- १ॐ रामाय नमः
- २ॐ राजाटवीवह्नये नमः
- ३ॐ रामचन्द्रप्रसादकाय नमः
- ४ॐ राजरक्तारुणस्नाताय नमः
- ५ॐ राजीवायतलोचनाय नमः
- ६ॐ रैणुकेयाय नमः
- ७ॐ रुद्रशिष्याय नमः
- ८ॐ रेणुकाच्छेदनाय नमः
- ९ॐ रयिणे नमः
- १०ॐ रणधूतमहासेनाय नमः
- ११ॐ रुद्राणीधर्मपुत्रकाय नमः
- १२ॐ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमाय नमः
- १३ॐ राताखिलरसाय नमः
- १४ॐ रक्तकृतपैतृक तर्पणाय नमः
- १५ॐ रत्नाकरकृतावासाय नमः
- १६ॐ रतीशकृतविस्मयाय नमः
- १७ॐ रागहीनाय नमः
- १८ॐ रागदूराय नमः
- १९ॐ रक्षितब्रह्मचर्यकाय नमः
- २०ॐ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवते नमः
- २१ॐ राजद्भृगुकुलाम्बोधिचन्द्रमसे नमः
- २२ॐ रञ्जितद्विजाय नमः
- २३ॐ रक्तोपवीताय नमः
- २४ॐ रक्ताक्षाय नमः
- २५ॐ रक्तलिप्ताय नमः
- २६ॐ रणोद्धताय नमः
- २७ॐ रणत्कुठाराय नमः
- २८ॐ रविभूदण्डायित महाभुजाय नमः
- २९ॐ रमानाधधनुर्धारिणे नमः
- ३०ॐ रमापतिकलामयाय नमः
- ३१ॐ रमालयमहावक्षसे नमः
- ३२ॐ रमानुजलसन्मुखाय नमः
- ३३ॐ रणैकमल्लाय नमः
- ३४ॐ रसनाऽविषयोद्दण्ड पौरुषाय नमः
- ३५ॐ रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयाय नमः
- ३६ॐ रोषानलमयाकाराय नमः
- ३७ॐ रेणुकापुनराननाय नमः
- ३८ॐ रधेयचातकाम्भोदाय नमः
- ३९ॐ रुद्धचापकलापगाय नमः
- ४०ॐ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकाय नमः
- ४१ॐ रामचन्द्रन्यस्ततेजसे नमः
- ४२ॐ राजशब्दार्धनाशनाय नमः
- ४३ॐ राद्धदेवद्विजव्राताय नमः
- ४४ॐ रोहिताश्वाननार्चिताय नमः
- ४५ॐ रोहिताश्वदुराधर्षाय नमः
- ४६ॐ रोहिताश्वप्रपावनाय नमः
- ४७ॐ रामनामप्रधानार्धाय नमः
- ४८ॐ रत्नाकरगभीरधिये नमः
- ४९ॐ राजन्मौञ्जीसमाबद्ध सिंहमध्याय नमः
- ५०ॐ रविद्युतये नमः
- ५१ॐ रजताद्रिगुरुस्थानाय नमः
- ५२ॐ रुद्राणीप्रेमभाजनाय नमः
- ५३ॐ रुद्रभक्ताय नमः
- ५४ॐ रौद्रमूर्तये नमः
- ५५ॐ रुद्राधिकपराक्रमाय नमः
- ५६ॐ रविताराचिरस्थायिने नमः
- ५७ॐ रक्तदेवर्षिभावनाय नमः
- ५८ॐ रम्याय नमः
- ५९ॐ रम्यगुणाय नमः
- ६०ॐ रक्ताय नमः
- ६१ॐ रातभक्ताखिलेप्सिताय नमः
- ६२ॐ रचितस्वर्गगोपाय नमः
- ६३ॐ रन्धिताशयवासनाय नमः
- ६४ॐ रुद्धप्राणादिसञ्चाराय नमः
- ६५ॐ राजद्ब्रह्मपदस्थिताय नमः
- ६६ॐ रत्नसानुमहाधीराय नमः
- ६७ॐ रसासुरशिखामणये नमः
- ६८ॐ रक्तसिद्धये नमः
- ६९ॐ रम्यतपसे नमः
- ७०ॐ राततीर्थाटनाय नमः
- ७१ॐ रसिने नमः
- ७२ॐ रचितभ्रातृहननाय नमः
- ७३ॐ रक्षितभातृकाय नमः
- ७४ॐ राणिने नमः
- ७५ॐ राजापहृततातेष्टिधेन्वाहर्त्रे नमः
- ७६ॐ रसाप्रभवे नमः
- ७७ॐ रक्षितब्राह्म्यसाम्राज्याय नमः
- ७८ॐ रौद्राणेयजयध्वजाय नमः
- ७९ॐ राजकीर्तिमयच्छत्राय नमः
- ८०ॐ रोमहर्षणविक्रमाय नमः
- ८१ॐ राजसौर्यरसाम्भोधिकुम्भसम्भूतिसायकाय नमः
- ८२ॐ रात्रिन्दिवसमाजाग्रत्प्रतापग्रीष्मभास्कराय नमः
- ८३ॐ राजबीजोदरक्षोणीपरित्यागिने नमः
- ८४ॐ रसात्पतये नमः
- ८५ॐ रसाभारहराय नमः
- ८६ॐ रस्याय नमः
- ८७ॐ राजीवजकृतक्षमाय नमः
- ८८ॐ रुद्रमेरुधनुर्भङ्ग कृद्धात्मने नमः
- ८९ॐ रौद्रभूषणाय नमः
- ९०ॐ रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलाय नमः
- ९१ॐ रामाभिन्नाय नमः
- ९२ॐ रुद्रमयाय नमः
- ९३ॐ रामरुद्रो भयात्मकाय नमः
- ९४ॐ रामपूजितपादाब्जाय नमः
- ९५ॐ रामविद्वेषिकैतवाय नमः
- ९६ॐ रामानन्दाय नमः
- ९७ॐ रामनामाय नमः
- ९८ॐ रामाय नमः
- ९९ॐ रामात्मनिर्भिदाय नमः
- १००ॐ रामप्रियाय नमः
- १०१ॐ रामतृप्ताय नमः
- १०२ॐ रामगाय नमः
- १०३ॐ रामविश्रमाय नमः
- १०४ॐ रामज्ञानकुठारात्तराजलोकमहातमसे नमः
- १०५ॐ रामात्ममुक्तिदाय नमः
- १०६ॐ रामाय नमः
- १०७ॐ रामदाय नमः
- १०८ॐ राममङ्गलाय नमः