मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

दशमोऽध्यायः

3
आश्वलायनश्रौतसूत्रम् · 10

प्रथमः खण्डः

ज्योतिरृद्धिकामस्य

॥१॥

नवसप्तदशः प्रजातिकामस्य

॥२॥

विषुवत्स्तोमो भ्रातृव्यवतः

॥३॥

गौरभिजिच्च

॥४॥

गौरुभयसामा सर्वस्तोमो बुभूषतः

॥५॥

आयुर्दीर्घव्याधेः

॥६॥

पशुकामस्य विश्वजित् । ब्रह्मवर्चसकामवीर्यकामप्रजाकामप्रतिष्ठाकामानां पृष्ट्याहान्यादितः पृथक्कामैः

॥७॥

इत्यतिरात्राः

॥८॥

तेषामाद्यास्त्रय ऐकाहिकशस्याः

॥९॥

इत्येकाहाः

॥१०॥

अथाहीनाः

॥११॥

द्व्यहप्रभृतयो द्वादशरात्रपरार्ध्याः अग्निष्टोमादयः अतिरात्रान्ताः मासापवर्गाः अपरिमाणदीक्षाः एकाहांश्चैतरेयिणः

॥१२॥

अतिरात्रांश्च सर्वशः तत्राह्नां संख्याः संख्याताः षडहान्ता अभिप्लवात्

॥१६॥

अतिरात्रस्त्वन्त्यः संख्यापूरणे गृहीतानां

॥१७॥

हानौ वैश्वानरोऽधिकः

॥१८॥

द्वितीयः खण्डः

आङ्गिरसं स्वर्गकामः

॥१॥

यो वा पण्यो हीनोऽनप्रेप्सुः स्यात्

॥२॥

चैत्ररथमन्नाद्यकामः । कापिवनं स्वर्गकाम इति द्व्यहाः

॥३॥

प्रथमस्य तूत्तरस्याह्नस्तार्त्तीयं तृतीयसवनं

॥४॥

त्वं हि क्षैतवदिति चाज्यं

॥५॥

गर्गत्रिरात्रं स्वर्गकामः

॥६॥

तस्य मध्यमस्याह्नो वामदेव्यं पृष्ठं । विशोविशीयमग्निष्टोमसाम

॥७॥

वारवन्तीयमुत्तमे

॥८॥

त्वमग्ने वसूंरिति चाज्यं

॥९॥

बैदत्रिरात्रं राज्यकामः

॥१०॥

सर्वे त्रिवृतोऽतिरात्राः

॥११॥

छन्दोमपवमानान्तर्वसू पशुकामः

॥१२॥

पराकच्छन्दोमपराकौ स्वर्गकामः

॥१३॥

इति त्र्यहाः

॥१४॥

गर्गत्रिरात्रशस्याः

॥१५॥

अत्रेश्चतुर्वीरं वीरकामः

॥१६॥

तस्य वीरवन्त्याज्यानि

॥१७॥

यमग्ने वाजसातमेति द्वितीयेऽहन्याज्यं । अग्नायो मर्त्य इति तृतीये । अग्निं नर इति चतुर्थे

॥१८॥

षोडशिमच्चतुर्थं

॥१९॥

तस्याभि त्वा वृषभासुत इति गायत्रीषु रथन्तरं पृष्ठं

॥२०॥

अनुष्टुब्बृहतीषु बृहत्

॥२१॥

चतुर्थे त्वं बलस्य गोमतो यज्जायथा अपूर्व्येति वा

॥२२॥

जामदग्नं पुष्टिकामः

॥२३॥

तस्य पुरोडाशिन्य उपसदः

॥२४॥

वैश्वामित्रं भ्रातृव्यवान् प्रजाकामो वसिष्ठसंसर्पं

॥२५॥

इति चतुरहाः

॥२६॥

सार्वसेनं पशुकामः । दैवं भ्रातृव्यवान् । पञ्चशारदीयं पशुकामः । व्रतवन्तमायुष्कामः । वावरं वाक्प्रवदिषुः

