skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 43 — प्रदक्षिणिदभि (3 मन्त्राः)

सूक्त 43

३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। शकुन्तः(-कपिञ्जलरूपीन्द्रः)। जगती, २ अतिशक्वरी अष्टिर्वा।

प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः ।

उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति

॥१॥

उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि ।

वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द

वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द

॥२॥

आ॒वदं॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।

यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑:

॥३॥