- १ॐ गङ्गायै नमः
- २ॐ त्रिपथगादेव्यै नमः
- ३ॐ शम्भुमौलिविहारिण्यै नमः
- ४ॐ जाह्नव्यै नमः
- ५ॐ पापहन्त्र्यै नमः
- ६ॐ महापातकनाशिन्यै नमः
- ७ॐ पतितोद्धारिण्यै नमः
- ८ॐ स्रोतस्वत्यै नमः
- ९ॐ परमवेगिन्यै नमः
- १०ॐ विष्णुपादाब्जसम्भूतायै नमः
- ११ॐ विष्णुदेहकृतालयायै नमः
- १२ॐ स्वर्गाब्धिनिलयायै नमः
- १३ॐ साध्व्यै नमः
- १४ॐ स्वर्णद्यै नमः
- १५ॐ सुरनिम्नगायै नमः
- १६ॐ मन्दाकिन्यै नमः
- १७ॐ महावेगायै नमः
- १८ॐ स्वर्णशृङ्गप्रभेदिन्यै नमः
- १९ॐ देवपूज्यतमायै नमः
- २०ॐ दिव्यायै नमः
- २१ॐ दिव्यस्थाननिवासिन्यै नमः
- २२ॐ सुचारुनीररुचिरायै नमः
- २३ॐ महापर्वतभेदिन्यै नमः
- २४ॐ भागीरथ्यै नमः
- २५ॐ भगवत्यै नमः
- २६ॐ महामोक्षप्रदायिन्यै नमः
- २७ॐ सिन्धुसङ्गगतायै नमः
- २८ॐ शुद्धायै नमः
- २९ॐ रसातलनिवासिन्यै नमः
- ३०ॐ महाभोगायै नमः
- ३१ॐ भोगवत्यै नमः
- ३२ॐ सुभगानन्ददायिन्यै नमः
- ३३ॐ महापापहरायै नमः
- ३४ॐ पुण्यायै नमः
- ३५ॐ परमाह्लाददायिन्यै नमः
- ३६ॐ पार्वत्यै नमः
- ३७ॐ शिवपत्न्यै नमः
- ३८ॐ शिवशीर्षगतालयायै नमः
- ३९ॐ शम्भोर्जटामध्यगतायै नमः
- ४०ॐ निर्मलायै नमः
- ४१ॐ निर्मलाननायै नमः
- ४२ॐ महाकलुषहन्त्र्यै नमः
- ४३ॐ जह्नुपुत्र्यै नमः
- ४४ॐ जगत्प्रियायै नमः
- ४५ॐ त्रैलोक्यपावन्यै नमः
- ४६ॐ पूर्णायै नमः
- ४७ॐ पूर्णब्रह्मस्वरूपिण्यै नमः
- ४८ॐ जगत्पूज्यतमायै नमः
- ४९ॐ चारुरूपिण्यै नमः
- ५०ॐ जगदम्बिकायै नमः
- ५१ॐ लोकानुग्रहकर्त्र्यै नमः
- ५२ॐ सर्वलोकदयापरायै नमः
- ५३ॐ याम्यभीतिहरायै नमः
- ५४ॐ तारायै नमः
- ५५ॐ पारायै नमः
- ५६ॐ संसारतारिण्यै नमः
- ५७ॐ ब्रह्माण्डभेदिन्यै नमः
- ५८ॐ ब्रह्मकमण्डलुकृतालयायै नमः
- ५९ॐ सौभाग्यदायिन्यै नमः
- ६०ॐ पुंसां निर्वाणपददायिन्यै नमः
- ६१ॐ अचिन्त्यचरितायै नमः
- ६२ॐ चारुरुचिरातिमनोहरायै नमः
- ६३ॐ मर्त्यस्थायै नमः
- ६४ॐ मृत्युभयहायै नमः
- ६५ॐ स्वर्गमोक्षप्रदायिन्यै नमः
- ६६ॐ पापापहारिण्यै नमः
- ६७ॐ दूरचारिण्यै नमः
- ६८ॐ वीचिधारिण्यै नमः
- ६९ॐ कारुण्यपूर्णायै नमः
- ७०ॐ करुणामय्यै नमः
- ७१ॐ दुरितनाशिन्यै नमः
- ७२ॐ गिरिराजसुतायै नमः
- ७३ॐ गौरीभगिन्यै नमः
- ७४ॐ गिरिशप्रियायै नमः
- ७५ॐ मेनकागर्भसम्भूतायै नमः
- ७६ॐ मैनाकभगिनीप्रियायै नमः
- ७७ॐ आद्यायै नमः
- ७८ॐ त्रिलोकजनन्यै नमः
- ७९ॐ त्रैलोक्यपरिपालिन्यै नमः
- ८०ॐ तीर्थश्रेष्ठतमायै नमः
- ८१ॐ श्रेष्ठायै नमः
- ८२ॐ सर्वतीर्थमय्यै नमः
- ८३ॐ शुभायै नमः
- ८४ॐ चतुर्वेदमय्यै नमः
- ८५ॐ सर्वायै नमः
- ८६ॐ पितृसन्तृप्तिदायिन्यै नमः
- ८७ॐ शिवदायै नमः
- ८८ॐ शिवसायुज्यदायिन्यै नमः
- ८९ॐ शिववल्लभायै नमः
- ९०ॐ तेजस्विन्यै नमः
- ९१ॐ त्रिनयनायै नमः
- ९२ॐ त्रिलोचनमनोरमायै नमः
- ९३ॐ सप्तधारायै नमः
- ९४ॐ शतमुख्यै नमः
- ९५ॐ सगरान्वयतारिण्यै नमः
- ९६ॐ मुनिसेव्यायै नमः
- ९७ॐ मुनिसुतायै नमः
- ९८ॐ जह्नुजानुप्रभेदिन्यै नमः
- ९९ॐ मकरस्थायै नमः
- १००ॐ सर्वगतायै नमः
- १०१ॐ सर्वाशुभनिवारिण्यै नमः
- १०२ॐ सुदृश्यायै नमः
- १०३ॐ चाक्षुषीतृप्तिदायिन्यै नमः
- १०४ॐ मकरालयायै नमः
- १०५ॐ सदानन्दमय्यै नमः
- १०६ॐ नित्यानन्ददायै नमः
- १०७ॐ नगपूजितायै नमः
- १०८ॐ सर्वदेवाधिदेवैः परिपूज्यपदाम्बुजायै नमः
इति श्री-महाभागवते महापुराणे श्री-गङ्गाष्टोत्तरशतनामावलिः सम्पूर्णा