- १ॐ राजीवलोचनाय नमः
- २ॐ श्रीमते नमः
- ३ॐ श्रीरामाय नमः
- ४ॐ रघुपुङ्गवाय नमः
- ५ॐ रामभद्राय नमः
- ६ॐ सदाचाराय नमः
- ७ॐ राजेन्द्राय नमः
- ८ॐ जानकीपतये नमः
- ९ॐ अग्रगण्याय नमः
- १०ॐ वरेण्याय नमः
- ११ॐ वरदाय नमः
- १२ॐ परमेश्वराय नमः
- १३ॐ जनार्दनाय नमः
- १४ॐ जितामित्राय नमः
- १५ॐ परार्थैकप्रयोजनाय नमः
- १६ॐ विश्वामित्रप्रियाय नमः
- १७ॐ दान्ताय नमः
- १८ॐ शत्रुजिते नमः
- १९ॐ शत्रुतापनाय नमः
- २०ॐ सर्वज्ञाय नमः
- २१ॐ सर्वदेवादये नमः
- २२ॐ शरण्याय नमः
- २३ॐ वालिमर्दनाय नमः
- २४ॐ ज्ञानभव्याय नमः
- २५ॐ अपरिच्छेद्याय नमः
- २६ॐ वाग्मिने नमः
- २७ॐ सत्यव्रताय नमः
- २८ॐ शुचये नमः
- २९ॐ ज्ञानगम्याय नमः
- ३०ॐ दृढप्रज्ञाय नमः
- ३१ॐ खरध्वंसिने नमः
- ३२ॐ प्रतापवते नमः
- ३३ॐ द्युतिमते नमः
- ३४ॐ आत्मवते नमः
- ३५ॐ वीराय नमः
- ३६ॐ जितक्रोधाय नमः
- ३७ॐ अरिमर्दनाय नमः
- ३८ॐ विश्वरूपाय नमः
- ३९ॐ विशालाक्षाय नमः
- ४०ॐ प्रभवे नमः
- ४१ॐ परिवृढाय नमः
- ४२ॐ दृढाय नमः
- ४३ॐ ईशाय नमः
- ४४ॐ खड्गधराय नमः
- ४५ॐ श्रीमते नमः
- ४६ॐ कौसलेयाय नमः
- ४७ॐ अनसूयकाय नमः
- ४८ॐ विपुलांसाय नमः
- ४९ॐ महोरस्काय नमः
- ५०ॐ परमेष्ठिने नमः
- ५१ॐ परायणाय नमः
- ५२ॐ सत्यव्रताय नमः
- ५३ॐ सत्यसन्धाय नमः
- ५४ॐ गुरवे नमः
- ५५ॐ परमधार्मिकाय नमः
- ५६ॐ लोकज्ञाय नमः
- ५७ॐ लोकवन्द्याय नमः
- ५८ॐ लोकात्मने नमः
- ५९ॐ लोककृते नमः
- ६०ॐ परस्मै नमः
- ६१ॐ अनादये नमः
- ६२ॐ भगवते नमः
- ६३ॐ सेव्याय नमः
- ६४ॐ जितमायाय नमः
- ६५ॐ रघूद्वहाय नमः
- ६६ॐ रामाय नमः
- ६७ॐ दयाकराय नमः
- ६८ॐ दक्षाय नमः
- ६९ॐ सर्वज्ञाय नमः
- ७०ॐ सर्वपावनाय नमः
- ७१ॐ ब्रह्मण्याय नमः
- ७२ॐ नीतिमते नमः
- ७३ॐ गोप्त्रे नमः
- ७४ॐ सर्वदेवमयाय नमः
- ७५ॐ हरये नमः
- ७६ॐ सुन्दराय नमः
- ७७ॐ पीतवाससे नमः
- ७८ॐ सूत्रकाराय नमः
- ७९ॐ पुरातनाय नमः
- ८०ॐ सौम्याय नमः
- ८१ॐ महर्षये नमः
- ८२ॐ कोदण्डिने नमः
- ८३ॐ सर्वज्ञाय नमः
- ८४ॐ सर्वकोविदाय नमः
- ८५ॐ कवये नमः
- ८६ॐ सुग्रीववरदाय नमः
- ८७ॐ सर्वपुण्याधिकप्रदाय नमः
- ८८ॐ भव्याय नमः
- ८९ॐ जितारिषड्वर्गाय नमः
- ९०ॐ महोदराय नमः
- ९१ॐ अघनाशनाय नमः
- ९२ॐ सुकीर्तये नमः
- ९३ॐ आदिपुरुषाय नमः
- ९४ॐ कान्ताय नमः
- ९५ॐ पुण्यकृतागमाय नमः
- ९६ॐ अकल्मषाय नमः
- ९७ॐ चतुर्बाहवे नमः
- ९८ॐ सर्वावासाय नमः
- ९९ॐ दुरासदाय नमः
- १००ॐ स्मितभाषिणे नमः
- १०१ॐ निवृत्तात्मने नमः
- १०२ॐ स्मृतिमते नमः
- १०३ॐ वीर्यवते नमः
- १०४ॐ प्रभवे नमः
- १०५ॐ धीराय नमः
- १०६ॐ दान्ताय नमः
- १०७ॐ घनश्यामाय नमः
- १०८ॐ सर्वायुधविशारदाय नमः
- १०९ॐ अध्यात्मयोगनिलयाय नमः
- ११०ॐ सुमनसे नमः
- १११ॐ लक्ष्मणाग्रजाय नमः
- ११२ॐ सर्वतीर्थमयाय नमः
- ११३ॐ शूराय नमः
- ११४ॐ सर्वयज्ञफलप्रदाय नमः
- ११५ॐ यज्ञस्वरूपिणे नमः
- ११६ॐ यज्ञेशाय नमः
- ११७ॐ जरामरणवर्जिताय नमः
- ११८ॐ वर्णाश्रमकराय नमः
- ११९ॐ वर्णिने नमः
- १२०ॐ शत्रुजिते नमः
- १२१ॐ पुरुषोत्तमाय नमः
- १२२ॐ विभीषणप्रतिष्ठात्रे नमः
- १२३ॐ परमात्मने नमः
- १२४ॐ परात्पराय नमः
- १२५ॐ प्रमाणभूताय नमः
- १२६ॐ दुर्ज्ञेयाय नमः
- १२७ॐ पूर्णाय नमः
- १२८ॐ परपुरञ्जयाय नमः
- १२९ॐ अनन्तदृष्टये नमः
- १३०ॐ आनन्दाय नमः
- १३१ॐ धनुर्वेदाय नमः
- १३२ॐ धनुर्धराय नमः
