- १ॐ कमठाय नमः
- २ॐ कन्धिमध्यस्थाय नमः
- ३ॐ करुणावरुणालयाय नमः
- ४ॐ कुलाचलसमुद्धर्त्रे नमः
- ५ॐ कुण्डलीन्द्रसमाश्रयाय नमः
- ६ॐ कठोरपृष्टाय नमः
- ७ॐ कुधराय नमः
- ८ॐ कलुषीकृतसागराय नमः
- ९ॐ कल्याणमूर्तये नमः
- १०ॐ क्रतुभुक्प्रार्थनाधृत विग्रहाय नमः
- ११ॐ कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवते नमः
- १२ॐ करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बराय नमः
- १३ॐ कन्धिकर्दमकस्तूरीलिप्तवक्षस्थलाय नमः
- १४ॐ कृतिने नमः
- १५ॐ कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदाय नमः
- १६ॐ कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्कराय नमः
- १७ॐ कन्धिपुष्पद्विरेफाभाय नमः
- १८ॐ कपर्द्यादिसमीडिताय नमः
- १९ॐ कल्याणाचलतुङ्गात्मगाधीकृतपयोनिधये नमः
- २०ॐ कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलाय नमः
- २१ॐ काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकाय नमः
- २२ॐ कायैकदेशापर्याप्तशेषदिग्गजमण्डलाय नमः
- २३ॐ कठोरचरणाघातद्वैधीकृतपयोनिधये नमः
- २४ॐ कालकूटकृतत्रासाय नमः
- २५ॐ काण्डदुर्मितवैभवाय नमः
- २६ॐ कमनीयाय नमः
- २७ॐ कविस्तुत्याय नमः
- २८ॐ कनिधये नमः
- २९ॐ कमलापतये नमः
- ३०ॐ कमलासनकल्याणसन्धात्रे नमः
- ३१ॐ कलिनाशनाय नमः
- ३२ॐ कटाक्षक्षतदेवार्तये नमः
- ३३ॐ केन्द्रादिविधृतांजलये नमः
- ३४ॐ कालीपतिप्रीतिपात्राय नमः
- ३५ॐ कामितार्धप्रदाय नमः
- ३६ॐ कवये नमः
- ३७ॐ कूटस्थाय नमः
- ३८ॐ कूटकमठाय नमः
- ३९ॐ कूटयोगिसुदुर्लभाय नमः
- ४०ॐ कामहीनाय नमः
- ४१ॐ कामहेतवे नमः
- ४२ॐ कामभृते नमः
- ४३ॐ कंजलोचनाय नमः
- ४४ॐ क्रतुभुग्दैन्यविध्वंसिने नमः
- ४५ॐ क्रतुभुक्पालकाय नमः
- ४६ॐ क्रतवे नमः
- ४७ॐ क्रतुपूज्याय नमः
- ४८ॐ क्रतुनिधये नमः
- ४९ॐ क्रतुत्रात्रे नमः
- ५०ॐ क्रतूद्भवाय नमः
- ५१ॐ कैवल्यसौख्यदकथाय नमः
- ५२ॐ कैशोरोत्क्षिप्तमन्दराय नमः
- ५३ॐ कैवल्यनिर्वाणमयाय नमः
- ५४ॐ कैटभप्रतिसूदनाय नमः
- ५५ॐ क्रान्तसर्वाम्बुधये नमः
- ५६ॐ क्रान्तपातालाय नमः
- ५७ॐ कोमलोदराय नमः
- ५८ॐ कन्धिसोर्मिजलक्षौमाय नमः
- ५९ॐ कुलाचलकचोत्कराय नमः
- ६०ॐ कटुनिश्श्वासनिर्धूतरक्षस्तूलाय नमः
- ६१ॐ कृताद्भुताय नमः
- ६२ॐ कौमोदकीहतामित्राय नमः
- ६३ॐ कौतुकाकलिताहवाय नमः
- ६४ॐ कराशिकंटकोद्धर्त्रे नमः
- ६५ॐ कविताब्धिमणीसुमाय नमः
- ६६ॐ कैवल्यवल्लरीकन्दाय नमः
- ६७ॐ कन्दुकीकृतचन्दिराय नमः
- ६८ॐ करपीतसमस्ताब्धये नमः
- ६९ॐ कायान्तर्गतवाश्चराय नमः
- ७०ॐ कर्पराब्जद्विरेफाभमन्दराय नमः
- ७१ॐ कन्दलत्स्मिताय नमः
- ७२ॐ काश्यपीव्रततीकन्दाय नमः
- ७३ॐ कश्यपादिसमानताय नमः
- ७४ॐ कल्याणजालनिलयाय नमः
- ७५ॐ क्रतुभुङ्नेत्रनन्दनाय नमः
- ७६ॐ कबन्धचरहर्यक्षाय नमः
- ७७ॐ क्रान्तदर्शिमनोहराय नमः
- ७८ॐ कर्मठाविषयाय नमः
- ७९ॐ कर्मकर्तृभावादिवर्जिताय नमः
- ८०ॐ कर्मानधीनाय नमः
- ८१ॐ कर्मज्ञाय नमः
- ८२ॐ कर्मपाय नमः
- ८३ॐ कर्मचोदनाय नमः
- ८४ॐ कर्मसाक्षिणे नमः
- ८५ॐ कर्महेतने नमः
- ८६ॐ कर्मज्ञानविभागकृते नमः
- ८७ॐ कर्त्रे नमः
- ८८ॐ कारयित्रे नमः
- ८९ॐ कार्याय नमः
- ९०ॐ कारणाय नमः
- ९१ॐ करणाय नमः
- ९२ॐ कृतये नमः
- ९३ॐ कृत्स्नाय नमः
- ९४ॐ कृत्स्नातिगाय नमः
- ९५ॐ कृत्स्नचेतनाय नमः
- ९६ॐ कृत्स्नमोहनाय नमः
- ९७ॐ करणागोचराय नमः
- ९८ॐ कालाय नमः
- ९९ॐ कार्यकारणतातिगाय नमः
- १००ॐ कालावशाय नमः
- १०१ॐ कालपाशबद्धभक्तावनाभिधाय नमः
- १०२ॐ कृतकृत्याय नमः
- १०३ॐ केलिफलाय नमः
- १०४ॐ कीर्तनीयाय नमः
- १०५ॐ कृतोत्सवाय नमः
- १०६ॐ कृतेतरमहानन्दाय नमः
- १०७ॐ कृतज्ञाय नमः
- १०८ॐ कृतसत्सुखाय नमः
ककारादि श्रीकूर्म अष्टोत्तरशत नामावलिः
Also spelled: Kakaradi Shrikurma Ashtottarashata Namavali · Kakaradi Shrikurma Ashtottarashatha Namavali