वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छन्दोऽनुष्ठुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥
बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥
ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥
ध्यानम्
भास्वच्छंद्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा ।
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥
ऊर्ध्वै हस्तौ यदीयौ सुररिपुदळने बिभ्रतौ शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् ॥
- १ॐ श्रीवेङ्कटेशाय नमः
- २ॐ विरूपाक्षाय नमः
- ३ॐ विश्वेशाय नमः
- ४ॐ विश्वभावनाय नमः
- ५ॐ विश्वसृजे नमः
- ६ॐ विश्वसंहर्त्रे नमः
- ७ॐ विश्वप्राणाय नमः
- ८ॐ विराड्वपुषे नमः
- ९ॐ शेषाद्रिनिलयाय नमः
- १०ॐ अशेषभक्तदुःखप्रणाशनाय नमः
- ११ॐ शेषस्तुत्याय नमः
- १२ॐ शेषशायिने नमः
- १३ॐ विशेषज्ञाय नमः
- १४ॐ विभवे नमः
- १५ॐ स्वभुवे नमः
- १६ॐ विष्णवे नमः
- १७ॐ जिष्णवे नमः
- १८ॐ वर्धिष्णवे नमः
- १९ॐ उत्सहिष्णवे नमः
- २०ॐ सहिष्णुकाय नमः
- २१ॐ भ्राजिष्णवे नमः
- २२ॐ ग्रसिष्णवे नमः
- २३ॐ वर्तिष्णवे नमः
- २४ॐ भरिष्णुकाय नमः
- २५ॐ कालयन्त्रे नमः
- २६ॐ कालाय नमः
- २७ॐ कालगोप्त्रे नमः
- २८ॐ कालान्तकाय नमः
- २९ॐ अखिलाय नमः
- ३०ॐ कालगम्याय नमः
- ३१ॐ कालकण्ठवन्द्याय नमः
- ३२ॐ कालकालेश्वराय नमः
- ३३ॐ शम्भवे नमः
- ३४ॐ स्वयम्भुवे नमः
- ३५ॐ अम्भोजनाभये नमः
- ३६ॐ स्तम्भितवारिधये नमः
- ३७ॐ अम्भोधिनन्दिनीजानये नमः
- ३८ॐ शोणाम्भोजपदप्रभाय नमः
- ३९ॐ कम्बुग्रीवाय नमः
- ४०ॐ शम्बरारिरूपाय नमः
- ४१ॐ शम्बरजेक्षणाय नमः
- ४२ॐ बिम्बाधराय नमः
- ४३ॐ बिम्बरूपिणे नमः
- ४४ॐ प्रतिबिम्बक्रियातिगाय नमः
- ४५ॐ गुणवते नमः
- ४६ॐ गुणगम्याय नमः
- ४७ॐ गुणातीताय नमः
- ४८ॐ गुणप्रियाय नमः
- ४९ॐ दुर्गुणध्वंसकृते नमः
- ५०ॐ सर्वसुगुणाय नमः
- ५१ॐ गुणभासकाय नमः
- ५२ॐ परेशाय नमः
- ५३ॐ परमात्मने नमः
- ५४ॐ परञ्ज्योतिषे नमः
- ५५ॐ परायैगतये नमः
- ५६ॐ परस्मैपदाय नमः
- ५७ॐ वियद्वाससे नमः
- ५८ॐ पारम्पर्यशुभप्रदाय नमः
- ५९ॐ ब्रह्माण्डगर्भाय नमः
- ६०ॐ ब्रह्मण्याय नमः
- ६१ॐ ब्रह्मसृजे नमः
- ६२ॐ ब्रह्मबोधिताय नमः
- ६३ॐ ब्रह्मस्तुत्याय नमः
- ६४ॐ ब्रह्मवादिने नमः
- ६५ॐ ब्रह्मचर्यपरायणाय नमः
- ६६ॐ सत्यव्रतार्थसन्तुष्टाय नमः
- ६७ॐ सत्यरूपिणे नमः
- ६८ॐ झषाङ्गवते नमः
- ६९ॐ सोमकप्राणहारिणे नमः
- ७०ॐ आनीताम्नायाय नमः
- ७१ॐ अब्दिवन्दिताय नमः
- ७२ॐ देवासुरस्तुत्याय नमः
- ७३ॐ पतन्मन्दरधारकाय नमः
- ७४ॐ धन्वन्तरये नमः
- ७५ॐ कच्छपाङ्गाय नमः
- ७६ॐ पयोनिधिविमन्थकाय नमः
- ७७ॐ अमरामृत सन्दात्रे नमः
- ७८ॐ धृतसम्मोहिनीवपुषे नमः
- ७९ॐ हरमोहकमायाविने नमः
- ८०ॐ रक्षस्सन्दोहभञ्जनाय नमः
- ८१ॐ हिरण्याक्षविदारिणे नमः
- ८२ॐ यज्ञाय नमः
- ८३ॐ यज्ञविभावनाय नमः
- ८४ॐ यज्ञीयोर्वीसमुद्धर्त्रे नमः
- ८५ॐ लीलाक्रोडाय नमः
- ८६ॐ प्रतापवते नमः
- ८७ॐ दण्डकासुरविध्वंसिने नमः
- ८८ॐ वक्रदंष्ट्राय नमः
- ८९ॐ क्षमाधराय नमः
- ९०ॐ गन्धर्वशापहरणाय नमः
- ९१ॐ पुण्यगन्धाय नमः
- ९२ॐ विचक्षणाय नमः
- ९३ॐ करालवक्त्राय नमः
- ९४ॐ सोमार्कनेत्राय नमः
- ९५ॐ षड्गुणवैभवाय नमः
- ९६ॐ श्वेतघोणिने नमः
- ९७ॐ घूर्णितभ्रुवे नमः
- ९८ॐ घुर्घुरध्वनिविभ्रमाय नमः
- ९९ॐ द्राघीयसे नमः
- १००ॐ नीलकेशिने नमः
- १०१ॐ जाग्रदम्बुजलोचनाय नमः
- १०२ॐ घृणावते नमः
- १०३ॐ घृणिसम्मोहाय नमः
- १०४ॐ महाकालाग्निदीधितये नमः
- १०५ॐ ज्वालाकरालवदनाय नमः
- १०६ॐ महोल्काकुलवीक्षणाय नमः
- १०७ॐ सटानिर्बिन्नमेघौघाय नमः
- १०८ॐ दंष्ट्रारुग्व्याप्तदिक्तटाय नमः
- १०९ॐ उच्छ्वासाकृष्टभूतेशाय नमः
- ११०ॐ नि:श्वासत्यक्तविश्वसृजे नमः
- १११ॐ अन्तर्भ्रमज्जगद्गर्भाय नमः