- १३३ॐ गुणाकाराय नमः
- १३४ॐ गुणश्रेष्ठाय नमः
- १३५ॐ सच्चिदानन्दविग्रहाय नमः
- १३६ॐ अभिवन्द्याय नमः
- १३७ॐ महाकायाय नमः
- १३८ॐ विश्वकर्मणे नमः
- १३९ॐ विशारदाय नमः
- १४०ॐ विनीतात्मने नमः
- १४१ॐ वीतरागाय नमः
- १४२ॐ तपस्वीशाय नमः
- १४३ॐ जनेश्वराय नमः
- १४४ॐ कल्याणप्रकृतये नमः
- १४५ॐ कल्पाय नमः
- १४६ॐ सर्वेशाय नमः
- १४७ॐ सर्वकामदाय नमः
- १४८ॐ अक्षयाय नमः
- १४९ॐ पुरुषाय नमः
- १५०ॐ साक्षिणे नमः
- १५१ॐ केशवाय नमः
- १५२ॐ पुरुषोत्तमाय नमः
- १५३ॐ लोकाध्यक्षाय नमः
- १५४ॐ महामायाय नमः
- १५५ॐ विभीषणवरप्रदाय नमः
- १५६ॐ आनन्दविग्रहाय नमः
- १५७ॐ ज्योतिषे नमः
- १५८ॐ हनुमत्प्रभवे नमः
- १५९ॐ अव्ययाय नमः
- १६०ॐ भ्राजिष्णवे नमः
- १६१ॐ सहनाय नमः
- १६२ॐ भोक्त्रे नमः
- १६३ॐ सत्यवादिने नमः
- १६४ॐ बहुश्रुताय नमः
- १६५ॐ सुखदाय नमः
- १६६ॐ कारणाय नमः
- १६७ॐ कर्त्रे नमः
- १६८ॐ भवबन्धविमोचनाय नमः
- १६९ॐ देवचूडामणये नमः
- १७०ॐ नेत्रे नमः
- १७१ॐ ब्रह्मण्याय नमः
- १७२ॐ ब्रह्मवर्धनाय नमः
- १७३ॐ संसारतारकाय नमः
- १७४ॐ रामाय नमः
- १७५ॐ सर्वदुःखविमोक्षकृते नमः
- १७६ॐ विद्वत्तमाय नमः
- १७७ॐ विश्वकर्त्रे नमः
- १७८ॐ विश्वहर्त्रे नमः
- १७९ॐ विश्वकृते नमः
- १८०ॐ नित्याय नमः
- १८१ॐ नित्यकल्याणाय नमः
- १८२ॐ सीताशोकविनाशकृते नमः
- १८३ॐ काकुत्स्थाय नमः
- १८४ॐ पुण्डरीकाक्षाय नमः
- १८५ॐ विश्वामित्रभयापहाय नमः
- १८६ॐ मारीचमथनाय नमः
- १८७ॐ रामाय नमः
- १८८ॐ विराधवधपण्डिताय नमः
- १८९ॐ दुःस्वप्ननाशनाय नमः
- १९०ॐ रम्याय नमः
- १९१ॐ किरीटिने नमः
- १९२ॐ त्रिदशाधिपाय नमः
- १९३ॐ महाधनुषे नमः
- १९४ॐ महाकायाय नमः
- १९५ॐ भीमाय नमः
- १९६ॐ भीमपराक्रमाय नमः
- १९७ॐ तत्त्वस्वरूपिणे नमः
- १९८ॐ तत्त्वज्ञाय नमः
- १९९ॐ तत्त्ववादिने नमः
- २००ॐ सुविक्रमाय नमः
- २०१ॐ भूतात्मने नमः
- २०२ॐ भूतकृते नमः
- २०३ॐ स्वामिने नमः
- २०४ॐ कालज्ञानिने नमः
- २०५ॐ महापटवे नमः
- २०६ॐ अनिर्विण्णाय नमः
- २०७ॐ गुणग्राहिणे नमः
- २०८ॐ निष्कलङ्काय नमः
- २०९ॐ कलङ्कघ्ने नमः
- २१०ॐ स्वभावभद्राय नमः
- २११ॐ शत्रुघ्नाय नमः
- २१२ॐ केशवाय नमः
- २१३ॐ स्थाणवे नमः
- २१४ॐ ईश्वराय नमः
- २१५ॐ भूतादये नमः
- २१६ॐ शम्भवे नमः
- २१७ॐ आदित्याय नमः
- २१८ॐ स्थविष्ठाय नमः
- २१९ॐ शाश्वताय नमः
- २२०ॐ ध्रुवाय नमः
- २२१ॐ कवचिने नमः
- २२२ॐ कुण्डलिने नमः
- २२३ॐ चक्रिणे नमः
- २२४ॐ खड्गिने नमः
- २२५ॐ भक्तजनप्रियाय नमः
- २२६ॐ अमृत्यवे नमः
- २२७ॐ जन्मरहिताय नमः
- २२८ॐ सर्वजिते नमः
- २२९ॐ सर्वगोचराय नमः
- २३०ॐ अनुत्तमाय नमः
- २३१ॐ अप्रमेयात्मने नमः
- २३२ॐ सर्वादये नमः
- २३३ॐ गुणसागराय नमः
- २३४ॐ समाय नमः
- २३५ॐ समात्मने नमः
- २३६ॐ समगाय नमः
- २३७ॐ जटामुकुटमण्डिताय नमः
- २३८ॐ अजेयाय नमः
- २३९ॐ सर्वभूतात्मने नमः
- २४०ॐ विष्वक्सेनाय नमः
- २४१ॐ महातपसे नमः
- २४२ॐ लोकाध्यक्षाय नमः
- २४३ॐ महाबाहवे नमः
- २४४ॐ अमृताय नमः
- २४५ॐ वेदवित्तमाय नमः
- २४६ॐ सहिष्णवे नमः
- २४७ॐ सद्गतये नमः
- २४८ॐ शास्त्रे नमः
- २४९ॐ विश्वयोनये नमः
- २५०ॐ महाद्युतये नमः
- २५१ॐ अतीन्द्राय नमः
- २५२ॐ ऊर्जिताय नमः
- २५३ॐ प्रांशवे नमः
- २५४ॐ उपेन्द्राय नमः
- २५५ॐ वामनाय नमः
- २५६ॐ बलिने नमः
- २५७ॐ धनुर्वेदाय नमः
- २५८ॐ विधात्रे नमः
