skipLink.label

चतुर्थ काण्ड (खिल)

प्रपाठक 1

चतुर्थकाण्डे प्रथमः प्रपाठकः

चतुर्थकाण्डे प्रथमः प्रपाठकः

प्रतीचीं शाखाम् उपगूहति तस्माद् ग्राम्याः पशवः सायम् अरण्याद् ग्रामम् आयन्ति प्रत्यञ्च एनं पशवो भवन्ति य एवं वेद

॥४.१.१॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनां देवताभिर् आदत्ते प्रजापतिर् वा ओषधीः परुश्शो वेद प्राजापत्यो ऽश्वो यद् अश्वपरश्वा बर्हिर् दात्य् ओषधीनाम् अहिंसायै गोषद् असीति रयिं यजमाने दधाति प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै प्रेयम् अगाद् धिषणा बर्हिर् अछेति विद्या वै धिषणा विद्ययैवैनद् अछैति मनुना कृता स्वधया वितष्टेति मनुना ह्य् एषा कृता स्वधया वितष्टा तयावहन्ते कवयः पुरस्ताद् इति ब्राह्मणाः कवय ऋषयः कवयः ॥

तयावहन्ते : फ़्न् एमेन्देद्। एद्।: तया वहन्ते। च्फ़्। म्स्।१।१।२:१।७।

देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥ इति देवेभ्य एवैनं जुष्टं करोति देवानां परिषूतम् असीति यद् वा इदं किञ्च तद् देवानां परिषूतं यथा श्रेयसे प्रोच्य कर्म करोत्य् एवं वा एतद् देवेभ्यः प्रोच्य बर्हिर् दाति यावत् परिदिशति तत् सर्वं दाति यत् तत् सर्वं न दाति यज्ञस्य तद् अतिरेचयति यद् वै यज्ञस्यातिरिच्यते भ्रातृव्यं तेन वर्धयत्य् एकं स्तम्बं परिदिशति तं सर्वं दाति यज्ञस्यानतिरेचाय विष्णोः स्तुप इति विष्णोर् वै स्तुपो ऽछिद्यत स पृथिवीं प्राविशद् यत् प्रथमं नोत्सृजेद् आर्तिम् आर्छेद् देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामीति सवितृप्रसूत एवैनद् देवताभिर् दाति ॥

माधो मोपरि परुस्त ऋध्यासम् ॥ इत्य् ओषधीनाम् अहिंषायै ॥

आछेत्ता ते मार्षम् ॥ इति यावद्यावद् एवम् अविद्वान् अध्वर्युर् बर्हिर् दाति तावद् अस्यात्मनो मीयते नास्यात्मनो मीयते य एवं वेदातस् त्वं ब्र्हिः शतवल्शं विरोहेत्य् ओषधीष्व् एव भूमानं दधाति सहस्रवल्शा वि वयं रुहेमेत्य् आशिषम् एवाशास्ते ऽदित्या रास्नासीतीयं वा अदितिर् अस्या एवैनद् रास्नां करोतीन्द्राण्याः सन्नहनम् इतीन्द्राणी वा अग्रे देवतानां समनह्यता ऋद्धिकामा सार्ध्नोद् ऋद्ध्यय् ऋध्नोति य एवं वेद बर्हिः सन्नह्यति प्रजा वै बर्हिः प्रजानां सन्तत्यै प्रजानाम् अपरावापाय तस्मात् स्नाव्ना प्रजाः सन्तताः पूषा ते ग्रन्थिं ग्रथ्नात्व् इति पुष्टिर् वै पूषा पुष्टिं यजमाने दधाति स ते मा स्थाद् इति यजमानस्याहिंसायै ॥

सहस्रवल्शा : फ़्न् एमेन्देद्। एद्।: सहस्रवलिशा। च्फ़्। म्स्।१।१।२:२।१।

आपस् त्वाम् अश्विनौ त्वाम् ऋषयः सप्त मामृजुः ।

बर्हिः सूर्यस्य रश्मिभिर् उषसां केतुम् आरभे ॥ इति अश्विनौ वै देवानां भिषजौ ता एनद् भिषज्यत इन्द्रस्य त्वा बाहुभ्याम् उद्यछा इतीन्द्रस्यैवैनद् बाहुभ्याम् उद्यछते बृहस्पतेर् मूर्ध्नाहरामीति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनद् धरत्य् उर्व् अन्तरिक्षम् इति समिष्ठ्या एवादित्यास् त्वा पृष्ठे सादयामीतीयं वा अदितिर् अस्याम् एवैनद् असीषदत् ॥

बर्हिर् असि देवङ्गमम् ॥ इत्य् आसन्नम् अभिमन्त्रयते बहु वा एतस्य पूर्वेद्युर् आह्रियमाणस्येह चेह च स्कन्दत्य् अस्कन्नम् एनद् देवताभ्यः सम्प्रादाद् यजमानस्याहिंसायै

॥४.१.२॥

पूर्वेद्युर् इध्मा बर्हिः कुर्वन्ति यज्ञम् एवारभ्योपवसति प्रजापतिः प्रजा असृजत तस्योखे अस्रंसेतां स एताभ्याम् उखाभ्यां प्रत्यधत्त यद् एते उखे भवतः प्रजापतेर् एवोखे प्रतिदधाति शुन्धध्वं दैव्याय कर्मणा इति देवेभ्य एवैनानि शुन्धति वसूनां पवित्रम् असीति वसूनां वा एतद् भागधेयं तेभ्य एवैनत् करोति पवित्रम् अपिदधात्य् ओषधीनां च पशूनां च पयः संसृजति वाचं यछति यज्ञस्य धृत्यै धारयन्न् आस्ते धारयन्त इव हि दुहन्ति द्यौर् असि पृथिव्य् असीत्य् आभ्याम् एवैनां प्रवृणक्ति मातरिश्वनो घर्म इत्य् अन्तरिक्षं वै मातरिश्वनो घर्मो ऽन्तरिक्षस्य धृत्यै काम् अधुक्षः सा विश्वायुः सा विश्वभूः सा विश्वकर्मेत्य् असौ वाव विश्वायुर् अन्तरिक्षं विश्वभूर् इयं विश्वकर्मेमान् वा एतल् लोकान् यथापूर्वं प्रदापयत इमांल् लोकान् यथापूर्वं प्रत्तान् दुहे य एवं वेद तिस्रो यजुषाभिमन्त्रयते त्रयो वा इमे लोका एषु वा एतल् लोकेषु रसं दधाति तस्माद् इमांल् लोकान् प्रजा उपजीवन्ति हुतः स्तोको हुतो द्रप्स इत्य् अभिमन्त्रयते अस्कन्दाय ॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

