- १ॐ श्री-काञ्ची-कामकोटि-पीठाधीश्वराय नमः
- २ॐ श्री-चन्द्रशेखरेन्द्र-सरस्वती-गुरुभ्यो नमः
- ३ॐ सन्न्यासाश्रमशिखराय नमः
- ४ॐ काषाय-दण्डधारिणे नमः
- ५ॐ सर्वपीडाप्रायश्चित्ताय नमः
- ६ॐ स्वामीनाथाय नमः
- ७ॐ करुणासागराय नमः
- ८ॐ जगदाकर्षणशक्तये नमः
- ९ॐ सर्वचराचरहृदयस्थाय नमः
- १०ॐ भक्तपरिपालकश्रेष्ठाय नमः
- ११ॐ धर्मपरिपालकाय नमः
- १२ॐ श्री-जयेन्द्रसरस्वत्याचार्याय नमः
- १३ॐ ब्रह्मोपदेशकाय नमः
- १४ॐ शक्तिस्वरूपकाय नमः
- १५ॐ भक्तजनप्रियाय नमः
- १६ॐ ब्रह्म-विष्णु-शिवैक्य एकरूपाय नमः
- १७ॐ काशीक्षेत्रवासाय नमः
- १८ॐ कैलासशिखरवासाय नमः
- १९ॐ सर्वधर्मपरिपोषकाय नमः
- २०ॐ चतुर्वर्णरक्षकाय नमः
- २१ॐ लोकरक्षितसङ्कल्पाय नमः
- २२ॐ सर्वनिष्ठापराय नमः
- २३ॐ सर्वपापहराय नमः
- २४ॐ धर्मरक्षकसन्तुष्टाय नमः
- २५ॐ भक्तार्पितधनस्वीकर्त्रे नमः
- २६ॐ सर्वोपनिषद् व्युत्पन्नाय नमः
- २७ॐ सर्वशास्त्रगमनाय नमः
- २८ॐ सर्वलोकपितामहाय नमः
- २९ॐ भक्ताभीष्टप्रदायकाय नमः
- ३०ॐ ब्राह्मण्यपोषकाय नमः
- ३१ॐ नानाविधपुष्पार्चिताय नमः
- ३२ॐ रुद्राक्षकिरीटधारिणे नमः
- ३३ॐ भस्मोद्धूलितवेषकाय नमः
- ३४ॐ सर्वज्ञाय नमः
- ३५ॐ सर्वचराचरव्याप्त्रे नमः
- ३६ॐ अनेकशिष्यपरिपालकाय नमः
- ३७ॐ चञ्चलमनध्वंसिने नमः
- ३८ॐ अभयहस्ताय नमः
- ३९ॐ भयापहाय नमः
- ४०ॐ यज्ञपुरुषाय नमः
- ४१ॐ यज्ञकर्त्रे नमः
- ४२ॐ यज्ञसम्पन्नाय नमः
- ४३ॐ यज्ञसहायकाय नमः
- ४४ॐ यज्ञफलदाय नमः
- ४५ॐ यज्ञप्रियाय नमः
- ४६ॐ सर्वोपमानयोग्याय नमः
- ४७ॐ स्फटिक-तुलसी-रुद्राक्ष-हार-धारिणे नमः
- ४८ॐ ब्रह्म-क्षत्रिय-वैश्य-शूद्रादि चतुर्वर्णजनसमदृष्टाय नमः
- ४९ॐ ऋग्यजुस्सामाथर्वणादि चतुर्वेदरक्षकाय नमः
- ५०ॐ दक्षिणामूर्तिस्वरूपाय नमः
- ५१ॐ जाग्रत्-स्वप्न-सुषुप्त्याद्यवस्थानुग्रहाय नमः
- ५२ॐ कोटिसूर्यप्रकाशतेजोमयशरीराय नमः
- ५३ॐ साधुसङ्गरक्षकाय नमः
- ५४ॐ अश्वगजगोपूजप्रियाय नमः
- ५५ॐ गुरुपादुकापूजाधुरन्धराय नमः
- ५६ॐ कनकाभिषिक्ताय नमः
