skipLink.label

सूक्तम् 39 — ग्रावाणेव (8 मन्त्राः)

सूक्त 39

८ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। अश्विनौ। त्रिष्टुप्।

ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ ।

ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा

॥१॥

प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒रा ऽजेव॑ य॒मा वर॒मा स॑चेथे ।

मेने॑ इव त॒न्वा॒३ शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने॑षु

॥२॥

शृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक् छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒ ऽर्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा

॥३॥

ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।

श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रस॑: पातम॒स्मान्

॥४॥

वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।

हस्ता॑विव त॒न्वे॒३ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑

॥५॥

ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।

नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे

॥६॥

हस्ते॑व श॒क्तिम॒भि सं॑द॒दी न॒: क्षामे॑व न॒: सम॑जतं॒ रजां॑सि ।

इ॒मा गिरो॑ अश्विना युष्म॒यन्ती॒: क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम्

॥७॥

ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑:

॥८॥