इन्द्राय देवेभ्यो हविर् बहु दुग्धि ॥ इति त्रिर् उद्वदति त्रिषत्या हि देवा न दारुपात्रेण दुह्याद् अग्निमद् वै दारुपात्रं यातयामेन हविषा यजेत तद् ध स्माहुर् दात्रेयाः पुरोडाशमुखं हविर् न वा इतैतः पुरोडाशं हविषो यामो ऽस्ति दोग्धव्यम् एवेति न शूद्रो दुह्याद् असतो वा एष सम्भूतो ऽसन्त् स्याद् यद् वै पवित्रम् अत्येति तद् धविर् अग्निहोत्रम् एव शूद्रो न दुह्यात् तद् धि नोत्पुनन्ति ॥

सम्पृच्यध्वम् ऋतावरीर् ऊर्मिणा मधुमत्तमाः ।

पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥

इति प्रतिनयति शृतत्वाय शृतकामा हि देवा इन्द्राय त्वा भागं सोमेनातनच्मीति सोमम् एवैनत् करोति तस्य ह त्वै सोमपीथः सन्ततो य एवं विद्वान्त् सान्नाय्यं पिबति ॥

अदस्तम् असि विष्णवे त्वा ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैनद् अदस्तं करोति विष्णो हव्यं रक्षस्वेति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ते हव्यं तद् रक्षस्वेति न मृत्पात्रेणापिदध्यात् पितृदेवत्यं हविः स्याद् दारुपात्रेणापिदध्याद् अग्निमद् वै दारुपात्रम् अग्निर् एव हव्यं रक्षत्य् उदन्वत् कार्यम् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै

॥४.१.३॥

यो वै श्रद्धाम् अनालभ्य यजते नास्य देवमनुष्या इष्टाय श्रद्दधत्य् अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत आपो यज्ञो यज्ञं तत्वा प्रचरत्य् आपो देवानां प्रियं धाम देवानां प्रियं धाम प्रणीय प्रचरत्य् आपः सत्यं सत्यम् एवालभ्य यजत आपो रक्षोघ्नीर् रक्षसाम् अपहत्यय् आपो वज्रो वज्रं भ्रातृव्याय प्रहरति स्तृत्यय् आपः श्रद्धा श्रद् धास्य देवाः श्रन् मनुष्या इष्टाय दधते यस्यैवं विदुष एवं विद्वान् अपः प्राणयति देवीर् आपो ऽग्रेगुवा इति यज्ञम् एव प्रणयति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनद् देवताभिर् आदत्त उर्व् अन्तरिक्षम् इति समिष्ट्या एव प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै धूर् असि ध्वर ध्वरन्तम् इति धुर्यो वै नामैषो ऽग्निर् यद् अनालभ्यातीयाद् यजमानं शुचार्पयेद् द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव शुचार्पयति

॥४.१.४॥

देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् इति देवेभ्य एवैनद् वह्नितमं सस्नितमं पिप्रितमं जुष्टतमं देवहूतमं करोत्य् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् इति दृंहत्य् एवैनद् विष्णोः क्रमो ऽस्य् उरु वातायेति यद् वै किञ्च वातो नाभिवाति तद् वरुणस्यावरुण्यम् एवैनत् करोति मित्रस्य वश् चक्षुषा प्रेक्षा इति मित्रम् एवैनान् कुरुते ॥

ऊर्जं गृह्णीत ॥ इत्य् ऊर्जं यजमाने दधाति ॥

प्रभूत्यै वः ॥ इति प्रैवैनान् भावयति देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपामीति सवितृप्रसूत एवैनान् देवताभिर् निर्वपति यछन्तु पञ्चेति पञ्च वा ऋतव ऋतून् वा एतत् प्रीणाति ते ऽस्मै प्रीताः कल्पन्ते गोपीथाय वो नारातया इति रक्षसाम् अपहत्यय् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै निर्वपति तस्या एनान् जुष्टान् करोतीदं देवानाम् इदम् उ नः सहेति व्यावृत्त्यै दृंहन्तां दुर्या इति हविषो गृहीताद् इमे लोका उदवेपन्त तान् देवा एतेन यजुषादृंहन् यद् एतद् यजुर् वेदत्य् एषां लोकानां धृत्यै निर् वरुणस्य पाशाद् अमुक्षीति वरुणपाशाद् एव निर्मुच्यत आत्मनो ऽहिंसायै स्वर् अभिव्यक्शम् इति तम इव वा एष प्रपद्यते परीणहं स्वर् एवाभिविपश्यति ज्योतिर् वैश्वानरम् इत्य् असौ वा आदित्यो ज्योतिर् वैश्वानरम् ॥

उर्व् अन्तरिक्षम् अन्वेमि ॥ इति यद् वीहीति ब्रूयाद् व्यायुको ऽध्वर्युः स्यात् ॥

उर्व् अन्तरिक्षम् अन्वेमि ॥ इत्य् अव्यायुको ऽध्वर्युर् भवत्य् अदित्या व उपस्थे सादयामीतीयं वा अदितिर् अस्याम् एवैनान् असीषदत् ॥

अग्ने हव्यं रक्षस्व ॥ इति पुर उपसादयत्य् अग्निर् एव हव्यं रक्षते

॥४.१.५॥

विष्णोर् मनसा पूते स्थः ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैने पुनाति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै प्रोक्षति तस्या एनान् जुष्टान् करोति यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् इति शुन्धत्य् एवैनान्य् अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते पृथुग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोत्य् अग्नेर् जिह्वासि वाचो विसर्जनम् इत्य् अग्नेर् ह्य् एषा जिह्वा वाचो विसर्जनं यदा हि पशवा ओषधीनाम् अश्नन्त्य् अथ वाचं विसृजन्त आयुषे वा इत्य् आयुर् यजमाने दधाति बृहद्ग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोति देवेभ्यो हव्यं शमीष्वेति देवेभ्य एवैनत् करोति ॥

अपहतं रक्षः ॥ इति रक्षसाम् अपहत्यै ॥

हविष्कृद् एहि ॥ इति यो देवानां हविष्कृत् तं ह्वयति त्रिर् ह्वयति त्रिषत्या हि देवा मनोर् वै श्रद्धादेवस्य यजमानस्यासुरघ्नी वाग् यज्ञायुधानि प्रविष्टासीत् तस्या वदन्त्या यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवन्न् एवं विद्वान् ब्राह्मणो भ्रातृव्याणां मध्ये ऽवसाय यजेत यावन्त एवास्य भ्रातृव्या यज्ञायुधानाम् उपशृण्वन्ति तेषां तेज इन्द्रियं वीर्यं वृङ्क्ते कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेति सङ्घातंसङ्घातं वावैतेन यजमानो भ्रातृव्यं जयतीषम् आवदोर्जम् आवद रायस्पोषम् आवदेत्य् आशिषम् एवाशास्ते

