मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री रमण गीता

3

वासिष्ठगणपतिमुनिप्रणीता

श्रीरमणगीता

अथ प्रथमोऽध्यायः । (उपासनाप्राधान्यनिरूपणम्)

महर्षि रमणं नत्वा कार्तिकेयं नराकृतिम् ।

मतं तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ॥

॥१॥

इषपुत्रशके राम भूमिनन्दधरामिते ।

एकोन्त्रिंशद्दिवसे द्वादशे मासि शीतले ॥

॥२॥

उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु ।

भगवन्तमृषि सोऽहमपृच्छं निर्णयाप्तये ॥

॥३॥

प्रथमः प्रश्नः

सत्यासत्यविवेकेन मुच्यते केवलेन किम् ।

उताहो बन्धहानाय विद्यते साधनान्तरम् ॥

॥४॥

द्वितीयः प्रश्नः

किमलं शास्त्रचर्चैव जिज्ञासूनां विमुक्तये ।

यथा गुरुपदेशं किमुपासनपेक्षते ॥

॥५॥

तृतीय प्रश्नः

स्थितप्रज्ञः स्थितप्रज्ञमात्मानं किं समर्थयेत् ।

विदित्वा परिपूर्णत्वं ज्ञानस्योपरतेरुत ॥

॥६॥

चतुर्थः प्रश्नः

ज्ञानिनं केन लिङ्गेन ज्ञातुं शक्ष्यन्ति कोविदाः ॥

॥७॥

पञ्चमः प्रश्नः

ज्ञानायैव समाधिः किं कामायाप्युत कल्पते ॥

॥७॥

षष्ठः प्रश्नः

कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि ।

सकामोऽमुष्य साफल्यमधिगच्छति वा न वा ॥

॥८॥

एवं मम गुरुः प्रश्नानकर्ण्य करुणानिधिः ।

अब्रवीत्संशयच्छेदी रमणो भगवानृषिः ॥

॥९॥

प्रथमप्रश्नस्योत्तरम्

मोचयेत्सकलान् बन्धानात्मनिष्ठैव केवलम् ।

सत्यासत्यविवेकं तु प्राहुर्वैराग्यसाधनम् ॥

॥१०॥

सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि ।

नासत्यं चिन्तयेद्विश्वं न वा स्वस्य तदन्यताम् ॥

॥११॥

द्वितीयप्रश्नस्योत्तरम्

न संसिद्धिर्विजिज्ञासोः केवलं शास्त्रचर्चया ।

उपासनं विना सिद्धिर्नैव स्यादिति निर्णयः ॥

॥१२॥

अभ्यासकाले सहजां स्थितिं प्राहुरुपासनम् ।

सिद्धिं स्थिरां यदा गच्छेत्सैव ज्ञानं तदोच्यते ॥

॥१३॥

विषयान्त्सम्परित्यज्य स्वस्वभावेन संस्थितिः ।

ज्ञानज्वालाकृतिः प्रोक्त्ता सहजा स्थितिरात्मनः ॥

॥१४॥

तृतीयप्रश्नस्योत्तरम्

निर्वासेन मौनेन स्थिरायां सहजस्थितौ ।

ज्ञानी ज्ञानिनमात्मानं निःसन्देहः समर्थयेत् ॥

॥१५॥

चतुर्थप्रश्नस्योत्तरम्

सर्वभूतसमत्वेन लिङ्गेन ज्ञानमूह्यताम् ।

पञ्चमप्रश्नस्योत्तरम्

कामारब्धस्समाधिस्तु कामं फलै निश्चितम् ॥

॥१६॥

षष्ठप्रश्नस्योत्तरम्

कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि ।

स कामोऽमुष्य साफल्यं गच्छन्नपि न हर्षयेत् ॥

॥१७॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणं नाम प्रथमोऽध्यायः ॥

अथ द्वितीयोऽध्यायः । (मार्गत्रयकथनम्)

ईशपुत्रशके बाणभूमिनन्दधरामिते ।

चातुर्मास्ये जगौ सारं सङ्गृह्य भगवानृषि ॥

॥१॥

हृदयकुहरमध्ये केवलं ब्रह्ममात्रं

ह्यहमहमिति साक्षादात्मरूपेण भाति ।

हृदि विश मनसा स्वं चिन्व्ता मज्जता वा

पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥

॥२॥

श्लोकं भगवतो वक्त्रान्महर्षेरिममुद्गतम् ।

श्रुत्यन्तसारं यो वेद संशयो नास्य जातुचित् ॥

॥३॥

अत्र श्लोके भगवता पूर्वार्धे स्थानमीरितम् ।

शारीरकस्य दृश्येऽस्मिञ्छरीरे पाञ्चभौतिके ॥

॥४॥

तत्रैव लक्षणं चोक्तं द्वैतमीशा च वारितम् ।

उक्तं चाप्यपरोक्षत्वं नानालिङ्गनिबर्हणम् ॥

॥५॥

उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः ।

त्रेधा भिन्नेन मार्गेण तत्त्वादैक्यं समीयुषा ॥

॥६॥

उपायो मार्गणाभिख्यः प्रथमः सम्प्रकीर्तितः ।

द्वितीयो मज्ज्नाभिख्यः प्राणरोधस्तृतीयकः ॥

॥७॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनं नाम द्वितीयोऽध्यायः ॥

अथ तृतीयोऽध्यायः । (मुख्यकर्तव्यनिरूपणम्)

दैवरातस्य संवादमाचार्यरमणस्य च ।

निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषां मुदे ॥

॥१॥

दैवरत उवाच

किं कर्तव्य मनुष्यस्य प्रधानमिह संसृतौ ।

एकं निर्धाय भगवांस्तन्मे व्याख्यातुमर्हति ॥

॥२॥

भगवानुवाच

स्वस्य स्वरूपं विज्ञेयं प्रधानं महदिच्छता ।

प्रतिष्ठा यत्र सर्वेषां फलानामुत कर्मणाम् ॥

॥३॥

दैवरात उवाच

स्वस्य स्वरूपविज्ञाने साधनं किं समासतः ।

सिध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि ॥

॥४॥

भगवानुवाच

विषयेभ्यः परावृत्य वृत्तीः सर्वाः प्रयत्नतः ।

विमर्शे केवलं तिष्ठेदचले निरुपाधिके ॥

॥५॥

स्वस्य स्वरूपविज्ञाने साधनं तत्समासतः ।

सिध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि ॥

॥६॥

दैवरात उवाच

यावत्सिद्धिर्भवेन्नॄणां योगस्य मुनिकुञ्जर ।

तावन्तं नियमाः कालं किं यत्नमुपकुर्वते ॥

॥७॥

भगवानुवाच

प्रयत्नमुपकुर्वन्ति नियमा युञ्जतां सताम् ।

सिद्धानां कृतकृत्यानां गलन्ति नियमास्स्वयम् ॥

॥८॥

दैवरात उवाच

केवलेन विमर्शेन स्थिरेण निरुपाधिना ।

यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा ॥

॥९॥

भगवानुवाच

अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् ।

सिद्धिः स्याच्छद्दधानानां जप्तेन प्रणवेन वा ॥

॥१०॥

वृतिर्जपेन मन्त्राणां शुद्धस्य प्रणवस्य वा ।

विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत् ॥

॥११॥

ईशपुत्रशके शैलभूमिनन्दधरामिते ।

सप्तमे सप्तमे सोऽयं संवादोऽभवदद्भुतः ॥

॥१२॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणं नाम तृतीयोऽध्यायः ॥

अथ चतुर्थोऽध्यायः । (ज्ञानस्वरूपकथनम्)

