः
- ७१९ॐ गणाम्बायै नमः
- ७२०ॐ गुह्यकाराध्यायै नमः
- ७२१ॐ कोमलाङ्ग्यै नमः
- ७२२ॐ गुरुप्रियायै नमः
- ७२३ॐ स्वतन्त्रायै नमः
- ७२४ॐ सर्वतन्त्रेश्यै नमः
- ७२५ॐ दक्षिणामूर्तिरूपिण्यै नमः
- ७२६ॐ सनकादिसमाराध्यायै नमः
- ७२७ॐ शिवज्ञानप्रदायिन्यै नमः
- ७२८ॐ चित्कलायै नमः
- ७२९ॐ आनन्दकलिकायै नमः
- ७३०ॐ प्रेमरूपायै नमः
- ७३१ॐ प्रियङ्कर्यै नमः
- ७३२ॐ नामपारायणप्रीतायै नमः
- ७३३ॐ नन्दिविद्यायै नमः
- ७३४ॐ नटेश्वर्यै नमः
- ७३५ॐ मिथ्याजगदधिष्ठानायै नमः
- ७३६ॐ मुक्तिदायै नमः
- ७३७ॐ मुक्तिरूपिण्यै नमः
- ७३८ॐ लास्यप्रियायै नमः
- ७३९ॐ लयकर्यै नमः
- ७४०ॐ लज्जायै नमः
- ७४१ॐ रम्भादिवन्दितायै नमः
- ७४२ॐ भवदावसुधावृष्ट्यै नमः
- ७४३ॐ पापारण्यदवानलायै नमः
- ७४४ॐ दौर्भाग्यतूलवातूलायै नमः
- ७४५ॐ जराध्वान्तरविप्रभायै नमः
- ७४६ॐ भाग्याब्धिचन्द्रिकायै नमः
- ७४७ॐ भक्तचित्तकेकिघनाघनायै नमः
- ७४८ॐ रोगपर्वतदम्भोलये नमः
- ७४९ॐ मृत्युदारुकुठारिकायै नमः
- ७५०ॐ महेश्वर्यै नमः
- ७५१ॐ महाकाल्यै नमः
- ७५२ॐ महाग्रासायै नमः
- ७५३ॐ महाशनायै नमः
- ७५४ॐ अपर्णायै नमः
- ७५५ॐ चण्डिकायै नमः
- ७५६ॐ चण्डमुण्डासुरनिषूदिन्यै नमः
- ७५७ॐ क्षराक्षरात्मिकायै नमः
- ७५८ॐ सर्वलोकेश्यै नमः
- ७५९ॐ विश्वधारिण्यै नमः
- ७६०ॐ त्रिवर्गदात्र्यै नमः
- ७६१ॐ सुभगायै नमः
- ७६२ॐ त्र्यम्बकायै नमः
- ७६३ॐ त्रिगुणात्मिकायै नमः
- ७६४ॐ स्वर्गापवर्गदायै नमः
- ७६५ॐ शुद्धायै नमः
- ७६६ॐ जपापुष्पनिभाकृतये नमः
- ७६७ॐ ओजोवत्यै नमः
- ७६८ॐ द्युतिधरायै नमः
- ७६९ॐ यज्ञरूपायै नमः
- ७७०ॐ प्रियव्रतायै नमः
- ७७१ॐ दुराराध्यायै नमः
- ७७२ॐ दुराधर्षायै नमः
- ७७३ॐ पाटलीकुसुमप्रियायै नमः
- ७७४ॐ महत्यै नमः
- ७७५ॐ मेरुनिलयायै नमः
- ७७६ॐ मन्दारकुसुमप्रियायै नमः
- ७७७ॐ वीराराध्यायै नमः
- ७७८ॐ विराड्रूपायै नमः
- ७७९ॐ विरजसे नमः
- ७८०ॐ विश्वतोमुख्यै नमः
- ७८१ॐ प्रत्यग्रूपायै नमः
- ७८२ॐ पराकाशायै नमः
- ७८३ॐ प्राणदायै नमः
- ७८४ॐ प्राणरूपिण्यै नमः
- ७८५ॐ मार्ताण्डभैरवाराध्यायै नमः
- ७८६ॐ मन्त्रिणीन्यस्तराज्यधुरे नमः
- ७८७ॐ त्रिपुरेश्यै नमः
- ७८८ॐ जयत्सेनायै नमः
