- १ॐ श्री-नृसिंहाय नमः
- २ॐ पुष्कराक्षाय नमः
- ३ॐ करालाय नमः
- ४ॐ विकृताननाय नमः
- ५ॐ हिरण्यकशिपोर्वक्षोविदारणनखाङ्कुशाय नमः
- ६ॐ प्रह्लादवरदाय नमः
- ७ॐ श्रीमते नमः
- ८ॐ अप्रमेयपराक्रमाय नमः
- ९ॐ सटाच्छटाच्छिन्नघटाय नमः
- १०ॐ भक्तानामभयप्रदाय नमः
- ११ॐ ज्वालामुखाय नमः
- १२ॐ तीक्ष्णकेशाय नमः
- १३ॐ तीक्ष्णदंष्ट्राय नमः
- १४ॐ भयङ्कराय नमः
- १५ॐ उत्तप्तहेमसङ्काशाय नमः
- १६ॐ साधूनां बलवर्धनाय नमः
- १७ॐ त्रिनेत्राय नमः
- १८ॐ कपिलाय नमः
- १९ॐ प्रांशवे नमः
- २०ॐ सोमसूर्याग्निलोचनाय नमः
- २१ॐ स्थूलग्रीवाय नमः
- २२ॐ प्रसन्नात्मने नमः
- २३ॐ जाम्बूनदपरिष्कृताय नमः
- २४ॐ व्योमकेशप्रभृतिभिस्त्रिदशैरभिसंस्तुताय नमः
- २५ॐ उपसंहृतसप्तार्चिषे नमः
- २६ॐ कबलीकृतमारुताय नमः
- २७ॐ दिग्दन्तावलदर्पघ्राय नमः
- २८ॐ कद्रुजोल्बणनाशनाय नमः
- २९ॐ अभिचारिक्रियाहन्त्रे नमः
- ३०ॐ ब्रह्मण्याय नमः
- ३१ॐ भक्तवत्सलाय नमः
- ३२ॐ समुद्रसलिलोद्भूत-हालाहल-विशीर्णकृते नमः
- ३३ॐ ओजःप्रपूरिताशेष-चराचरजगत्त्रयाय नमः
- ३४ॐ हृषीकेशाय नमः
- ३५ॐ जगत्त्राणाय नमः
- ३६ॐ सर्वगाय नमः
- ३७ॐ सर्वरक्षकाय नमः
- ३८ॐ नास्तिक्य-प्रत्यवायार्थदर्शितात्म-प्रभाववते नमः
- ३९ॐ हिरण्यकशिपोरग्रे सभास्तम्भसमुद्भवाय नमः
- ४०ॐ उग्राय नमः
- ४१ॐ अग्निज्वालामालिने नमः
- ४२ॐ सुतीक्ष्णाय नमः
- ४३ॐ भीमदर्शनाय नमः
- ४४ॐ मुग्धाखिलजगज्जीवाय नमः
- ४५ॐ जगतां कान्ताय नमः
- ४६ॐ सर्वभूतसमाधानाय नमः
- ४७ॐ ईश्वराय नमः
- ४८ॐ सर्वधारकाय नमः
- ४९ॐ विष्णवे नमः
- ५०ॐ जिष्णवे नमः
- ५१ॐ जगद्धाम्ने नमः
- ५२ॐ बहिरन्तः प्रकाशकृते नमः
- ५३ॐ योगिहृत्पद्ममध्यस्थाय नमः
- ५४ॐ योगिने नमः
- ५५ॐ योगविदुत्तमाय नमः
- ५६ॐ स्रष्ट्रे नमः
- ५७ॐ हर्त्रे नमः
- ५८ॐ अखिलत्रात्रे नमः
- ५९ॐ व्योमरूपाय नमः
- ६०ॐ जनार्दनाय नमः
- ६१ॐ चिन्मयाय नमः
- ६२ॐ प्रकृतये नमः
- ६३ॐ साक्षिणे नमः
- ६४ॐ गुणातीताय नमः
- ६५ॐ गुणात्मकाय नमः
- ६६ॐ पापविच्छेदकृते नमः
- ६७ॐ कर्त्रे नमः
- ६८ॐ सर्वपापविमोचकाय नमः
- ६९ॐ व्यक्ताव्यक्तस्वरूपाय नमः
- ७०ॐ सूक्ष्माय नमः
- ७१ॐ सदसदात्मकाय नमः
- ७२ॐ अव्ययाय नमः
- ७३ॐ शाश्वताय नमः
- ७४ॐ अनन्ताय नमः
- ७५ॐ वीरजिते नमः
- ७६ॐ परमेश्वराय नमः
- ७७ॐ मायाविने नमः
- ७८ॐ जगदाधाराय नमः
- ७९ॐ अनिमिषाय नमः
- ८०ॐ अक्षराय नमः
- ८१ॐ अनादिनिधनाय नमः
- ८२ॐ नित्याय नमः
- ८३ॐ परब्रह्माभिधायकाय नमः
- ८४ॐ शङ्खचक्रगदाशार्ङ्ग-विराजितचतुर्भुजाय नमः
- ८५ॐ पीताम्बरधराय नमः
- ८६ॐ स्रग्विणे नमः
- ८७ॐ कौस्तुभाभरणोज्ज्वलाय नमः
- ८८ॐ श्रियाध्यासितवक्षसे नमः
- ८९ॐ श्रीवत्सेन विराजिताय नमः
- ९०ॐ प्रसन्नवदनाय नमः
- ९१ॐ शान्ताय नमः
- ९२ॐ --- नमः
- ९३ॐ लक्ष्मीप्रियपरिग्रहाय नमः
- ९४ॐ वासुदेवाय नमः
- ९५ॐ शतपुष्पैः सुपूजिताय नमः
- ९६ॐ उद्यत्कलहहाकार-भीषिताखिलदिङ्मुखाय नमः
- ९७ॐ गर्जद्वीरासनासीनाय नमः
- ९८ॐ कठोरकुटिलेक्षणाय नमः
- ९९ॐ दैतेयवक्षोदलनसान्द्रीकृतनखायुधाय नमः
- १००ॐ अशेषप्राणिभयदप्रचण्डोद्दण्डताण्डवाय नमः
- १०१ॐ निटिलस्रुतघर्माम्बुबिन्दुसञ्ज्वलिताननाय नमः
- १०२ॐ वज्रजिह्वाय नमः
- १०३ॐ महामूर्तये नमः
- १०४ॐ भीमाय नमः
- १०५ॐ भीमपराक्रमाय नमः
- १०६ॐ स्वभक्तार्पितकारुण्याय नमः
- १०७ॐ बहुदाय नमः
- १०८ॐ बहु-पराक्रमाय नमः
इति श्री-लक्ष्मी-नृसिंहाष्टोत्तरशतनामावलिः सम्पूर्णा