प्रथमः प्रश्नः

अहं ब्रह्मास्मीति वृत्तिः किं ज्ञानं मुनिकुञ्जर ।

उत ब्रह्माहमिति धीर्धीरहं सर्वमित्युत ॥

॥१॥

अथवा सकलं चैतद्ब्रह्मेति ज्ञानमुच्यते ।

अस्माद्वृत्तिचतुष्काद्वा किं नु ज्ञानं विलक्षणम् ॥

॥२॥

अस्योत्तरम्

इमं मम गुरुः प्रश्नमन्तेवासिन आदरात् ।

आकर्ण्य रमणो वाक्यमुवाच भगवान्मुनि ॥

॥३॥

वृत्तयो भावना एव सर्वा एता न संशयः ।

स्वरूपावस्थितिं शुद्धां ज्ञानमाहुर्मनीषिणः ॥

॥४॥

गुरोर्वचस्तदाकर्ण्य संशयच्छेदकारकम् ।

अपृच्छं पुनरेवाहमन्यं संशयमुद्गतम् ॥

॥५॥

द्वितीय प्रश्नः

वृत्तिव्याप्यं भवेद्ब्रह्म न वा नाथ तपस्विनाम् ।

इमं मे हृदि सञ्जातं संशयं छेत्तुमर्हसि ॥

॥६॥

तमिमं प्रश्नमाकर्ण्य मित्रमङ्घ्रिजुषामृषिः ।

अभिषिच्य कटाक्षेण मामिदं वाक्यमब्रवीत् ॥

॥७॥

अस्योत्तरम्

स्वात्मभूतं यदि ब्रह्म ज्ञातुं वृत्तिः प्रवर्तते ।

स्वात्माकारा तदा भूत्वा न पृथक् प्रतितिष्ठति ॥

॥८॥

अयं प्रागुक्त एवाब्दे सप्तमे त्वेकविंशके ।

अभवन्नो मितग्रन्थः संवादो रोमहर्षणः ॥

॥९॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरुपकथनं नाम चतुर्थोऽध्यायः ॥

अथ पञ्चमोऽध्यायः । (हृदयविद्या)

प्रागुक्तेऽब्देऽष्टमे मासि नवमे दिवसे निशि ।

उपन्यसितवान् संयगुद्दिश्य हृदयं मुनिः ॥

॥१॥

निर्गच्छन्ति यतः सर्वा वृत्तयोः देहधारिणाम् ।

हृदयं तत्समाख्यातं भावनाऽऽकृतिवर्णनम् ॥

॥२॥

अहंवृत्तिः समस्तानां वृत्तीनां मूलमुच्यते ।

निर्गच्छन्ति यतोऽहन्धीर्हृदयं तत्समासतः ॥

॥३॥

हृदयस्य यदि स्थानं भवेच्चक्रमनाहतम् ।

मूलाधारं समारभ्य योगस्योपक्रमः कुतः ॥

॥४॥

अन्यदेव ततो रक्तपिण्डाददृदयमुच्यते

अयं हृदिति वृत्त्या तदात्मनो रूपमीरितम् ॥

॥५॥

तस्य दक्षिणतो धाम हृत्पीठे नैव वामतः ।

तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्णया ॥

॥६॥

सर्वं देहं सहस्रारात्तदा लोकानुभूतयः ।

ताः प्रपश्यन् विभेदेन संसारी मनुजो भवेत् ॥

॥७॥

आत्मस्थस्य सहस्रारं शुद्धं ज्योतिर्मयं भवेत् ।

तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः पतेत् ॥

॥८॥

विज्ञानमानविषयं सन्निकर्षेण यद्यपि ।

न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः ॥

॥९॥

गृह्यतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते ।

निर्विकल्पः समाधिस्तु विषयासन्निधौ भवेत् ॥

॥१०॥

अण्डं वपुषि निःशेषं निःशेषं हृदये वपुः ।

तस्मादण्डस्य सर्वस्य हृदयं रुपसङ्ग्रहः ॥

॥११॥

भुवनं मनसो नान्यदन्यन्न हृदयान्मनः ।

अशेषा हृदये तस्मात्कथा परिसमाप्यते ॥

॥१२॥

कीर्त्यते हृदयं पिण्डे यथाण्डे भानूमण्डलम् ।

मनः सहस्रारगतं बिम्बं चान्द्रमसं यथा ॥

॥१३॥

यथा ददाति तपनस्तेजः कैरवबन्धवे ।

इदं वितरति ज्योतिर्ह्रदयं मनसे तथा ॥

॥१४॥

ह्रद्यसन्निहितो मर्त्यो मनः केवलमीक्षते ।

असन्निकर्षे सूर्यस्य रात्रौ चन्द्रे यथा महः ॥

॥१५॥

अपश्यंस्तेजसो मूलं स्वरूपं सत्यमात्मनः ।

मनसा च पृथक्पश्यन् भावान् भ्राम्यति पामरः ॥

॥१६॥

हृदि सन्निहितो ज्ञानी लीनं हृदयतेजसि ।

ईक्षते मानसं तेजो दिवा भानाविवैन्दवम् ॥

॥१७॥

प्रज्ञानस्य प्रवेत्तारो वाच्यमर्थं मनो विदुः

अर्थं तु लक्ष्यं हृदयं हृदयान्नपरः परः ॥

॥१८॥

दृग्दृश्यभेदधीरेषा मनसि प्रतितिष्ठति ।

हृदये वर्तमानां दृग्दृश्येनैकतां व्रजेत् ॥

॥१९॥

मूर्च्छा निद्रातिसन्तोषशोकावेशभयादिभिः ।

निमित्तैराहता वृत्तिः स्वस्थानं हृदयं व्रजेत् ॥

॥२०॥

तदा न ज्ञायते प्राप्तिर्हृदयस्य शरीरिणा ।

विज्ञायते समाधौ तु नामभेदो निमित्ततः ॥

॥२१॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे हृदयविद्या नाम पञ्चमोऽध्यायः ॥

अथ षष्टोऽध्यायः । (मनोनिग्रहोपायः)

निरुप्य हृदयस्यैवं तत्त्वं तत्त्वविदां वरः ।

मनसो निग्रहोपायमवदद्रमणो मुनिः ॥

॥१॥

नित्यवत्तिमतां नॄणां विषयासक्त्तचेतसाम् ।

वासनानां बलियस्त्वान्मनो दुर्निग्रहं भवेत् ॥

॥२॥

चपलं तन्निगृह्णीयात्प्राणरोधेन मानवः ।

पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते ॥

॥३॥

प्राणरोधेन वृत्तिनां निरोधः साधितो भवेत् ।

वृत्तिरोधेन वृत्तिनां जन्मस्थाने स्थितो भवेत् ॥

॥४॥

प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् ।

कुम्भकं सिध्यति ह्येयं सततप्रत्यवेक्षणात् ॥

॥५॥

येषां नैतेन विधिना शक्तिः कुम्भकसाधने ।

हठयोगविधानेन तेषां कुम्भकमिष्यते ॥

॥६॥

एकदा रेचकं कुर्यात्कुर्यात्पूरकमेकदा ।

कुम्भकं तु चतुर्वारं नाडीशुद्धिर्भवेत्ततः ॥

॥७॥

प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत् ।

प्राणस्य सर्वधा रोधः शुद्धं कुम्भकमुच्यते ॥

॥८॥

त्यागं देहात्मभावस्य रेचकं ज्ञानिनः परे ।

पूरकं मार्गणं स्वस्य कुम्भकं सहजस्थितिम् ॥

॥९॥

जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत् ।

मानसेन तदा मन्त्रप्राणयोरेकता भवेत् ॥

॥१०॥

मन्त्राक्षराणां प्राणेन सायुज्यं ध्यानमुच्यते ।

सहजस्थितये ध्यानं दृढभूमिः प्रकल्पते ॥

॥११॥

सहवासेन महतां सतामारुढचेतसाम्

क्रियमाणेन वा नित्यं स्थाने लीनं मनो भवेत् ॥

॥१२॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायः नाम षष्टोऽध्यायः ॥

अथ सप्तमोऽध्यायः । (आत्मविचाराधिकारितदङ्गनिरूपणम्)