- ११२ॐ अनन्ताय नमः
- ११३ॐ ब्रह्मकपालहृते नमः
- ११४ॐ उग्राय नमः
- ११५ॐ वीराय नमः
- ११६ॐ महाविष्णवे नमः
- ११७ॐ ज्वलनाय नमः
- ११८ॐ सर्वतोमुखाय नमः
- ११९ॐ नृसिंहाय नमः
- १२०ॐ भीषणाय नमः
- १२१ॐ भद्राय नमः
- १२२ॐ मृत्युमृत्यवे नमः
- १२३ॐ सनातनाय नमः
- १२४ॐ सभास्तम्भोद्भवाय नमः
- १२५ॐ भीमाय नमः
- १२६ॐ शिरोमालिने नमः
- १२७ॐ महेश्वराय नमः
- १२८ॐ द्वादशादित्यचूडालाय नमः
- १२९ॐ कल्पधूमसटाच्छवये नमः
- १३०ॐ हिरण्यकोरस्थलभिन्नखाय नमः
- १३१ॐ सिंहमुखाय नमः
- १३२ॐ अनघाय नमः
- १३३ॐ प्रह्लादवरदाय नमः
- १३४ॐ धीमते नमः
- १३५ॐ भक्तसङ्घप्रतिष्ठिताय नमः
- १३६ॐ ब्रह्मरुद्रादिसंसेव्याय नमः
- १३७ॐ सिद्धसाध्यप्रपूजिताय नमः
- १३८ॐ लक्ष्मीनृसिंहाय नमः
- १३९ॐ देवेशाय नमः
- १४०ॐ ज्वालाजिह्वान्त्रमालिकाय नमः
- १४१ॐ खड्गिने नमः
- १४२ॐ महेष्वासिने नमः
- १४३ॐ खेटिने नमः
- १४४ॐ कपालिने नमः
- १४५ॐ मुसलिने नमः
- १४६ॐ हलिने नमः
- १४७ॐ पाशिने नमः
- १४८ॐ शूलिने नमः
- १४९ॐ महाबाहवे नमः
- १५०ॐ ज्वरघ्नाय नमः
- १५१ॐ रोगलुण्टकाय नमः
- १५२ॐ मौञ्जीयुजे नमः
- १५३ॐ छत्रकाय नमः
- १५४ॐ दण्डिने नमः
- १५५ॐ कृष्णाजिनधराय नमः
- १५६ॐ वटवे नमः
- १५७ॐ अधीतवेदाय नमः
- १५८ॐ वेदान्तोद्धारकाय नमः
- १५९ॐ ब्रह्मनैष्ठिकाय नमः
- १६०ॐ अहीनशयनप्रीताय नमः
- १६१ॐ आदितेयाय नमः
- १६२ॐ अनघाय नमः
- १६३ॐ हरये नमः
- १६४ॐ संवित्प्रियाय नमः
- १६५ॐ सामवेद्याय नमः
- १६६ॐ बलिवेश्मप्रतिष्ठिताय नमः
- १६७ॐ बलिक्षालितपादाब्जाय नमः
- १६८ॐ विन्ध्यावलिविमानिताय नमः
- १६९ॐ त्रिपादभूमिस्वीकर्त्रे नमः
- १७०ॐ विश्वरूपप्रदर्शकाय नमः
- १७१ॐ धृतत्रिविक्रमाय नमः
- १७२ॐ स्वाङ्घ्रीनखभिन्नाण्डाकर्पराय नमः
- १७३ॐ पज्जातवाहिनीधारापवित्रितजगत्त्रयाय नमः
- १७४ॐ विधिसम्मानिताय नमः
- १७५ॐ पुण्याय नमः
- १७६ॐ दैत्ययोद्ध्रे नमः
- १७७ॐ जयोर्जिताय नमः
- १७८ॐ सुरराज्यप्रदाय नमः
- १७९ॐ शुक्रमदहृते नमः
- १८०ॐ सुगतीश्वराय नमः
- १८१ॐ जामदग्न्याय नमः
- १८२ॐ कुठारिणे नमः
- १८३ॐ कार्तवीर्यविदारणाय नमः
- १८४ॐ रेणुकायाश्शिरोहारिणे नमः
- १८५ॐ दुष्टक्षत्रियमर्दनाय नमः
- १८६ॐ वर्चस्विने नमः
- १८७ॐ दानशीलाय नमः
- १८८ॐ धनुष्मते नमः
- १८९ॐ ब्रह्मवित्तमाय नमः
- १९०ॐ अत्युदग्राय नमः
- १९१ॐ समग्राय नमः
- १९२ॐ न्यग्रोधाय नमः
- १९३ॐ दुष्टनिग्रहाय नमः
- १९४ॐ रविवंशसमुद्भूताय नमः
- १९५ॐ राघवाय नमः
- १९६ॐ भरताग्रजाय नमः
- १९७ॐ कौसल्यातनयाय नमः
- १९८ॐ रामाय नमः
- १९९ॐ विश्वामित्रप्रियङ्कराय नमः
- २००ॐ ताटकारये नमः
- २०१ॐ सुबाहुघ्नाय नमः
- २०२ॐ बलातिबलमन्त्रवते नमः
- २०३ॐ अहल्याशापविच्छेदिने नमः
- २०४ॐ प्रविष्टजनकालयाय नमः
- २०५ॐ स्वयंवरसभासंस्थाय नमः
- २०६ॐ ईशचापप्रभञ्जनाय नमः
- २०७ॐ जानकीपरिणेत्रे नमः
- २०८ॐ जनकाधीशसंस्तुताय नमः
- २०९ॐ जमदग्नितनूजातयोद्ध्रे नमः
- २१०ॐ अयोध्याधिपाग्रण्ये नमः
- २११ॐ पितृवाक्यप्रतीपालाय नमः
- २१२ॐ त्यक्तराज्याय नमः
- २१३ॐ सलक्ष्मणाय नमः
- २१४ॐ ससीताय नमः
- २१५ॐ चित्रकूटस्थाय नमः
- २१६ॐ भरताहितराज्यकाय नमः
- २१७ॐ काकदर्पप्रहर्ते नमः
- २१८ॐ दण्डकारण्यवासकाय नमः
- २१९ॐ पञ्चवट्यां विहारिणे नमः
- २२०ॐ स्वधर्मपरिपोषकाय नमः
- २२१ॐ विराधघ्ने नमः
- २२२ॐ अगस्त्यमुख्यमुनि सम्मानिताय नमः
- २२३ॐ पुंसे नमः
- २२४ॐ इन्द्रचापधराय नमः
- २२५ॐ खड्गधराय नमः
- २२६ॐ अक्षयसायकाय नमः
- २२७ॐ खरान्तकाय नमः
- २२८ॐ धूषणारये नमः
- २२९ॐ त्रिशिरस्करिपवे नमः
- २३०ॐ वृषाय नमः
- २३१ॐ शूर्पणखानासाच्छेत्त्रे नमः
- २३२ॐ वल्कलधारकाय नमः
- २३३ॐ जटावते नमः
- २३४ॐ पर्णशालास्थाय नमः
- २३५ॐ मारीचबलमर्दकाय नमः
- २३६ॐ पक्षिराट्कृतसंवादाय नमः
- २३७ॐ रवितेजसे नमः
- २३८ॐ महाबलाय नमः