- २५९ॐ ब्रह्मणे नमः
- २६०ॐ विष्णवे नमः
- २६१ॐ शङ्कराय नमः
- २६२ॐ हंसाय नमः
- २६३ॐ मरीचये नमः
- २६४ॐ गोविन्दाय नमः
- २६५ॐ रत्नगर्भाय नमः
- २६६ॐ महामतये नमः
- २६७ॐ व्यासाय नमः
- २६८ॐ वाचस्पतये नमः
- २६९ॐ सर्वदर्पितासुरमर्दनाय नमः
- २७०ॐ जानकीवल्लभाय नमः
- २७१ॐ पूज्याय नमः
- २७२ॐ प्रकटाय नमः
- २७३ॐ प्रीतिवर्धनाय नमः
- २७४ॐ सम्भवाय नमः
- २७५ॐ अतीन्द्रियाय नमः
- २७६ॐ वेद्याय नमः
- २७७ॐ अनिर्देशाय नमः
- २७८ॐ जाम्बवत्प्रभवे नमः
- २७९ॐ मदनाय नमः
- २८०ॐ मथनाय नमः
- २८१ॐ व्यापिने नमः
- २८२ॐ विश्वरूपिणे नमः
- २८३ॐ निरञ्जनाय नमः
- २८४ॐ नारायणाय नमः
- २८५ॐ अग्रण्ये नमः
- २८६ॐ साधवे नमः
- २८७ॐ जटायुप्रीतिवर्धनाय नमः
- २८८ॐ नैकरूपाय नमः
- २८९ॐ जगन्नाथाय नमः
- २९०ॐ सुरकार्यहिताय नमः
- २९१ॐ स्वभुवे नमः
- २९२ॐ जितक्रोधाय नमः
- २९३ॐ जितारातये नमः
- २९४ॐ प्लवगाधिपराज्यदाय नमः
- २९५ॐ वसुदाय नमः
- २९६ॐ सुभुजाय नमः
- २९७ॐ नैकमायाय नमः
- २९८ॐ भव्यप्रमोदनाय नमः
- २९९ॐ चण्डांशवे नमः
- ३००ॐ सिद्धिदाय नमः
- ३०१ॐ कल्पाय नमः
- ३०२ॐ शरणागतवत्सलाय नमः
- ३०३ॐ अगदाय नमः
- ३०४ॐ रोगहर्त्रे नमः
- ३०५ॐ मन्त्रज्ञाय नमः
- ३०६ॐ मन्त्रभावनाय नमः
- ३०७ॐ सौमित्रिवत्सलाय नमः
- ३०८ॐ धुर्याय नमः
- ३०९ॐ व्यक्ताव्यक्तस्वरूपधृते नमः
- ३१०ॐ वसिष्ठाय नमः
- ३११ॐ ग्रामण्ये नमः
- ३१२ॐ श्रीमते नमः
- ३१३ॐ अनुकूलाय नमः
- ३१४ॐ प्रियंवदाय नमः
- ३१५ॐ अतुलाय नमः
- ३१६ॐ सात्त्विकाय नमः
- ३१७ॐ धीराय नमः
- ३१८ॐ शरासनविशारदाय नमः
- ३१९ॐ ज्येष्ठाय नमः
- ३२०ॐ सर्वगुणोपेताय नमः
- ३२१ॐ शक्तिमते नमः
- ३२२ॐ ताटकान्तकाय नमः
- ३२३ॐ वैकुण्ठाय नमः
- ३२४ॐ प्राणिनां प्राणाय नमः
- ३२५ॐ कमठाय नमः
- ३२६ॐ कमलापतये नमः
- ३२७ॐ गोवर्धनधराय नमः
- ३२८ॐ मत्स्यरूपाय नमः
- ३२९ॐ कारुण्यसागराय नमः
- ३३०ॐ कुम्भकर्णप्रभेत्त्रे नमः
- ३३१ॐ गोपिगोपालसंवृताय नमः
- ३३२ॐ मायाविने नमः
- ३३३ॐ व्यापकाय नमः
- ३३४ॐ व्यापिने नमः
- ३३५ॐ रैणुकेयबलापहाय नमः
- ३३६ॐ पिनाकमथनाय नमः
- ३३७ॐ वन्द्याय नमः
- ३३८ॐ समर्थाय नमः
- ३३९ॐ गरुडध्वजाय नमः
- ३४०ॐ लोकत्रयाश्रयाय नमः
- ३४१ॐ लोकचरिताय नमः
- ३४२ॐ भरताग्रजाय नमः
- ३४३ॐ श्रीधराय नमः
- ३४४ॐ सद्गतये नमः
- ३४५ॐ लोकसाक्षिणे नमः
- ३४६ॐ नारायणाय नमः
- ३४७ॐ बुधाय नमः
- ३४८ॐ मनोवेगिने नमः
- ३४९ॐ मनोरूपिणे नमः
- ३५०ॐ पूर्णाय नमः
- ३५१ॐ पुरुषपुङ्गवाय नमः
- ३५२ॐ यदुश्रेष्ठाय नमः
- ३५३ॐ यदुपतये नमः
- ३५४ॐ भूतावासाय नमः
- ३५५ॐ सुविक्रमाय नमः
- ३५६ॐ तेजोधराय नमः
- ३५७ॐ धराधाराय नमः
- ३५८ॐ चतुर्मूर्तये नमः
- ३५९ॐ महानिधये नमः
- ३६०ॐ चाणूरमर्दनाय नमः
- ३६१ॐ दिव्याय नमः
- ३६२ॐ शान्ताय नमः
- ३६३ॐ भरतवन्दिताय नमः
- ३६४ॐ शब्दातिगाय नमः
- ३६५ॐ गभीरात्मने नमः
- ३६६ॐ कोमलाङ्गाय नमः
- ३६७ॐ प्रजागराय नमः
- ३६८ॐ लोकगर्भाय नमः
- ३६९ॐ शेषशायिने नमः
- ३७०ॐ क्षीराब्धिनिलयाय नमः
- ३७१ॐ अमलाय नमः
- ३७२ॐ आत्मयोनये नमः
- ३७३ॐ अदीनात्मने नमः
- ३७४ॐ सहस्राक्षाय नमः
- ३७५ॐ सहस्रपदे नमः
- ३७६ॐ अमृतांशवे नमः
- ३७७ॐ महागर्भाय नमः
- ३७८ॐ निवृत्तविषयस्पृहाय नमः
- ३७९ॐ त्रिकालज्ञाय नमः
- ३८०ॐ मुनये नमः
- ३८१ॐ साक्षिणे नमः
- ३८२ॐ विहायसगतये नमः
- ३८३ॐ कृतिने नमः
- ३८४ॐ पर्जन्याय नमः
- ३८५ॐ कुमुदाय नमः
- ३८६ॐ भूतावासाय नमः
- ३८७ॐ कमललोचनाय नमः
- ३८८ॐ श्रीवत्सवक्षसे नमः
- ३८९ॐ श्रीवासाय नमः
- ३९०ॐ वीरघ्ने नमः
- ३९१ॐ लक्ष्मणाग्रजाय नमः
- ३९२ॐ लोकाभिरामाय नमः
- ३९३ॐ लोकारिमर्दनाय नमः
- ३९४ॐ सेवकप्रियाय नमः
- ३९५ॐ सनातनतमाय नमः
- ३९६ॐ मेघश्यामलाय नमः
- ३९७ॐ राक्षसान्तकृते नमः
- ३९८ॐ दिव्यायुधधराय नमः
- ३९९ॐ श्रीमते नमः
- ४००ॐ अप्रमेयाय नमः
- ४०१ॐ जितेन्द्रियाय नमः
- ४०२ॐ भूदेववन्द्याय नमः
- ४०३ॐ जनकप्रियकृते नमः
- ४०४ॐ प्रपितामहाय नमः
- ४०५ॐ उत्तमाय नमः
- ४०६ॐ सात्त्विकाय नमः
- ४०७ॐ सत्याय नमः
- ४०८ॐ सत्यसन्धाय नमः
- ४०९ॐ त्रिविक्रमाय नमः
- ४१०ॐ सुव्रताय नमः
- ४११ॐ सुलभाय नमः
- ४१२ॐ सूक्ष्माय नमः
- ४१३ॐ सुघोषाय नमः
- ४१४ॐ सुखदाय नमः
- ४१५ॐ सुधिये नमः
- ४१६ॐ दामोदराय नमः
- ४१७ॐ अच्युताय नमः
- ४१८ॐ शार्ङ्गिणे नमः
- ४१९ॐ वामनाय नमः
- ४२०ॐ मधुराधिपाय नमः
- ४२१ॐ देवकीनन्दनाय नमः
- ४२२ॐ शौरये नमः
- ४२३ॐ शूराय नमः
- ४२४ॐ कैटभमर्दनाय नमः
- ४२५ॐ सप्ततालप्रभेत्त्रे नमः
- ४२६ॐ मित्रवंशप्रवर्धनाय नमः
- ४२७ॐ कालस्वरूपिणे नमः
- ४२८ॐ कालात्मने नमः
- ४२९ॐ कालाय नमः
- ४३०ॐ कल्याणदाय नमः
- ४३१ॐ कवये नमः
- ४३२ॐ संवत्सराय नमः
- ४३३ॐ ऋतवे नमः
- ४३४ॐ पक्षाय नमः
- ४३५ॐ अयनाय नमः
- ४३६ॐ दिवसाय नमः
- ४३७ॐ युगाय नमः
- ४३८ॐ स्तव्याय नमः
- ४३९ॐ विविक्ताय नमः
- ४४०ॐ निर्लेपाय नमः
- ४४१ॐ सर्वव्यापिने नमः
- ४४२ॐ निराकुलाय नमः
- ४४३ॐ अनादिनिधनाय नमः
- ४४४ॐ सर्वलोकपूज्याय नमः
- ४४५ॐ निरामयाय नमः
- ४४६ॐ रसाय नमः
- ४४७ॐ रसज्ञाय नमः
- ४४८ॐ सारज्ञाय नमः
- ४४९ॐ लोकसाराय नमः
- ४५०ॐ रसात्मकाय नमः
- ४५१ॐ सर्वदुःखातिगाय नमः
- ४५२ॐ विद्याराशये नमः
- ४५३ॐ परमगोचराय नमः
- ४५४ॐ शेषाय नमः
- ४५५ॐ विशेषाय नमः
- ४५६ॐ विगतकल्मषाय नमः
- ४५७ॐ रघुनायकाय नमः
- ४५८ॐ वर्णश्रेष्ठाय नमः
- ४५९ॐ वर्णवाह्याय नमः
- ४६०ॐ वर्ण्याय नमः
- ४६१ॐ वर्ण्यगुणोज्ज्वलाय नमः
- ४६२ॐ कर्मसाक्षिणे नमः
- ४६३ॐ अमरश्रेष्ठाय नमः
- ४६४ॐ देवदेवाय नमः
- ४६५ॐ सुखप्रदाय नमः
- ४६६ॐ देवाधिदेवाय नमः
- ४६७ॐ देवर्षये नमः
- ४६८ॐ देवासुरनमस्कृताय नमः
- ४६९ॐ सर्वदेवमयाय नमः
- ४७०ॐ चक्रिणे नमः
- ४७१ॐ शार्ङ्गपाणये नमः
- ४७२ॐ रघूत्तमाय नमः
- ४७३ॐ मनसे नमः
- ४७४ॐ बुद्ध्यै नमः
- ४७५ॐ अहङ्काराय नमः
- ४७६ॐ प्रकृत्यै नमः
- ४७७ॐ पुरुषाय नमः
- ४७८ॐ अव्ययाय नमः
- ४७९ॐ अहल्यापावनाय नमः
- ४८०ॐ स्वामिने नमः
- ४८१ॐ पितृभक्ताय नमः
- ४८२ॐ वरप्रदाय नमः
- ४८३ॐ न्यायाय नमः
- ४८४ॐ न्यायिने नमः
- ४८५ॐ नयिने नमः
- ४८६ॐ श्रीमते नमः
- ४८७ॐ नयाय नमः
- ४८८ॐ नगधराय नमः
- ४८९ॐ ध्रुवाय नमः
- ४९०ॐ लक्ष्मीविश्वम्भराभर्त्रे नमः
- ४९१ॐ देवेन्द्राय नमः
- ४९२ॐ बलिमर्दनाय नमः
- ४९३ॐ वाणारिमर्दनाय नमः
- ४९४ॐ यज्वने नमः
- ४९५ॐ अनुत्तमाय नमः
- ४९६ॐ मुनिसेविताय नमः
- ४९७ॐ देवाग्रणये नमः
- ४९८ॐ शिवध्यानतत्पराय नमः
- ४९९ॐ परमाय नमः
- ५००ॐ परस्मै नमः
- ५०१ॐ सामगेयाय नमः
- ५०२ॐ प्रियाय नमः
- ५०३ॐ अक्रूराय नमः
- ५०४ॐ पुण्यकीर्तये नमः
- ५०५ॐ सुलोचनाय नमः
- ५०६ॐ पुण्याय नमः
- ५०७ॐ पुण्याधिकाय नमः
- ५०८ॐ पूर्वस्मै नमः
- ५०९ॐ पूर्णाय नमः
- ५१०ॐ पूरयित्रे नमः
- ५११ॐ रवये नमः
