अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- अन्यत्र सङ्ग्रहे
- मूलम्
९ मधुच्छन्दा वैश्वामित्रः । अग्निः। गायत्री।
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्। होता॑रं रत्न॒धात॑मम् ॥1.1.1॥
a̱gnimī̍l̤e pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvija̍m| hotā̍raṃ ratna̱dhāta̍mam
९ मधुच्छन्दा वैश्वामित्रः । अग्निः। गायत्री। १६ अग्स्त्यो मैत्रावरुणिः । (विषघ्नोपनिषद्)। अनुष्टुप्, १०-१२ महा पंक्तिः, १३ महबृहती।
कु॒षु॒म्भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः ।
वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥1.191.16॥
ku̱ṣu̱mbha̱kastada̍bravīd gi̱reḥ pra̍vartamāna̱kaḥ |
vṛści̍kasyāra̱saṃ vi̱ṣama̍ra̱saṃ vṛ̍ścika te vi̱ṣam
१६ गृत्समद(आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। अग्निः।जगती।
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥2.1.1॥
tvama̍gne̱ dyubhi̱stvamā̍śuśu̱kṣaṇi̱stvama̱dbhyastvamaśma̍na̱spari̍ |
tvaṃ vane̍bhya̱stvamoṣa̍dhībhya̱stvaṃ nṛ̱ṇāṃ nṛ̍pate jāyase̱ śuci̍:
३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। शकुन्तः(-कपिञ्जलरूपीन्द्रः)। जगती, २ अतिशक्वरी अष्टिर्वा।
आ॒वदं॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।
यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: ॥2.43.3॥
ā̱vada̱ṃstvaṃ śa̍kune bha̱dramā va̍da tū̱ṣṇīmāsī̍naḥ suma̱tiṃ ci̍kiddhi naḥ |
yadu̱tpata̱n vada̍si karka̱rirya̍thā bṛ̱had va̍dema vi̱dathe̍ su̱vīrā̍:
२३ गाथिनो विश्वामित्रः। अग्निः। त्रिष्टुप्।
सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।
दे॒वाँ अच्छा॒ दीद्य॑द् यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥3.1.1॥
soma̍sya mā ta̱vasa̱ṃ vakṣya̍gne̱ vahni̍ṃ cakartha vi̱dathe̱ yaja̍dhyai |
de̱vām̐ acchā̱ dīdya̍d yu̱ñje adri̍ṃ śamā̱ye a̍gne ta̱nva̍ṃ juṣasva
१८ गाथिनो विश्वामित्रः १६-१८ जमदग्निर्वा।१-३ इन्द्रावरुणौ, ४-६ बृहस्पतिः, ७-९ पूषा, १०-१२ सविता, १३-१५ सोमः, १६-१८ मित्रावरुणौ। गायत्री, १-३ त्रिष्टुप्।
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् । पा॒तं सोम॑मृतावृधा ॥3.62.18॥
gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍vṛ̱tasya̍ sīdatam | pā̱taṃ soma̍mṛtāvṛdhā
२० वामदेवो गौतमः। अग्निः, २-५ अग्नीवरुणौ वा। त्रिष्टुप्, १ अग्निः, २ अतिजगती, ३ धृतिः।
त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।
अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥4.1.1॥
tvāṃ hya̍gne̱ sada̱mitsa̍ma̱nyavo̍ de̱vāso̍ de̱vama̍ra̱tiṃ nye̍ri̱ra iti̱ kratvā̍ nyeri̱re |
ama̍rtyaṃ yajata̱ martye̱ṣvā de̱vamāde̍vaṃ janata̱ prace̍tasa̱ṃ viśva̱māde̍vaṃ janata̱ prace̍tasam
११ वामदेवो गौतमः। अग्निः, सूर्यो वाऽऽपो वा गावो वा घृतस्तुतिर्वा। त्रिष्टुप्, ११ जगती।
धाम॑न् ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१न्तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥4.58.11॥
dhāma̍n te̱ viśva̱ṃ bhuva̍na̱madhi̍ śri̱tama̱ntaḥ sa̍mu̱dre hṛ̱dya1ntarāyu̍ṣi |
a̱pāmanī̍ke sami̱the ya ābhṛ̍ta̱stama̍śyāma̱ madhu̍mantaṃ ta ū̱rmim
१२ बुधगविष्ठिरावात्रेयौ। अग्निः। त्रिष्टुप्।अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑ना॒: प्र भा॒नव॑: सिस्रते॒ नाक॒मच्छ॑
९ एवयामरुदात्रेयः। मरुतः। अतिजगती।
गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् ।
ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतस॒: स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥5.87.9॥
gantā̍ no ya̱jñaṃ ya̍jñiyāḥ su̱śami̱ śrotā̱ hava̍mara̱kṣa e̍va̱yāma̍rut |
jyeṣṭhā̍so̱ na parva̍tāso̱ vyo̍mani yū̱yaṃ tasya̍ pracetasa̱: syāta̍ du̱rdharta̍vo ni̱daḥ
१३ बार्हस्पत्यो भरद्वाज: । अग्नि : । त्रिष्टुप् ।
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒ ऽस्या धि॒यो अभ॑वो दस्म॒ होता॑ ।