॥२७॥

इति पञ्च पञ्चरात्राः

॥२८॥

पञ्चशारदीयस्य तु सप्तदशोक्षाण ऐन्द्रा मारुता मारुतीभिः सह वत्सतरीभिः सप्तदशभिः सप्तदशभिः पञ्चवर्षपर्यग्निकृताः सवनीयाः

॥२९॥

तेषां त्रींस्त्रींश्चतुर्ष्वहःस्वालभेरन् । परिशिष्टान् पञ्च पञ्चमे

॥३०॥

व्रतवतस्तु तृतीयस्याह्नः स्थाने महाव्रतं

॥३१॥

पृष्ट्यपञ्चाह उत्तमः

॥३२॥

तृतीयः खण्डः

ऋतूनां षडहं प्रतिष्ठाकामः

॥१॥

पृष्ट्यः समूल्हो व्यूल्हो वा

॥२॥

पृष्ट्यावलम्बं पशुकामः

॥३॥

पृष्ट्यपञ्चाहोऽभ्यासक्तो विश्वजिच्च

॥४॥

सम्भार्यमायुष्कामः । पृष्ट्यत्त्र्यहः पूर्वोऽभिप्लवत्त्र्यहश्च

॥५॥

ऋषिसप्तरात्रमृद्धिकामः । प्राजापत्यं प्रजाकामः । छन्दोमपवमानव्रतं पशुकामः । जामदग्नमन्नाद्यकामः । एते चत्वारः पृष्ठ्यो महाव्रतञ्च

॥६॥

पृष्ठ्यो महाव्रतञ्च

॥७॥

व्रतं तु स्वस्तोमं प्रथमे

॥८॥

सप्तदशं द्वितीये

॥९॥

छन्दोमपवमानं तृतीये

॥१०॥

चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थः

॥११॥

ऐन्द्रमत्यन्याः प्रजा बुभूषन्

॥१२॥

त्रिकद्रुका अभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमः

॥१३॥

जनकसप्तरात्रमृद्धिकामः अभिप्लवचतुरहोविश्वजिन्महाव्रतं ज्योतिष्टोमः

॥१८॥

पृष्ठ्यस्तोमो विश्वजिच्च पशुकामस्य सप्तमः

॥१५॥

देवत्वमीप्सतोऽष्टरात्रः

॥१६॥

पृष्ठ्यो महाव्रतं ज्योतिष्टोमः

॥१७॥

नवरात्रमायुष्कामः । पृष्ठ्यस्त्रिकद्रुकाश्च

॥१८॥

त्रिकद्रुकाः पृष्ठ्यावलम्ब इति पशुकामस्य

॥१९॥

इति नवरात्रौ

॥२०॥

त्रिककुबध्यर्द्धः पृष्ठ्यः । महात्रिककुप्व्यूल्हो नवरात्रः । समूल्हत्रिककुप्समूल्हः

॥२१॥

चतुष्टोमत्रिककुबध्यर्द्धोऽभिप्लवः । एतैश्चतुर्भिः स्वानां श्रैष्ठ्यकामो यजेत

॥२२॥

कुसुरुबिन्दुमृद्धिकामः । त्रयाणां पृष्ठ्याह्नामेकैकं त्रिः

॥२३॥

छन्दोमवन्तं पशुकामः । पृष्ठ्यावलम्बस्य प्राग्विश्वजितश्छन्दोमा दशमञ्चाहः

॥२४॥

पुराऽभिचरन्

॥२५॥

ज्योतिर्गामभितो गौरभिजितं विश्वजिदायुषं

॥२६॥

शललीपिशङ्गं श्रीकामः

॥२७॥

अभिप्लवत्त्र्यहः पूर्वस्त्रिः

॥२८॥

इति दशरात्राः

॥२९॥

चतुर्थः खण्डः

पौण्डरीकमृद्धिकामः । पृष्ठ्यस्तोमश्छन्दोमा गोतमस्तोमो विश्वजित् । व्यूल्हो नवरात्रो महाव्रतं वैश्वानर इति वा