॥४.१.६॥

वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्व् इति प्रतिष्ठित्यय् अस्ना वै देवाः पशुभ्यो रक्षांसि निरवादयन्त तुषैर् ओषधीभ्यो यद् आह परापूतं रक्षः परापूतारातिर् इत्य् एतावतैव यज्ञस्य रक्षांसि निरवदयते ॥

देवो वः सविता विविनक्तु ॥ इति सवितृप्रसूत एवैनान् विविनक्ति ॥

सुविचा विविच्यध्वम् ॥ इत्य् आशिषम् एवाशास्ते सुफलीकृतान् कुर्यान् मेध्यान् एनान् यज्ञियान् करोति त्रिः फलीकरोति त्रिषत्या हि देवा अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते ऽदित्याः स्कम्भो ऽसीति शम्याम् उपदधातीमे वै सहास्तां ते शम्यामात्रंशम्यामात्रं व्यैतां यञ् शम्याम् उपदधात्य् अनयोर् एव विधृत्यै धान्यम् असि धिनुहि देवान् इत्य् एतस्य वै यजुषो वीर्येण यावद् एका देवता कामयते यावद् एका तावद् अस्या आहुतिः प्रथते प्रथते प्रजया पशुभिर् य एवं वेद प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणम् अपानं व्यानं तान् यजमाने दधाति दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वा इत्य् आयुर् अस्मिन् दधाति मित्रस्य वश् चक्षुषावेक्षा इति मित्रम् एवैनान् कुरुते देवो वः सविता हिरण्यपाणिर् उपगृह्णात्व् इति सवितृप्रसूत एवैनान् उपगृह्णाति

॥४.१.७॥

निर्दग्धं रक्षा इति रक्षसाम् अपहत्यै यद् अधस्ताद् अङ्गारम् उपवर्तयत्य् अस्मिंस् तेन लोके ज्योतिर् धत्ते यद् उपरिष्टाद् अन्तरिक्षे तेनासा अस्मा आदित्यो ऽमुष्मिंल् लोके ज्योतिर् भवत्य् अथो दिवैवास्मा अमुष्मिंल् लोके भवति सर्वे ऽस्मा इमे लोका ज्योतिष्मन्तो भवति य एवं वेद त्रीणि समीचीनान्य् उपदधाति त्रयो वा इमे लोका एषां लोकानां धृत्यय् अपाग्ने ऽग्निम् आमादं जहीति य आमात् क्रव्यात् तम् अपहत्य देवयजने यज्ञिया उपदधाति ध्रुवम् असि पृथिवीं दृंहेति पृथिवीम् एव दृंहति धरुणम् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षम् एव दृंहति ध्रत्रम् असि दिवं दृंहेति दिवम् एव दृंहति धर्मासि विश्वा विश्वानि दृंहेति दिश एव दृंहति प्रजापतिर् वै यत् समभवत् स एतावञ्श एव समभवद् एकं वा अग्रे शीर्ष्णः कपालं सम्भवत्य् अथ द्वितीयम् अथ तृतीयम् अथ चतुर्थम् अथ पञ्चमम् अथ षष्ठम् अथ सप्तमम् अथाष्टमं यद् अष्टा उपदधात्य् आत्मानं वा एतद् यजमानः संस्कुरुते तं संस्कृतम् अमुष्मिंल् लोके ऽनुपरैति यद् अष्टा उपदधाति गायत्रीं तेन छन्द आप्नोति यद् एकादश त्रिष्टुभं तेन यद् द्वादश जगतीं तेनाथो सर्वाण्य् एव छन्दःसम्मितान्य् उपदधाति ॥

चितः स्थ परिचितः स्थ ॥ इति यजुष्मन्ति करोति वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् इति एतासाम् एनानि देवतानां तपसा तपति ॥

यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।

पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम् ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते

॥४.१.८॥

देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामीति सवितृप्रसूत एवैनां देवताभिः संवपति पवित्रवत् संवपति हविः करोति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अप उपसृजत्य् अमृतं वा आपो ऽमृतम् एव हविः करोति सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन सं रेवतीर् जगतीर् इत्य् अन्या वा एतासाम् अन्या जिन्वन्त्य् आपा ओषधीर् जिन्वन्त्य् ओषधीर् अपः शिवाः शिवाभिः समसृक्षतापा इत्य् आपो वै रेवतीर् ओषधयो मधुमतीः पशवो जगतीर् अप ओषधीः पशूंस् तान् अस्मै संसृज्यैकधा मधुमतः करोति ॥

मखस्य शिरो ऽसि ॥ इत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरः क्रीयते सीदन्तु विशो जनयत्यै त्वेति मिथुनम् एव करोति घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति प्रथयत्य् एवैनं ॥

प्रति प्रथस्व पृथिवीम् उत द्याम् ॥ इतीमे एव प्रथयति घर्मो वा एषो ऽर्धमासेऽर्धमासे प्रवृज्यते स ईश्वरो ऽशान्तस् तेजसा यजमानस्य पशून् निर्दहो यत् पर्यग्निं करोति पशुम् एव करोति शान्त्या अनिर्दाहाय त्रिः पर्यग्निं करोति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः शमयति पुरोडाशं वा अधिश्रितं रक्षांस्य् अजिघांसन् स नाको नाम दिवि रक्षोहाग्निः सो ऽस्माद् रक्षांस्य् अपाहन् यद् आह देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या इति रक्षसाम् अपहत्यै शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यथा शीर्ष्णः कपालान्य् एवं कपालानि यथा मस्तिष्क एवं पुरोडाशः सुशृतः कार्यो मेध्यत्वाय यत् पुरोडाशं नाभिवासयेद् आविर् मस्तिष्कः स्याद् यद् अभिवासयति तस्माद् गुहा मस्तिष्कस् त्वचं ग्राहयति तस्मान् मस्तिष्कः परिततो भस्मनाभ्य्·हति तस्मान् मांसेनास्थि छिन्नं ज्वालैर् अभिवासयति तस्मात् केशैः शिरश् छिन्नं यत् त्वचम् अग्राहयित्वा भस्मनाभिवासयेत् पलितम्भावुको ऽध्वर्युः स्याद् ज्वालैर् अभिवासयत्य् अपलितम्भावुको ऽध्वर्युर् भवति ते वै देवास् तं नाविन्दन् यस्मिन् यज्ञस्य क्रूरम् आर्क्ष्यामहा इति सो ऽग्निर् अब्रवीद् अहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरम् आर्क्षध्वा इति सो ऽपो ऽङ्गारेणाभ्यपातयत् तत एकतो ऽजायत द्वितीयं ततो द्वितस् तृतीयं ततस् त्रितो यद् अद्भ्यो ऽधिनिरमिमीत तद् आपेयानाम् आपेयत्वं यद् आत्मनो ऽधिनिरमिमीत तद् आत्मेयानाम् आत्मेयत्वम् अन्तर्वेदि जुहोति तद् एवावरुन्द्ध उपरिष्टाद् अभिघारयति शृतत्वाय शृतकामा हि देवास् ते देवा अतिमृजाना आयन् सूर्याभ्युदिते ते ऽमृजत यं सुप्तं सूर्यो ऽभ्युदेति सूर्याभ्युदितः सूर्याभिनिम्रुक्ते सूर्याभिनिम्रुक्तः श्यावदति श्यावदन् कुनखिनि कुनख्य् अग्रेदधुष्य् अग्रेदधुः परिवित्ते परिवित्तः परिविविदाने परिविविदानो वीरहणि वीरहा भ्रूणहनम् एनो नात्येति

