- १ॐ श्रीवैकुण्ठे वासुदेवाय नमः
- २ॐ आमोदे कर्षणाय नमः
- ३ॐ प्रमोदे प्रद्युम्नाय नमः
- ४ॐ सम्मोदे ऐरुद्धाय नमः
- ५ॐ सत्यलोके विष्णवे नमः
- ६ॐ सूर्यमण्डले पद्माक्षाय नमः
- ७ॐ क्षीराब्धौ शेषशयनाय नमः
- ८ॐ श्वेतद्वीपेतु तारकाय नमः
- ९ॐ बदर्यां नारायणाय नमः
- १०ॐ नैमिषे हरये नमः
- ११ॐ हरिक्षेत्रे शालग्रामाय नमः
- १२ॐ अयोध्यायां रघूत्तमाय नमः
- १३ॐ मथुरायां बालकृष्णाय नमः
- १४ॐ मायायां मधुसूदनाय नमः
- १५ॐ काश्यां भोगशयनाय नमः
- १६ॐ अमवन्त्यां अवनीपतये नमः
- १७ॐ द्वारवत्यां यादवेन्द्राय नमः
- १८ॐ व्रजे गोपीजनप्रियाय नमः
- १९ॐ वृन्दावने नन्दसूनवे नमः
- २०ॐ कालियह्रदे गोविन्दाय नमः
- २१ॐ गोवर्धने गोपवेषाय नमः
- २२ॐ गोमन्तपर्वते शौरये नमः
- २३ॐ हरिद्वारे जगत्पतये नमः
- २४ॐ प्रयागे माधवाय नमः
- २५ॐ गयायां गदाधराय नमः
- २६ॐ गङ्गासागरगे विष्णवे नमः
- २७ॐ चित्रकूटे राघवाय नमः
- २८ॐ नन्दिग्रामे राक्षसघ्नाय नमः
- २९ॐ प्रभासे विश्वरूपाय नमः
- ३०ॐ श्रीकूर्मे कूर्ममचलाय नमः
- ३१ॐ नीलाद्रौ पुरुषोत्तमाय नमः
- ३२ॐ सिंहाचले महासिंहाय नमः
- ३३ॐ तुलसीवने गदिनां नमः
- ३४ॐ घृतशैले पापहराय नमः
- ३५ॐ श्वेताद्रौ सिंहरूपाय नमः
- ३६ॐ धर्मपुर्यां योगानन्दाय नमः
- ३७ॐ काकुले आन्ध्रनायकाय नमः
- ३८ॐ गारुडाद्रौ अहोबिले हिरण्यासुरमर्दनाय नमः
- ३९ॐ पाण्डुरङ्गे विट्ठलाय नमः
- ४०ॐ वेङ्कटाद्रौ रमासखाय नमः
- ४१ॐ यादवाद्रौ नारायणाय नमः
- ४२ॐ घटिकाचले नृसिंहाय नमः
- ४३ॐ काञ्च्यां वारणगिरौ कमललोचनवरदाय नमः
- ४४ॐ काञ्च्यां परमेशपुरे यथोक्तकारिणे नमः
- ४५ॐ काञ्च्यां पाण्डवदूताय नमः
- ४६ॐ काञ्च्यां त्रिविक्रमाय नमः
- ४७ॐ काञ्च्यां कामासिक्यां नृसिंहाय नमः
- ४८ॐ काञ्च्यां कामासिक्यां अष्टभुजाय नमः
- ४९ॐ काञ्च्यां मेघाकाराय नमः
- ५०ॐ काञ्च्यां शुभाकाराय नमः
- ५१ॐ काञ्च्यां शेषाकाराय नमः
- ५२ॐ काञ्च्यां शोभनाय नमः
- ५३ॐ काञ्च्यां कामकोट्यां शुभप्रदाय नमः
- ५४ॐ काञ्च्यां कालमेघाय नमः
- ५५ॐ काञ्च्यां खगारूढाय नमः
- ५६ॐ काञ्च्यां कोटिसूर्यसमप्रभाय नमः
- ५७ॐ काञ्च्यां दिव्याय नमः