- ५१२ॐ जटिलाय नमः
- ५१३ॐ कल्मषध्वान्तप्रभञ्जनविभावसवे नमः
- ५१४ॐ अव्यक्तलक्षणाय नमः
- ५१५ॐ अव्यक्ताय नमः
- ५१६ॐ दशास्यद्विपकेसरिणे नमः
- ५१७ॐ कलानिधये नमः
- ५१८ॐ कलानाथाय नमः
- ५१९ॐ कमलानन्दवर्धनाय नमः
- ५२०ॐ जयिने नमः
- ५२१ॐ जितारये नमः
- ५२२ॐ सर्वादये नमः
- ५२३ॐ शमनाय नमः
- ५२४ॐ भवभञ्जनाय नमः
- ५२५ॐ अलङ्करिष्णवे नमः
- ५२६ॐ अचलाय नमः
- ५२७ॐ रोचिष्णवे नमः
- ५२८ॐ विक्रमोत्तमाय नमः
- ५२९ॐ आशवे नमः
- ५३०ॐ शब्दपतये नमः
- ५३१ॐ शब्दागोचराय नमः
- ५३२ॐ रञ्जनाय नमः
- ५३३ॐ रघवे नमः
- ५३४ॐ निःशब्दाय नमः
- ५३५ॐ प्रणवाय नमः
- ५३६ॐ मालिने नमः
- ५३७ॐ स्थूलाय नमः
- ५३८ॐ सूक्ष्माय नमः
- ५३९ॐ विलक्षणाय नमः
- ५४०ॐ आत्मयोनये नमः
- ५४१ॐ अयोनये नमः
- ५४२ॐ सप्तजिह्वाय नमः
- ५४३ॐ सहस्रपदे नमः
- ५४४ॐ सनातनतमाय नमः
- ५४५ॐ स्रग्विणे नमः
- ५४६ॐ पेशलाय नमः
- ५४७ॐ जविनां वराय नमः
- ५४८ॐ शक्तिमते नमः
- ५४९ॐ शङ्खभृते नमः
- ५५०ॐ नाथाय नमः
- ५५१ॐ गदापद्मरथाङ्गभृते नमः
- ५५२ॐ निरीहाय नमः
- ५५३ॐ निर्विकल्पाय नमः
- ५५४ॐ चिद्रूपाय नमः
- ५५५ॐ वीतसाध्वसाय नमः
- ५५६ॐ शताननाय नमः
- ५५७ॐ सहस्राक्षाय नमः
- ५५८ॐ शतमूर्तये नमः
- ५५९ॐ घनप्रभाय नमः
- ५६०ॐ हृत्पुण्डरीकशयनाय नमः
- ५६१ॐ कठिनाय नमः
- ५६२ॐ द्रवाय नमः
- ५६३ॐ उग्राय नमः
- ५६४ॐ ग्रहपतये नमः
- ५६५ॐ श्रीमते नमः
- ५६६ॐ समर्थाय नमः
- ५६७ॐ अनर्थनाशनाय नमः
- ५६८ॐ अधर्मशत्रवे नमः
- ५६९ॐ रक्षोघ्नाय नमः
- ५७०ॐ पुरुहूताय नमः
- ५७१ॐ पुरुष्टुताय नमः
- ५७२ॐ ब्रह्मगर्भाय नमः
- ५७३ॐ बृहद्गर्भाय नमः
- ५७४ॐ धर्मधेनवे नमः
- ५७५ॐ धनागमाय नमः
- ५७६ॐ हिरण्यगर्भाय नमः
- ५७७ॐ ज्योतिष्मते नमः
- ५७८ॐ सुललाटाय नमः
- ५७९ॐ सुविक्रमाय नमः
- ५८०ॐ शिवपूजारताय नमः
- ५८१ॐ श्रीमते नमः
- ५८२ॐ भवानीप्रियकृते नमः
- ५८३ॐ वशिने नमः
- ५८४ॐ नराय नमः
- ५८५ॐ नारायणाय नमः
- ५८६ॐ श्यामाय नमः
- ५८७ॐ कपर्दिने नमः
- ५८८ॐ नीललोहिताय नमः
- ५८९ॐ रुद्राय नमः
- ५९०ॐ पशुपतये नमः
- ५९१ॐ स्थाणवे नमः
- ५९२ॐ विश्वामित्राय नमः
- ५९३ॐ द्विजेश्वराय नमः
- ५९४ॐ मातामहाय नमः
- ५९५ॐ मातरिश्वने नमः
- ५९६ॐ विरिञ्चाय नमः
- ५९७ॐ विष्टरश्रवसे नमः
- ५९८ॐ सर्वभूतानाम् अक्षोभ्याय नमः
- ५९९ॐ चण्डाय नमः
- ६००ॐ सत्यपराक्रमाय नमः
- ६०१ॐ वालखिल्याय नमः
- ६०२ॐ महाकल्पाय नमः
- ६०३ॐ कल्पवृक्षाय नमः
- ६०४ॐ कलाधराय नमः
- ६०५ॐ निदाघाय नमः
- ६०६ॐ तपनाय नमः
- ६०७ॐ अमोघाय नमः
- ६०८ॐ श्लक्ष्णाय नमः
- ६०९ॐ परबलापहृते नमः
- ६१०ॐ कबन्धमथनाय नमः
- ६११ॐ दिव्याय नमः
- ६१२ॐ कम्बुग्रीवशिवप्रियाय नमः
- ६१३ॐ शङ्खाय नमः
- ६१४ॐ अनिलाय नमः
- ६१५ॐ सुनिष्पन्नाय नमः
- ६१६ॐ सुलभाय नमः
- ६१७ॐ शिशिरात्मकाय नमः
- ६१८ॐ असंसृष्टाय नमः
- ६१९ॐ अतिथये नमः
- ६२०ॐ शूराय नमः
- ६२१ॐ प्रमाथिने नमः
- ६२२ॐ पापनाशकृते नमः
- ६२३ॐ वसुश्रवसे नमः
- ६२४ॐ कव्यवाहाय नमः
- ६२५ॐ प्रतप्ताय नमः
- ६२६ॐ विश्वभोजनाय नमः
- ६२७ॐ रामाय नमः
- ६२८ॐ नीलोत्पलश्यामाय नमः
- ६२९ॐ ज्ञानस्कन्धाय नमः
- ६३०ॐ महाद्युतये नमः
- ६३१ॐ पवित्रपादाय नमः
- ६३२ॐ पापारये नमः
- ६३३ॐ मणिपूराय नमः
- ६३४ॐ नभोगतये नमः
- ६३५ॐ उत्तारणाय नमः
- ६३६ॐ दुष्कृतिघ्ने नमः
- ६३७ॐ दुर्धर्षाय नमः
- ६३८ॐ दुःसहाय नमः