॥४.१.९॥

पुरोडाशं : फ़्न् एमेन्देद्। एद्।: परोडाशम्।

भस्मनाभिवासयेत् : फ़्न् एमेन्देद्। एद्।: भस्मनाभिवासयेत्।

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनं देवताभिर् आदत्ते सहस्रभृष्टिः शततेजा इति वज्रं वा एतत् संश्यति भ्रातृव्याय प्रहरिष्यन् पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलम् इत्य् ओषधीनाम् अहिंसायै व्रजं गछ गोस्थानम् इति छन्दांसि वै व्रजो गोस्थानश् छन्दांस्य् एवास्मै व्रजं गोस्थानं करोति वर्षतु ते पर्जन्या इति पर्जन्याद् एव वृष्टिं वनुते बधान देव सवितः शतेन पाशैः परमस्यां परावतीति द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव बध्नाति परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचीत्य् आशिषम् एवाशास्ते द्रप्सस् ते दिवं मा स्कान् इति यो वा अस्या रसः स द्रप्सस् तम् इमं प्रजा उपजीवन्ति तम् अस्यां यछत्य् अस्कन्दाय ॥

अररुस् ते द्यां मा पप्तत् ॥ इत्य् अररुर् वै नामासुर आसीत् स पृथिवीम् उपम्रुच्याशयत् तम् इन्द्रो ऽचायत् तम् अपाररुं पृथिव्या अदेवयजनम् इत्य् अपाहन् स दिवम् अपिपतिषत् तम् ॥ अररुस् ते द्यां मा पप्तत् ॥ इति दिवः प्रत्यनुदत य एवं विद्वां स्तम्बयजुर् हरत्य् एभ्यो वा एतल् लोकेभ्यो यजमानो भ्रातृव्यं निर्भजति त्रिः कृत्वो हरति त्रयो वा इमे लोका एभ्य एव लोकेभ्यो भ्रातृव्यं निर्भजति तूष्णीं चतुर्थं हरति यो लोको निरुक्तो ऽपरिमितस् तस्माद् भ्रातृव्यं निर्भजत्य् असुराणां वा इयं पृथिव्य् आसीत् ते देवा अब्रुवन् दत्त नो ऽस्याः पृथिव्या इति ते वै स्वयम् एव ब्रूध्वम् इति ततो वै वसवः प्राचीं दिशम् उदजयन् रुद्रा दक्षिणाम् आदित्याः प्रतीचीं मरुता उदीचीं ततो वै देवा इमाम् असुराणाम् अविन्दन्त ततो देवा असुरान् एभ्यो लोकेभ्यो निरभजंस् ततो देवा अभवन् परासुरा यद् एवम् एताभिर् देवताभिर् वेदिं परिगृह्णातीमां वा एतद् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽस्या भ्रातृव्यं निर्भजति भवत्य् आत्मना परास्य भ्रातृव्यो भवति पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत् प्राचीनम् उदीचीनं मेध्यम् उदक्रामद् दक्षिणा प्रतीचीनम् अमेध्यं प्राचीम् उदीचीं वेदिं प्रवणां कुर्यान् मेध्यान् एनान् यज्ञियान् करोत्य् अथो यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो मेध्यस्य चैवामेध्यस्य च व्यावृत्त्यै प्राञ्चौ बाहू नयत्य् आहवनीयं तेन परिगृह्णाति प्रतीची श्रोणी गार्हपत्यं परिगृह्णाति मूलं वै रक्षांस्य् अनूत्पिबन्ति यन् नखेन छिन्द्यात् कुनखी स्यात् स्फ्येन छिनत्ति वज्रो वै स्फ्यो वज्रेणैव रक्षांसि हन्ति

॥४.१.१०॥

यो वै स्रुचां योगम् अविद्वान् अध्वर्या इति हूतः प्रतिशृणोत्य् आ देवताभ्यो वृश्चते ऽपशुर् भवत्य् अथ यः स्रुचां योगं विद्वान् अध्वर्या इति हूतः प्रतिशृणोति न देवताभ्या आवृश्चते पशुमान् भवति द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवा दिश आज्यधान्य् असा आदित्यः स्रुवः स यत् ॥ ॐ श्रावय ॥ इत्य् आह जुह्वं तेन युनक्ति ॥

अस्तु श्रौषट् ॥ इत्य् उपभृतम् ॥

यज ॥ इति ध्रुवाम् ॥

ये यजामहे ॥ इत्य् आज्यधानीं वषट्कारेण स्रुवं जुह्वा अधि ध्रुवाम् अभिघारयति ध्रुवाया अधि जुह्वम् असौ ह्य् अस्यै प्रयच्छतीयम् अमुष्यै सन्ततम् अस्मा अन्नाद्यम् अव्यवछिन्नं प्रदीयते ऽस्मिंस् च लोके ऽमुष्मिंश् च पूर्वास्य जनतामायतः कीर्तिर् आगछति य एवं वेद