- २३९ॐ शबर्यानीतफलभुजे नमः
- २४०ॐ हनूमत्परितोषिताय नमः
- २४१ॐ सुग्रीवाभयदाय नमः
- २४२ॐ दैत्यकायक्षेपणभासुराय नमः
- २४३ॐ सप्तसालसमुच्छेत्त्रे नमः
- २४४ॐ वालिहृते नमः
- २४५ॐ कपिसंवृताय नमः
- २४६ॐ वायुसूनुकृतासेवाय नमः
- २४७ॐ त्यक्तपम्पाय नमः
- २४८ॐ कुशासनाय नमः
- २४९ॐ उदन्वत्तीरगाय नमः
- २५०ॐ शूराय नमः
- २५१ॐ विभीषणवरप्रदाय नमः
- २५२ॐ सेतुकृते नमः
- २५३ॐ दैत्यघ्ने नमः
- २५४ॐ प्राप्तलङ्काय नमः
- २५५ॐ अलङ्कारवते नमः
- २५६ॐ अतिकायशिरश्छेत्त्रे नमः
- २५७ॐ कुम्भकर्णविभेदनाय नमः
- २५८ॐ दशकण्ठशिरोध्वंसिने नमः
- २५९ॐ जाम्बवत्प्रमुखावृताय नमः
- २६०ॐ जानकीशाय नमः
- २६१ॐ सुराध्यक्षाय नमः
- २६२ॐ साकेतेशाय नमः
- २६३ॐ पुरातनाय नमः
- २६४ॐ पुण्यश्लोकाय नमः
- २६५ॐ वेदवेद्याय नमः
- २६६ॐ स्वामितीर्थनिवासकाय नमः
- २६७ॐ लक्ष्मीसरःकेलिलोलाय नमः
- २६८ॐ लक्ष्मीशाय नमः
- २६९ॐ लोकरक्षकाय नमः
- २७०ॐ देवकीगर्भसम्भूताय नमः
- २७१ॐ यशोदेक्षणलालिताय नमः
- २७२ॐ वसुदेवकृतस्तोत्राय नमः
- २७३ॐ नन्दगोपमनोहराय नमः
- २७४ॐ चतुर्भुजाय नमः
- २७५ॐ कोमलाङ्गाय नमः
- २७६ॐ गदावते नमः
- २७७ॐ नीलकुन्तलाय नमः
- २७८ॐ पूतनाप्राणसंहर्त्रे नमः
- २७९ॐ तृणावर्तविनाशनाय नमः
- २८०ॐ गर्गारोपितनामाङ्काय नमः
- २८१ॐ वासुदेवाय नमः
- २८२ॐ अधोक्षजाय नमः
- २८३ॐ गोपिकास्तन्यपायिने नमः
- २८४ॐ बलभद्रानुजाय नमः
- २८५ॐ अच्युताय नमः
- २८६ॐ वैयाघ्रनखभूषाय नमः
- २८७ॐ वत्सजिते नमः
- २८८ॐ वत्सवर्धनाय नमः
- २८९ॐ क्षीरसाराशनरताय नमः
- २९०ॐ दधिभाण्डप्रमर्धनाय नमः
- २९१ॐ नवनीतापहर्त्रे नमः
- २९२ॐ नीलनीरदभासुराय नमः
- २९३ॐ आभीरदृष्टदौर्जन्याय नमः
- २९४ॐ नीलपद्मनिभाननाय नमः
- २९५ॐ मातृदर्शितविश्वासाय नमः
- २९६ॐ उलूखलनिबन्धनाय नमः
- २९७ॐ नलकूबरशापान्ताय नमः
- २९८ॐ गोधूलिच्छुरिताङ्गकाय नमः
- २९९ॐ गोसङ्घरक्षकाय नमः
- ३००ॐ श्रीशाय नमः
- ३०१ॐ वृन्दारण्यनिवासकाय नमः
- ३०२ॐ वत्सान्तकाय नमः
- ३०३ॐ बकद्वेषिणे नमः
- ३०४ॐ दैत्याम्बुदमहानिलाय नमः
- ३०५ॐ महाजगरचण्डाग्नये नमः
- ३०६ॐ शकटप्राणकण्टकाय नमः
- ३०७ॐ इन्द्रसेव्याय नमः
- ३०८ॐ पुण्यगात्राय नमः
- ३०९ॐ खरजिते नमः
- ३१०ॐ चण्डदीधितये नमः
- ३११ॐ तालपक्वफलाशिने नमः
- ३१२ॐ कालीयफणिदर्पघ्ने नमः
- ३१३ॐ नागपत्नीस्तुतिप्रीताय नमः
- ३१४ॐ प्रलम्बासुरखण्डनाय नमः
- ३१५ॐ दावाग्निबलसंहारिणे नमः
- ३१६ॐ फलाहारिणे नमः
- ३१७ॐ गदाग्रजाय नमः
- ३१८ॐ गोपाङ्गनाचेलचोराय नमः
- ३१९ॐ पाथोलीलाविशारदाय नमः
- ३२०ॐ वंशगानप्रवीणाय नमः
- ३२१ॐ गोपीहस्ताम्बुजार्चिताय नमः
- ३२२ॐ मुनिपत्न्याहृताहाराय नमः
- ३२३ॐ मुनिश्रेष्ठाय नमः
- ३२४ॐ मुनिप्रियाय नमः
- ३२५ॐ गोवर्धनाद्रिसन्धर्त्रे नमः
- ३२६ॐ सङ्क्रन्दनतमोपहाय नमः
- ३२७ॐ सदुद्यानविलासिने नमः
- ३२८ॐ रासक्रीडापरायणाय नमः
- ३२९ॐ वरुणाभ्यर्चिताय नमः
- ३३०ॐ गोपीप्रार्थिताय नमः
- ३३१ॐ पुरुषोत्तमाय नमः
- ३३२ॐ अक्रूरस्तुतिसम्प्रीताय नमः
- ३३३ॐ कुब्जायौवनदायकाय नमः
- ३३४ॐ मुष्टिकोरःप्रहारिणे नमः
- ३३५ॐ चाणूरोदरादारणाय नमः
- ३३६ॐ मल्लयुद्धाग्रगण्याय नमः
- ३३७ॐ पितृबन्धनमोचकाय नमः
- ३३८ॐ मत्तमातङ्गपञ्चास्याय नमः
- ३३९ॐ कंसग्रीवानिकृतनाय नमः
- ३४०ॐ उग्रसेनप्रतिष्ठात्रे नमः
- ३४१ॐ रत्नसिंहासनस्थिताय नमः
- ३४२ॐ कालनेमिखलद्वेषिणे नमः
- ३४३ॐ मुचुकुन्दवरप्रदाय नमः
- ३४४ॐ साल्वसेवितदुर्धर्षराजस्मयनिवारणाय नमः
- ३४५ॐ रुक्मिगर्वापहारिणे नमः
- ३४६ॐ रुक्मिणीनयनोत्सवाय नमः
- ३४७ॐ प्रद्युम्नजनकाय नमः
- ३४८ॐ कामिने नमः
- ३४९ॐ प्रद्युम्नाय नमः
- ३५०ॐ द्वारकाधिपाय नमः
- ३५१ॐ मण्याहर्त्रे नमः
- ३५२ॐ महामायाय नमः
- ३५३ॐ जाम्बवत्कृतसङ्गराय नमः
- ३५४ॐ जाम्बूनदाम्बरधराय नमः
- ३५५ॐ गम्याय नमः
- ३५६ॐ जाम्बवतीविभवे नमः