- ७८९ॐ निस्त्रैगुण्यायै नमः
- ७९०ॐ परापरायै नमः
- ७९१ॐ सत्यज्ञानानन्दरूपायै नमः
- ७९२ॐ सामरस्यपरायणायै नमः
- ७९३ॐ कपर्दिन्यै नमः
- ७९४ॐ कलामालायै नमः
- ७९५ॐ कामदुघे नमः
- ७९६ॐ कामरूपिण्यै नमः
- ७९७ॐ कलानिधये नमः
- ७९८ॐ काव्यकलायै नमः
- ७९९ॐ रसज्ञायै नमः
- ८००ॐ रसशेवधये नमः
- ८०१ॐ पुष्टायै नमः
- ८०२ॐ पुरातनायै नमः
- ८०३ॐ पूज्यायै नमः
- ८०४ॐ पुष्करायै नमः
- ८०५ॐ पुष्करेक्षणायै नमः
- ८०६ॐ परस्मै ज्योतिषे नमः
- ८०७ॐ परस्मै धाम्ने नमः
- ८०८ॐ परमाणवे नमः
- ८०९ॐ परात्परायै नमः
- ८१०ॐ पाशहस्तायै नमः
- ८११ॐ पाशहन्त्र्यै नमः
- ८१२ॐ परमन्त्रविभेदिन्यै नमः
- ८१३ॐ मूर्तायै नमः
- ८१४ॐ अमूर्तायै नमः
- ८१५ॐ अनित्यतृप्तायै नमः
- ८१६ॐ मुनिमानसहंसिकायै नमः
- ८१७ॐ सत्यव्रतायै नमः
- ८१८ॐ सत्यरूपायै नमः
- ८१९ॐ सर्वान्तर्यामिण्यै नमः
- ८२०ॐ सत्यै नमः
- ८२१ॐ ब्रह्माण्यै नमः
- ८२२ॐ ब्रह्मणे नमः
- ८२३ॐ जनन्यै नमः
- ८२४ॐ बहुरूपायै नमः
- ८२५ॐ बुधार्चितायै नमः
- ८२६ॐ प्रसवित्र्यै नमः
- ८२७ॐ प्रचण्डायै नमः
- ८२८ॐ आज्ञायै नमः
- ८२९ॐ प्रतिष्ठायै नमः
- ८३०ॐ प्रकटाकृतये नमः
- ८३१ॐ प्राणेश्वर्यै नमः
- ८३२ॐ प्राणदात्र्यै नमः
- ८३३ॐ पञ्चाशत्पीठरूपिण्यै नमः
- ८३४ॐ विशृङ्खलायै नमः
- ८३५ॐ विविक्तस्थायै नमः
- ८३६ॐ वीरमात्रे नमः
- ८३७ॐ वियत्प्रसुवे नमः
- ८३८ॐ मुकुन्दायै नमः
- ८३९ॐ मुक्तिनिलयायै नमः
- ८४०ॐ मूलविग्रहरूपिण्यै नमः
- ८४१ॐ भावज्ञायै नमः
- ८४२ॐ भवरोगघ्न्यै नमः
- ८४३ॐ भवचक्रप्रवर्तिन्यै नमः
- ८४४ॐ छन्दःसारायै नमः
- ८४५ॐ शास्त्रसारायै नमः
- ८४६ॐ मन्त्रसारायै नमः
- ८४७ॐ तलोदर्यै नमः
- ८४८ॐ उदारकीर्तये नमः
- ८४९ॐ उद्दामवैभवायै नमः
- ८५०ॐ वर्णरूपिण्यै नमः
- ८५१ॐ जन्ममृत्युजरातप्तजन विश्रान्तिदायिन्यै नमः
- ८५२ॐ सर्वोपनिषदुद् घुष्टायै नमः
- ८५३ॐ शान्त्यतीतकलात्मिकायै नमः
- ८५४ॐ गम्भीरायै नमः
- ८५५ॐ गगनान्तस्थायै नमः
- ८५६ॐ गर्वितायै नमः
- ८५७ॐ गानलोलुपायै नमः
- ८५८ॐ कल्पनारहितायै नमः
- ८५९ॐ काष्ठायै नमः
- ८६०ॐ अकान्तायै नमः
- ८६१ॐ कान्तार्धविग्रहायै नमः
- ८६२ॐ कार्यकारणनिर्मुक्तायै नमः
- ८६३ॐ कामकेलितरङ्गितायै नमः