॥४.१.११॥

घृतं च वै मधु च प्रजापतिर् आसीद् यतो मध्व् आसीत् ततः प्रजा असृजत तस्मान् मधोः प्रजाननम् अस्ति तस्मान् मधुना न प्रचरन्ति यातयामं हि तद् आज्येन प्रचरन्त्य् अयातयामं वा एतत् प्राजापत्यं घृतम् अयातयामा देवानां प्रजापतिर् गार्हपत्ये ऽधिश्रयति पत्न्य् अवेक्षते ऽन्वारम्भो वा एष यज्ञस्य पत्न्या यज्ञम् एनाम् अन्वारम्भयत्य् अथो यत् पत्नी यज्ञे करोति मिथुनं वा एतत् क्रियते प्रजात्यय् अमेध्यं वा एतद् अयज्ञियं यत् पत्न्य् अवेक्षत आहवनीये ऽधिश्रयति पुनात्य् एवैनान् मेध्यम् एनद् यज्ञियं करोति स्फ्यस्य वर्त्म सादयति रक्षसाम् अपहत्यै देवस् त्वा सवितोत्पुनात्व् इति सवितृप्रसूत एवैनद् उत्पुनाति हविर् असि वैश्वानरम् इति द्वादशैता व्याहृतयो द्वादश मासाः संवत्सरः संवत्सरेण वा एतत् तेज इन्द्रियं वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्त उभयतो वैश्वानरं भवत्य् उभयतो वैश्वानरं ह्य् एतन् निष्टेजा अस्य निर्वीर्यो भ्रातृव्यो जायते ऽथो मृध्रतर एव भवति देवाश् च वा असुराश् च संयत्ता आसन् स इन्द्र एतम् अवकाशम् अपश्यत् तेनासुरान् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं विद्वान् यजत आज्येनान्यानि हवींष्य् अभिघारयन्ति केनाज्यम् इति ब्रह्मवादिनो वदन्ति सत्येन वा आज्यम् अभिघृतं यद् आह सत्येन त्वाभिघारयामीति चक्षुर् वै सत्यं चक्षुर् यजमानः प्रदधाति सम्मील्यैतद् यजुर् वदति न चक्षुः प्रदधात्य् आज्यं वै यज्ञो यज्ञस् विष्णुः ॥

इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।

समूढम् अस्य पांसुरे ॥ इति यद् ओदनपचने ऽधिश्रित्याथ गार्हपत्ये ऽथाहवनीये ऽधिश्रयत्य् एतद् वाव तत् त्रिर् विष्णुर् विक्रमते प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै स्रुचः सम्मार्ष्टि पुनात्य् एवैना मेध्या एना यज्ञियाः करोति ॥

अनिशिताः सपत्नक्षयणीः । इत्य् अनिशिता ह्य् एताः सपत्नक्षयणीः स्रुवं सम्मार्ष्टि पुमांसं वा आसां तद् अग्रे संश्यत्य् अथ जुह्वम् अथोपभृतम् अथ ध्रुवाम् असा आदित्यः स्रुवो द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवेमान् वा एतल् लोकान् यथापूर्वं सम्मार्ष्ट्य् एभ्यो लोकेभ्य आत्मानं परिदत्ते ऽहिंसायै जुह्वम् अग्रे सम्मार्ष्ट्य् आत्मा वै जुहूर् आत्मानम् एवोपैत्य् अथोपभृतं प्रजा वा उपभृत् प्रजाम् एवोपैति परेव ह्य् आत्मनः प्रजाथ ध्रुवां पशवो वै ध्रुवा पशून् एवोपैति पर इव हि प्रजायाः पशवो यद् उत्तानाः सम्मृज्याद् अप्रतिष्ठायुकं रेतः स्याद् यन् नीचीर् अप्रतिष्ठायुकं रेतः स्यात् तिरश्चीः सम्मार्ष्टि तिर्यग् वै रेतः सिच्यते प्रतिष्ठायुकं रेतो भवति यद् अग्रेण मुखं दण्डं च सम्मृज्याद् रक्षोभ्यश् चाभुवेभ्यश् च समदं दध्याद् अग्रेण मुखं सम्मार्ष्टि जघनेन दण्डं न रक्षोभ्यश् चाभुवेभ्यश् च समदं दधात्य् अन्तरतो जुह्वं प्राचीं सम्मार्ष्टि बहिष्टात् प्रतीचीं बहिष्टाद् उपभृतं प्राचीम् अन्तरतः प्रतीचीं सर्वतः समाहार्य ध्रुवां प्राणान् एवास्य यथापूर्वं कल्पयति यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्योपभृच् चतुर् गृह्णञ् जुह्वां भूया आज्यं गृह्णात्य् अष्टौ गृह्णन्न् उपभृति कनीय उपस्तिं भ्रातृव्यम् अकृत

॥४.१.१२॥

आत्मानं : फ़्न् एमेन्देद्। एद्।: आत्मान।

समाहार्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

बह्वीर् आसादयेद् यावतीर् वै प्रोक्षणीर् आसादयति तावतीर् अस्यामुष्मिंल् लोक आपस् तस्माद् बह्वीर् आसाद्या अग्नेर् मेध्यो ऽपाक्रामत् स कृष्णो भूत्वा वनस्पतीन् प्राविशद् यद् आह कृष्णो ऽस्य् आखरेष्ठा अग्नये घृतं भवेति तम् एव मेधम् अवरुन्द्धे वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामीति प्रजा वै बर्हिः पृथिवी वेदिर् अस्यां वा एतत् प्रजा स्वगाकरोति यद् उपरिष्टात् प्रोक्ष्याधस्तात् प्रोक्षति तस्माद् उपरिष्टाद् वृष्टाद् अधस्ताद् ओषधयो जायन्ते ।

ऊर्जा पृथिवीं यछत । इत्य् अस्याम् ऊर्जम् अधात् तस्माद् इमां प्रजा उपजीवन्ति विष्णोः स्तुपो ऽसीति मुखतः प्रस्तरं गृह्णाति मुख्यम् एनं तेन शीर्षण्यं करोति यावद् धस्तेन पर्याप्नुयात् तावन्तं गृह्णीयाद् अक्षोधुको यजमानो भवति नोर्ध्वम् उन्मृज्याद् यद् अस्य वित्तं वेद्यं तत् प्रमृज्यान् नावाचीनम् अवमृज्याद् यद् एनम् आगमिष्यत् तत् प्रतिनुदेत न विधूनुयात् प्रजां पशून् विधूनुयाद् यद् उपतिष्ठेत् तद् उपसङ्गृह्णीयाद् यथाशितायोपचिनोत्य् एवम् एव तद् दक्षिणतः शुल्बं स्तृणाति तस्माद् दक्षिणतो नीवीर् उरु प्रथस्वोर्णम्रदम् इति प्रथयत्य् एवैनत् स्वासस्थं देवेभ्या इति देवेभ्य एवैनत् करोति प्रस्तरं धारयन् परिधीन् परिदधाति स्वयं वा एतद् यजमान आत्मानं परिधत्ते ऽहिंसायै न पुरस्तात् परिदधात्य् उद्यन् वा असा आदित्यो रक्षांस्य् अपाहतोद्यन्न् एवास्मा असा आदित्यो रक्षांस्य् अपहन्त्य् ऊर्ध्वे समिधा आदधात्य् उपरिष्टाद् अस्मात् तेन रक्षांस्य् अपहन्ति द्वे आदधाति मिथुनत्वाय विधृती स्था इति विधृती एवैने करोति ॥