- ३५७ॐ कालिन्दीप्रथितारामकेलये नमः
- ३५८ॐ गुञ्जावतंसकाय नमः
- ३५९ॐ मन्दारसुमनोभास्वते नमः
- ३६०ॐ शचीशाभीष्टदायकाय नमः
- ३६१ॐ सत्राजिन्मानसोल्लासिने नमः
- ३६२ॐ सत्याजानये नमः
- ३६३ॐ शुभावहाय नमः
- ३६४ॐ शतधन्वहराय नमः
- ३६५ॐ सिद्धाय नमः
- ३६६ॐ पाण्डवप्रियकोत्सवाय नमः
- ३६७ॐ भद्राप्रियाय नमः
- ३६८ॐ सुभद्रायाः भ्रात्रे नमः
- ३६९ॐ नाग्नजितीविभवे नमः
- ३७०ॐ किरीटकुण्डलधराय नमः
- ३७१ॐ कल्पपल्लवलालिताय नमः
- ३७२ॐ भैष्मीप्रणयभाषावते नमः
- ३७३ॐ मित्रविन्दाधिपाय नमः
- ३७४ॐ अभयाय नमः
- ३७५ॐ स्वमूर्तिकेलिसम्प्रीताय नमः
- ३७६ॐ लक्ष्मणोदारमानसाय नमः
- ३७७ॐ प्राग्ज्योतिषाधिपध्वंसिने नमः
- ३७८ॐ तत्सैन्यान्तकराय नमः
- ३७९ॐ अमृताय नमः
- ३८०ॐ भूमिस्तुताय नमः
- ३८१ॐ भूरिभोगाय नमः
- ३८२ॐ भूषणाम्बरसंयुताय नमः
- ३८३ॐ बहुरामाकृताह्लादाय नमः
- ३८४ॐ गन्धमाल्यानुलेपनाय नमः
- ३८५ॐ नारदादृष्टचरिताय नमः
- ३८६ॐ देवेशाय नमः
- ३८७ॐ विश्वराजे नमः
- ३८८ॐ गुरवे नमः
- ३८९ॐ बाणबाहुविदाराय नमः
- ३९०ॐ तापज्वरविनाशनाय नमः
- ३९१ॐ उपोद्धर्षयित्रे नमः
- ३९२ॐ अव्यक्ताय नमः
- ३९३ॐ शिववाक्तुष्टमानसाय नमः
- ३९४ॐ महेशज्वरसंस्तुताय नमः
- ३९५ॐ शीतज्वरभयान्तकाय नमः
- ३९६ॐ नृगराजोद्धारकाय नमः
- ३९७ॐ पौण्ड्रकादिवधोद्यताय नमः
- ३९८ॐ विविधारिच्छलोद्विग्न ब्राह्मणेषु दयापराय नमः
- ३९९ॐ जरासन्धबलद्वेषिणे नमः
- ४००ॐ केशिदैत्यभयङ्कराय नमः
- ४०१ॐ चक्रिणे नमः
- ४०२ॐ चैद्यान्तकाय नमः
- ४०३ॐ सभ्याय नमः
- ४०४ॐ राजबन्धविमोचकाय नमः
- ४०५ॐ राजसूयहविर्भोक्त्रे नमः
- ४०६ॐ स्निग्धाङ्गाय नमः
- ४०७ॐ शुभलक्षणाय नमः
- ४०८ॐ धानाभक्षणसम्प्रीताय नमः
- ४०९ॐ कुचेलाभीष्टदायकाय नमः
- ४१०ॐ सत्त्वादिगुणगम्भीराय नमः
- ४११ॐ द्रौपदीमानरक्षकाय नमः
- ४१२ॐ भीष्मध्येयाय नमः
- ४१३ॐ भक्तवश्याय नमः
- ४१४ॐ भीमपूज्याय नमः
- ४१५ॐ दयानिधये नमः
- ४१६ॐ दन्तवक्त्रशिरश्छेत्त्रे नमः
- ४१७ॐ कृष्णाय नमः
- ४१८ॐ कृष्णासखाय नमः
- ४१९ॐ स्वराजे नमः
- ४२०ॐ वैजयन्तीप्रमोदिने नमः
- ४२१ॐ बर्हिबर्हविभूषणाय नमः
- ४२२ॐ पार्थकौरवसन्धानकारिणे नमः
- ४२३ॐ दुश्शासनान्तकाय नमः
- ४२४ॐ बुद्धाय नमः
- ४२५ॐ विशुद्धाय नमः
- ४२६ॐ सर्वज्ञाय नमः
- ४२७ॐ क्रतुहिंसाविनिन्दकाय नमः
- ४२८ॐ त्रिपुरस्त्रीमानभङ्गाय नमः
- ४२९ॐ सर्वशास्त्रविशारदाय नमः
- ४३०ॐ निर्विकाराय नमः
- ४३१ॐ निर्ममाय नमः
- ४३२ॐ निराभासाय नमः
- ४३३ॐ विरामयाय नमः
- ४३४ॐ जगन्मोहकधर्मिणे नमः
- ४३५ॐ दिग्वस्त्राय नमः
- ४३६ॐ दिक्पतीश्वरायाय नमः
- ४३७ॐ कल्किने नमः
- ४३८ॐ म्लेच्छप्रहर्त्रे नमः
- ४३९ॐ दुष्टनिग्रहकारकाय नमः
- ४४०ॐ धर्मप्रतिष्ठाकारिणे नमः
- ४४१ॐ चातुर्वर्ण्यविभागकृते नमः
- ४४२ॐ युगान्तकाय नमः
- ४४३ॐ युगाक्रान्ताय नमः
- ४४४ॐ युगकृते नमः
- ४४५ॐ युगभासकाय नमः
- ४४६ॐ कामारये नमः
- ४४७ॐ कामकारिणे नमः
- ४४८ॐ निष्कामाय नमः
- ४४९ॐ कामितार्थदाय नमः
- ४५०ॐ सवितुर्वरेण्याय भर्गसे नमः
- ४५१ॐ शार्ङ्गिणे नमः
- ४५२ॐ वैकुण्ठमन्दिराय नमः
- ४५३ॐ हयग्रीवाय नमः
- ४५४ॐ कैटभारये नमः
- ४५५ॐ ग्राहघ्नाय नमः
- ४५६ॐ गजरक्षकाय नमः
- ४५७ॐ सर्वसंशयविच्छेत्त्रे नमः
- ४५८ॐ सर्वभक्तसमुत्सुकाय नमः
- ४५९ॐ कपर्दिने नमः
- ४६०ॐ कामहारिणे नमः
- ४६१ॐ कलायै नमः
- ४६२ॐ काष्ठायै नमः
- ४६३ॐ स्मृतये नमः
- ४६४ॐ धृतये नमः
- ४६५ॐ अनादये नमः
- ४६६ॐ अप्रमेयौजसे नमः
- ४६७ॐ प्रधानाय नमः
- ४६८ॐ सन्निरूपकाय नमः
- ४६९ॐ निर्लेपाय नमः
- ४७०ॐ निस्स्पृहाय नमः
- ४७१ॐ असङ्गाय नमः
- ४७२ॐ निर्भयाय नमः
- ४७३ॐ नीतिपारगाय नमः
- ४७४ॐ निष्प्रेष्याय नमः
- ४७५ॐ निष्क्रियाय नमः
- ४७६ॐ शान्ताय नमः
- ४७७ॐ निधये नमः
- ४७८ॐ निष्प्रपञ्चाय नमः
- ४७९ॐ नयाय नमः
- ४८०ॐ कर्मिणे नमः