॥१॥

अथ सम्भार्यौ

॥२॥

अतिरात्रश्चतुर्विंशमध्यर्द्धोऽभिप्लवः पृष्ठ्यो वा

॥३॥

इन्द्र वज्रं भ्रातृव्यवान्

॥४॥

ततो महाव्रतं

॥६॥

पञ्चमः खण्डः

अथ द्वादशाहा भवेयुः

॥१॥

सत्राणि भवेयुः । अहीना वा

॥२॥

उक्तो दशरात्रः

॥३॥

समूल्हो व्यूल्हो वा

॥४॥

तमभितोऽतिरात्रौ

॥५॥

सम्भार्ययोर्वा वैश्वानरमुपदध्यात्

॥६॥

संवत्सरप्रवल्हं श्रीकामः । अतिरात्रश्चतुर्विंशं विषुवद्वजा नवरात्रो महाव्रतं

॥७॥

अथ भरतद्वादशाहः

॥८॥

इममेवैकाहं पृथक्संस्थाभिरुपेयुः

॥९॥

अतिरात्रमग्रेऽथाग्निष्टोममथाष्टा उक्थ्यानथाग्निष्टोममथातिरात्रं

॥१०॥

इति द्वादशाहः

॥११॥

तैरात्मना बुभूषन्तः प्रजया पशुभिः प्रजनयिष्यमाणाः स्वर्गं लोकमेष्यन्तः स्वानां श्रैष्ठ्यमैच्छन्त उपेयुर्वा यजेत वा

॥१२॥

इति पृथक्त्वं

॥१३॥

अथ सामान्यं

॥१४॥

अपरिमितत्वाद्धर्मस्य प्रदेशान् वक्ष्यामः

॥१५॥

यथा हि परिमिता वर्णा अपरिमितां वाचो गतिमाप्नुवन्त्येवमेव परिमितानामह्नामपरिमिताः संघाताः

॥१६॥

सिद्धानि त्वहानि तेषां यः कश्च समाहारः सिद्धमेव शस्यं

॥१७॥

अह्नां तु संशये स्तोमपृष्ठसंस्थाभिरेके व्यवस्थां

॥१८॥

तदकृत्स्नं दृष्टत्वाद्व्यतिक्रमस्य

॥१९॥

छन्दोगैरेव कृत्वा समयमह्नोबार्हतराथन्तरतायामेकाहेन शस्यं राथन्तराणां

॥२०॥

द्वितीयेनाभिप्लविकेन बार्हतानां

॥२१॥

अपि वा कयाशुभीयतदिदासीये एव निविद्धाने स्यातामैकाहिकमितरत्

॥२२॥

षष्ठः खण्डः

सर्वान् कामानाप्स्यन्त्सर्वा विजितीर्विजिगीषमाणः सर्वा व्युष्टीर्व्यशिष्यन्नश्वमेधेन यजेत

॥१॥

अश्वमुत्स्रक्ष्यन्निष्टिभ्यां यजेत

॥२॥

अग्निर्मूर्धन्वान्

॥३॥

विराजौ संयाज्ये

॥४॥

पौष्णी द्वितीया

॥५॥

त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ

॥६॥

त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नय इति संयाज्ये । अश्वमुत्सृज्य रक्षिणो विधाय सावित्त्र्यस्तिस्र इष्टयोऽहरहर्वैराजतन्त्राः

॥७॥

सविता सत्यप्रसवः प्रसविताऽऽसविता

॥८॥

य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः सद्यानो देवः सविता सहावेति द्वे

॥९॥

समाप्तासु समाप्तासु दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे पारिप्लव माचक्षीत

॥१०॥

हिरण्मये कूर्चेऽध्वयुरासीनः प्रतिगृणाति

॥११॥

आख्यास्यन्नध्वर्यवित्याह्वयीत

॥१२॥

हो होतरितीतरः

॥१३॥

सप्तमः खण्डः

प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इम आसत इति गृहमेधिन उपसमानीताः स्युस्तानुपदिशत्यृचो वेदः सोऽयमिति सूक्तं निगदेत्

॥१॥

द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमानीताः स्युस्तानुपदिशति यजुर्वेदो वेदः सोऽयमित्यनुवाकं निगदेत्