- ५७ॐ स्वर्णबिल्वदलपूज्याय नमः
- ५८ॐ सर्वजीवमोक्षदाय नमः
- ५९ॐ मूकवाग्दाननिपुणाय नमः
- ६०ॐ नेत्रदीक्षादानाय नमः
- ६१ॐ द्वादशलिङ्गस्थापिताय नमः
- ६२ॐ गानरसप्रियाय नमः
- ६३ॐ श्री-जयेन्द्रसरस्वती-पूजिताय नमः
- ६४ॐ सकलकलासिद्धिदाय नमः
- ६५ॐ चतुर्वर्णजनपूजिताय नमः
- ६६ॐ अनेकभाषा-सम्भाषण-सिद्धिदाय नमः
- ६७ॐ अष्टसिद्धिप्रदायकाय नमः
- ६८ॐ श्रीशारदामठस्थाय नमः
- ६९ॐ नित्यान्नदानसुप्रीताय नमः
- ७०ॐ प्रार्थनामात्रसुलभाय नमः
- ७१ॐ पादयात्राप्रियाय नमः
- ७२ॐ नानाविध-मत-पण्डिताय नमः
- ७३ॐ श्रुतिस्मृतिपुराणाय नमः
- ७४ॐ देव-यक्ष-किन्नर-किम्पुरुष-पूज्याय नमः
- ७५ॐ श्रवणानन्दाय नमः
- ७६ॐ दर्शनानन्दाय नमः
- ७७ॐ जिह्वानन्दाय नमः
- ७८ॐ चिन्तितानन्दाय नमः
- ७९ॐ शैव-वैष्णव-भेद-ध्वंसिने नमः
- ८०ॐ शङ्कहराय नमः
- ८१ॐ शङ्खहस्ताय नमः
- ८२ॐ वीणामृदङ्गसकलवाद्य-नादस्वरूपाय नमः
- ८३ॐ राग-स्वर-साहित्य-रसिकाय नमः
- ८४ॐ नटन-नाट्य-नाटकादि सकलकलाश्रयाय नमः
- ८५ॐ हृदय-गुहेशाय नमः
- ८६ॐ रुद्र-चमक-वर्णित स्वरूपाय नमः
- ८७ॐ केदारेश्वरनाथाय नमः
- ८८ॐ अविद्यानाशकाय नमः
- ८९ॐ निष्काम्य-कर्मोपदेशकाय नमः
- ९०ॐ लघुभक्तिमार्गोपदेशकाय नमः
- ९१ॐ लिङ्गस्वरूपाय नमः
- ९२ॐ शालग्रामसूक्ष्मस्वरूपाय नमः
- ९३ॐ शृङ्गेरी-द्वारकादि चतुर्मठसमदृष्टाय नमः
- ९४ॐ जितेन्द्रियाय नमः
- ९५ॐ शरणागतवत्सलाय नमः
- ९६ॐ श्रीशैलशिखरवासाय नमः
- ९७ॐ दमरुकनाद-वेदशृष्टिकाय नमः
- ९८ॐ वृषभारूढाय नमः
- ९९ॐ दुर्मतनाशकाय नमः
- १००ॐ आभिचारिकदोषहर्त्रे नमः
- १०१ॐ मिथ्याहराय नमः
- १०२ॐ मृत्युविमोचकशक्तये नमः
- १०३ॐ सुदर्शनचक्रप्रतिष्ठिताय नमः
- १०४ॐ दस्य कर्मानुग्रहाय नमः
- १०५ॐ अनूराधानक्षत्रजाताय नमः
- १०६ॐ सर्वलोकगमनाय नमः
- १०७ॐ श्रीत्रिपुरसुन्दरी-समेत-श्रीचन्द्रमौलीश्वर-पूजा-प्रियाय नमः
- १०८ॐ वेङ्कटेश्वरानन्द-हृदयवासाय नमः
इति श्री-काञ्ची कामकोटि पीठाधीश्वरः शङ्कराचार्यः श्री-चन्द्रशेखरेन्द्रसरस्वती अष्टोत्तर-शतनामावलिः सम्पूर्णा