- ४८१ॐ अकर्मिणे नमः
- ४८२ॐ विकर्मिणे नमः
- ४८३ॐ कर्मेप्सवे नमः
- ४८४ॐ कर्मभावनाय नमः
- ४८५ॐ कर्माङ्गाय नमः
- ४८६ॐ कर्मविन्यासाय नमः
- ४८७ॐ महाकर्मिणे नमः
- ४८८ॐ महाव्रतिने नमः
- ४८९ॐ कर्मभुजे नमः
- ४९०ॐ कर्मफलदाय नमः
- ४९१ॐ कर्मेशाय नमः
- ४९२ॐ कर्मनिग्रहाय नमः
- ४९३ॐ नराय नमः
- ४९४ॐ नारायणाय नमः
- ४९५ॐ दान्ताय नमः
- ४९६ॐ कपिलाय नमः
- ४९७ॐ कामदाय नमः
- ४९८ॐ शुचये नमः
- ४९९ॐ तप्त्रे नमः
- ५००ॐ जप्त्रे नमः
- ५०१ॐ अक्षमालावते नमः
- ५०२ॐ गन्त्रे नमः
- ५०३ॐ नेत्रे नमः
- ५०४ॐ लयाय नमः
- ५०५ॐ गतये नमः
- ५०६ॐ शिष्टाय नमः
- ५०७ॐ द्रष्ट्रे नमः
- ५०८ॐ रिपुद्वेष्ट्रे नमः
- ५०९ॐ रोष्ट्रे नमः
- ५१०ॐ वेष्ट्रे नमः
- ५११ॐ महानटाय नमः
- ५१२ॐ रोद्ध्रे नमः
- ५१३ॐ बोद्ध्रे नमः
- ५१४ॐ महायोद्ध्रे नमः
- ५१५ॐ श्रद्धावते नमः
- ५१६ॐ सत्यधिये नमः
- ५१७ॐ शुभाय नमः
- ५१८ॐ मन्त्रिणे नमः
- ५१९ॐ मन्त्राय नमः
- ५२०ॐ मन्त्रगम्याय नमः
- ५२१ॐ मन्त्रकृते नमः
- ५२२ॐ परमन्त्रहृते नमः
- ५२३ॐ मन्त्रभृते नमः
- ५२४ॐ मन्त्रफलदाय नमः
- ५२५ॐ मन्त्रेशाय नमः
- ५२६ॐ मन्त्रविग्रहाय नमः
- ५२७ॐ मन्त्राङ्गाय नमः
- ५२८ॐ मन्त्रविन्यासाय नमः
- ५२९ॐ महामन्त्राय नमः
- ५३०ॐ महाक्रमाय नमः
- ५३१ॐ स्थिरधिये नमः
- ५३२ॐ स्थिरविज्ञानाय नमः
- ५३३ॐ स्थिरप्रज्ञाय नमः
- ५३४ॐ स्थिरासनाय नमः
- ५३५ॐ स्थिरयोगाय नमः
- ५३६ॐ स्थिराधाराय नमः
- ५३७ॐ स्थिरमार्गाय नमः
- ५३८ॐ स्थिरागमाय नमः
- ५३९ॐ विश्श्रेयसाय नमः
- ५४०ॐ निरीहाय नमः
- ५४१ॐ अग्नये नमः
- ५४२ॐ निरवद्याय नमः
- ५४३ॐ निरञ्जनाय नमः
- ५४४ॐ निर्वैराय नमः
- ५४५ॐ निरहङ्काराय नमः
- ५४६ॐ निर्दम्भाय नमः
- ५४७ॐ निरसूयकाय नमः
- ५४८ॐ अनन्ताय नमः
- ५४९ॐ अनन्तबाहूरवे नमः
- ५५०ॐ अनन्ताङ्घ्रये नमः
- ५५१ॐ अनन्तदृशे नमः
- ५५२ॐ अनन्तवक्त्राय नमः
- ५५३ॐ अनन्ताङ्गाय नमः
- ५५४ॐ अनन्तरूपाय नमः
- ५५५ॐ अनन्तकृते नमः
- ५५६ॐ ऊर्ध्वरेतसे नमः
- ५५७ॐ ऊर्ध्वलिङ्गाय नमः
- ५५८ॐ ऊर्ध्वमूर्ध्ने नमः
- ५५९ॐ ऊर्ध्वशाखकाय नमः
- ५६०ॐ ऊर्ध्वाय नमः
- ५६१ॐ ऊर्ध्वाध्वरक्षिणे नमः
- ५६२ॐ ऊर्ध्वज्वालाय नमः
- ५६३ॐ निराकुलाय नमः
- ५६४ॐ बीजाय नमः
- ५६५ॐ बीजप्रदाय नमः
- ५६६ॐ नित्याय नमः
- ५६७ॐ निदानाय नमः
- ५६८ॐ निष्कृतये नमः
- ५६९ॐ कृतिने नमः
- ५७०ॐ महते नमः
- ५७१ॐ अणीयसे नमः
- ५७२ॐ गरिम्णे नमः
- ५७३ॐ सुषमाय नमः
- ५७४ॐ चित्रमालिकाय नमः
- ५७५ॐ नभस्पृशे नमः
- ५७६ॐ नभसो ज्योतिषे नमः
- ५७७ॐ नभस्वते नमः
- ५७८ॐ निर्नभसे नमः
- ५७९ॐ नभसे नमः
- ५८०ॐ अभवे नमः
- ५८१ॐ विभवे नमः
- ५८२ॐ प्रभवे नमः
- ५८३ॐ शम्भवे नमः
- ५८४ॐ महीयसे नमः
- ५८५ॐ भूर्भुवाकृतये नमः
- ५८६ॐ महानन्दाय नमः
- ५८७ॐ महाशूराय नमः
- ५८८ॐ महोराशये नमः
- ५८९ॐ महोत्सवाय नमः
- ५९०ॐ महाक्रोधाय नमः
- ५९१ॐ महाज्वालाय नमः
- ५९२ॐ महाशान्ताय नमः
- ५९३ॐ महागुणाय नमः
- ५९४ॐ सत्यव्रताय नमः
- ५९५ॐ सत्यपराय नमः
- ५९६ॐ सत्यसन्धाय नमः
- ५९७ॐ सताङ्गतये नमः
- ५९८ॐ सत्येशाय नमः
- ५९९ॐ सत्यसङ्कल्पाय नमः
- ६००ॐ सत्यचारित्रलक्षणाय नमः
- ६०१ॐ अन्तश्चराय नमः
- ६०२ॐ अन्तरात्मने नमः
- ६०३ॐ परमात्मने नमः
- ६०४ॐ चिदात्मकाय नमः
- ६०५ॐ रोचनाय नमः
- ६०६ॐ रोचमानाय नमः
- ६०७ॐ साक्षिणे नमः
- ६०८ॐ शौरये नमः
- ६०९ॐ जनार्दनाय नमः
- ६१०ॐ मुकुन्दाय नमः
- ६११ॐ नन्दनिष्पन्दाय नमः
- ६१२ॐ स्वर्णबिन्दवे नमः
- ६१३ॐ पुरुदराय नमः
- ६१४ॐ अरिन्दमाय नमः
- ६१५ॐ सुमन्दाय नमः
- ६१६ॐ कुन्दमन्दारहासवते नमः
- ६१७ॐ स्यन्दनारूढचण्डाङ्गाय नमः
- ६१८ॐ आनन्दिने नमः
- ६१९ॐ नन्दनन्दाय नमः
- ६२०ॐ अनसूयानन्दनाय नमः
- ६२१ॐ अत्रिनेत्रानन्दाय नमः
- ६२२ॐ सुनन्दवते नमः
- ६२३ॐ शङ्खवते नमः
- ६२४ॐ पङ्कजकराय नमः
