मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आदित्यहृदयम्

Also spelled: Adityahridayam · Adithyahridayam

3

वाल्मीकिरामायणम्, युद्धकाण्डम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥

॥१॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।

उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥

॥२॥

राम राम महाबाहो शृणु गुह्यं सनातनम् ।

येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥

॥३॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।

जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥

॥४॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ॥

॥५॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥

॥६॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।

एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥

॥७॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।

महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥

॥८॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।

वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥

॥९॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥

॥१०॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥

॥११॥

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।

अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥

॥१२॥

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।

घनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः ॥

॥१३॥

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।

कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥

॥१४॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।

तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥

॥१५॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।

ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥

॥१६॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।

नमो नमः सहस्रांशो आदित्याय नमो नमः ॥

॥१७॥

नम उग्राय वीराय सारङ्गाय नमो नमः ।

नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥

॥१८॥

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥

॥१९॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥

॥२०॥

तप्तचामीकराभाय वह्नये विश्वकर्मणे ।

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥

॥२१॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।

पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥

॥२२॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।

एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥

॥२३॥

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।

यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥

॥२४॥

फलश्रुतिः

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।

कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥

॥२५॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।

एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥

॥२६॥

अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।

एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥

॥२७॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।

धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥

॥२८॥

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।

त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥

॥२९॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।

सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ॥

॥३०॥

अथ रविरवदन्निरीक्ष्य रामं

मुदितमनाः परमं प्रहृष्यमाणः ।

निशिचरपतिसङ्क्षयं विदित्वा

सुरगणमध्यगतो वचस्त्वरेति ॥

॥३१॥

इति आदित्यहृदयं मन्त्रम् ॥