॥२॥

तृतीयेऽहनि वरुण आदित्यस्तस्य गन्धर्वा विशस्त इम आसत इति युवानः शोभना उपसमानीताः स्युस्तानुपदिशत्यथर्वाणो वेदः सोऽयमिति यद्भेषजं निशान्तं स्यात् तन्निगदेत्

॥३॥

चतुर्थेऽहनि सोमो वैष्णवस्तस्याप्सरसो विशस्ता इमा आसत इति युवतयः शोभना उपसमानीताः स्युस्ता उपदिशत्याङ्गिरसो वेदः सोऽयमिति यद्घोरं निशान्तं स्यात् तन्निगदेत्

॥४॥

पञ्चमेऽहन्यर्बुदः काद्रवेयस्तस्य सर्पा विशस्त इम आसत इति सर्पाः सर्पविद इत्युपसमानीताः स्युस्तानपदिशति विषविद्यावेदः सोऽयमिति विषविद्यां निगदेत्

॥५॥

षष्ठेऽहनि कुबेरो वैश्रवणस्तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगाः पापकृत इत्युपसमानीताः स्यस्तानुपदिशति पिशाचविद्यावेदः सोऽयमिति यत् किंचित् पिशाचसंयुक्तं निशान्तं स्यात् तन्निगदेत्

॥६॥

सप्तमेऽहन्यसितो धान्वस्तस्यासुरा विशस्त इम आसत इति कुसीदिन उपसमानीताः स्युस्तानुपदिशत्यसुरविद्यावेदः सोऽयमिति मायां काञ्चित् कुर्यात्

॥७॥

अष्टमेऽहनि मत्स्यः सांमदस्तस्योदकेचरा विशस्त इम आसत इति मत्स्याः पुञ्जिष्ठा इत्युपसमानीताः स्युस्तानुपदिशति पुराणविद्यावेदः सोऽयमिति पुराणमाचक्षीत

॥८॥

नवमेऽहनि तार्क्ष्यो वैपश्चितस्तस्य वयांसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिण इत्युपसमानीताः स्युस्तानुपदिशतीतिहासो वेदः सोऽयमितीतिहासमाचक्षीत । दशमेऽहनि धर्म इन्द्रस्तस्य देवा विशस्त इम आसत इति युवानः श्रोत्रिया अप्रतिग्राहका इत्युपसमानीताः स्युस्तानुपदिशति सामवेदो वेदः सोऽयमिति साम गायात् । एवमेवैतत् पर्यायशः संवत्सरमाचक्षीत

॥९॥

दशमीं दशमीं समापयन्

॥१०॥

संवत्सरान्ते दीक्षेत

॥११॥

अष्टमः खण्डः

त्रीणि सुत्यानि भवन्ति

॥१॥

गोतमस्तोमः प्रथमं । द्वितीयस्याह्नः पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवास्थापयेयुः

॥२॥

स चेदवघ्रायादुपवर्त्तेत वा यज्ञसमृद्धिं विद्यात्

॥३॥

न चेत् सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत्

॥४॥

तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन्

॥५॥

अनुस्वाध्यायमित्येके

॥६॥

अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इति वा मा नो मित्र इत्यावपेत । उपप्रागाच्छसनं वाज्यर्वेति च द्वे

॥७॥

संज्ञप्तमश्वं पत्न्यो धून्वन्ति दक्षिणान् कशपक्षानुद्ग्रथ्येतरान् प्रवृत्य सव्यानूरूनाघ्रानाः

॥८॥

अथास्मै महिषीमुपनिपातयन्ति

॥९॥

तां होताऽभिमेथति माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः प्रतिलानीति ते पिता गभेमुष्टिमतंसयदिति

॥१०॥

सा होतारं प्रत्यभिमेथत्यनुचर्य्यश्च शतं राजपुत्र्यो माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः । यीयप्स्यत इव ते मुखं होतर्मा त्वं वदो बह्विति