अदित्यास् त्वोपस्थे सादयामि ॥ इतीयं वा अदितिर् अस्याम् एवैनम् असीषदद् वसूनां रुद्राणाम् आदित्यानां सदो ऽसीत्य् एता वा एताम् अग्रे देवताम् अभ्यजयंस् ताभ्य एवैनत् सदः करोति द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदेत्य् एतद् वा आसां प्रियं नाम यद् घृतवत् तद् एवावरुन्द्धे ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् इति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ता आज्यं तद् रक्षस्वेति वेदिर् देवेभ्यो ऽपाक्रामत् तां देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं स्त्री वेदिः पुमान् वेदो यद् वेदेन वेदिं सम्मार्ष्टि मिथुनत्वाय सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते वनस्पतीनां वा एष परिवेष्टा यद् उपवेष ऋद्धा अस्य वेशा भवन्ति य एवं वेद पुरस्तात् प्रत्यञ्चम् उपहन्ति तस्मात् प्रतीचीनावसिता वेशाः स्थविमत उपहन्त्य् अनतिवादिन एनं वेशा भवन्ति सर्वस्मै वै यज्ञे क्रीयते सर्पो वा उपवेषो वल्मीक उत्करो यद् उपवेषम् उत्कर उपहन्ति तस्मात् सर्पाणां वल्मीको गृहाः

॥४.१.१३॥

यथाहैष : फ़्न् एमेन्देद्। एद्।: यथाहैष।

भुवनम् असि ॥ इति भूतिम् आशास्ते ॥

विप्रथस्व ॥ इति प्रथयत्य् एवैनद् इत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्येत्य् अतो हीन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥

जुह्व् एह्य् अग्निष् ट्वा ह्वयति देवान् यक्ष्यावो देवयज्यायय् उपभृद् एहि देवस् त्वा सविता ह्वयति देवान् यक्ष्यावो देवयज्यायै ॥ इति न वा एते अविदुषा स्वादाने इव वरुणपाशान् ह्य् आक्रामत्य् एताभिर् एने देवताभिर् आदत्ते वरुणपाशानाम् अनाक्रमाय विष्णोः क्रमो ऽसीत्य् अतिक्रामति यज्ञस्यानवक्रामायोर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेर् इत्य् ऋजुम् ऊर्ध्वम् आघारम् आघारयति यज्ञस्याहूर्छायेन्द्रवान्त् स्ववान् इति सेन्द्रं यज्ञम् अकृताथो इन्द्रियं तेनावरुन्द्धे ॥

वसुमतस् ते छायाम् उपस्थेषम् ॥ इत्य् अग्निर् वै वसुमान् अग्नेर् एव छायाम् उपतिष्ठत ऋजुम् ऊर्ध्वम् आघारम् आघारयेत् प्राणो वा आघारः सर्वम् आयुर् यजमान एति यं द्विष्यात् तस्याघार्य कृधु छिन्द्यात् प्राणम् अस्य छिनत्ति ताजक् प्रमीयते शिरो वा एतद् यज्ञस्य यद् आघार आत्माज्यं यद् आघारम् आघार्योपभृता समञ्ज्याञ् शिरो यज्ञस्य प्रछिन्द्याद् आज्यधान्या समनक्ति ॥ समक्तम् अग्निना हविः समक्तं हविषा घृतम् ॥ इत्य् आत्मन् यज्ञस्य शिरः प्रत्यधाद् अथो मन एव यज्ञे प्रतिदधाति स्तनं स्तनिनीः प्रजा उपजीवन्ति किम् अस्तना इति ब्रह्मवादिनो वदन्त्य् अप्तुभी रिहाणा व्यन्तु वया इत्य् एतद् वाव ता उपजीवन्ति वशा पृश्निर् भूत्वा मरुतो गछेति मरुतो वै वृष्ट्या ईशते ते ऽस्मै वृष्टिं निनयन्ति ततो नो वृष्ट्यावतेति मरुद्भ्य एव वृष्टिं वनुते चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेत्य् आशिषम् एवाशास्ते ॥

यं परिधिं पर्यधत्था अग्ने देव पणिभिर् वीयमानः ।

तं त एतम् अनु जोषं भरामि नेद् एष युष्मद् अपचेतयातै ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते संस्रावभागाः स्थेषा बृहन्ता इति परिधीन् प्रहृत्याभिजुहोत्य् अग्नयो वा एते तान् प्रीणाति ताञ् शमयति भागधेयेन ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यतो यज्ञं प्रयुङ्क्ते तत् प्रतिष्ठापयतीति देवा गातुविदो गातुं वित्त्वा गतुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहेत्य् अतो वा अध्वर्युर् यज्ञं प्रयुङ्क्ते तद् एवैनं प्रतिष्ठापयति

॥४.१.१४॥
प्रपाठक 2

चतुर्थकाण्डे द्वितीयः प्रपाठकः

चतुर्थकाण्डे द्वितीयः प्रपाठकः

काम्यायै स्वाहा श्रव्यायै स्वाहेलान्दायै स्वाहा ॥ इति गोष्ठो वै नामैष लक्ष्मीः स्वे वा एतद् गोष्ठे यजमानो भ्रातृव्यस्य पशून् वृङ्क्त एतैर् वै ते ता अवृञ्जत तैर् एवैना वृङ्क्ते संशृङ्गी भवति पशूनां परिगृहीत्यै यो वै चक्षुषो विभक्तिं वेद चक्षुष्मान् ह भवति नैनं चक्षुर् जहाति यद् दिवा पश्यामस् तद् देवानां चक्षुषा पश्यामो ऽसौ वा आदित्यो देवानां चक्षुः पश्यन् ह वै देवत्रा करोति प्र देवयानं पन्थां जानाति य एवं वेद यज् ज्योत्स्नायां पश्यामस् तत् पित्πणां चक्षुषा पश्यामश् चन्द्रमा वै पित्πणां चक्षुर् न ह वा एनम् अमुष्मिंल् लोके चक्षुर् जहाति प्र पितृयाणं पन्थां जानाति य एवं वेद यत् तमिस्नायां पश्यामस् तन् मनुष्याणां चक्षुषा पश्याम एतावद् वाव नः स्वं चक्षुर् न ह वा एनम् अस्मिंल् लोके चक्षुर् जहाति सर्वम् आयुर् एति य एवं वेद यद् अग्नेर् अन्ते पश्यामस् तद् असुराणां चक्षुषा पश्याम उच् च वा एष दीप्यते निस्वरिष्यति दीप्यमानं भ्रातृव्यस्य गृहाद् धरेद् रयिम् एवास्य पुष्टिं हरत्य् आ तु सूर्यस्योदेतोर् जागृयाद् यत् स्वप्नाद् आर्तिम् आर्छेत् तज् जागरितव्यं रयिम् एव पुष्टिम् अनुजागर्ति