- ६३९ॐ अभयाय नमः
- ६४०ॐ अमृतेशाय नमः
- ६४१ॐ अमृतवपुषे नमः
- ६४२ॐ धर्मिणे नमः
- ६४३ॐ धर्माय नमः
- ६४४ॐ कृपाकराय नमः
- ६४५ॐ भर्गाय नमः
- ६४६ॐ विवस्वते नमः
- ६४७ॐ आदित्याय नमः
- ६४८ॐ योगाचार्याय नमः
- ६४९ॐ दिवस्पतये नमः
- ६५०ॐ उदारकीर्तये नमः
- ६५१ॐ उद्योगिने नमः
- ६५२ॐ वाङ्मयाय नमः
- ६५३ॐ सदसन्मयाय नमः
- ६५४ॐ नक्षत्रमालिने नमः
- ६५५ॐ नाकेशाय नमः
- ६५६ॐ स्वाधिष्ठानाय नमः
- ६५७ॐ षडाश्रयाय नमः
- ६५८ॐ चतुर्वर्गफलाय नमः
- ६५९ॐ वर्णिने नमः
- ६६०ॐ शक्तित्रयफलाय नमः
- ६६१ॐ निधये नमः
- ६६२ॐ निधानगर्भाय नमः
- ६६३ॐ निर्व्याजाय नमः
- ६६४ॐ गिरीशाय नमः
- ६६५ॐ व्यालमर्दनाय नमः
- ६६६ॐ श्रीवल्लभाय नमः
- ६६७ॐ शिवारम्भाय नमः
- ६६८ॐ शान्तये नमः
- ६६९ॐ भद्राय नमः
- ६७०ॐ समञ्जसाय नमः
- ६७१ॐ भूशयाय नमः
- ६७२ॐ भूतिकृते नमः
- ६७३ॐ भूत्यै नमः
- ६७४ॐ भूषणाय नमः
- ६७५ॐ भूतवाहनाय नमः
- ६७६ॐ अकायाय नमः
- ६७७ॐ भक्तकायस्थाय नमः
- ६७८ॐ कालज्ञानिने नमः
- ६७९ॐ महावटवे नमः
- ६८०ॐ परार्थवृत्तये नमः
- ६८१ॐ अचलाय नमः
- ६८२ॐ विविक्ताय नमः
- ६८३ॐ श्रुतिसागराय नमः
- ६८४ॐ स्वभावभद्राय नमः
- ६८५ॐ मध्यस्थाय नमः
- ६८६ॐ संसारभयनाशनाय नमः
- ६८७ॐ वेद्याय नमः
- ६८८ॐ वैद्याय नमः
- ६८९ॐ वियद्गोप्त्रे नमः
- ६९०ॐ सर्वामरमुनीश्वराय नमः
- ६९१ॐ सुरेन्द्राय नमः
- ६९२ॐ करणाय नमः
- ६९३ॐ कर्मणे नमः
- ६९४ॐ कर्मकृते नमः
- ६९५ॐ कर्मिणे नमः
- ६९६ॐ अधोक्षजाय नमः
- ६९७ॐ ध्येयाय नमः
- ६९८ॐ धुर्याय नमः
- ६९९ॐ धराधीशाय नमः
- ७००ॐ सङ्कल्पाय नमः
- ७०१ॐ शर्वरीपतये नमः
- ७०२ॐ परमार्थगुरवे नमः
- ७०३ॐ वृद्धाय नमः
- ७०४ॐ शुचये नमः
- ७०५ॐ आश्रितवत्सलाय नमः
- ७०६ॐ विष्णवे नमः
- ७०७ॐ जिष्णवे नमः
- ७०८ॐ विभवे नमः
- ७०९ॐ वन्द्याय नमः
- ७१०ॐ यज्ञेशाय नमः
- ७११ॐ यज्ञपालकाय नमः
- ७१२ॐ प्रभविष्णवे नमः
- ७१३ॐ ग्रसिष्णवे नमः
- ७१४ॐ लोकात्मने नमः
- ७१५ॐ लोकभावनाय नमः
- ७१६ॐ केशवाय नमः
- ७१७ॐ केशिघ्ने नमः
- ७१८ॐ काव्याय नमः
- ७१९ॐ कवये नमः
- ७२०ॐ कारणकारणाय नमः
- ७२१ॐ कालकर्त्रे नमः
- ७२२ॐ कालशेषाय नमः
- ७२३ॐ वासुदेवाय नमः
- ७२४ॐ पुरुष्टुताय नमः
- ७२५ॐ आदिकर्त्रे नमः
- ७२६ॐ वराहाय नमः
- ७२७ॐ माधवाय नमः
- ७२८ॐ मधुसूदनाय नमः
- ७२९ॐ नारायणाय नमः
- ७३०ॐ नराय नमः
- ७३१ॐ हंसाय नमः
- ७३२ॐ विष्वक्सेनाय नमः
- ७३३ॐ जनार्दनाय नमः
- ७३४ॐ विश्वकर्त्रे नमः
- ७३५ॐ महायज्ञाय नमः
- ७३६ॐ ज्योतिष्मते नमः
- ७३७ॐ पुरुषोत्तमाय नमः
- ७३८ॐ वैकुण्ठाय नमः
- ७३९ॐ पुण्डरीकाक्षाय नमः
- ७४०ॐ कृष्णाय नमः
- ७४१ॐ सूर्याय नमः
- ७४२ॐ सुरार्चिताय नमः
- ७४३ॐ नारसिंहाय नमः
- ७४४ॐ महाभीमाय नमः
- ७४५ॐ वक्रदंष्ट्राय नमः
- ७४६ॐ नखायुधाय नमः
- ७४७ॐ आदिदेवाय नमः
- ७४८ॐ जगत्कर्त्रे नमः
- ७४९ॐ योगीशाय नमः
- ७५०ॐ गरुडध्वजाय नमः
- ७५१ॐ गोविन्दाय नमः
- ७५२ॐ गोपतये नमः
- ७५३ॐ गोप्त्रे नमः
- ७५४ॐ भूपतये नमः
- ७५५ॐ भुवनेश्वराय नमः
- ७५६ॐ पद्मनाभाय नमः
- ७५७ॐ हृषीकेशाय नमः
- ७५८ॐ धात्रे नमः
- ७५९ॐ दामोदराय नमः
- ७६०ॐ प्रभवे नमः
- ७६१ॐ त्रिविक्रमाय नमः
- ७६२ॐ त्रिलोकेशाय नमः
- ७६३ॐ ब्रह्मेशाय नमः
- ७६४ॐ प्रीतिवर्धनाय नमः
- ७६५ॐ वामनाय नमः
- ७६६ॐ दुष्टदमनाय नमः
- ७६७ॐ गोविन्दाय नमः
- ७६८ॐ गोपवल्लभाय नमः
