skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 5 — प्रयक्षञ्जेन्य (8 मन्त्राः)

सूक्त 5

८ सोमाहुतिर्भार्गवः। अग्निः। अनुष्टुप्।

होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।

प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम॑म्

॥१॥

आ यस्मि॑न् त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।

म॒नु॒ष्वद् दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति

॥२॥

द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द् ब्रह्मा॑णि॒ वेरु॒ तत् ।

परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत्

॥३॥

सा॒कं हि शुचि॑ना॒ शुचि॑: प्रशा॒स्ता क्रतु॒नाज॑नि ।

वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते

॥४॥

ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टु॑: सचन्त धे॒नव॑: ।

कु॒वित् ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः

॥५॥

यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त ।

तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते

॥६॥

स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् ।

स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम्

॥७॥

यथा॑ वि॒द्वाँ अरं॒ कर॒द् विश्वे॑भ्यो यज॒तेभ्य॑: ।

अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम्

॥८॥