॥११॥

वावातां ब्रह्मोर्ध्वामेनामुच्छ्रयताद्गिरौ भारं हरन्निव । अथास्यै मध्यमेजतु शीते वाते पुनर्निवेति

॥१२॥

सा ब्रह्माणं प्रत्यभिमेथत्यनुचर्य्यश्च शतं राजपुत्त्र्य ऊर्ध्वमेनमुच्छ्रयत गिरौ भारं हरन्निव । अथास्य मध्यमेजतु शीते वाते पुनर्निवेति

॥१३॥

सदः प्रसृप्य स्वाहाकृतिभिश्चरित्वा

॥१४॥

नवमः खण्डः

ब्रह्मोद्यं वदन्ति

॥१॥

कःस्विदेकाकी चरति क उस्विज्जायते पुनः । किंस्विद्धिमस्य भेषजं किंस्विदावपनम्महदिति होताऽध्वर्युं पृच्छति । सूर्य एकाकी चरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महदिति प्रत्याह । किंस्वित् सूर्यसमं ज्योतिः किं समुद्र समं सरः । कःस्वित् पृथिव्यै वर्षीयान् कस्य मात्रा न विद्यत इत्यध्वर्युर्होतारं पृच्छति । सत्यं सूर्यसमं ज्योतिर्द्यौः समुद्र समं सरः । इन्द्रःपृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यत इति प्रत्याह । पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ । केषु विष्णुस्त्रिषु पदेष्वस्थः केषु विश्वम्भुवनमाविवेशेति ब्रह्मोद्गातारं पृच्छति । अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमाविवेश । सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवो अस्य पृष्ठमिति प्रत्याह । केष्वन्तःपुरुष आविवेश कान्यन्तःपुरुष आर्पितानि एतद्ब्रह्मन्नपवल्हामसि त्वा किंस्विन्नः प्रतिवोचास्यत्रेत्युद्गाता ब्रह्माणं पृच्छति । पञ्चस्वन्तःपुरुष आविवेश तान्यन्तःपुरुष आर्पितानि । एतत् त्वात्र प्रतिवन्वानो अस्मिन् मायया भवस्युत्तरोमदिति प्रत्याह । प्राञ्चमुपनिष्क्रम्यैकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्या इति

॥२॥

इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह

॥३॥

महिम्ना पुरस्तादुपरिष्टाच्च वपानाञ्चरन्ति

॥४॥

सुभूः स्वयम्भूः प्रथममन्तर्महत्यर्णवे । दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः । होता यक्षत् प्रजापतिं महिम्नो जुषतां वेतु पिबतु सोमं होतर्यजेति प्रैषः । तवेमे लोकाः प्रदिशो दिशश्चेति याज्या । अश्वोऽजस्तूपरो गोमृग इति प्राजापत्याः

॥५॥

इतरेषां पशूनां प्रचरन्ति

॥६॥

वैश्वदेवी कॢप्तिः

॥७॥

पञ्चमेन पृष्ठ्याह्ना शस्यं व्यूल्हस्य

॥८॥

दशमः खण्डः

तस्य विशेषान् वक्ष्यामः

॥१॥

अग्निन्तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टात्

॥२॥

प्रउगतृचेष्वैकाहिकास्तृचाः

॥३॥

त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्वतीयस्य प्रतिपदेका तृचस्थाने । ऐकाहिकोऽनुचरः । सूक्तेष चान्त्यमुद्धृत्यैकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात्

॥४॥

एवं निष्केवल्ये

॥५॥

अभि त्यन्देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदेका तृचस्थाने । ऐकाहिकोऽनुचरः । सूक्तेषु चैकाहिकान्युपसंशस्य तेषु निविदो दध्यात्

॥६॥

एवमेवाग्निमारुते

॥७॥

चतुर्थं पृष्ठ्याहरुत्तमं

॥८॥

ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमोऽप्तोर्यामो वा

॥१०॥

भूमिपुरुषवर्जमब्राह्मणानां वित्तानि प्रतिदिशमृत्विग्भ्यो दक्षिणा ददाति । प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुः । एता एव होत्रकाः अन्वायत्ता अन्वायत्ताः

॥१०॥