- ७६९ॐ भक्तप्रियाय नमः
- ७७०ॐ अच्युताय नमः
- ७७१ॐ सत्याय नमः
- ७७२ॐ सत्यकीर्तये नमः
- ७७३ॐ धृत्यै नमः
- ७७४ॐ स्मृत्यै नमः
- ७७५ॐ कारुण्याय नमः
- ७७६ॐ करुणाय नमः
- ७७७ॐ व्यासाय नमः
- ७७८ॐ पापघ्ने नमः
- ७७९ॐ शान्तिवर्धनाय नमः
- ७८०ॐ सन्न्यासिने नमः
- ७८१ॐ शास्त्रतत्त्वज्ञाय नमः
- ७८२ॐ मन्दराद्रिनिकेतनाय नमः
- ७८३ॐ बदरीनिलयाय नमः
- ७८४ॐ शान्ताय नमः
- ७८५ॐ तपस्विने नमः
- ७८६ॐ वैद्युतप्रभाय नमः
- ७८७ॐ भूतावासाय नमः
- ७८८ॐ गुहावासाय नमः
- ७८९ॐ श्रीनिवासाय नमः
- ७९०ॐ श्रियः पतये नमः
- ७९१ॐ तपोवासाय नमः
- ७९२ॐ मुदावासाय नमः
- ७९३ॐ सत्यवासाय नमः
- ७९४ॐ सनातनाय नमः
- ७९५ॐ पुरुषाय नमः
- ७९६ॐ पुष्कराय नमः
- ७९७ॐ पुण्याय नमः
- ७९८ॐ पुष्कराक्षाय नमः
- ७९९ॐ महेश्वराय नमः
- ८००ॐ पूर्णमूर्तये नमः
- ८०१ॐ पुराणज्ञाय नमः
- ८०२ॐ पुण्यदाय नमः
- ८०३ॐ प्रीतिवर्धनाय नमः
- ८०४ॐ शङ्खिने नमः
- ८०५ॐ चक्रिणे नमः
- ८०६ॐ गदिने नमः
- ८०७ॐ शार्ङ्गिणे नमः
- ८०८ॐ लाङ्गलिने नमः
- ८०९ॐ मुसलिने नमः
- ८१०ॐ हलिने नमः
- ८११ॐ किरीटिने नमः
- ८१२ॐ कुण्डलिने नमः
- ८१३ॐ हारिणे नमः
- ८१४ॐ मेखलिने नमः
- ८१५ॐ कवचिने नमः
- ८१६ॐ ध्वजिने नमः
- ८१७ॐ योद्ध्रे नमः
- ८१८ॐ जेत्रे नमः
- ८१९ॐ महावीर्याय नमः
- ८२०ॐ शत्रुजिते नमः
- ८२१ॐ शत्रुतापनाय नमः
- ८२२ॐ शास्त्रे नमः
- ८२३ॐ शास्त्रकराय नमः
- ८२४ॐ शास्त्राय नमः
- ८२५ॐ शङ्कराय नमः
- ८२६ॐ शङ्करस्तुताय नमः
- ८२७ॐ सारथये नमः
- ८२८ॐ सात्त्विकाय नमः
- ८२९ॐ स्वामिने नमः
- ८३०ॐ सामवेदप्रियाय नमः
- ८३१ॐ समाय नमः
- ८३२ॐ पवनाय नमः
- ८३३ॐ संहताय नमः
- ८३४ॐ शक्तये नमः
- ८३५ॐ सम्पूर्णाङ्गाय नमः
- ८३६ॐ समृद्धिमते नमः
- ८३७ॐ स्वर्गदाय नमः
- ८३८ॐ कामदाय नमः
- ८३९ॐ श्रीदाय नमः
- ८४०ॐ कीर्तिदाय नमः
- ८४१ॐ अकीर्तिनाशनाय नमः
- ८४२ॐ मोक्षदाय नमः
- ८४३ॐ पुण्डरीकाक्षाय नमः
- ८४४ॐ क्षीराब्धिकृतकेतनाय नमः
- ८४५ॐ सर्वात्मने नमः
- ८४६ॐ सर्वलोकेशाय नमः
- ८४७ॐ प्रेरकाय नमः
- ८४८ॐ पापनाशनाय नमः
- ८४९ॐ सर्वव्यापिने नमः
- ८५०ॐ जगन्नाथाय नमः
- ८५१ॐ सर्वलोकमहेश्वराय नमः
- ८५२ॐ सर्गस्थित्यन्तकृते नमः
- ८५३ॐ देवाय नमः
- ८५४ॐ सर्वलोकसुखावहाय नमः
- ८५५ॐ अक्षय्याय नमः
- ८५६ॐ शाश्वताय नमः
- ८५७ॐ अनन्ताय नमः
- ८५८ॐ क्षयवृद्धिविवर्जिताय नमः
- ८५९ॐ निर्लेपाय नमः
- ८६०ॐ निर्गुणाय नमः
- ८६१ॐ सूक्ष्माय नमः
- ८६२ॐ निर्विकाराय नमः
- ८६३ॐ निरञ्जनाय नमः
- ८६४ॐ सर्वोपाधिविनिर्मुक्ताय नमः
- ८६५ॐ सत्तामात्रव्यवस्थिताय नमः
- ८६६ॐ अधिकारिणे नमः
- ८६७ॐ विभवे नमः
- ८६८ॐ नित्याय नमः
- ८६९ॐ परमात्मने नमः
- ८७०ॐ सनातनाय नमः
- ८७१ॐ अचलाय नमः
- ८७२ॐ निर्मलाय नमः
- ८७३ॐ व्यापिने नमः
- ८७४ॐ नित्यतृप्ताय नमः
- ८७५ॐ निराश्रयाय नमः
- ८७६ॐ श्यामाय नमः
- ८७७ॐ यूने नमः
- ८७८ॐ लोहिताक्षाय नमः
- ८७९ॐ दीप्तास्याय नमः
- ८८०ॐ मितभाषणाय नमः
- ८८१ॐ आजानुबाहवे नमः
- ८८२ॐ सुमुखाय नमः
- ८८३ॐ सिंहस्कन्धाय नमः
- ८८४ॐ महाभुजाय नमः
- ८८५ॐ सत्यवते नमः
- ८८६ॐ गुणसम्पन्नाय नमः
- ८८७ॐ स्वयन्तेजसे नमः
- ८८८ॐ सुदीप्तिमते नमः
- ८८९ॐ कालात्मने नमः
- ८९०ॐ भगवते नमः
- ८९१ॐ कालाय नमः
- ८९२ॐ कालचक्रप्रवर्तकाय नमः
- ८९३ॐ नारायणाय नमः
- ८९४ॐ परस्मै ज्योतिषे नमः
- ८९५ॐ परमात्मने नमः
