- १ॐ शशधराय नमः
- २ॐ चन्द्राय नमः
- ३ॐ ताराधीशाय नमः
- ४ॐ निशाकराय नमः
- ५ॐ सुधानिधये नमः
- ६ॐ सदाराध्याय नमः
- ७ॐ सत्पतये नमः
- ८ॐ साधुपूजिताय नमः
- ९ॐ जितेन्द्रियाय नमः
- १०ॐ जगद्योनये नमः
- ११ॐ ज्योतिश्चक्रप्रवर्तकाय नमः
- १२ॐ विकर्तनानुजाय नमः
- १३ॐ वीराय नमः
- १४ॐ विश्वेशाय नमः
- १५ॐ विदुषाम्पतये नमः
- १६ॐ दोषाकराय नमः
- १७ॐ दुष्टदूराय नमः
- १८ॐ पुष्टिमते नमः
- १९ॐ शिष्टपालकाय नमः
- २०ॐ अष्टमूर्तिप्रियाय नमः
- २१ॐ अनन्ताय नमः
- २२ॐ कष्टदारुकुठारकाय नमः
- २३ॐ स्वप्रकाशाय नमः
- २४ॐ प्रकाशात्मने नमः
- २५ॐ द्युचराय नमः
- २६ॐ देवभोजनाय नमः
- २७ॐ कलाधराय नमः
- २८ॐ कालहेतवे नमः
- २९ॐ कामकृते नमः
- ३०ॐ कामदायकाय नमः
- ३१ॐ मृत्युसंहारकाय नमः
- ३२ॐ अमर्त्याय नमः
- ३३ॐ नित्यानुष्ठानदायकाय नमः
- ३४ॐ क्षपाकराय नमः
- ३५ॐ क्षीणपापाय नमः
- ३६ॐ क्षयवृद्धिसमन्विताय नमः
- ३७ॐ जैवातृकाय नमः
- ३८ॐ शुचये नमः
- ३९ॐ शुभ्राय नमः
- ४०ॐ जयिने नमः
- ४१ॐ जयफलप्रदाय नमः
- ४२ॐ सुधामयाय नमः
- ४३ॐ सुरस्वामिने नमः
- ४४ॐ भक्तानामिष्टदायकाय नमः
- ४५ॐ भुक्तिदाय नमः
- ४६ॐ मुक्तिदाय नमः
- ४७ॐ भद्राय नमः
- ४८ॐ भक्तदारिद्र्यभञ्जकाय नमः
- ४९ॐ सामगानप्रियाय नमः
- ५०ॐ सर्वरक्षकाय नमः
- ५१ॐ सागरोद्भवाय नमः
- ५२ॐ भयान्तकृते नमः
- ५३ॐ भक्तिगम्याय नमः
- ५४ॐ भवबन्धविमोचकाय नमः
- ५५ॐ जगत्प्रकाशकिरणाय नमः
- ५६ॐ जगदानन्दकारणाय नमः
- ५७ॐ निस्सपत्नाय नमः
- ५८ॐ निराहाराय नमः
- ५९ॐ निर्विकाराय नमः
- ६०ॐ निरामयाय नमः
- ६१ॐ भूच्छायाऽऽच्छादिताय नमः
- ६२ॐ भव्याय नमः
- ६३ॐ भुवनप्रतिपालकाय नमः
- ६४ॐ सकलार्तिहराय नमः
- ६५ॐ सौम्यजनकाय नमः
- ६६ॐ साधुवन्दिताय नमः
- ६७ॐ सर्वागमज्ञाय नमः
- ६८ॐ सर्वज्ञाय नमः
- ६९ॐ सनकादिमुनिस्तुताय नमः
- ७०ॐ सितच्छत्रध्वजोपेताय नमः
- ७१ॐ सिताङ्गाय नमः
- ७२ॐ सितभूषणाय नमः
- ७३ॐ श्वेतमाल्याम्बरधराय नमः
- ७४ॐ श्वेतगन्धानुलेपनाय नमः
- ७५ॐ दशाश्वरथसंरूढाय नमः
- ७६ॐ दण्डपाणये नमः
- ७७ॐ धनुर्धराय नमः
- ७८ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः
- ७९ॐ नयनाब्जसमुद्भवाय नमः
- ८०ॐ आत्रेयगोत्रजाय नमः
- ८१ॐ अत्यन्तविनयाय नमः
- ८२ॐ प्रियदायकाय नमः
- ८३ॐ करुणारससम्पूर्णाय नमः
- ८४ॐ कर्कटप्रभवे नमः
- ८५ॐ अव्ययाय नमः
- ८६ॐ चतुरश्रासनारूढाय नमः
- ८७ॐ चतुराय नमः
- ८८ॐ दिव्यवाहनाय नमः
- ८९ॐ विवस्वन्मण्डलाग्नेयवाससे नमः
- ९०ॐ वसुसमृद्धिदाय नमः
- ९१ॐ महेश्वरप्रियाय नमः
- ९२ॐ दान्ताय नमः
- ९३ॐ मेरुगोत्रप्रदक्षिणाय नमः
- ९४ॐ ग्रहमण्डलमध्यस्थाय नमः
- ९५ॐ ग्रसितार्काय नमः
- ९६ॐ ग्रहाधिपाय नमः
- ९७ॐ द्विजराजाय नमः
- ९८ॐ द्युतिलकाय नमः
- ९९ॐ द्विभुजाय नमः
- १००ॐ द्विजपूजिताय नमः
- १०१ॐ औदुम्बरनगावासाय नमः
- १०२ॐ उदाराय नमः
- १०३ॐ रोहिणीपतये नमः
- १०४ॐ नित्योदयाय नमः
- १०५ॐ मुनिस्तुत्याय नमः
- १०६ॐ नित्यानन्दफलप्रदाय नमः
- १०७ॐ सकलाह्लादनकराय नमः
- १०८ॐ पलाशसमिधप्रियाय नमः