- ५८ॐ काञ्च्यां दीपप्रकाशाय नमः
- ५९ॐ काञ्च्यां प्रवालवर्णाय नमः
- ६०ॐ काञ्च्यां दीपाभाय नमः
- ६१ॐ श्रीगृध्रसरसस्तीरे विजयराघवाय नमः
- ६२ॐ महापुण्ये वीक्षारण्ये वीरराघवाय नमः
- ६३ॐ तोताद्रौ तुङ्गशयनाय नमः
- ६४ॐ गजस्थले गजार्तिघ्नाय नमः
- ६५ॐ बलिपुरे महाबलाय नमः
- ६६ॐ भक्तिसारे जगत्पतये नमः
- ६७ॐ श्रीमुष्णे महावराहाय नमः
- ६८ॐ महीन्द्रे पद्मलोचनाय नमः
- ६९ॐ श्रीरङ्गे जगन्नाथाय नमः
- ७०ॐ श्रीधामे जानकीप्रियाय नमः
- ७१ॐ सारक्षेत्रे सारनाथाय नमः
- ७२ॐ खण्डने हरचापहाय नमः
- ७३ॐ श्रीनिवासस्थले पूर्णाय नमः
- ७४ॐ स्वर्णमन्दिरे सुवर्णाय नमः
- ७५ॐ व्याघ्रपुर्यां महाविष्णवे नमः
- ७६ॐ भक्तिस्थाने भक्तिदाय नमः
- ७७ॐ श्वेतह्रदे शान्तमूर्तये नमः
- ७८ॐ अग्निपुर्यां सुरप्रियाय नमः
- ७९ॐ भार्गवस्थाने भर्गाय नमः
- ८०ॐ वैकुण्ठे माधवाय नमः
- ८१ॐ पुरुषोत्तमे भक्तसखाय नमः
- ८२ॐ चक्रतीर्थे सुदर्शनाय नमः
- ८३ॐ कुम्भकोणे चक्रपाणये नमः
- ८४ॐ भूतस्थाने शार्ङ्गिणाय नमः
- ८५ॐ कपिस्थले गजार्तिघ्नाय नमः
- ८६ॐ चित्रकूटके गोविन्दाय नमः
- ८७ॐ उत्तमायां अनुत्तमाय नमः
- ८८ॐ श्वेताद्रौ पद्मलोचनाय नमः
- ८९ॐ पार्थस्थले परब्रह्मणे नमः
- ९०ॐ कृष्णाकोट्यां मधुद्विषे नमः
- ९१ॐ नन्दपुर्यां महानन्दाय नमः
- ९२ॐ वृद्धपुर्यां वृषाश्रयाय नमः
- ९३ॐ सङ्गमग्रामे असङ्गाय नमः
- ९४ॐ शरण्ये शरणाय नमः
- ९५ॐ दक्षिणद्वारकायां गोपालाय नमः
- ९६ॐ सिंहक्षेत्रे महासिंहाय नमः
- ९७ॐ मणिमण्डपे मल्लारये नमः
- ९८ॐ निबिडे निबिडाकाराय नमः
- ९९ॐ धानुष्के जगदीश्वराय नमः
- १००ॐ मौहूरे कालमेघाय नमः
- १०१ॐ मधुरायां सुन्दराय नमः
- १०२ॐ वृषभाद्रौ परमस्वामिने नमः
- १०३ॐ श्रीमद्वरगुणे नाथाय नमः
- १०४ॐ कुरुकायां रमासखये नमः
- १०५ॐ गोष्ठीपुरे गोष्ठपतये नमः
- १०६ॐ दर्भसंस्तरे शयानाय नमः
- १०७ॐ धन्विमङ्गलके शौरये नमः
- १०८ॐ भ्रमरस्थले बलाढ्याय नमः
- १०९ॐ कुरङ्गे पूर्णाय नमः
- ११०ॐ वटस्थले कृष्णाय नमः
- १११ॐ क्षुद्रनद्यां अच्युताय नमः
- ११२ॐ अनन्तके पद्मनाभाय नमः
इति श्री-विष्णोरष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा