मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

द्वितीयोऽध्यायः

3
पराशरस्मृतिः · 2

अतः परं गृहस्थस्य कर्माचारं कलौ युगे

धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतम्

॥१॥

तं प्रवक्ष्याम्यहं पूर्वं पराशरवचो यथा

षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत्

॥२॥

क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत्

हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत्

॥३॥

स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम्

वाहयेद्दिवसस्यार्धं पश्चात्स्नानं समाचरेत्

॥४॥

जप्यं देवार्चनं होमं स्वाध्यायं चैवमभ्यसेत्

एकद्वित्रिचतुर्विप्रान्भोजयेत्स्नातकान्द्विजः

॥५॥

स्वयंकृष्टे तथा क्षेत्रे धान्यैश्च स्वयमर्जितैः

निर्वपेत्पञ्च यज्ञांश्च क्रतुदीक्षां च कारयेत्

॥६॥

तिला रसा न विक्रेया विक्रेया धान्यतत्समाः

विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः

॥७॥

ब्राह्मणश्चेत्कृषिं कुर्यात्तन्महादोषमाप्नुयात्

संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात्

॥८॥

अयोमुखेन काष्ठेन तदेकाहेन लाङ्गली

पाशको मत्स्यघाती च व्याधः शाकुनिकस्तथा

॥९॥

अदाता कर्षकश्चैव सर्वे ते समभागिनः

वृक्षं छित्त्वा महीं भित्त्वा हत्वा च कृमिकीटकान्

॥१०॥

कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते

यो न दद्याद्द्विजातिभ्यो राशिमूलमुपागतः

॥११॥

स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत्

राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकम्

॥१२॥

विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते

क्षत्रियोऽपि कृषिं कृत्वा देवान्विप्रांश्च पूजयेत्

॥१३॥

वैश्यः शूद्रस्तथा कुर्यात्कृषिवाणिज्यशिल्पकम्

विकर्म कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः

॥१४॥

भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयं

चतुर्णामपि वर्णानामेष धर्मः सनातनः

॥१५॥