- १ॐ वामनाय नमः
- २ॐ वारिजाताक्षाय नमः
- ३ॐ वर्णिने नमः
- ४ॐ वासवसोदराय नमः
- ५ॐ वासुदेवाय नमः
- ६ॐ वावदूकाय नमः
- ७ॐ वालखिल्यसमाय नमः
- ८ॐ वराय नमः
- ९ॐ वेदवादिने नमः
- १०ॐ विद्युदाभाय नमः
- ११ॐ वृतदण्डाय नमः
- १२ॐ वृषाकपये नमः
- १३ॐ वारिवाहसितच्छत्राय नमः
- १४ॐ वारिपूर्णकमण्डलवे नमः
- १५ॐ वलक्षयज्ञोपवीताय नमः
- १६ॐ वरकौपीनधारकाय नमः
- १७ॐ विशुद्धमौञ्जीरशनाय नमः
- १८ॐ विधृतस्फाटिकस्रजाय नमः
- १९ॐ वृतकृष्णाजिनकुशाय नमः
- २०ॐ विभूतिच्छन्नविग्रहाय नमः
- २१ॐ वरभिक्षापात्रकक्षाय नमः
- २२ॐ वारिजारिमुखाय नमः
- २३ॐ वशिने नमः
- २४ॐ वारिजाङ्घ्रये नमः
- २५ॐ वृद्धसेविने नमः
- २६ॐ वदनस्मितचन्द्रिकाय नमः
- २७ॐ वल्गुभाषिणे नमः
- २८ॐ विश्वचित्तधनस्तेयिने नमः
- २९ॐ विशिष्टधिये नमः
- ३०ॐ वसन्तसदृशाय नमः
- ३१ॐ वह्निशुद्धाङ्गाय नमः
- ३२ॐ विपुलप्रभाय नमः
- ३३ॐ विशारदाय नमः
- ३४ॐ वेदमयाय नमः
- ३५ॐ विद्वदर्धिजनावृताय नमः
- ३६ॐ वितानपावनाय नमः
- ३७ॐ विश्वविस्मयाय नमः
- ३८ॐ विनयान्विताय नमः
- ३९ॐ वन्दारुजनमन्दाराय नमः
- ४०ॐ वैष्णवर्क्षविभूषणाय नमः
- ४१ॐ वामाक्षिमदनाय नमः
- ४२ॐ विद्वन्नयनाम्बुज भास्कराय नमः
- ४३ॐ वारिजासनगौरीशवयस्याय नमः
- ४४ॐ वासवप्रियाय नमः
- ४५ॐ वैरोचनिमखालङ्कृते नमः
- ४६ॐ वैरोचनिवनीपकाय नमः
- ४७ॐ वैरोचनियशस्सिन्धुचन्द्रमसे नमः
- ४८ॐ वैरिबाडबाय नमः
- ४९ॐ वासवार्थस्वीकृतार्थिभावाय नमः
- ५०ॐ वासितकैतवाय नमः
- ५१ॐ वैरोचनिकराम्भोजरससिक्तपदाम्बुजाय नमः
- ५२ॐ वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजाय नमः
- ५३ॐ वियत्पतितमन्दाराय नमः
- ५४ॐ विन्ध्यावलिकृतोत्सवाय नमः
- ५५ॐ वैषम्यनैर्घृण्यहीनाय नमः
- ५६ॐ वैरोचनिकृतप्रियाय नमः
- ५७ॐ विदारितैककाव्याक्षाय नमः
- ५८ॐ वांछिताज्ङ्घ्रित्रयक्षितये नमः
- ५९ॐ वैरोचनिमहाभाग्य परिणामाय नमः
- ६०ॐ विषादहृते नमः
- ६१ॐ वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षिताय नमः
- ६२ॐ वैरोचनिमहापुण्याहार्यतुल्यविवर्धनाय नमः
- ६३ॐ विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुषे नमः
- ६४ॐ विभवे नमः
- ६५ॐ विश्वात्मने नमः
- ६६ॐ विक्रमक्रान्तलोकाय नमः
- ६७ॐ विबुधरञ्जनाय नमः
- ६८ॐ वसुधामण्डलव्यापि दिव्यैकचरणाम्बुजाय नमः
- ६९ॐ विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजाय नमः
- ७०ॐ विग्रहस्थितलोकौघाय नमः
- ७१ॐ वियद्गङ्गोदयाङ्घ्रिकाय नमः
- ७२ॐ वरायुधधराय नमः
- ७३ॐ वन्द्याय नमः
- ७४ॐ विलसद्भूरिभूषणाय नमः
- ७५ॐ विष्वक्सेनाद्युपवृताय नमः
- ७६ॐ विश्वमोहाब्जनिस्स्वनाय नमः
- ७७ॐ वास्तोष्पत्यादिदिक्पालबाहवे नमः
- ७८ॐ विधुमयाशयाय नमः
- ७९ॐ विरोचनाक्षाय नमः
- ८०ॐ वह्न्यास्याय नमः
- ८१ॐ विश्वहेत्वर्षिगुह्यकाय नमः
- ८२ॐ वार्धिकुक्षये नमः
- ८३ॐ वरिवाहकेशाय नमः
- ८४ॐ वक्षस्थ्सलेन्दिराय नमः
- ८५ॐ वायुनासाय नमः
- ८६ॐ वेदकण्ठाय नमः
- ८७ॐ वाक्छन्दसे नमः
- ८८ॐ विधिचेतनाय नमः
- ८९ॐ वरुणस्थानरसनाय नमः
- ९०ॐ विग्रहस्थचराचराय नमः
- ९१ॐ विबुधर्षिगणप्राणाय नमः
- ९२ॐ विबुधारिकटिस्थलाय नमः
- ९३ॐ विधिरुद्रादिविनुताय नमः
- ९४ॐ विरोचनसुतानन्दाय नमः
- ९५ॐ वारितासुरसन्दोहाय नमः
- ९६ॐ वार्धिगम्भीरमानसाय नमः
- ९७ॐ विरोचनपितृस्तोत्र कृतशान्तये नमः
- ९८ॐ वृषप्रियाय नमः
- ९९ॐ विन्ध्यावलिप्राणनाध भिक्षादायने नमः
- १००ॐ वरप्रदाय नमः
- १०१ॐ वासवत्राकृतस्वर्गाय नमः
- १०२ॐ वैरोचनिकृतातलाय नमः
- १०३ॐ वासवश्रीलतोपघ्नाय नमः
- १०४ॐ वैरोचनिकृतादराय नमः
- १०५ॐ विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलाय नमः
- १०६ॐ वारिवाहोपमाय नमः
- १०७ॐ वाणीभूषणाय नमः
- १०८ॐ वाक्पतये नमः
वकारादि श्रीवामन अष्टोत्तरशत नामावलिः
Also spelled: Vakaradi Shrivamana Ashtottarashata Namavali · Vakaradi Shrivamana Ashtottarashatha Namavali