भारद्वाजस्य वै कार्ष्णेराचार्यरमणस्य च ।

अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे ॥

॥१॥

कार्ष्णिरुवाच

रूपमात्मविचारस्य किं नु किं वा प्रयोजनम् ।

लभ्यादात्मविचारेण फलं भूयोऽन्यतोऽस्ति वा ॥

॥२॥

भगवानुवाच

सर्वासामपि वृत्तीनां समष्टिर्या समीरिता ।

अहंवृत्तेरमुष्यास्तु जन्मस्थानं विमृश्यताम् ॥

॥३॥

एष आत्मविचारः स्यन्न शास्त्रपरिशीलनम् ।

अहङ्कारो विलीनः स्यान्मूलस्थानगवेषणे ॥

॥४॥

आत्माभासस्त्वहङ्कारः स यदा सम्प्रलियते ।

आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते ॥

॥५॥

सर्वक्लेशनिवृत्तिः स्यात्फलमात्मविचारतः ।

फलानामवधिः सोऽयमस्ति नेतोऽधिकं फलम् ॥

॥६॥

अद्भुताः सिद्धयः साध्या उपायान्तरतश्च याः ।

ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निवृतः ॥

॥७॥

कार्ष्णिरुवाच

एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् ।

अधिकारस्य सम्पत्तिः किं ज्ञातुं शक्यते स्वयम् ॥

॥८॥

भगवानुवाच

उपासनादिभिः शुद्धं प्राग्जमसुकृतेन वा ।

दृष्टदोषं मनो यस्य शरीरे विषयेषु च ॥

॥९॥

मनसा चरतो यस्य विष्येष्वरुचिर्भृशम् ।

देहे चानित्यता बुद्धिस्तं प्रहुरधिकारिणम् ॥

॥१०॥

देहे नश्वरताबुद्धेर्वैराग्याद्विषयेषु च ।

एताभ्यामेव लिङ्गाभ्यां ज्ञेया स्वस्याधिकारिता ॥

॥११॥

कार्ष्णिरुवाच

स्नानं सन्ध्यां जपो होमः स्वाध्यायो देवपूजनम् ।

सङ्कीर्तनं तिर्थयात्रा यज्ञो दानं व्रतानि च ॥

॥१२॥

विचारे साधिकारस्य वैराग्याच्च विवेकतः ।

किं वा प्रयोजनाय स्युरुत कालविधूतये ॥

॥१३॥

भगवानुवाच

आरम्भिणां क्षीयमाणरागाणामधिकारिणाम् ।

कर्माण्येतानि सर्वाणि भूयस्यै चितशिद्धये ॥

॥१४॥

यत्कर्म सुकृतं प्रोक्तं मनोवाक्कायसम्भवम् ।

तत्तु कर्मान्तरं हन्ति मनोवाक्कायसम्भवम् ॥

॥१५॥

अत्यन्तशुद्धमनसां पक्वानामधिकारिणाम् ।

इदं लोकोपकाराय कर्मजालं भविष्यति ॥

॥१६॥

परेषामुपदेशाय् क्षेमाय च मनीषिणः ।

पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः ॥

॥१७॥

विचारप्रतिकूलानि न पुण्यानि नरर्षभ ।

क्रियमाणान्यसङ्गेन भेदबुद्ध्युपमर्दिना ॥

॥१८॥

न चाकृतानि पापाय पक्वनामधिकारिणाम् ।

स्वविमर्शो महत्पुण्यं पावनानां हि पावनम् ॥

॥१९॥

दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् ।

त्याग एकान्तयोगाय परार्थं च क्रियादरः ॥

॥२०॥

कार्ष्णिरुवाच

निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः ।

एको वा विविधस्तं मे भगवान्वक्तुमर्हति ॥

॥२१॥

भगवानुवाच

एकः प्राप्तुं प्रयतते परः प्राप्तारमृच्छति ।

चिराय प्रथमो गच्छन् प्राप्तोत्यात्मान्मन्ततः ॥

॥२२॥

एकस्य ध्यानतश्चित्तमेकाकृतिर्भविष्यति ।

एकाकृतित्वं चित्तस्य स्वरुपे स्थितये भवेत् ॥

॥२३॥

अनिच्छयाप्यतो ध्यायन् विन्दत्यात्मनि संस्थितिम् ।

विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः ॥

॥२४॥

ध्यायो देवतां मन्त्रमन्यद्वा लक्ष्यमुत्तमम् ।

ध्येयमात्मात्ममहाज्योतिष्यन्ततो लीनतां व्रजेत् ॥

॥२५॥

गतिरेवं द्वयोरेका ध्यातुश्चात्मविमर्शिनः ।

ध्यायन्नेकः प्रशान्तः स्यादन्यो विज्ञाय शाम्यति ॥

॥२६॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणं नाम सप्तमोऽध्यायः ॥

अथ अष्टमोऽध्यायः । (आश्रमविचारः)

कार्ष्णेरेवापरं प्रश्नं निशम्य भगवान्मुनिः ।

चातुराश्रम्यसम्बद्धमदिकारं न्यरूपयत् ॥

॥१॥

ब्रह्मचारी गृही वाऽपि वानप्रस्थोऽथवा यतिः ।

नारी वा वृषलो वापि पक्वो ब्रह्म विचारयेत् ॥

॥२॥

सोपानवत्परं प्राप्तुं भविष्यत्याश्रमक्रमः ।

अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते ॥

॥३॥

गतये लोककार्याणामादिशन्त्याश्रामक्रमम्

आश्रमत्रयधर्माणां न ज्ञानप्रतिकूलता ॥

॥४॥

संन्यासो निर्मलं ज्ञानं न काषायो न मुण्डनम् ॥

प्रतिबन्धकबाहुल्यवारणायाश्रमो मतः ॥

॥५॥

ब्रह्मचयर्याश्रमे यस्य शक्तिरुज्जृम्भते व्रतैः ।

विद्यया ज्ञानवृद्धया च स पश्चात्प्रज्वलिष्यति ॥

॥६॥

ब्रह्मचर्येण शुद्धेन गृहित्वे निर्मलो भवेत् ।

सर्वेषामुपकाराय गृहस्थाश्रम उच्यते ॥

॥७॥

सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः ।

परं प्रस्फुरति ज्योतिस्तत्र नैवास्ति संशयः ॥

॥८॥

तपसस्त्वाश्रमः प्रोक्त्तस्तृतीयः पण्डितोत्तमैः ।

अभार्यो वा सभार्यो वा तृतीयाश्रमभाग्भवेत् ॥

॥९॥

तपसा दग्धपापस्य पक्वचित्तस्य योगिनः ।

चतुर्थ आश्रमः काले स्वयमेव भविष्यति ॥

॥१०॥

एष प्रागुक्त एवाब्धे त्वष्टमे द्वादशे पुनः ।

उपदेशो भगवतः सप्तमाष्टमयोरभूत् ॥

॥११॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारः नाम अष्टमोऽध्यायः ॥

अथ नवमोऽध्यायः । (ग्रन्थिभेदकथनम्)

