मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूर्य अष्टोत्तरशत नाम स्तोत्रम्

3

महाभारतम्

धौम्य उवाच

सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥

॥१॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥

॥२॥

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः ।

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः ॥

॥३॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।

धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥

॥४॥

कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः ।

कलाकाष्ठामुहूर्तश्च क्षपा यामस्तथा क्षणः ॥

॥५॥

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥

॥६॥

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।

वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥

॥७॥

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।

स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥

॥८॥

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।

जयो विशालो वरदः सर्वभूतनिषेवितः ॥

॥९॥

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः ।

धन्वतरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥

॥१०॥

द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥

॥११॥

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।

चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥

॥१२॥

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।

नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयम्भुवा ॥

॥१३॥

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।

वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥

॥१४॥

सूर्योदये यः सुसमाहितः पठेत्

स पुत्रदारान् धनरत्नसञ्चयान् ।

लभेत जातिस्मरतां नरः सदा

धृतिं च मेधां च स विन्दते पुमान् ॥

॥१५॥

इमं स्तवं देववरस्य यो नरः

प्रकीर्तयेच्छुद्धमनाः समाहितः ।

विमुच्यते शोकदवाग्निसागरात्

लभेत कामान् मनसा यथेप्सितान् ॥

॥१६॥

इति श्रीमन्महाभारते वनपर्वणि धौम्ययुधिष्ठिरसंवादे श्री-सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्