पारम्परिकम्
नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः ॥
॥१॥रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥
॥२॥पञ्चाननः परब्रह्म अघोरो घोरविक्रमः ।
ज्वालामुखो ज्वालामाली महाज्वालो महाप्रभुः ॥
॥३॥निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥
॥४॥हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रो सुभद्रकः ॥
॥५॥करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥
॥६॥भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः ।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥
॥७॥विश्वम्भरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः ।
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥
॥८॥सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानादः परन्तपः ॥
॥९॥सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥
॥१०॥वैशाखशुक्लसम्भूतः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥
॥११॥वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥
॥१२॥जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी ॥
॥१३॥परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥
॥१४॥इति श्री-नृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्