चतुर्दशेऽष्टमे रात्रौ महर्षि पृष्टवानहम् ।

ग्रन्थिभेदं समुद्दिश्य विदुषां यत्र संशयः ॥

॥१॥

तमाकर्ण्य मम प्रश्नं रमणो भगवानृषिः ।

ध्यात्वा दिव्येन भावेन किञ्चिदाह महामहाः ॥

॥२॥

शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते ।

सम्बन्धेनैव शारीरं भवति ज्ञानमात्मनः ॥

॥३॥

शरीरं जडमेतत्स्यादात्मा चैतन्यमिष्यते ।

उभयोरपि सम्बन्धो विज्ञानेनानुमीयते ॥

॥४॥

चैतन्यच्छाययाश्लिष्टं शरीरं तात चेष्टते ।

निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः ॥

॥५॥

सूक्ष्माणां विद्युदादीनां स्थूले तन्त्र्यादिके यथा ।

तथा कलेवरे नाड्यां चैतन्यज्योतिषो गतिः ॥

॥६॥

स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् ।

सर्वं भासयते देहं भास्करो भुवनं यथा ॥

॥७॥

व्याप्तेन तत्प्रकाशेन शरीरे त्वनुभूतयः ।

स्थलं तदेव हृदयं सूरयस्सम्प्रचक्षते ॥

॥८॥

नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता ।

देहस्य शक्तयस्सर्वाः पृथङ्नाडीरूपाश्रिताः ॥

॥९॥

चैतन्यं तु पृथङ्नाड्यां तां सुषुम्णां प्रचक्षते ।

आत्मनाडीं परामेके परेत्वमृतनाडिकाम् ॥

॥१०॥

सर्वं देहं प्रकाशेन व्याप्तो जीवोऽभिमानवान् ।

मन्यते देहमात्मानं तेन भिन्नं च विष्टपम् ॥

॥११॥

अभिमानं परित्यज्य देहे चात्मधियं सुधीः ।

विचारयेच्चेदेकाग्रो नाडीनां मथनं भवेत् ॥

॥१२॥

नाडीनां मथनेनैवात्मा ताभ्यः पृथक्कृतः ।

केवलाममृतां नाडीमाश्रित्य प्रज्वलिष्यति ॥

॥१३॥

आत्मनाड्यां यदा भाति चैतन्यज्योतिरुज्ज्वलम् ।

केवलायां तदा नान्यदात्मनस्सम्प्रभासते ॥

॥१४॥

सान्निध्याद्भासमानं वा न पृथक्प्रतितिष्ठति ।

जानाति स्पष्टमात्मानं स देहमिव पामरः ॥

॥१५॥

आत्मैव भासते यस्य बहिरन्तश्च सर्वतः ।

पामरस्येव रूपादि स भिन्नग्रन्थिरुच्यते ॥

॥१६॥

नाडीबन्धोऽभिमानश्च द्वयं ग्रन्थिरुदीर्यते ।

नाडीबन्धेन सूक्षमोऽपि स्थूलं सर्वं प्रपश्यति ॥

॥१७॥

निवृत्तं सर्वनाडीभ्यो यदैकां नाडीकां श्रितम् ।

भिन्नग्रन्थि तदा ज्योतिरात्मभावाय कल्पते ॥

॥१८॥

अग्नितप्तमयोगोलं दृश्यतेऽग्निमयं यथा ।

स्वविचाराग्निसन्तप्तं तथेदं स्वमयं भवेत् ॥

॥१९॥

शरीरादिजुषां पूर्ववासनानां क्षयस्तदा ।

कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति ॥

॥२०॥

कर्तृत्वाभावतः कर्मविनाशोऽस्य समीरितः ।

तस्य वस्त्वन्तराभावात्संशयानामनुद्भवः ॥

॥२१॥

भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा ।

सा स्थितिः परमा शक्तिस्सा शान्तिः परमा मता ॥

॥२२॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनं नाम नवमोऽध्यायः ॥

अथ दशमोऽध्यायः । (सङ्घविद्या)

यतिनो योगनाथस्य महर्षिरमणस्य च ।

दशमेऽत्र नीबघ्निमस्संवादं सङ्घहर्षदम् ॥

॥१॥

योगनाथ उवाच

साङ्घिकस्य च सङ्घस्य कस्सम्बन्धो महामुने ।

सङ्घस्य श्रेयसे नाथ तमेतं वक्तुमर्हसि ॥

॥२॥

भगवानुवाच

ज्ञेयश्शरीरवत्सङ्घस्तत्तदाचारशालिनम् ।

अङ्गानीवात्र विज्ञेयास्साङ्घिकास्सधुसत्तम ॥

॥३॥

अङ्गं यथा शरीरस्य करोत्युपकृतिं यते ।

तथोपकारं सङ्घस्य कुर्वन् जयति साङ्घिकः ॥

सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् ।

स्वयं तथाऽऽचरन्नित्यं स्वकीयानपि बोघयेत् ॥

॥५॥

आनुकूल्येन सङ्घस्य स्थापयित्वा निजं कुलम् ।

सङ्घस्यैव ततो भूत्यै कुर्याद्भुतियुतं कुलम् ॥

॥६॥

योगनाथ उवाच

शान्तिं केचित्प्रशंसन्ति शक्तिं केचिन्मनीषिणः ।

अनयोः को गुणो ज्यायान्त्सङ्घक्षेमकृते विभो ॥

॥७॥

भगवानुवाच

स्वमनश्शुद्धये शान्तिश्शक्तिस्सङ्घस्य वृद्धये ।

शक्त्या सङ्घं विधायोच्चैश्शान्तिं संस्थापयेत्ततः ॥

॥८॥

योगनाथ उवाच

सर्वस्यापि च सङ्घस्य नराणाणामृषिकुञ्जर ।

गन्तव्यं समुदायेन किं परं धरणीतले ॥

॥९॥

भगवानुवाच

समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् ।

सौभ्रात्रं समभावेन गन्तव्यं परमुच्यते ॥

॥१०॥

सौभ्रात्रेण परा शान्तिरन्योन्यं देहधारिणाम् ।

तदेत्यं शोभते सर्वा भूमिरेकं गृहं यथा ॥

॥११॥

अभूत्पञ्चदशे घस्त्रे संवादस्सोऽयमष्टमे ।

योगनाथस्य यतिनो महर्षेश्च दयावतः ॥

॥१२॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या नाम दशमोऽध्यायः ॥

अथ एकादशोऽध्यायः । (ज्ञानसिद्धिसामरस्यकथनम्)

षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् ।

गुरुं ब्रह्मविदां श्रेष्ठं नित्यमात्मनि संस्थितम् ॥

॥१॥

उपगम्य महाभागं सोऽहं कैवतमानवम् ।

रमणं स्तुतवानस्मि दुर्लभज्ञानलब्धये ॥

॥२॥

त्वय्येव परमा निष्ठा त्वय्येव विशदा मतिः ।

अम्भसामिव वाराशिर्विज्ञानानां त्वमास्पदम् ॥

॥३॥

त्वं तु सप्तदशे वर्षे बाल्य एव महायशः ।

लब्धवानसि विज्ञानं योगिनामपि दुर्लभम् ॥

॥४॥

सर्वे दृश्या इमे भावा यस्य छायामयास्तव ।

तस्य ते भगवन्निष्ठां को नु वर्णयितुं क्षमः ॥

॥५॥

मज्जतां घोरसंसारे व्यपृतानामितस्ततः ।

दुःखं महत्तितीषूर्णां त्वमेका परमा गतिः ॥

॥६॥

पश्यामि देवदत्तेन ज्ञानेन त्वां मुहुर्मुहुः ।

ब्रह्मण्यानां वरं ब्रह्मन्त्सुब्रह्मण्यं नराकृतिम् ॥

॥७॥

न त्वं स्वामिगिरौ नाथ न त्वं क्षणिकपर्वते ।

न त्वं वेङ्कटशैलाग्रे शोणाद्रावसि वस्तुतः ॥

॥८॥

भूमविद्यां पुरा नाथ नारदाय महर्शये ।

भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् ॥

॥९॥

सनत्कुमारं ब्रह्मर्षि त्वामाहुर्वेदवेदिनः ।

आगमानां तु वेत्तारस्सुब्रह्मण्यं सुरर्षभम् ॥

॥१०॥

केवलं नाम भेदोऽयं व्यक्तिभेदो न विद्यते ।

सनत्कुमारस्स्कन्दश्च पर्यायौ तव तत्त्वतः ॥

॥११॥

पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः ।

धर्मं वेदोदितं नाथ त्वं संस्थापितवानसि ॥

॥१२॥

जैनैर्व्याकुलिते धर्मे भगवन्द्रविडेषु च ।

भूत्वा त्वं ज्ञानसम्बन्धो भक्तिं स्थापितवानसि ॥

॥१३॥

अधुना त्वं महाभाग ब्रह्मज्ञानस्य गुप्तये ।

शास्त्रज्ञानेन सन्तॄप्तैर्निरुद्धस्यागतो धराम् ॥

॥१४॥

सन्देहा बहवो नाथ शिष्याणां वारितास्त्वया ।

इमं च मम सन्देहं निवारयितुमर्हसि ॥

॥१५॥

ज्ञानस्य चापि सिद्धीनां विरोधः किं परस्परम् ।

उताहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जर ॥

॥१६॥

मयैवं भगवान्पृष्टो रमणो नुतिपूर्वकम् ।

गभिरया दृशा वीक्ष्य मामिदं वाक्यमब्रवित् ॥

॥१७॥

सहजां स्थितिमारुढः स्वभावेन दिने दिने ।

तपश्चरतिदुर्धर्षं नालस्यं सहजस्थितौ ॥

॥१८॥

तपस्तदेव दुर्धर्षं य निष्ठ सहजात्मनि ।

तेन नित्येन तपसा भवेत्पाकः क्षणे क्षणे ॥

॥१९॥

परिपाकेन काले स्युः सिद्धयस्तात पश्यतः ।

प्रारब्धं यदि ताभिः स्याद्विहारो ज्ञानिनोऽपि च ॥

॥२०॥

यथा प्रपञ्चग्रहणे स्वरुपान्नेतरन्मुनेः ।

सिद्धयः क्रियमाणाश्च स्वरुपान्नेतरत्तथा ॥

॥२१॥

भवेन्न यस्य प्रारब्धं शक्तिपूर्णोऽप्ययं मुनिः ।

अतरङ्ग इवाम्भोधिर्न किञ्चित्दपि चेष्टते ॥

॥२२॥

नान्यं मृगयते मार्गं निसर्गादात्मनि स्थितः ॥

सर्वासामपि शक्तीनां समष्टिः स्वात्मनि स्थितिः ॥

॥२३॥

अप्रयत्नेन तु तपः सहजा स्थितिरुच्यते ।

सहजायां स्थितौ पाकाच्छक्त्तिनामुद्भवो मतः ॥

॥२४॥

परीवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः ।

घोरं तपश्चरत्येव न तस्यैकान्तकामिता ॥

॥२५॥

ज्ञानं शक्तेरपेतं यो मन्यते नैव वेद सः ।

सर्वशक्तेऽभितः पूर्णे स्वस्वरूपे हि बोधवान् ॥

॥२६॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्यकथनं नाम एकादशोऽध्यायः ॥

अथ द्वादशोऽध्यायः । (शक्तिविचारः)

एकोनविंशे दिवसे भारद्वाजो महामनाः ।

कपाली कृतिषु ज्यायानपृच्छद्रमणं गुरुम् ॥

॥१॥

कपाल्युवाच

विषयी विषयो वृत्तिरितीदं भगवंस्त्रिकम् ।

ज्ञानिनां पामराणां च लोकयात्रासु दृश्यते ॥

॥२॥

अथ केन विशेषेण ज्ञानी पामरतोऽधिकः ।

इमं मे नाथ सन्देहं निवर्तयितुमर्हसि ॥

॥३॥

भगवानुवाच

अभिन्नो विषयी यस्य स्वरूपान्मनुजर्षभ ।

व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः ॥

॥५॥

भेदभासे विजानाति ज्ञान्यभेदं ति तात्त्विकम् ।

भेदाभासवशं गत्वा पामरस्तु विभिद्यते ॥

॥६॥

कपाल्युवाच

नाथ यस्मिन्निमे भेद भासन्ते त्रिपुटीमयाः ।

शक्तिमद्वा स्वरूपं तदुताहो शक्तिवर्जितम् ॥

॥७॥

भगवानुवाच

वत्स यस्मिन्निमे भेदा भासन्ते त्रिपुटीमयाः ।

सर्वशक्तं स्वरूपं तदाहुर्वेदान्तवेदिनः ॥

॥८॥

कपाल्युवाच

ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः ।

अस्ति वा चलनं तस्यमाहोस्विन्नाथ नास्ति वा ॥

॥९॥

भगवानुवाच

शक्तेस्सञ्चलनादेव लोकानां तात सम्भवः ।

चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् ॥

॥१०॥

अचलस्य तु यच्छक्तश्चलनं लोककारणम् ।

तामोवाचक्षते मायामनिर्वाच्यां विपश्चितः ॥

॥११॥

चञ्चलत्वं विषयिणो यथार्थमिव भासते ।

चलनं न नरश्रेष्ठ स्वरूपस्य तु वस्तुतः ॥

॥१२॥

ईश्वरस्य च शक्तेश्च भेदो दृष्तिनिमित्तकः ।

मिथुनं त्विदमेकं स्याद्दृष्टिश्चेदुपसंहृता ॥

॥१३॥

कपाल्युवाच

व्यापार ईश्वरस्यायं दृश्यब्रह्माण्डकोटिकृत् ।

नित्यः किमथवाऽनित्यो भगवान्वक्तुमर्हति ॥

॥१४॥

भगवानुवाच

निजया परया शक्त्या चलन्नप्यचलः परः ।

केवलं मुनिसंवेद्यं रहस्यमिदमुत्तमम् ॥

॥१५॥

चलत्वमेव व्यापारो व्यापारश्शक्तिरुच्यते ।

शक्त्या सर्वमिदं दृश्यं ससर्ज परमः पुमान् ॥

॥१६॥

व्यापारस्तु प्रवृतिश्च निवृत्तिरिति च द्विधा ।

निवृरिस्था यत्र सर्वमात्मैवाभूदिति श्रुतिः ॥

॥१७॥

नानात्वं द्वैतकालस्थं गम्यते सर्वमित्यतः ।

अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते ॥

॥१८॥

आत्मैवेति विनिर्देशद्विशेषाणां समं ततः ।

आत्मन्येवोपसंहारस्तज्जातानां प्रकीर्तितः ॥

॥१९॥

विना शक्तिं नरश्रेष्ठ स्वरूपं न प्रतीयते ।

व्यापार आश्रयश्चेति द्विनामा शक्तिरुच्यते ॥

॥२०॥

व्यापारो विश्वसर्गादिकार्यमुक्तं मनीषिभिः ।

आश्रयो द्विपदां श्रेष्ठ स्वरूपान्नातिरिच्यते ॥

॥२१॥

स्वरूपमन्यसापेक्षं नैव सर्वात्मकत्वतः ।

शक्तिं वृत्तिं स्वरूपं च य एवं वेद वेद सः ॥

॥२२॥

वृत्तेरभावे तु सतो नानाभावो न सिध्यति ।

सत्ता शक्त्यतिरिक्त्ता चेद् वृतेर्नैव समुद्भवः ॥

॥२३॥

यदि कालेन भविता जगतः प्रलयो महान् ।

अभेदेन स्वरूपेऽयं व्यापारो लीनवद्भवेत् ॥

॥२४॥

सर्वोऽपि व्यवहारोऽयं न भवेच्छक्तिमन्तरा ।

न सृष्टिर्नापि विज्ञानं यदेतत् त्रिपुटीमयम् ॥

॥२५॥

स्वरुपमाश्रयत्वेन व्यापारस्सर्गकर्मणा ।

नामभ्यामुच्यते द्वाभ्यां शक्तिरेका परात्परा ॥

॥२६॥

लक्षणं चलनं येषां शक्तेस्तेषां तदाश्रयः ।

यत् किञ्चित्परमं वस्तु व्यक्तव्यं स्यान्नरर्षभ ॥

॥२७॥

तदेकं परमं वस्तु शक्तिमेके प्रचक्षते ।

स्वरुपं केऽपि विद्वांसो ब्रह्मान्ये पुरुषं परे ॥

॥२८॥

वत्स सत्यं द्विधा गम्यं लक्षणेन च वस्तुतः ।

लक्षणेनोच्यते सत्यं वस्तुतस्त्वनुभूयते ॥

॥२९॥

तस्मात्स्वरूपविज्ञानं व्यापारेण च वस्तुतः ।

ताटस्थ्येन च साक्षाच्च द्विविधं सम्प्रचक्षते ॥

॥३०॥

स्वरुपमाश्रयं प्राहुर्व्यापारं तात लक्षणम् ।

वृत्या विज्ञाय तन्मूलमाश्रये प्रतितिष्ठति ॥

॥३१॥

स्वरूपं लक्षणोपेतं लक्षणं च स्वरुपवत् ।

तादात्म्येनैव सम्बन्धस्त्वनयोस्सम्प्रकीर्तितः ॥

॥३२॥

तटस्थलक्षणेनैवं व्यापाराख्येन मारिष ।

यतो लक्ष्यं स्वरूपं स्यान्नित्यव्यापारवत्ततः ॥

॥३३॥

व्यापारो वस्तुनो नान्यो यदि पश्यसि तत्त्वतः ।

इदं तु भेदविज्ञानं सर्वं काल्पनिकं मतम् ॥

॥३४॥

शक्त्युल्लासाह्यया सेयं सृष्टिः स्यादीशकल्पना ।

कल्पनेयमतीत चेत् स्वरूपमवशिष्यते ॥

॥३५॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे शक्तिविचारो नाम द्वादशोऽध्यायः ॥