- ८९६ॐ सनातनाय नमः
- ८९७ॐ विश्वसृजे नमः
- ८९८ॐ विश्वगोप्त्रे नमः
- ८९९ॐ विश्वभोक्त्रे नमः
- ९००ॐ शाश्वताय नमः
- ९०१ॐ विश्वेश्वराय नमः
- ९०२ॐ विश्वमूर्तये नमः
- ९०३ॐ विश्वात्मने नमः
- ९०४ॐ विश्वभावनाय नमः
- ९०५ॐ सर्वभूतसुहृदे नमः
- ९०६ॐ शान्ताय नमः
- ९०७ॐ सर्वभूतानुकम्पनाय नमः
- ९०८ॐ सर्वेश्वरेश्वराय नमः
- ९०९ॐ सर्वस्मै नमः
- ९१०ॐ श्रीमते नमः
- ९११ॐ आश्रितवत्सलाय नमः
- ९१२ॐ सर्वगाय नमः
- ९१३ॐ सर्वभूतेशाय नमः
- ९१४ॐ सर्वभूताशयस्थिताय नमः
- ९१५ॐ अभ्यन्तरस्थाय नमः
- ९१६ॐ तमसश्छेत्त्रे नमः
- ९१७ॐ नारायणाय नमः
- ९१८ॐ परस्मै नमः
- ९१९ॐ अनादिनिधनाय नमः
- ९२०ॐ स्रष्ट्रे नमः
- ९२१ॐ प्रजापतिपतये नमः
- ९२२ॐ हरये नमः
- ९२३ॐ नरसिंहाय नमः
- ९२४ॐ हृषीकेशाय नमः
- ९२५ॐ सर्वात्मने नमः
- ९२६ॐ सर्वदृशे नमः
- ९२७ॐ वशिने नमः
- ९२८ॐ जगतस्तस्थुषाय नमः
- ९२९ॐ प्रभवे नमः
- ९३०ॐ नेत्रे नमः
- ९३१ॐ सनातनाय नमः
- ९३२ॐ कर्त्रे नमः
- ९३३ॐ धात्रे नमः
- ९३४ॐ विधात्रे नमः
- ९३५ॐ सर्वेषां प्रभवे नमः
- ९३६ॐ ईश्वराय नमः
- ९३७ॐ सहस्रमूर्तये नमः
- ९३८ॐ विश्वात्मने नमः
- ९३९ॐ विष्णवे नमः
- ९४०ॐ विश्वदृशे नमः
- ९४१ॐ अव्ययाय नमः
- ९४२ॐ पुराणपुरुषाय नमः
- ९४३ॐ स्रष्ट्रे नमः
- ९४४ॐ सहस्राक्षाय नमः
- ९४५ॐ सहस्रपदे नमः
- ९४६ॐ तत्त्वाय नमः
- ९४७ॐ नारायणाय नमः
- ९४८ॐ विष्णवे नमः
- ९४९ॐ वासुदेवाय नमः
- ९५०ॐ सनातनाय नमः
- ९५१ॐ परमात्मने नमः
- ९५२ॐ परस्मै ब्रह्मणे नमः
- ९५३ॐ सच्चिदानन्दविग्रहाय नमः
- ९५४ॐ परस्मै ज्योतिषे नमः
- ९५५ॐ परस्मै धाम्ने नमः
- ९५६ॐ पराकाशाय नमः
- ९५७ॐ परात्पराय नमः
- ९५८ॐ अच्युताय नमः
- ९५९ॐ पुरुषाय नमः
- ९६०ॐ कृष्णाय नमः
- ९६१ॐ शाश्वताय नमः
- ९६२ॐ शिवाय नमः
- ९६३ॐ ईश्वराय नमः
- ९६४ॐ नित्याय नमः
- ९६५ॐ सर्वगताय नमः
- ९६६ॐ स्थाणवे नमः
- ९६७ॐ उग्राय नमः
- ९६८ॐ साक्षिणे नमः
- ९६९ॐ प्रजापतये नमः
- ९७०ॐ हिरण्यगर्भाय नमः
- ९७१ॐ सवित्रे नमः
- ९७२ॐ लोककृते नमः
- ९७३ॐ लोकभृते नमः
- ९७४ॐ विभवे नमः
- ९७५ॐ रामाय नमः
- ९७६ॐ श्रीमते नमः
- ९७७ॐ महाविष्णवे नमः
- ९७८ॐ जिष्णवे नमः
- ९७९ॐ देवहितावहाय नमः
- ९८०ॐ तत्त्वात्मने नमः
- ९८१ॐ तारकाय नमः
- ९८२ॐ ब्रह्मणे नमः
- ९८३ॐ शाश्वताय नमः
- ९८४ॐ सर्वसिद्धिदाय नमः
- ९८५ॐ अकारवाच्याय नमः
- ९८६ॐ भगवते नमः
- ९८७ॐ श्रिये नमः
- ९८८ॐ भूलीलापतये नमः
- ९८९ॐ पुंसे नमः
- ९९०ॐ सर्वलोकेश्वराय नमः
- ९९१ॐ श्रीमते नमः
- ९९२ॐ सर्वज्ञाय नमः
- ९९३ॐ सर्वतोमुखाय नमः
- ९९४ॐ स्वामिने नमः
- ९९५ॐ सुशीलाय नमः
- ९९६ॐ सुलभाय नमः
- ९९७ॐ सर्वज्ञाय नमः
- ९९८ॐ सर्वशक्तिमते नमः
- ९९९ॐ नित्याय नमः
- १०००ॐ सम्पूर्णकामाय नमः
- १००१ॐ नैसर्गिकसुहृदे नमः
- १००२ॐ सुखिने नमः
- १००३ॐ कृपापीयूषजलधये नमः
- १००४ॐ सर्वदेहिनां शरण्याय नमः
- १००५ॐ श्रीमते नमः
- १००६ॐ नारायणाय नमः
- १००७ॐ स्वामिने नमः
- १००८ॐ जगतां पतये नमः
- १००९ॐ ईश्वराय नमः
- १०१०ॐ श्रीशाय नमः
- १०११ॐ भूतानां शरण्याय नमः
- १०१२ॐ संश्रिताभीष्टदायकाय नमः
- १०१३ॐ अनन्ताय नमः
- १०१४ॐ श्रीपतये नमः
- १०१५ॐ रामाय नमः
- १०१६ॐ गुणभृते नमः
- १०१७ॐ निर्गुणाय नमः
- १०१८ॐ महते नमः
इति श्रीमदानन्दरामायणे वाल्मीकीये श्रीरामसहस्रनामावलिः सम्पूर्णा