- ८६४ॐ कनत्कनकताटङ्कायै नमः
- ८६५ॐ लीलाविग्रहधारिण्यै नमः
- ८६६ॐ अजायै नमः
- ८६७ॐ क्षयविनिर्मुक्तायै नमः
- ८६८ॐ मुग्धायै नमः
- ८६९ॐ क्षिप्रप्रसादिन्यै नमः
- ८७०ॐ अन्तर्मुखसमाराध्यायै नमः
- ८७१ॐ बहिर्मुखसुदुर्लभायै नमः
- ८७२ॐ त्रय्यै नमः
- ८७३ॐ त्रिवर्गनिलयायै नमः
- ८७४ॐ त्रिस्थायै नमः
- ८७५ॐ त्रिपुरमालिन्यै नमः
- ८७६ॐ निरामयायै नमः
- ८७७ॐ निरालम्बायै नमः
- ८७८ॐ स्वात्मारामायै नमः
- ८७९ॐ सुधासृत्यै नमः
- ८८०ॐ संसारपङ्कनिर्मग्न समुद्धरणपण्डितायै नमः
- ८८१ॐ यज्ञप्रियायै नमः
- ८८२ॐ यज्ञकर्त्र्यै नमः
- ८८३ॐ यजमानस्वरूपिण्यै नमः
- ८८४ॐ धर्माधारायै नमः
- ८८५ॐ धनाध्यक्षायै नमः
- ८८६ॐ धनधान्यविवर्धिन्यै नमः
- ८८७ॐ विप्रप्रियायै नमः
- ८८८ॐ विप्ररूपायै नमः
- ८८९ॐ विश्वभ्रमणकारिण्यै नमः
- ८९०ॐ विश्वग्रासायै नमः
- ८९१ॐ विद्रुमाभायै नमः
- ८९२ॐ वैष्णव्यै नमः
- ८९३ॐ विष्णुरूपिण्यै नमः
- ८९४ॐ अयोन्यै नमः
- ८९५ॐ योनिनिलयायै नमः
- ८९६ॐ कूटस्थायै नमः
- ८९७ॐ कुलरूपिण्यै नमः
- ८९८ॐ वीरगोष्ठीप्रियायै नमः
- ८९९ॐ वीरायै नमः
- ९००ॐ नैष्कर्म्यायै नमः
- ९०१ॐ नादरूपिण्यै नमः
- ९०२ॐ विज्ञानकलनायै नमः
- ९०३ॐ कल्यायै नमः
- ९०४ॐ विदग्धायै नमः
- ९०५ॐ बैन्दवासनायै नमः
- ९०६ॐ तत्त्वाधिकायै नमः
- ९०७ॐ तत्त्वमय्यै नमः
- ९०८ॐ तत्त्वमर्थस्वरूपिण्यै नमः
- ९०९ॐ सामगानप्रियायै नमः
- ९१०ॐ सौम्यायै नमः
- ९११ॐ सदाशिवकुटुम्बिन्यै नमः
- ९१२ॐ सव्यापसव्यमार्गस्थायै नमः
- ९१३ॐ सर्वापद्विनिवारिण्यै नमः
- ९१४ॐ स्वस्थायै नमः
- ९१५ॐ स्वभावमधुरायै नमः
- ९१६ॐ धीरायै नमः
- ९१७ॐ धीरसमर्चितायै नमः
- ९१८ॐ चैतन्यार्घ्यसमाराध्यायै नमः
- ९१९ॐ चैतन्यकुसुमप्रियायै नमः
- ९२०ॐ सदोदितायै नमः
- ९२१ॐ सदातुष्टायै नमः
- ९२२ॐ तरुणादित्यपाटलायै नमः
- ९२३ॐ दक्षिणादक्षिणाराध्यायै नमः
- ९२४ॐ दरस्मेरमुखाम्बुजायै नमः
- ९२५ॐ कौलिनीकेवलायै नमः
- ९२६ॐ अनर्घ्य कैवल्यपददायिन्यै नमः
- ९२७ॐ स्तोत्रप्रियायै नमः
- ९२८ॐ स्तुतिमत्यै नमः
- ९२९ॐ श्रुतिसंस्तुतवैभवायै नमः
- ९३०ॐ मनस्विन्यै नमः
- ९३१ॐ मानवत्यै नमः
- ९३२ॐ महेश्यै नमः
