- १ॐ धन्वन्तरये नमः
- २ॐ सुधापूर्णकलशाढ्यकराय नमः
- ३ॐ हरये नमः
- ४ॐ जरामृतित्रस्तदेवप्रार्थनासाधकाय नमः
- ५ॐ प्रभवे नमः
- ६ॐ निर्विकल्पाय नमः
- ७ॐ निस्समानाय नमः
- ८ॐ मन्दस्मितमुखाम्बुजाय नमः
- ९ॐ आञ्जनेयप्रापिताद्रये नमः
- १०ॐ पार्श्वस्थविनतासुताय नमः
- ११ॐ निमग्नमन्दरधराय नमः
- १२ॐ कूर्मरूपिणे नमः
- १३ॐ बृहत्तनवे नमः
- १४ॐ नीलकुञ्चितकेशान्ताय नमः
- १५ॐ परमाद्भुतरूपधृते नमः
- १६ॐ कटाक्षवीक्षणाश्वस्तवासुकिने नमः
- १७ॐ सिंहविक्रमाय नमः
- १८ॐ स्मर्तृहृद्रोगहरणाय नमः
- १९ॐ महाविष्ण्वंशसम्भवाय नमः
- २०ॐ प्रेक्षणीयोत्पलश्यामाय नमः
- २१ॐ आयुर्वेदाधिदैवताय नमः
- २२ॐ भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय नमः
- २३ॐ नवयौवनसम्पन्नाय नमः
- २४ॐ किरीटान्वितमस्तकाय नमः
- २५ॐ नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये नमः
- २६ॐ दीर्घपीवरदोर्दण्डाय नमः
- २७ॐ कम्बुग्रीवाय नमः
- २८ॐ अम्बुजेक्षणाय नमः
- २९ॐ चतुर्भुजाय नमः
- ३०ॐ शङ्खधराय नमः
- ३१ॐ चक्रहस्ताय नमः
- ३२ॐ वरप्रदाय नमः
- ३३ॐ सुधापात्रोपरिलसदाम्रपत्रलसत्कराय नमः
- ३४ॐ शतपद्याढ्यहस्ताय नमः
- ३५ॐ कस्तूरीतिलकाञ्चिताय नमः
- ३६ॐ सुकपोलाय नमः
- ३७ॐ सुनासाय नमः
- ३८ॐ सुन्दरभ्रूलताञ्चिताय नमः
- ३९ॐ स्वङ्गुलीतलशोभाढ्याय नमः
- ४०ॐ गूढजत्रवे नमः
- ४१ॐ महाहनवे नमः
- ४२ॐ दिव्याङ्गदलसद्बाहवे नमः
- ४३ॐ केयूरपरिशोभिताय नमः
- ४४ॐ विचित्ररत्नखचितवलयद्वयशोभिताय नमः
- ४५ॐ समोल्लसत्सुजातांसाय नमः
- ४६ॐ अङ्गुलीयविभूषिताय नमः
- ४७ॐ सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय नमः
- ४८ॐ लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय नमः
- ४९ॐ लक्ष्मीशोभितवक्षस्काय नमः
- ५०ॐ वनमालाविराजिताय नमः
- ५१ॐ नवरत्नमणीकॢप्तहारशोभितकन्धराय नमः
- ५२ॐ हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय नमः
- ५३ॐ विरजाय नमः
- ५४ॐ अम्बरसंवीताय नमः
- ५५ॐ विशालोरवे नमः
- ५६ॐ पृथुश्रवसे नमः
- ५७ॐ निम्ननाभये नमः
- ५८ॐ सूक्ष्ममध्याय नमः
- ५९ॐ स्थूलजङ्घाय नमः
- ६०ॐ निरञ्जनाय नमः
- ६१ॐ सुलक्षणपदाङ्गुष्ठाय नमः
- ६२ॐ सर्वसामुद्रिकान्विताय नमः
- ६३ॐ अलक्तकारक्तपादाय नमः
- ६४ॐ मूर्तिमते नमः
- ६५ॐ वार्धिपूजिताय नमः
- ६६ॐ सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनाय नमः
- ६७ॐ कोटिमन्मथसङ्काशाय नमः
- ६८ॐ सर्वावयवसुन्दराय नमः
- ६९ॐ अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुताय नमः
- ७०ॐ पुष्पवर्षणसंयुक्तगन्धर्वकुलसेविताय नमः
- ७१ॐ शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय नमः
- ७२ॐ विष्वक्सेनादियुक्पार्श्वाय नमः
- ७३ॐ सनकादिमुनिस्तुताय नमः
- ७४ॐ साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय नमः
- ७५ॐ साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय नमः
- ७६ॐ नमनोन्मुखदेवादिमौलीरत्नलसत्पदाय नमः
- ७७ॐ दिव्यतेजसे नमः
- ७८ॐ पुञ्जरूपाय नमः
- ७९ॐ सर्वदेवहितोत्सुकाय नमः
- ८०ॐ स्वनिर्गमक्षुब्धदुग्धवाराशये नमः
- ८१ॐ दुन्दुभिस्वनाय नमः
- ८२ॐ गन्धर्वगीतापदानश्रवणोत्कमहामनसे नमः
- ८३ॐ निष्किञ्चनजनप्रीताय नमः
- ८४ॐ भवसम्प्राप्तरोगहृते नमः
- ८५ॐ अन्तर्हितसुधापात्राय नमः
- ८६ॐ महात्मने नमः
- ८७ॐ मायिकाग्रण्ये नमः
- ८८ॐ क्षणार्धमोहिनीरूपाय नमः
- ८९ॐ सर्वस्त्रीशुभलक्षणाय नमः
- ९०ॐ मदमत्तेभगमनाय नमः
- ९१ॐ सर्वलोकविमोहनाय नमः
- ९२ॐ स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिने नमः
- ९३ॐ रत्नदर्वीलसद्धस्ताय नमः
- ९४ॐ देवदैत्यविभागकृते नमः
- ९५ॐ सङ्ख्यातदेवतान्यासाय नमः
- ९६ॐ दैत्यदानववञ्चकाय नमः
- ९७ॐ देवामृतप्रदात्रे नमः
- ९८ॐ परिवेषणहृष्टधिये नमः
- ९९ॐ उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय नमः
- १००ॐ पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय नमः
- १०१ॐ राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय नमः
- १०२ॐ अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय नमः
- १०३ॐ गरुत्मद्वाहनारूढाय नमः
- १०४ॐ सर्वेशस्तोत्रसंयुताय नमः
- १०५ॐ स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय नमः
- १०६ॐ मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय नमः
- १०७ॐ शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय नमः
- १०८ॐ वेदान्तवेद्यमहिम्ने नमः
- १०९ॐ सर्वलोकैकरक्षकाय नमः
- ११०ॐ राजराजप्रपूज्याङ्घ्रये नमः
- १११ॐ चिन्तितार्थप्रदायकाय नमः
इति श्री-धन्वन्तर्यष्टोत्तरशतनामावलिः सम्पूर्णा