॥४.२.१॥

निस्वरिष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: नि च रिष्यति।

स्वप्नाद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यो वा इडां धेनुं वेद सर्वा ह वा अस्मै दिशो धेनवो भवन्ति सर्वे प्रतिजना दनकामास् ताम् इष्वाशनीर् आमित्रशोचनिर् विदाञ्चकार तस्मै सर्वा दिशो धेनवो ऽभवन्त् सर्वे प्रतिजना दानकामास् तस्मात् स सर्वैः प्रतिजनैर् व्यवहतोपजनन्त् सन्त् सर्वा ह्य् अस्मै दिशो धेनवो ऽभवन्त् सर्वे प्रतिजना दानकामास् तद् य एवं वेद सर्वा एवास्मै दिशो धेनवो भवन्ति सर्वे प्रतिजना दानकामास् तस्या वा इयम् एव पादो ऽन्तरिक्षं पादो द्यौः पादः समा पादो ऽथो आहुः कृषिः पादा इति तेन प्रति त्वदानीं तिष्ठति न त्वदानीं यदा सुसस्यं भवत्य् अथ प्रतितिष्ठति यदा न सस्यं भवत्य् अथ न प्रतितिष्ठति भवति ह वा अस्य सस्यं नस्य सस्यं व्यृध्यते य एवं वेद तस्या वा अद एव पृष्ठम् अन्तरिक्षम् आत्मेयम् उरो दिशः पार्श्वे समुद्रौ कुक्षी असा आदित्यः शिरो ऽग्निर् आस्यं वातः प्राणो गायत्र्य् अभिधानी सर्वम् आयुर् एति य एवं वेदोधर् उत्तरवेदिः पवमानो वत्स एष वा एनां प्रस्तौति प्रत्तान् ह वा इमांल् लोकान् दुहे य एवं वेद बृहद्रथन्तरे द्वौ स्तनौ वामदेव्यं च यज्ञायज्ञियं च द्वव् ओषधीर् एव देवेभ्यो रथन्तरेणादुह पशून् बृहतापो वामदेव्येन यज्ञं यज्ञायज्ञियेन तद् य एवं वेदौषधीर् एवास्मै रथन्तरेण दुहे पशून् बृहतापो वामदेव्येन यज्ञं यज्ञायज्ञियेनेडा वा इदं सर्वं स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति य एवं वेद

॥४.२.२॥

यत्र प्राचीनप्रवणं समूलं भूम्या स्यात् तद् उपोदये सूर्यस्य हस्ता अवनिज्य दर्भस्तम्ब उदशरावं निनयेत् कामङ्कामं मा आवर्तय ॥ इति कामेनैवास्मै कामम् आवर्तयति यत्कामो भवति यो वै कामं साक्षाद् वेद ताजग् घ वा एनं स कामा आगछति यत्कामो भवति पशुषु वा अस्माकं कामः पशूनाम् ओषधीष्व् ओषधीनाम् अप्स्व् ओषधीर् एव कामेन समस्राट् ता अस्मै कामं समर्धयन्ति यत्कामो भवत्य् आप एवास्या वा एष वव्रिर् उत्सृष्टश् चरति लोमशो लोमशायास् तस्माद् एषा शाश्वसत्य् एत्य् अग्निर् ह्य् अस्या आस्यं वातः प्राणो यत्र गोभिः सङ्गछेत तद् ब्रूयात् ॥

एषा : फ़्न् एद्।: एर्षा।

प्रशस्ताः स्थ कल्याण्यः ॥ इतीयं वा एषेमां वा एतत् सभागयत्य् अत्रासुका अस्मात् पशवो भवन्ति य एवं वेद देवाश् च वा असुराश् चास्पर्धन्तादितिर् देवेष्व् आसीत् कुस्तासुरेषु ते देवा अमन्यन्त यद्य् अभिजेष्यामः कुस्तायाः शिरा आहनिष्यामा इति यद्य् अभिजेष्यामा इत्य् असुरा अमन्यन्तादित्याः शिरा आहनिष्यामा इति तां देवा अभिजित्याघ्नत यस्य वै जितं यस्य विजितं तस्यैषा गृहे हन्यत एषा वै क्षुत् क्षुधं वा एतद् धते तद् य एवं विद्वान् एकाष्टकायां गां हते संवत्सरायैव क्षुधं हते प्रजापतिर् वा एक आसीत् सो ऽकामयत बहुम् अनु स्यां प्रजायेयेति स आत्मानम् ऐट्ट स मनो ऽसृजत तन् मन एकधासीत् तद् आत्मानम् ऐट्ट तद् वाचम् असृजत सा वाग् एकधासीत् सात्मानम् ऐट्ट सा विराजम् असृजत सा विराड् एकधासीत् सात्मानम् ऐट्ट सा गाम् असृजत सा गौर् एकधासीत् सात्मानम् ऐट्ट सेडाम् असृजत सेडैकधासीत् सात्मानम् ऐट्ट सेमान् भोगान् असृजत यैर् अस्या इदं मनुष्या भुञ्जत एते वा अस्या भोगाः सर्वैर् एकास्या भोगैः सर्वैः कामैर् भुङ्क्ते य एवं वेद गौर् वै वाग् गौर् विराड् गौर् इडा गौः खल्व् एव गौर् गौर् इदं सर्वं सर्वा ह वा एनम् एताः श्रयन्ते य एवं वेद यद् वै तद् आत्मानम् ऐट्ट सेडाभवत् तद् इडाया इदात्वं स यस् तद् इडाया इडात्वं वेदेट्टे ह वै स्वम् आत्मानं भूत्यै

॥४.२.३॥

या रोहिणी ताम् अरुणा तां गौरी तां बभ्रूः ॥

तद् इन्द्रा उदाजत वसुर् नाम रूपं पशूनाम् ॥

विन्दते वसु न वसु रुणद्धि य एवं वेद या शितिपृष्ठा तां मन्दिस् तां मेनी तां शबली तां शितिबाहुस् तां शुद्धवाला ॥

तद् बृहस्पतिर् उदाजतेडा नाम रूपं पशूनाम् ॥

बह्वीर् ह वा एनम् इडाः श्रयन्ते य एवं वेद या पृषती तां पिशङ्गी तां सारङ्गी तां कल्माषी तां पृश्निस् तां श्वेता ॥

तन् मरुता उदाजन्त ज्योतिर् नाम रूपं पशूनाम् ॥

ज्योतिष्मान् भवति य एवं वेद या सुरूपा तां श्याता तां श्येनी तां कृष्णा ॥

तत् प्रजापतिर् उदाजतायुर् नाम रूपं पशूनाम् ॥

आयुष्मान् भवति य एवं वेद चतस्रः प्रथमाश् चतस्र उत्तमा द्विः षण् मध्यतस् ता द्विर् दश दशाक्षरा विराड् वैराजाः पशवः पशून् एवावरुन्द्धे ॥

