- १ॐ श्री-गङ्गायै नमः
- २ॐ विष्णु-पादाब्ज-सम्भूतायै नमः
- ३ॐ हर-वल्लभायै नमः
- ४ॐ हिमाचलेन्द्र-तनयायै नमः
- ५ॐ गिरि-मण्डल-गामिन्यै नमः
- ६ॐ तारकाराति-जनन्यै नमः
- ७ॐ सगरात्मज-तारिकायै नमः
- ८ॐ सरस्वती-समायुक्तायै नमः
- ९ॐ सु-घोषायै नमः
- १०ॐ सिन्धु-गामिन्यै नमः
- ११ॐ भागीरथ्यै नमः
- १२ॐ भाग्य-वत्यै नमः
- १३ॐ भगीरथ-रथानुगायै नमः
- १४ॐ त्रिविक्रम-पदोद्भूतायै नमः
- १५ॐ त्रि-लोक-पथ-गामिन्यै नमः
- १६ॐ क्षीर-शुभ्रायै नमः
- १७ॐ बहु-क्षीरायै नमः
- १८ॐ क्षीर-वृक्ष-समाकुलायै नमः
- १९ॐ त्रि-लोचन-जटा-वासिन्यै नमः
- २०ॐ ऋण-त्रय-विमोचिन्यै नमः
- २१ॐ त्रिपुरारि-शिरश्चूडायै नमः
- २२ॐ जाह्नव्यै नमः
- २३ॐ नर-भीति-हृते नमः
- २४ॐ अव्ययायै नमः
- २५ॐ नयनानन्द-दायिन्यै नमः
- २६ॐ नग-पुत्रिकायै नमः
- २७ॐ निरञ्जनायै नमः
- २८ॐ नित्य-शुद्धायै नमः
- २९ॐ नीरजालि-परिष्कृतायै नमः
- ३०ॐ सावित्र्यै नमः
- ३१ॐ सलिलावासायै नमः
- ३२ॐ सागराम्बु-समेधिन्यै नमः
- ३३ॐ रम्यायै नमः
- ३४ॐ बिन्दु-सरोव्यक्तायै नमः
- ३५ॐ वृन्दारक-समाश्रितायै नमः
- ३६ॐ उमा-सपत्न्यै नमः
- ३७ॐ शुभ्राङ्गायै नमः
- ३८ॐ श्री-मत्यै नमः
- ३९ॐ धवलाम्बरायै नमः
- ४०ॐ आखण्डल-वनावासायै नमः
- ४१ॐ खण्डेन्दु-कृत-शेखरायै नमः
- ४२ॐ अमृताकार-सलिलायै नमः
- ४३ॐ लीला-लङ्घित-पर्वतायै नमः
- ४४ॐ विरिञ्चि-कलशावासायै नमः
- ४५ॐ त्रि-वेण्यै नमः
- ४६ॐ त्रि-गुणात्मिकायै नमः
- ४७ॐ सङ्गताघौघ-शमन्यै नमः
- ४८ॐ शङ्ख-दुन्दुभि-निःस्वनायै नमः
- ४९ॐ भीति-घ्न्यै नमः
- ५०ॐ भाग्य-जनन्यै नमः
- ५१ॐ भिन्न-ब्रह्माण्ड-दर्पिण्यै नमः
- ५२ॐ नन्दिन्यै नमः
- ५३ॐ शीघ्र-गायै नमः
- ५४ॐ सिद्धायै नमः
- ५५ॐ शरण्यायै नमः
- ५६ॐ शशि-शेखरायै नमः
- ५७ॐ शं-कर्यै नमः
- ५८ॐ शफरी-पूर्णायै नमः
- ५९ॐ भर्ग-मूर्ध-कृतालयायै नमः
- ६०ॐ भव-प्रियायै नमः
- ६१ॐ सत्य-सन्ध-प्रियायै नमः
- ६२ॐ हंस-स्वरूपिण्यै नमः
- ६३ॐ भगीरथ-सुतायै नमः
- ६४ॐ अनन्तायै नमः
- ६५ॐ शरच्चन्द्र-निभाननायै नमः
- ६६ॐ ओङ्कार-रूपिण्यै नमः
- ६७ॐ अतुलायै नमः
- ६८ॐ क्रीडा-कल्लोल-कारिण्यै नमः
- ६९ॐ स्वर्ग-सोपान-सरण्यै नमः
- ७०ॐ सर्व-देव-स्वरूपिण्यै नमः
- ७१ॐ अम्भः-प्रदायै नमः
- ७२ॐ दुःख-हन्त्र्यै नमः
- ७३ॐ शान्ति-सन्तान-कारिण्यै नमः
- ७४ॐ दारिद्र्य-हन्त्र्यै नमः
- ७५ॐ शिव-दायै नमः
- ७६ॐ संसार-विष-नाशिन्यै नमः
- ७७ॐ प्रयाग-निलयायै नमः
- ७८ॐ शीतायै नमः
- ७९ॐ ताप-त्रय-विमोचिन्यै नमः
- ८०ॐ शरणागत-दीनार्त-परित्राणायै नमः
- ८१ॐ सु-मुक्ति-दायै नमः
- ८२ॐ पाप-हन्त्र्यै नमः
- ८३ॐ पावनाङ्गायै नमः
- ८४ॐ पर-ब्रह्म-स्वरूपिण्यै नमः
- ८५ॐ पूर्णायै नमः
- ८६ॐ पुरातनायै नमः
- ८७ॐ पुण्यायै नमः
- ८८ॐ पुण्य-दायै नमः
- ८९ॐ पुण्य-वाहिन्यै नमः
- ९०ॐ पुलोमजार्चितायै नमः
- ९१ॐ पूतायै नमः
- ९२ॐ पूत-त्रि-भुवनायै नमः
- ९३ॐ जयायै नमः
- ९४ॐ जङ्गमायै नमः
- ९५ॐ जङ्गमाधारायै नमः
- ९६ॐ सिद्ध-योगि-निषेवितायै नमः
- ९७ॐ जल-रूपायै नमः
- ९८ॐ जगद्-धात्र्यै नमः
- ९९ॐ जगद्-भूतायै नमः
- १००ॐ जनार्चितायै नमः
- १०१ॐ जह्नु-पुत्र्यै नमः
- १०२ॐ जगन्मात्रे नमः
- १०३ॐ जम्बू-द्वीप-विहारिण्यै नमः
- १०४ॐ भव-पत्न्यै नमः
- १०५ॐ भीष्म-मात्रे नमः
- १०६ॐ सिद्ध-रम्य-स्वरूप-धृते नमः
- १०७ॐ उमा-सहोदर्यै नमः
- १०८ॐ अज्ञान-तिमिरापहृते नमः
इति श्री-गङ्गाष्टोत्तरशत-नामावलिः सम्पूर्णा