अथ त्रयोदशोऽध्यायः । (संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम्)

अत्रिणामन्वयज्योत्स्ना वसिष्ठानां कुलस्नुषा ।

महादेवस्य जननी धीरस्य ब्रह्मवेदिनः ॥

॥१॥

प्रतिमानं पुरन्ध्रीणां लोकसेवाव्रते स्थिता ।

बिभ्राणा महतीं विद्यां ब्रह्मादिविबुधस्तुताम् ॥

॥२॥

दक्षिणे विन्ध्यतश्श्क्तेस्तारिण्या आदिमा गुरुः ।

तपस्सखी मे दयिता विशालाक्षी यशस्विनी ॥

॥३॥

प्रश्नद्वयेन रमणाह्ययं विश्वहितं मुनिम् ।

अभ्यगच्छददुष्टाङ्गी निक्षिप्तेन मुखे मम ॥

॥४॥

आत्मस्थितानां नारीणामस्ति चेत्प्रतिबन्धकम् ।

गृहत्यागेन हंसीत्वं किमु स्याच्छास्त्रसम्मतम् ॥

॥५॥

जीवन्त्या एव मुक्ताया देहपातो भवेद्यदि ।

दहनं वा समाधिर्वा कार्यं युक्तमनन्तरम् ॥

॥६॥

प्रश्नद्वयमिदं श्रुत्वा भगवानृषिसत्तमः ।

अवोचन्निर्णयं तत्र सर्वशास्त्रार्थतत्त्ववित् ॥

॥७॥

स्वरूपे वर्तमानानां पक्वानां योषितामपि ।

निवृत्तत्वान्निषेधस्य हंसीत्वं नैव दुष्यति ॥

॥८॥

मुक्तत्वस्याविशिष्टत्वद्बोधस्य च वधूरपि ।

जीवन्मुक्ता न दाह्या स्यात् तद्देहो हि सुरालयः ॥

॥९॥

ये दोषो देहदहने पुंसो मुक्तस्य संस्मृताः ।

मुक्तायास्सन्ति ते सर्वे देहदाहे च योषितः ॥

॥१०॥

एकविंशेऽह्नि गीतोऽभूदयमर्थो मनीषिणा ।

अधिकृत्य ज्ञानवतीं रमणेन महर्षिणा ॥

॥११॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणं नाम त्रयोदशोऽध्यायः ॥

अथ चतुर्दशोऽध्यायः । (जीवन्मुक्तिविचारः)

निशायामेकविंशेऽह्नि भारद्वाजि विदां वरः ।

प्राज्ञश्शिवकुलोपाधिर्वैदर्भो वदतां वरः ॥

॥१॥

जीवनमुक्तिं समुद्दिश्य महर्षि परिपृष्टवान् ।

अथ सर्वेषु श‍ृण्वत्सु महर्षिर्वाक्यमब्रवित् ॥

॥२॥

शास्त्रीयैर्लोकिकैश्चापि प्रत्ययैरविचालिता ।

स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता ॥

॥३॥

मुक्तिरेकविधैव स्यात्प्रज्ञानस्याविशेषतः ।

शरीरस्थं मुक्तबन्धं जीवन्मुक्तं प्रचक्षते ॥

॥४॥

ब्रह्मलोकगतो मुक्तश्श्रूयते निगमेषु यः ।

अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च ॥

॥५॥

प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः ।

तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव ॥

॥६॥

साम्यात्स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः ।

मुक्तिरेकविधैव स्याद्भेदस्तु परबुद्धिगः ॥

॥७॥

मुक्तो भवति जीवन्यो माहात्मात्मनि संस्थितः ।

प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ ॥

॥८॥

जीवन्मुक्तस्य कालेन तपसः परिपाकतः ।

स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् ॥

॥९॥

भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति ।

केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति ॥

॥१०॥

शरीरसंश्रयं सिद्ध्योर्द्वयमेतन्नरोत्तम ।

अल्पेनापि च कालेन देवतानुग्रहाद्भवेत् ॥

॥११॥

भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि ।

देहवानशरीरो वा मुक्त आत्मनि संस्थितः ॥

॥१२॥

नाडीद्वारार्चिरोद्येन मार्गेणोर्ध्वगतिर्नरः ।

तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति ॥

॥१३॥

उपासकस्य सुतरां पक्वचित्तस्य योगिनः ।

ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः ॥

॥१४॥

सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः ।

इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः ॥

॥१५॥

कैलाशं केऽपि मुक्तानां लोकमाहुर्मनीषिणः ।

एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम् ॥

॥१६॥

मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् ।

चित्रवैभवया शक्त्या स्वरुपे परिकल्पिताः ॥

॥१७॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः ॥

अथ पञ्चदशोऽध्यायः । (श्रवणमनननिदिध्यासननिरूपणम्)

श्रवणं नाम किं नाथ मननं नाम किं मतम् ।

किं वा मुनिकुलश्रेष्ठ निदिध्यासनमुच्यते ॥

॥१॥

इत्येवं भगवान्पृष्टो मया ब्रह्मविदां वरः ।

द्वाविंशे दिवसे प्रातरब्रवीच्छिष्यसंसदि ॥

॥२॥

वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् ।

आचार्याच्छृवणं केचिच्छृवणं परिचक्षते ॥

॥३॥

अपरे श्रवणं प्राहुराचार्याद्विदितात्मनः ।

गिरां भाषामयीनां च स्वरूपं बोधयन्ति याः ॥

॥४॥

श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः ।

जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा ॥

॥५॥

अहम्प्रत्ययमूलं त्वं शरीरादेर्विलक्षणः ।

इतीदं श्रवणं चित्ताच्छृवणं वस्तुतो भवेत् ॥

॥६॥

वदन्ति मननं केचिच्छास्त्रात्रर्थस्य विचारणम् ।

वस्तुतो मननं तात स्वरुपस्य विचारणम् ॥

॥७॥

विपर्यासेन रहितं संशयेन च मानद ।

कैश्चिद्ब्रह्मात्मविज्ञानं निदिध्यासनमुच्यते ॥

॥८॥

विपर्यासेन रहितं संशयेन च यद्यपि ।

शास्त्रीयमैक्यविज्ञानं केवलं नानुभूतये ॥

॥९॥

संशयश्च विपर्यासो निवार्येते उभावपि ।

अनुभूत्यैव वासिष्ठ न शास्त्रशतकैरपि ॥

॥१०॥

शास्त्रं श्रद्धावतो हन्यात् संशयं च विपर्ययम् ।

श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः ॥

॥११॥

मूलच्छेदस्तु वासिष्ठ स्वरुपानुभवे तयोः ।

स्वरुपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते ॥

॥१२॥

बहिस्सञ्चरतस्तात स्वरुपे संस्थितिं विना ।

अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया ॥

॥१३॥

स्वरुपसंस्थितिः स्याच्चेत् सहजा कुण्डिनर्षभ ।

सा मुक्तिः सा परा निष्ठा स साक्षात्कार ईरितः ॥

॥१४॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमनननिदिध्यासन निरूपणं नाम पञ्चदशोऽध्यायः ॥

अथ षोडशोऽध्यायः । (भक्तिविचारः)

अथ भक्तिं समुद्दिश्य पृष्टः पुरुषसत्तमः ।

अभाषत महाभागो भगवान् रमणो मुनिः ॥

॥१॥

आत्मा प्रियः समस्तस्य प्रियं नेतरदात्मनः ।

अच्छिन्ना तैलधारावत् प्रीतिर्भक्तिरुदाहृता ॥

॥२॥

अभिन्नं स्वात्मनः प्रीत्या विजानातीश्वरं कविः ।

जानन्नप्यपरो भिन्नं लीन आत्मनि तिष्ठति ॥

॥३॥

वहन्ती तैलधारावद्या प्रीतिः परमेश्वरे ।

अनिच्छतोऽपि सा बुद्धिं स्वरुपं नयति ध्रुवम् ॥

॥४॥

परिच्छिन्नं यदात्मानं स्वल्पज्ञं चापि मन्यते ।

भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये ॥

॥५॥

व्यापकं परमं वस्तु भजते देवताधिया ।

भजंश्च देवताबुद्ध्या तदेवान्ते समश्नुते ॥

॥६॥

देवताया नरश्रेष्ठ नामरूपप्रकल्पनात् ।

ताभ्यां तु नामरूपाभ्यां नामरुपे विजेष्यते ॥

॥७॥

भक्तौ तु परिपूर्णायमलं श्रवणमेकदा ।

ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते ॥

॥८॥

धाराव्यपेता या भक्तिः सा विच्छिन्नेति कीर्त्यते ।

भक्तेः परस्य सा हेतुर्भवतीति विनिर्णयः ॥

॥९॥

कामाय भक्तिं कुर्वाणः कामं प्राप्याप्यनिवृतः ।

शाश्वताय सुखस्यान्ते भजते पुनरीश्वरम् ॥

॥१०॥

भक्तिः कामसमेताऽपि कामाप्तौ न निवर्तते ।

श्रद्धा वृद्धा परे पुंसि भूय एवाभिर्वर्धते ॥

॥११॥

वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति ।

पूर्णया परया भक्त्या ज्ञानेनेव भवं तरेत् ॥

॥१२॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारः नाम षोडशोऽध्यायः ॥

अथ सप्तदशोऽध्यायः । (ज्ञानप्राप्तिविचारः)

पञ्चविंशे तु दिवसे वैदर्भो विदुषं वरः ।

प्रश्रयानवतो भूत्वा मुनिं भूयोऽपि पृष्टवान् ॥

॥१॥

वैदर्भ उवाच

क्रमेणायाति किं ज्ञानं किञ्चित्किञ्चिद्दिने दिने ।

एकस्मिन्नेव काले किं पूर्णमाभाति भानुवत् ॥

॥२॥

भगवानुवाच

क्रमेणायाति न ज्ञानं किञ्चित्किञ्चिद्दिने दिने ।

अभ्यासपरिपाकेन भासते पूर्णमेकदा ॥

॥३॥

वैदर्भ उवाच

अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा ।

यातायातं प्रकुर्वाणा याते किं ज्ञानमुच्यते ॥

॥४॥

भगवानुवाच

अन्तर्याता मतिर्विद्वन्बहिरायाति चेत्पुनः ।

अभ्यासमेव तामाहुर्ज्ञानं ह्यनुभवोऽच्युतः ॥

॥५॥

वैदर्भ उवाच

ज्ञानस्य मुनिशार्दूल भूमिकाः काश्चिदीरिताः ।

शास्त्रेषु विदुषां श्रेष्ठैः कथं तासां समन्वयः ॥

॥६॥

भगवानुवाच

शास्त्रोक्ता भूमिकास्सर्वा भवन्ति परबुद्धिगाः ।

मुक्तिभेदा इव प्राज्ञ ज्ञानमेकं प्रजानताम् ॥

॥७॥

चर्यां देहेन्द्रियादीनां वीक्ष्याब्धानुसारिणीम् ।

कल्पयन्ति परे भूमिस्तारतम्यं न वस्तुतः ॥

॥८॥

वैदर्भ उवाच

प्रज्ञानमेकदा सिद्धं सर्वाज्ञाननिबर्हणम् ।

तिरोधते किमज्ञानात्सङ्गादङ्कुरितात्पुनः ॥

॥९॥

भगवानुवाच

अज्ञानस्य प्रतिद्वन्दि न पराभूयते पुनः ।

प्रज्ञानमेकदा सिद्धं भरद्वाजकुलोद्वह ॥

॥१०॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः ॥

अथ अष्टादशोऽध्यायः । (सिद्धमहिमानुकीर्तनम्)