- ६२५ॐ कुङ्कुमाङ्काय नमः
- ६२६ॐ जयाङ्कुशाय नमः
- ६२७ॐ अम्भोजमकरन्दाढ्याय नमः
- ६२८ॐ निष्पङ्काय नमः
- ६२९ॐ अगरुपङ्किलाय नमः
- ६३०ॐ इन्द्राय नमः
- ६३१ॐ चन्द्राय नमः
- ६३२ॐ चन्द्ररथाय नमः
- ६३३ॐ अतिचन्द्राय नमः
- ६३४ॐ चन्द्रभासकाय नमः
- ६३५ॐ उपेन्द्राय नमः
- ६३६ॐ इन्द्रराजाय नमः
- ६३७ॐ वागीन्द्राय नमः
- ६३८ॐ चन्द्रलोचनाय नमः
- ६३९ॐ प्रतीचे नमः
- ६४०ॐ पराचे नमः
- ६४१ॐ परन्धाम्ने नमः
- ६४२ॐ परमार्थाय नमः
- ६४३ॐ परात्पराय नमः
- ६४४ॐ अपारवाचे नमः
- ६४५ॐ पारगामिने नमः
- ६४६ॐ परावाराय नमः
- ६४७ॐ परावराय नमः
- ६४८ॐ सहस्वते नमः
- ६४९ॐ अर्थदात्रे नमः
- ६५०ॐ सहनाय नमः
- ६५१ॐ साहसिने नमः
- ६५२ॐ जयिने नमः
- ६५३ॐ तेजस्विने नमः
- ६५४ॐ वायुविशिखिने नमः
- ६५५ॐ तपस्विने नमः
- ६५६ॐ तापसोत्तमाय नमः
- ६५७ॐ ऐश्वर्योद्भूतिकृते नमः
- ६५८ॐ भूतये नमः
- ६५९ॐ ऐश्वर्याङ्गकलापवते नमः
- ६६०ॐ अम्भोधिशायिने नमः
- ६६१ॐ भगवते नमः
- ६६२ॐ सर्वज्ञाय नमः
- ६६३ॐ सामपारगाय नमः
- ६६४ॐ महायोगिने नमः
- ६६५ॐ महाधीराय नमः
- ६६६ॐ महाभोगिने नमः
- ६६७ॐ महाप्रभवे नमः
- ६६८ॐ महावीराय नमः
- ६६९ॐ महातुष्टये नमः
- ६७०ॐ महापुष्टये नमः
- ६७१ॐ महागुणाय नमः
- ६७२ॐ महादेवाय नमः
- ६७३ॐ महाबाहवे नमः
- ६७४ॐ महाधर्माय नमः
- ६७५ॐ महेश्वराय नमः
- ६७६ॐ समीपगाय नमः
- ६७७ॐ दूरगामिने नमः
- ६७८ॐ स्वर्गमार्गनिरर्गलाय नमः
- ६७९ॐ नगाय नमः
- ६८०ॐ नगधराय नमः
- ६८१ॐ नागाय नमः
- ६८२ॐ नागेशाय नमः
- ६८३ॐ नागपालकाय नमः
- ६८४ॐ हिरण्मयाय नमः
- ६८५ॐ स्वर्णरेतसे नमः
- ६८६ॐ हिरण्यार्चिषे नमः
- ६८७ॐ हिरण्यदाय नमः
- ६८८ॐ गुणगण्याय नमः
- ६८९ॐ शरण्याय नमः
- ६९०ॐ पुण्यकीर्तये नमः
- ६९१ॐ पुराणगाय नमः
- ६९२ॐ जन्यभृते नमः
- ६९३ॐ जन्यसन्नद्धाय नमः
- ६९४ॐ दिव्यपञ्चायुधाय नमः
- ६९५ॐ विशिने नमः
- ६९६ॐ दौर्जन्यभङ्गाय नमः
- ६९७ॐ पर्जन्याय नमः
- ६९८ॐ सौजन्यनिलयाय नमः
- ६९९ॐ अलयाय नमः
- ७००ॐ जलन्धरान्तकाय नमः
- ७०१ॐ महामनसे नमः
- ७०२ॐ भस्मदैत्यनाशिने नमः
- ७०३ॐ श्रेष्ठाय नमः
- ७०४ॐ श्रविष्ठाय नमः
- ७०५ॐ द्राघिष्ठाय नमः
- ७०६ॐ गरिष्ठाय नमः
- ७०७ॐ गरुडध्वजाय नमः
- ७०८ॐ ज्येष्ठाय नमः
- ७०९ॐ द्रढिष्ठाय नमः
- ७१०ॐ वर्षिष्ठाय नमः
- ७११ॐ द्राघियसे नमः
- ७१२ॐ प्रणवाय नमः
- ७१३ॐ फणिने नमः
- ७१४ॐ सम्प्रदायकराय नमः
- ७१५ॐ स्वामिने नमः
- ७१६ॐ सुरेशाय नमः
- ७१७ॐ माधवाय नमः
- ७१८ॐ मधवे नमः
- ७१९ॐ निर्णिमेषाय नमः
- ७२०ॐ विधये नमः
- ७२१ॐ वेधसे नमः
- ७२२ॐ बलवते नमः
- ७२३ॐ जीवनाय नमः
- ७२४ॐ बलिने नमः
- ७२५ॐ स्मर्त्रे नमः
- ७२६ॐ श्रोत्रे नमः
- ७२७ॐ निकर्त्रे नमः
- ७२८ॐ ध्यात्रे नमः
- ७२९ॐ नेत्रे नमः
- ७३०ॐ समाय नमः
- ७३१ॐ असमाय नमः
- ७३२ॐ होत्रे नमः
- ७३३ॐ पोत्रे नमः
- ७३४ॐ महावक्त्रे नमः
- ७३५ॐ रन्त्रे नमः
- ७३६ॐ मन्त्रे नमः
- ७३७ॐ खलान्तकाय नमः
- ७३८ॐ दात्रे नमः
- ७३९ॐ ग्राहयित्रे नमः
- ७४०ॐ मात्रे नमः
- ७४१ॐ नियन्त्रे नमः
- ७४२ॐ अनन्तवैभवाय नमः
- ७४३ॐ गोप्त्रे नमः
- ७४४ॐ गोपयित्रे नमः
- ७४५ॐ हन्त्रे नमः
- ७४६ॐ धर्मजागरित्रे नमः
- ७४७ॐ धवाय नमः
- ७४८ॐ कर्त्रे नमः
- ७४९ॐ क्षेत्रकराय नमः
- ७५०ॐ क्षेत्रप्रदाय नमः
- ७५१ॐ क्षेत्रज्ञाय नमः
- ७५२ॐ आत्मविदे नमः
- ७५३ॐ क्षेत्रिणे नमः
- ७५४ॐ क्षेत्रहराय नमः
- ७५५ॐ क्षेत्रप्रियाय नमः
- ७५६ॐ क्षेमकराय नमः
- ७५७ॐ मरुते नमः
- ७५८ॐ भक्तिप्रदाय नमः
- ७५९ॐ मुक्तिदायिने नमः
- ७६०ॐ शक्तिदाय नमः
- ७६१ॐ युक्तिदायकाय नमः
- ७६२ॐ शक्तियुजे नमः
- ७६३ॐ मौक्तिकस्रग्विणे नमः
- ७६४ॐ सूक्तये नमः
- ७६५ॐ आम्नायसूक्तिगाय नमः
- ७६६ॐ धनञ्जयाय नमः
- ७६७ॐ धनाध्यक्षाय नमः
- ७६८ॐ धनिकाय नमः
- ७६९ॐ धनदाधिपाय नमः
- ७७०ॐ महाधनाय नमः
- ७७१ॐ महामानिने नमः
- ७७२ॐ दुर्योधनविमानिताय नमः
- ७७३ॐ रत्नकराय नमः
- ७७४ॐ रत्न रोचिषे नमः
- ७७५ॐ रत्नगर्भाश्रयाय नमः
- ७७६ॐ शुचये नमः
- ७७७ॐ रत्नसानुनिधये नमः
- ७७८ॐ मौलिरत्नभासे नमः
- ७७९ॐ रत्नकङ्कणाय नमः
- ७८०ॐ अन्तर्लक्ष्याय नमः
- ७८१ॐ अन्तरभ्यासिने नमः
- ७८२ॐ अन्तर्ध्येयाय नमः
- ७८३ॐ जितासनाय नमः
- ७८४ॐ अन्तरङ्गाय नमः
- ७८५ॐ दयावते नमः
- ७८६ॐ अन्तर्मायाय नमः
- ७८७ॐ महार्णवाय नमः
- ७८८ॐ सरसाय नमः
- ७८९ॐ सिद्धरसिकाय नमः
- ७९०ॐ सिद्धये नमः
- ७९१ॐ सिद्ध्याय नमः
- ७९२ॐ सदागतये नमः
- ७९३ॐ आयुःप्रदाय नमः
- ७९४ॐ महायुष्मते नमः
- ७९५ॐ अर्चिष्मते नमः
- ७९६ॐ ओषधीपतये नमः
- ७९७ॐ अष्टश्रियै नमः
- ७९८ॐ अष्टभागाय नमः
- ७९९ॐ अष्टककुब्व्याप्तयशसे नमः
- ८००ॐ व्रतिने नमः
- ८०१ॐ अष्टापदाय नमः
- ८०२ॐ सुवर्णाभाय नमः
- ८०३ॐ अष्टमूर्तये नमः
- ८०४ॐ त्रिमूर्तिमते नमः
- ८०५ॐ अस्वप्नाय नमः
- ८०६ॐ स्वप्नगाय नमः
- ८०७ॐ स्वप्नाय नमः
- ८०८ॐ सुस्वप्नफलदायकाय नमः
- ८०९ॐ दुस्स्वप्नध्वंसकाय नमः
- ८१०ॐ ध्वस्तदुर्निमित्ताय नमः
- ८११ॐ शिवङ्कराय नमः
- ८१२ॐ सुवर्णवर्णाय नमः
- ८१३ॐ सम्भाव्याय नमः
- ८१४ॐ वर्णिताय नमः
- ८१५ॐ वर्णसम्मुखाय नमः
- ८१६ॐ सुवर्णमुखरीतीरशिव ध्यातपदाम्बुजाय नमः
- ८१७ॐ दाक्षायणीवचस्तुष्टाय नमः
- ८१८ॐ दुर्वासोदृष्टिगोचराय नमः
- ८१९ॐ अम्बरीषव्रतप्रीताय नमः
- ८२०ॐ महाकृत्तिविभञ्जनाय नमः
- ८२१ॐ महाभिचारकध्वंसिने नमः
- ८२२ॐ कालसर्पभयान्तकाय नमः
- ८२३ॐ सुदर्शनाय नमः
- ८२४ॐ कालमेघश्यामाय नमः
- ८२५ॐ श्रीमन्त्रभाविताय नमः
- ८२६ॐ हेमाम्बुजसरस्नायिने नमः
- ८२७ॐ श्रीमनोभाविताकृतये नमः
- ८२८ॐ श्रीप्रदत्ताम्बुजस्रग्विणे नमः
- ८२९ॐ श्री केलये नमः
- ८३०ॐ श्रीनिधये नमः
- ८३१ॐ भवाय नमः
- ८३२ॐ श्रीप्रदाय नमः
- ८३३ॐ वामनाय नमः
- ८३४ॐ लक्ष्मीनायकाय नमः
- ८३५ॐ चतुर्भुजाय नमः
- ८३६ॐ सन्तृप्ताय नमः
- ८३७ॐ तर्पिताय नमः
- ८३८ॐ तीर्थस्नातृसौख्यप्रदर्शकाय नमः
- ८३९ॐ अगस्त्यस्तुतिसंहृष्टाय नमः
- ८४०ॐ दर्शिताव्यक्तभावनाय नमः
- ८४१ॐ कपिलार्चिषे नमः
- ८४२ॐ कपिलवते नमः
- ८४३ॐ सुस्नाताघाविपाटनाय नमः
- ८४४ॐ वृषाकपये नमः
- ८४५ॐ कपिस्वामिमनोन्तस्थितविग्रहाय नमः
- ८४६ॐ वह्निप्रियाय नमः
- ८४७ॐ अर्थसम्भवाय नमः
- ८४८ॐ जनलोकविधायकाय नमः
- ८४९ॐ वह्निप्रभाय नमः
- ८५०ॐ वह्नितेजसे नमः
- ८५१ॐ शुभाभीष्टप्रदाय नमः
- ८५२ॐ यमिने नमः
- ८५३ॐ वारुणक्षेत्रनिलयाय नमः
- ८५४ॐ वरुणाय नमः
- ८५५ॐ सारणार्चिताय नमः
- ८५६ॐ वायुस्थानकृतावासाय नमः
- ८५७ॐ वायुगाय नमः
- ८५८ॐ वायुसम्भृताय नमः
- ८५९ॐ यमान्तकाय नमः
- ८६०ॐ अभिजननाय नमः
- ८६१ॐ यमलोकनिवारणाय नमः
- ८६२ॐ यमिनामग्रगण्याय नमः
- ८६३ॐ संयमिने नमः
- ८६४ॐ यमभाविताय नमः
- ८६५ॐ इन्द्रोद्यानसमीपस्थाय नमः
- ८६६ॐ इन्द्रदृग्विषयाय नमः
- ८६७ॐ प्रभवे नमः
- ८६८ॐ यक्षराट्सरसीवासाय नमः
- ८६९ॐ अक्षय्यनिधिकोशकृते नमः
- ८७०ॐ स्वामितीर्थकृतावासाय नमः
- ८७१ॐ स्वामिध्येयाय नमः
- ८७२ॐ अधोक्षजाय नमः
- ८७३ॐ वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहाय नमः
- ८७४ॐ पाण्डुतीर्थाभिषिक्ताङ्गाय नमः
- ८७५ॐ युधिष्ठिरवरप्रदाय नमः
- ८७६ॐ भीमान्तःकरणारूढाय नमः
- ८७७ॐ श्वेतवाहनसख्यवते नमः
- ८७८ॐ नकुलाभयदाय नमः
- ८७९ॐ माद्रीसहदेवाभिवन्दिताय नमः
- ८८०ॐ कृष्णाशपथसन्धात्रे नमः
- ८८१ॐ कुन्तीस्तुतिरताय नमः
- ८८२ॐ दमिने नमः
- ८८३ॐ नारादादिमुनिस्तुत्याय नमः
- ८८४ॐ नित्यकर्मपरायणाय नमः
- ८८५ॐ दर्शिताव्यक्तरूपाय नमः
- ८८६ॐ वीणानादप्रमोदिताय नमः
- ८८७ॐ षट्कोटितीर्थचर्यावते नमः
- ८८८ॐ देवतीर्थकृताश्रमाय नमः
- ८८९ॐ बिल्वामलजलस्नायिने नमः
- ८९०ॐ सरस्वत्यम्बुसेविताय नमः
- ८९१ॐ तुम्बुरूदकसंस्पर्शजचित्ततमोपहाय नमः
- ८९२ॐ मत्स्यवामनकूर्मादितीर्थराजाय नमः
- ८९३ॐ पुराणभृते नमः
- ८९४ॐ शक्रध्येयपदाम्भोजय नमः
- ८९५ॐ शङ्खपूजितपादुकाय नमः
- ८९६ॐ रामतीर्थविहारिणे नमः
- ८९७ॐ बलभद्रब्रतिष्ठिताय नमः
- ८९८ॐ जामदग्न्यसरस्तीर्थजलसेचनतर्पिताय नमः
- ८९९ॐ पापहारिकीलालसुस्नाताघविनाशनाय नमः
- ९००ॐ नभोगङ्गाभिषिक्ताय नमः
- ९०१ॐ नागतीर्थाभिषेकवते नमः
- ९०२ॐ कुमारधारातीर्थस्थाय नमः
- ९०३ॐ वटुवेषाय नमः
- ९०४ॐ सुमेखलाय नमः
- ९०५ॐ वृद्धस्यसुकुमारत्व प्रदाय नमः
- ९०६ॐ सौन्दर्यवते नमः
- ९०७ॐ सुखिने नमः
- ९०८ॐ प्रियंवदाय नमः
- ९०९ॐ महाकुक्षये नमः
- ९१०ॐ इक्ष्वाकुकुलनन्दनाय नमः
- ९११ॐ नीलगोक्षीरधाराभुवे नमः
- ९१२ॐ वराहाचलनायकाय नमः
- ९१३ॐ भरद्वाजप्रतिष्ठावते नमः
- ९१४ॐ बृहस्पतिविभाविताय नमः
- ९१५ॐ अञ्जनाकृतपूजावते नमः
- ९१६ॐ आञ्जनेयकरार्चिताय नमः
- ९१७ॐ अञ्जनाद्रनिवासाय नमः
- ९१८ॐ मुञ्जिकेशाय नमः
- ९१९ॐ पुरन्दराय नमः
- ९२०ॐ किन्नरद्वन्द्वसम्बन्धिबन्धमोक्षप्रदायकाय नमः
- ९२१ॐ वैखानसमखारम्भाय नमः
- ९२२ॐ वृषज्ञेयाय नमः
- ९२३ॐ वृषाचलाय नमः
- ९२४ॐ वृषकायप्रभेत्त्रे नमः
- ९२५ॐ क्रीडानाचारसम्भ्रमाय नमः
- ९२६ॐ सौवर्चलेयविन्यस्तराज्याय नमः
- ९२७ॐ नारायणप्रियाय नमः
- ९२८ॐ दुर्मेधोभञ्जकाय नमः
- ९२९ॐ प्राज्ञाय नमः
- ९३०ॐ ब्रह्मोत्सवमहोत्सुकाय नमः
- ९३१ॐ सुभद्रवते नमः
- ९३२ॐ भद्रासुरशिरश्छेत्रे नमः
- ९३३ॐ भद्रक्षेत्रिणे नमः
- ९३४ॐ मृगयाक्षीणसन्नाहाय नमः
- ९३५ॐ शङ्खराजन्यतुष्टिदाय नमः
- ९३६ॐ स्थाणुस्थाय नमः
- ९३७ॐ वैनतेयाङ्गभाविताय नमः
- ९३८ॐ अशरीरवते नमः
- ९३९ॐ भोगीन्द्रभोगसंस्थानाय नमः
- ९४०ॐ ब्रह्मादिगणसेविताय नमः
- ९४१ॐ सहस्रार्कच्छटाभास्वद्विमानान्तस्स्थिताय नमः
- ९४२ॐ गुणिने नमः
- ९४३ॐ विष्वक्सेनकृतस्तोत्राय नमः
- ९४४ॐ सनन्दनपरीवृताय नमः
- ९४५ॐ जाह्नव्यादिनदीसेव्याय नमः
- ९४६ॐ सुरेशाद्यभिवन्दिताय नमः
- ९४७ॐ सुराङ्गनानृत्यपराय नमः
- ९४८ॐ गन्धर्वोद्गायनप्रियाय नमः
- ९४९ॐ राकेन्दुसङ्काशनखाय नमः
- ९५०ॐ कोमलाङ्घ्रिसरोरुहाय नमः
- ९५१ॐ कच्छपप्रपदाय नमः
- ९५२ॐ कुन्दगुल्फकाय नमः
- ९५३ॐ स्वच्छकूर्पराय नमः
- ९५४ॐ शुभङ्कराय नमः
- ९५५ॐ मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलाय नमः
- ९५६ॐ प्रोल्लसच्छुरिकाभास्वत्कटिदेशाय नमः
- ९५७ॐ अनन्तपद्मजस्थाननाभये नमः
- ९५८ॐ मौक्तिकमालिकाय नमः
- ९५९ॐ मन्दारचाम्पेयमालिने नमः
- ९६०ॐ रत्नाभरणसम्भृताय नमः
- ९६१ॐ लम्बयज्ञोपवीतिने नमः
- ९६२ॐ चन्द्रश्रीखण्डलेपवते नमः
- ९६३ॐ वरदाय नमः
- ९६४ॐ अभयदाय नमः
- ९६५ॐ चक्रिणे नमः
- ९६६ॐ शङ्खिने नमः
- ९६७ॐ कौस्तुभदीप्तिमते नमः
- ९६८ॐ श्रीवत्साङ्कितवक्षस्काय नमः
- ९६९ॐ लक्ष्मीसंश्रितहृत्तटाय नमः
- ९७०ॐ नीलोत्पलनिभाकाराय नमः
- ९७१ॐ शोणाम्भोजसमाननाय नमः
- ९७२ॐ कोटिमन्मथलावण्याय नमः
- ९७३ॐ चन्द्रिकास्मितपूरिताय नमः
- ९७४ॐ सुधास्वच्छोर्ध्वपुण्ड्राय नमः
- ९७५ॐ कस्तूरीतिलकाञ्चिताय नमः
- ९७६ॐ पुण्डरीकेक्षणाय नमः
- ९७७ॐ स्वच्छाय नमः
- ९७८ॐ मौलिशोभाविराजिताय नमः
- ९७९ॐ पद्मस्थाय नमः
- ९८०ॐ पद्मनाभाय नमः
- ९८१ॐ सोममण्डलगाय नमः
- ९८२ॐ बुधाय नमः
- ९८३ॐ वह्निमण्डलगाय नमः
- ९८४ॐ सूर्याय नमः
- ९८५ॐ सूर्यमण्डलसंस्थिताय नमः
- ९८६ॐ श्रीपतये नमः
- ९८७ॐ भूमिजानये नमः
- ९८८ॐ विमलाद्यभिसंवृताय नमः
- ९८९ॐ जगत्कुटुम्बजनित्रे नमः
- ९९०ॐ रक्षकाय नमः
- ९९१ॐ कामितप्रदाय नमः
- ९९२ॐ अवस्थात्रययन्त्रे नमः
- ९९३ॐ विश्वतेजस्स्वरूपवते नमः
- ९९४ॐ ज्ञप्तये नमः
- ९९५ॐ ज्ञेयाय नमः
- ९९६ॐ ज्ञानगम्याय नमः
- ९९७ॐ ज्ञानातीताय नमः
- ९९८ॐ सुरातिगाय नमः
- ९९९ॐ ब्रह्माण्डान्तर्बहिर्व्याप्ताय नमः
- १०००ॐ वेङ्कटाद्रिगदाधराय नमः
इति श्रीवेङ्कटेश्वरसहस्रनामावलिः समाप्ता