मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गुर्वष्टकम्

3

श्रीशङ्करभगवत्पादकृतम्

शरीरं सुरूपं तथा वा कलत्रं

यशश्चारु चित्रं धनं मेरुतुल्यम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥१॥

कलत्रं धनं पुत्रपौत्रादिसर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥२॥

षडङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥४॥

क्षमामण्डले भूपभूपालबृन्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥५॥

यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तुसर्वं करे यत्प्रसादात् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥६॥

न भोगे न योगे न वा वाजिराजौ

न कन्तामुखे नैव वित्तेषु चित्तम् ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥७॥

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये ।

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

॥८॥

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-गुर्वष्टकं सम्पूर्णम्