- १ॐ अनन्ताय नमः
- २ॐ पद्मनाभाय नमः
- ३ॐ शेषाय नमः
- ४ॐ सप्तफणान्विताय नमः
- ५ॐ तल्पात्मकाय नमः
- ६ॐ पद्मकराय नमः
- ७ॐ पिङ्गप्रसन्नलोचनाय नमः
- ८ॐ गदाधराय नमः
- ९ॐ चतुर्बाहवे नमः
- १०ॐ शङ्खचक्रधराय नमः
- ११ॐ अव्ययाय नमः
- १२ॐ नवाम्रपल्लवाभासाय नमः
- १३ॐ ब्रह्मसूत्रविराजिताय नमः
- १४ॐ शिलासुपूजिताय नमः
- १५ॐ देवाय नमः
- १६ॐ कौण्डिन्यव्रततोषिताय नमः
- १७ॐ नभस्यशुक्लस्थचतुर्दशीपूज्याय नमः
- १८ॐ फणेश्वराय नमः
- १९ॐ सङ्कर्षणाय नमः
- २०ॐ चित्स्वरूपाय नमः
- २१ॐ सूत्रग्रन्थिसुसंस्थिताय नमः
- २२ॐ कौण्डिन्यवरदाय नमः
- २३ॐ पृथ्वीधारिणे नमः
- २४ॐ पातालनायकाय नमः
- २५ॐ सहस्राक्षाय नमः
- २६ॐ अखिलाधाराय नमः
- २७ॐ सर्वयोगिकृपाकराय नमः
- २८ॐ सहस्रपद्मसम्पूज्याय नमः
- २९ॐ केतकीकुसुमप्रियाय नमः
- ३०ॐ सहस्रबाहवे नमः
- ३१ॐ सहस्रशिरसे नमः
- ३२ॐ श्रितजनप्रियाय नमः
- ३३ॐ भक्तदुःखहराय नमः
- ३४ॐ श्रीमते नमः
- ३५ॐ भवसागरतारकाय नमः
- ३६ॐ यमुनातीरसदृष्टाय नमः
- ३७ॐ सर्वनागेन्द्रवन्दिताय नमः
- ३८ॐ यमुनाराध्यपादाब्जाय नमः
- ३९ॐ युधिष्ठिरसुपूजिताय नमः
- ४०ॐ ध्येयाय नमः
- ४१ॐ विष्णुपर्यङ्काय नमः
- ४२ॐ चक्षुश्रवणवल्लभाय नमः
- ४३ॐ सर्वकामप्रदाय नमः
- ४४ॐ सेव्याय नमः
- ४५ॐ भीमसेनामृतप्रदाय नमः
- ४६ॐ सुरासुरेन्द्रसम्पूज्याय नमः
- ४७ॐ फणामणिविभूषिताय नमः
- ४८ॐ सत्यमूर्तये नमः
- ४९ॐ शुक्लतनवे नमः
- ५०ॐ नीलवाससे नमः
- ५१ॐ जगद्गुरवे नमः
- ५२ॐ अव्यक्तपादाय नमः
- ५३ॐ ब्रह्मण्याय नमः
- ५४ॐ सुब्रह्मण्यनिवासभुवे नमः
- ५५ॐ अनन्तभोगशयनाय नमः
- ५६ॐ दिवाकरमुनीडिताय नमः
- ५७ॐ मधुकवृक्षसंस्थानाय नमः
- ५८ॐ दिवाकरवरप्रदाय नमः
- ५९ॐ दक्षहस्तसदापूज्याय नमः
- ६०ॐ शिवलिङ्गनिविष्टधिये नमः
- ६१ॐ त्रिप्रतीहारसन्दृश्याय नमः
- ६२ॐ मुखदापिपदाम्बुजाय नमः
- ६३ॐ नृसिंहक्षेत्रनिलयाय नमः
- ६४ॐ दुर्गासमन्विताय नमः
- ६५ॐ मत्स्यतीर्थविहारिणे नमः
- ६६ॐ धर्माधर्मादिरूपवते नमः
- ६७ॐ महारोगायुधाय नमः
- ६८ॐ वार्धितीरस्थाय नमः
- ६९ॐ करुणानिधये नमः
- ७०ॐ ताम्रपर्णीपार्श्ववर्तिने नमः
- ७१ॐ धर्मपरायणाय नमः
- ७२ॐ महाकाव्यप्रणेत्रे नमः
- ७३ॐ नागलोकेश्वराय नमः
- ७४ॐ स्वभुवे नमः
- ७५ॐ रत्नसिंहासनासीनाय नमः
- ७६ॐ स्फुरन्मकरकुण्डलाय नमः
- ७७ॐ सहस्रादित्यसङ्काशाय नमः
- ७८ॐ पुराणपुरुषाय नमः
- ७९ॐ ज्वलद्रत्नकिरीटाढ्याय नमः
- ८०ॐ सर्वाभरणभूषिताय नमः
- ८१ॐ नागकन्याष्टतप्रान्ताय नमः
- ८२ॐ दिक्पालकपरिपूजिताय नमः
- ८३ॐ गन्धर्वगानसन्तुष्टाय नमः
- ८४ॐ योगशास्त्रप्रवर्तकाय नमः
- ८५ॐ देववैणिकसम्पूज्याय नमः
- ८६ॐ वैकुण्ठाय नमः
- ८७ॐ सर्वतोमुखाय नमः
- ८८ॐ रत्नाङ्गदलसद्बाहवे नमः
- ८९ॐ बलभद्राय नमः
- ९०ॐ प्रलम्बघ्ने नमः
- ९१ॐ कान्तीकर्षणाय नमः
- ९२ॐ भक्तवत्सलाय नमः
- ९३ॐ रेवतीप्रियाय नमः
- ९४ॐ निराधाराय नमः
- ९५ॐ कपिलाय नमः
- ९६ॐ कामपालाय नमः
- ९७ॐ अच्युताग्रजाय नमः
- ९८ॐ अव्यग्राय नमः
- ९९ॐ बलदेवाय नमः
- १००ॐ महाबलाय नमः
- १०१ॐ अजाय नमः
- १०२ॐ वाताशनाधीशाय नमः
- १०३ॐ महातेजसे नमः
- १०४ॐ निरञ्जनाय नमः
- १०५ॐ सर्वलोकप्रतापनाय नमः
- १०६ॐ सज्वालप्रलयाग्निमुखे नमः
- १०७ॐ सर्वलोकैकसंहर्त्रे नमः
- १०८ॐ सर्वेष्टार्थप्रदायकाय नमः