त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥6.1.1॥
tvaṃ hya̍gne pratha̱mo ma̱notā̱ 'syā dhi̱yo abha̍vo dasma̱ hotā̍ |
tvaṃ sī̍ṃ vṛṣannakṛṇordu̱ṣṭarī̍tu̱ saho̱ viśva̍smai̱ saha̍se̱ saha̍dhyai
१९ पायुर्भारद्वाज: । { संग्रामाशिष: } १ वर्म, २ धनु:, ३ ज्या , ४ आर्त्नी, इषुधि:, ६ [ पूर्वार्ध:] सारथि :, ६ {उत्तरार्ध:} रश्मय: , ७ अश्वा: , ८ रथ: , ९ रथगोपा:, १० ब्राह्मण–पितृ-सोम-द्यावा-पृथिवी-पूषाण: ; ११-१२, १५-१६ इषव:, १३ प्रतोद:, १४ हस्तघ्न:, १७ युद्धभूमि-कवच–ब्रह्मणस्पत्यादय:, १८ वर्म–सोम–वरुणा:, १९ देवब्रह्माणी। त्रिष्टुप् ; ६,१० जगती; १२,१३,१५,१६,१९ अनुष्टुप् , १७ पङ्क्ति: ।
यो न॒: स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥6.75.19॥
yo na̱: svo ara̍ṇo̱ yaśca̱ niṣṭyo̱ jighā̍ṃsati | de̱vāstaṃ sarve̍ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram
२५ मैत्रावरुणिर्वसिष्ठ:। अग्नि: । विराट् ,१९-२५ त्रिष्टुप् ।
अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् ।
दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युम् ॥7.1.1॥
a̱gniṃ naro̱ dīdhi̍tibhira̱raṇyo̱rhasta̍cyutī janayanta praśa̱stam |
dū̱re̱dṛśa̍ṃ gṛ̱hapa̍timatha̱ryum
२५ मैत्रावरुणिर्वसिष्ठ:। {राक्षोघ्नं} इन्द्रासोमौ , ८ ,१६ ,१९ -२२ इन्द्र:, ९, १२-१३ सोम:, १०-१४ अग्नि:,११ देवा:, १७ ग्रावाण:, १८ मरुत:, २३ {पूर्वार्धस्य} वसिष्ठाशी:, {उत्तरार्धस्य} पृथिव्यन्तरिक्षे। त्रिष्टुप् , १-६,१८, २१ ,२३ जगती ; ७ जगती त्रिष्टुब्वा, २५ अनुष्टुप् ।
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१च्छत॑ गृभा॒यत॑ र॒क्षस॒: सं पि॑नष्टन ।
वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥7.104.18॥
vi ti̍ṣṭhadhvaṃ maruto vi̱kṣvi1cchata̍ gṛbhā̱yata̍ ra̱kṣasa̱: saṃ pi̍naṣṭana |
vayo̱ ye bhū̱tvī pa̱taya̍nti na̱ktabhi̱rye vā̱ ripo̍ dadhi̱re de̱ve a̍dhva̱re
(३४) १-२ प्रगाथो ( घौर : ) काण्व: ; ३-२९ मेघातिथि – मेध्यातिथी काण्वौ, ३०-३३ प्लायोगिरासङ्ग:, ३४ आङ्गिरसी शश्वती ऋषिका । इन्द्र:,३० -३४ आसङ्ग:। १-४ प्रगाथ:= ( विषमा बृहती, समा सतोबृहती ), ५-३२ बृहती, ३३-३४ त्रिष्टुप् ।
मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत । इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥8.1.1॥
mā ci̍da̱nyadvi śa̍ṃsata̱ sakhā̍yo̱ mā ri̍ṣaṇyata | indra̱mitsto̍tā̱ vṛṣa̍ṇa̱ṃ sacā̍ su̱te muhu̍ru̱kthā ca̍ śaṃsata
१४ सौभरि: काण्व: ।अग्नि:; १४ अग्नामरुत: । बृहती; ५ विराड्रूपा; ७,९,११,१३ सतोबृहती ; ८,१२ ककुप् ; १० ह्रसीयसी; १४ अनुष्टुप् ।
आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभि॒: सोम॑पीतये । सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥8.103.14॥
āgne̍ yāhi ma̱rutsa̍khā ru̱drebhi̱: soma̍pītaye | sobha̍ryā̱ upa̍ suṣṭu̱tiṃ mā̱daya̍sva̱ sva̍rṇare
१० मधुच्छन्दा वैश्वामित्र:। पवमान: सोम: । गायत्री ।
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः ॥9.1.1॥
svādi̍ṣṭhayā̱ madi̍ṣṭhayā̱ pava̍sva soma̱ dhāra̍yā | indrā̍ya̱ pāta̍ve su̱taḥ
४ कश्यपो मारीच: । पवमान: सोम: । पङ्क्ति: ।
ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒: कश्य॑पोद्व॒र्धय॒न्गिर॑: ।
सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥9.114.2॥
ṛṣe̍ mantra̱kṛtā̱ṃ stomai̱: kaśya̍podva̱rdhaya̱ngira̍: |
soma̍ṃ namasya̱ rājā̍na̱ṃ yo ja̱jñe vī̱rudhā̱ṃ pati̱rindrā̍yendo̱ pari̍ srava
७ त्रित आप्त्यः अग्निः। त्रिष्टुप्।
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥10.1.1॥
agre̍ bṛ̱hannu̱ṣasā̍mū̱rdhvo a̍sthānnirjaga̱nvāntama̍so̱ jyoti̱ṣāgā̍t |
a̱gnirbhā̱nunā̱ ruśa̍tā̱ svaṅga̱ ā jā̱to viśvā̱ sadmā̍nyaprāḥ
४ संवनन आङ्गिरसः। १ अग्निः,२-४ संज्ञानम्। अनुष्टुप् , ३ त्रिष्टुप्।
स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒: सुस॒हास॑ति ॥10.191.4॥
sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ | sa̱mā̱nama̍stu vo̱ mano̱ yathā̍ va̱: susa̱hāsa̍ti