वरपराशरगोत्रसमुद्भवं वसुमतीसुरसङ्घयशस्करम् ।

विमलसुन्दरपण्डितनन्दनं कमलपत्रविशालविलोचनम् ॥

॥१॥

अरुणशैलगताश्रमवासिनं परमहंसमनञ्जनमच्युतम् ।

करुणया दधतं व्यवहारितां सततमात्मनि संस्थितमक्षरे ॥

॥२॥

अखिलसंशयवारणभाषणं भ्रममदद्विरदाङ्कुशवीक्षणम् ।

अविरतं परसौख्यधृतोद्यमं निजतनूविषयेष्वलसालसम् ॥

॥३॥

परिणताम्रफलप्रभविग्रहं चलतरेन्द्रियनिग्रहसग्रहम् ।

अमृतचिद्धनवल्लिपरिग्रहं मितवचोरचितागमसङ्ग्रहम् ॥

॥४॥

अमलदिप्ततरात्ममरीचिभिर्निजकरैरिव पङ्कजबान्धवम् ।

पदजुषां जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् ॥

॥५॥

मृदुतमं वचने दृशि शीतलं विकसितं वदने सरसीरुहे ।

मनसि शून्यमहश्शशिसन्निभे हृदि लसन्तमनन्त इवारुणम् ॥

॥६॥

अदयमात्मतनौ कठिनं व्रते प्रुषचित्तमलं विषयव्रजे ।

ऋषिमरोषमपेतमनोरथं धृतमदं घनचिल्लहरीवशात् ॥

॥७॥

विगतमोहमलोभमभवनं शमितमत्सरमुत्सविनं सदा ।

भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् ॥

॥८॥

माताममेति नगराजसुतोरुपीठं

नागानने भजति याहि पिता ममेति ।

अङ्कं हरस्य समवाप्य शिरस्यनेन

सञ्चुम्बितस्य गिरिन्ध्रकृतो विभूतिम् ॥

॥९॥

वेदादिपाकदमनोत्तरकच्छपेशै-

र्युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च ।

सूक्ष्मामृतायुगमृतेन सह प्रणत्या

सम्पन्नशब्दपटलस्य रहस्यमर्थम् ॥

॥१०॥

दण्डं विनैव यतिनं बत दण्डपाणिं

दुःखाब्धितारकमरिं बत तारकस्य ।

त्यक्त्वा भवं भवमहो सततं भजन्तं

हंसं तथापि गतमानससङ्गरागम् ॥

॥११॥

धीरत्वसम्पदि सुवर्णगिरेरनूनं

वारन्निरोधेधिकमेव गभिरतायाम् ।

क्षान्तौ जयन्तमचलामखिलस्य धात्रीं

दान्तौ निर्दशनमशन्तिकथादविष्ठम् ॥

॥१२॥

नीलारविन्दसुहृदा सदृशं प्रसादे

तुल्यं तथा महसि तोयजबान्धवेन ।

ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं

संस्मारयन्तमचलन्तमनूदितं मे ॥

॥१३॥

यस्याधुनापि रमणी रमणीयभावा

गिर्वाणलोकपृतना शुभवृत्तिरूपा ।

संशोभते शिरसि नापि मनोजगन्ध-

स्तत्तादृशं गृहिणमप्यधिपं यतीनाम् ॥

॥१४॥

वन्दारुलोकवरदं नरदन्तिनोऽपि

मन्त्रेश्वरस्य महतो गुरुतां वहन्तम् ।

मन्दारवृक्षमिव सर्वजनस्य पाद-

च्छायां श्रितस्य परितापमपाहरन्तम् ॥

॥१५॥

यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति-

संशोभितं निगमजीवनमाततान ।

भुस्य तस्य बुधसंहतिसंस्तुतस्य

वेषान्तरं तु निगमानतवचो विचारि ॥

॥१६॥

वेदशीर्षचयसारसङ्ग्रहं पञ्चरत्नमरुणाचलस्य यः ।

गुप्तमल्पमपि सर्वतोमुखं सूत्रभूतमतनोदिमं गुरुम् ॥

॥१७॥

देववाचि सुतरामशिक्षितं काव्यगन्धरहितं च यद्यपि ।

ग्रन्थक्रमणि तथाऽपि सस्फुरद्भाषितानुचरभावसञ्चयम् ॥

॥१८॥

लोकमातृकुचदुग्धपायिनश्शङ्करस्तवकृतो महाकवेः ।

द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् ॥

॥१९॥

भूतले त्विह तृतियमुद्भवं क्रौञ्चभूमिधररन्ध्रकारिणः ।

ब्रह्मनिष्ठितदशाप्रदर्शनाद्युक्तिवादतिमिरस्य शान्तये ॥

॥२०॥

कुम्भयोनिमुखमौनिपूजिते द्राविडे वचसि विश्रुतं कविम् ।

दृष्टवन्तमजरं परं महः केवलं धिषणया गुरुं विना ॥

॥२१॥

बालकेऽपि जडगोपकेऽपि व वानरेऽपि शुनि वा खलेऽपि वा ।

पण्डितेऽपि पदसंश्रितेऽपि वा पक्षपातरहितं समेक्षणम् ॥

॥२२॥

शक्तिमन्तमपि शान्तिसंयुतं भक्तिमन्तमपि भेदवर्जितम् ।

वीतरागमपि लोकवत्सलं देवतांशमपि नम्रचेष्टितम् ॥

॥२३॥

एष यामि पितुरन्तिकं ममान्वेषणं तु न विधीयतामिति ।

संविलिख्य गृहतो विनिर्गतं शोणशैलचरणं समागतम् ॥

॥२४॥

ईदृशं गुणगणैरभिरामं प्रश्रयेण रमणं भगवन्तम् ।

सिद्धलोकमहिमानमपारं पृष्टवानमृतनाथयतीन्द्रः ॥

॥२५॥

आह तं स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः ।

ते शिवेन सदृशाः शिवरूपाः शक्रुवन्ति च वराण्यपि दातुम् ॥

॥२६॥

॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनं नाम अष्टादशोऽध्यायः ॥ १८ ॥ इति श्रीरमणगीता समाप्ता ॥

अत्रेमे भवन्त्युपसंहारश्लोकाः

द्वितीये तु द्वितीयेऽत्र श्लोको ग्रन्थे स्वयं मुनेः ।

द्वितीयाध्यायगाः श्लोका अन्येमेतं विवृण्वते ॥

॥१॥

इतरत्र तु सर्वत्र प्रश्नार्थः प्रश्नकारिणः ।

उत्तरार्थो भगवतः श्लोकबन्धो मम स्वयम् ॥

॥२॥

अयं गणपतेर्ग्रन्थमालायामुज्ज्वलो मणिः ।

गुरोः सरस्वती यत्र विशुद्धे प्रतिबिम्बिता ॥

॥३॥

ग्रन्थप्रशंसा

गलन्ति गङ्गेयं विमलतरगीतैव महतो

नगाधीशाच्छ्रिमद्रमणमुनिरूपाज्जनिमति ।

पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयं

समुद्रं संयाति प्रबलमलहारिण्यनुपदम् ॥

---प्रणवानन्दः

श्रीरमणगीताप्रकाशपीठिका

ईश्वरः सर्वभूतानमेकोऽसौ हृदयाश्रयः ।

स आत्मा सा परा दृष्टिस्तदन्यन्नास्ति किञ्चन ॥

॥१॥

सा वियोगासहा शक्तिरेका शक्तस्य जग्रति ।

दृश्यब्रह्माण्डकोटिनां भाति जन्मादि बिभ्रती ॥

॥२॥

यमियं वृणुते दृष्टिर्मार्जारीव निजं शिशुम् ।

स तामन्वेषते पोतः कपिः स्वामिव मातरम् ॥

॥३॥

जयति स भग्वान्रमणो वाक्पतिराचार्यगणपतिर्जयति ।

अस्य च वाणी भग्वद् - रमणीयार्थानुवर्तिनी जयति ॥

॥४॥

---कपालि शास्त्री

श्रीरमणाञ्जलीः

अरुणाद्रितटे दिशो वसानं

परितः पुण्यभुवः पुनः पुनानम् ।

रमणाख्यामहो महो विशेषं

जयति ध्वान्तहरं नरात्मवेषम् ॥

॥१॥

चरितेन नरानरेषु तुल्यं

महसां पुञ्जमिदं विदाममूल्यम् ।

दुरितापहमाश्रितेषु भास्वत्-

करुणामूर्तिवरं महर्षिमाहुः ॥

॥२॥

ज्वलितेन तपःप्रभावभूम्ना

कबलिकृत्य जगद्विहस्य धाम्ना ।

विलसन् भगवान् महर्षिरस्म-

त्परमाचार्यपुमान् हरत्वधं नः ॥

॥३॥

प्रथमं पुरुषं तमीशमेके

पुरुषाणां विदुरुत्तमं तथाऽन्ये ।

सरसीजभवाण्डमण्डलाना-

मपरे मध्यमामनन्ति सन्तः ॥

॥४॥

पुरुषत्रियतेऽपि भासमानं

यमहन्धिमलिनो न वेद जन्तुः ।

अजहत्तमखण्डमेष नॄणां

निजवृत्तेन निदर्शनाय भाति ॥

॥५॥

मृदुलो हसितेन मन्दमन्दं

दुरवेक्षः प्रबलो दृशा ज्वलन्त्या ।

विपुलो हृदयेन विश्वभोक्त्रा

गहनो मौनगृहितया च वृत्त्या ॥

॥६॥

गुरुराट् किमु शङ्करोऽयमन्यः

किमु वा शङ्करसम्भवः कुमारः ।

किमु कुण्डिनजः स एव बालः

किमु वा संहृतशक्तिरेष शम्भुः ॥

॥७॥

बहुधेति विकल्पनाय विदुभि

र्बहुभागस्तव मौनिनो विलाशः ।

हृदयेषु तु नः सदाऽविकल्पं

रमण त्वं रमसे गुरो गुरूणाम् ॥

॥८॥

औपच्छन्दसिकैरेतैर्बन्धं नीतः स्तवाञ्जलिः ।

उपहारायतामेष महर्षिचरणाब्जयोः ॥

॥१॥

गुणोऽत्र रमणे भक्तिः कृतवित्त च शाश्वती ।

रम्यो रमणनाम्नोऽयं ध्वनिश्च हृदयङ्गमः ॥

॥२॥

महर्षेर्मौनिराजस्य यशोगानमलङ्कृतिः ।

तदयं ध्वन्यकङ्कारगुणैरेवं नवोज्ज्वलः ॥

॥३॥

रमणस्य पदाम्भोजस्मरणं हृदयङ्गमम् ।

इक्षुखण्डरसास्वादे को वा भृतिमपेक्षताम् ॥

॥४॥

अयं रमणपादाब्जकिङ्करस्यापि किङ्कृता ।

काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥

॥५॥

रमणाङ्घ्रिसरोजातरसज्ञेन कपालिना ।

भारद्वाजेन भक्तेन रचितो रमणाञ्जलिः ॥

॥६॥