- ९३३ॐ मङ्गलाकृतये नमः
- ९३४ॐ विश्वमात्रे नमः
- ९३५ॐ जगद्धात्र्यै नमः
- ९३६ॐ विशालाक्ष्यै नमः
- ९३७ॐ विरागिण्यै नमः
- ९३८ॐ प्रगल्भायै नमः
- ९३९ॐ परमोदारायै नमः
- ९४०ॐ परामोदायै नमः
- ९४१ॐ मनोमय्यै नमः
- ९४२ॐ व्योमकेश्यै नमः
- ९४३ॐ विमानस्थायै नमः
- ९४४ॐ वज्रिण्यै नमः
- ९४५ॐ वामकेश्वर्यै नमः
- ९४६ॐ पञ्चयज्ञप्रियायै नमः
- ९४७ॐ पञ्चप्रेतमञ्चाधिशायिन्यै नमः
- ९४८ॐ पञ्चम्यै नमः
- ९४९ॐ पञ्चभूतेश्यै नमः
- ९५०ॐ पञ्चसङ्ख्योपचारिण्यै नमः
- ९५१ॐ शाश्वत्यै नमः
- ९५२ॐ शाश्वतैश्वर्यायै नमः
- ९५३ॐ शर्मदायै नमः
- ९५४ॐ शम्भुमोहिन्यै नमः
- ९५५ॐ धरायै नमः
- ९५६ॐ धरसुतायै नमः
- ९५७ॐ धन्यायै नमः
- ९५८ॐ धर्मिण्यै नमः
- ९५९ॐ धर्मवर्धिन्यै नमः
- ९६०ॐ लोकातीतायै नमः
- ९६१ॐ गुणातीतायै नमः
- ९६२ॐ सर्वातीतायै नमः
- ९६३ॐ शमात्मिकायै नमः
- ९६४ॐ बन्धूककुसुमप्रख्यायै नमः
- ९६५ॐ बालायै नमः
- ९६६ॐ लीलाविनोदिन्यै नमः
- ९६७ॐ सुमङ्गल्यै नमः
- ९६८ॐ सुखकर्यै नमः
- ९६९ॐ सुवेषाढ्यायै नमः
- ९७०ॐ सुवासिन्यै नमः
- ९७१ॐ सुवासिन्यर्चनप्रीतायै नमः
- ९७२ॐ आशोभनायै नमः
- ९७३ॐ शुद्धमानसायै नमः
- ९७४ॐ बिन्दुतर्पणसन्तुष्टायै नमः
- ९७५ॐ पूर्वजायै नमः
- ९७६ॐ त्रिपुराम्बिकायै नमः
- ९७७ॐ दशमुद्रासमाराध्यायै नमः
- ९७८ॐ त्रिपुराश्रीवशङ्कर्यै नमः
- ९७९ॐ ज्ञानमुद्रायै नमः
- ९८०ॐ ज्ञानगम्यायै नमः
- ९८१ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः
- ९८२ॐ योनिमुद्रायै नमः
- ९८३ॐ त्रिखण्डेश्यै नमः
- ९८४ॐ त्रिगुणायै नमः
- ९८५ॐ अम्बायै नमः
- ९८६ॐ त्रिकोणगायै नमः
- ९८७ॐ अनघायै नमः
- ९८८ॐ अद्भुतचारित्रायै नमः
- ९८९ॐ वाञ्छितार्थप्रदायिन्यै नमः
- ९९०ॐ अभ्यासातिशयज्ञातायै नमः
- ९९१ॐ षडध्वातीतरूपिण्यै नमः
- ९९२ॐ अव्याजकरुणामूर्तये नमः
- ९९३ॐ अज्ञानध्वान्तदीपिकायै नमः
- ९९४ॐ आबालगोपविदितायै नमः
- ९९५ॐ सर्वानुल्लङ्घ्यशासनायै नमः
- ९९६ॐ श्रीचक्रराजनिलयायै नमः
- ९९७ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः
- ९९८ॐ श्रीशिवायै नमः
- ९९९ॐ शिवशक्त्यैक्यरूपिण्यै नमः
- १०००ॐ ललिताम्बिकायै नमः
इति श्रीललितासहस्रनामावलिः सम्पूर्णा