वस्व्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् बहिःपवमानस्य वदेत् ॥

इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् आज्यानां वदेत् ॥

ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्तान् माध्यन्दिनस्य पवमानस्य वदेत् ॥

आयुषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् आर्भवस्य पवमानस्य वदेत् ॥

यज्ञो वै पशूनाम् आयतनं स्वे वा एतद् आयतने यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते ऽनपक्रामुका अस्मात् पशवो भवन्ति

॥४.२.४॥

वसीयस्य् एहि श्रेयस्य् एहि भूयस्य् एहि चित्ता एहि दधृष्य् एहीडा एहि सूनृता एहि चिद् असि मनासि धीर् असि वस्वी रन्तिः सुमनाः ॥

सूनरि विश्वा त्वा भूतानुप्राणन्तु विश्वा त्वं भूतानुप्राण भूयस्य् आयुर् असीष्टिर् असि सरूपवर्षा एहि ॥

एमाम् अनु सर्पतेमौ भद्रौ धुर्या अभि ।

नीव शीर्षाणि मृढ्वम् ॥

सा नः सुप्रतूर्तिः प्रिया नः सुहार् णः प्रियवनिर् मघवनिर् अन्ता एहि जुष्टा एहीदा एह्य् अदिता एह्य् उपहूत उपहवं ते ऽशीय सुहवा ना एहि सह रायस्पोषेण देवीर्देवीर् अभि मा निवर्तध्वम् ॥

स्योना स्योनेन घृतेन मा समुक्षत ॥

नमे तद् उपदम्भिषर् धृषिर् ब्रह्मा यद् ददौ ।

समुद्राद् उदजनि वः स्रुचा ॥

वार् अग्रे विप्रस्य तिष्ठति शृङ्गेभिर् दशभिर् दिशम्

॥४.२.५॥

वसीयस्य् एहीति ब्रह्म वै वसीयो ब्रह्म वा एतद् अत्याह्वयति श्रेयस्य् एहीति क्षत्रं वै श्रेयः क्षत्रं वा एतद् अत्याह्वयति भूयस्य् एहीति विड् वै भूयसी विशं वा एतद् अत्याह्वयति चित्ता एहीति मनो वै चित्तं मनो वा एतद् अत्याह्वयति दधृष्य् एहीति वाग् वै दधृषि वाचं वा एतद् अत्याह्वयतीडा एहीति पशवो वा इडा पशून् वा एतद् अत्याह्वयति सूनृता एहीत्य् अन्नं वै सूनृतान्नं वा एतद् अत्याह्वयत्य् एता वै सप्त देवगव्यस् ताः क्रीतो वैतहोत्रो विदाञ्चकार ताभिर् अदः कुरूणां कौन्ते पशून् अत्याह्वयत् ताः कुरवो ब्राह्मणेष्व् अन्वैछंस् ताः कुमारवत्याश्वदक्षिणा अविन्दन् सो ऽब्रवीन् मा सूर्क्ष्यतैताभिर् वा अहम् एता अत्याह्वयिष्यामीतराभिर् इतरा यानि खलु वा एतासां प्रियाणि धामानि तानि क्रीतो न वेदेति स संयत्ते सङ्ग्रामे छदिर्दर्श एताभिर् एवैता अत्याह्वयिष्यामीतराभिर् इतरा यतरत्र खलु वा एता अत्याहूयन्ते तत् पशवो ऽभिसङ्क्रामन्ति यत्र पशवस् तद् देवा यत्र देवास् तद् इन्द्रो यतरान् वा एते ऽभिसङ्क्रामन्ति ते जयन्ति जयति सङ्ग्रामम्

॥४.२.६॥

सा वै सृष्टोभयान् देवमनुष्यान् अत्यमन्यत तां देवा दर्शपूर्णमासाभ्याम् उपप्रास्तृणत तां वा एतद् आप्नुवन् यद् इडां तां वा एतद् आप्त्वा हरन्तो मन्यन्ते यद् इडाम् उपह्वयन्ते यर्हि तूष्णीम् उपह्वयेत तर्ह्य् एताः सप्त वदेद् यर्ह्य् उच्चैस् तर्ह्य् उत्तराः सप्त धामधाम् आसां वर्णंवर्णम् उपगछत्य् आ ह वा एनम् अप्रतिक्शातं गछति य एवं वेद यत्र समूला ओषधीर् उपगछेत् पशून् वा तद् एता एव सप्त वदेद् धामधाम् आसां वर्णंवर्णम् उपगछत्य् आ ह वा एनम् अप्रतिक्शातं गछति य एवं वेद सप्त स्थावीर्येण याजयेद् यस्य सप्त स्थविराश् चरमा अन्तमा स्युर् वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्मा अत्याह्वयति यो वैश्यः शूद्रो वा बहुपुष्टः स्यात् तस्य गवां साण्डं वत्सतरम् अपगमयेत ॥

समूला : फ़्न् एमेन्देद्। एद्।: स मूला

स्थावीर्येण : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

चरमा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अपगमयेत : फ़्न् एमेन्देद्। एद्।: अपमयेत। च्फ़्। मान्श्स्।९।५।५।२१।

इलान्दाः स्थ ॥ इति इलान्दा हि पशवः पूष्णो नक्षत्रं पोषयिष्णु ॥ इति विश्येषु वा एतच् चरति पूष्णो नक्षत्रं पोषयिष्णु तद् एवापधापयते तम् अपाकुर्वीत ॥

आयुर् मे दा वर्चो मे दा रयिं मे दाः पुष्टिं मे दाः ॥ इति रयिम् एवास्य पुष्टिं हरति तम् इतो ऽभिसृज्याथेतो ऽत्याह्वयेद् वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्या अत्याह्वयति नास्य किञ्चनोदशिषद् ग्रामकामं याजयेत् सारस्वत ऋग्भ्यां संवत्सरो वै सरस्वान् संवत्सरेणैवास्मै ग्रामं च्यावयति वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्या अत्याह्वयति पशुकामं याजयेत् सारस्वत ऋग्भ्यां संवत्सरो वै सरस्वान् संवत्सरेणैवास्मै पशूंश् च्यावयति वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्मा अत्याह्वयति सर्वासां दुग्धे चतुःशरावम् ओदनं पचेद् ब्राह्मणेभ्यः पशुकामो यच् चतुःशरावो दिग्भ्य एवास्मै तेन पशून् अवरुन्द्धे यद् ब्राह्मणेभ्यो ब्रह्मणस् तेन न छिन्नं देयं पशुकाम इव ह्य् एष वासो हिरण्यं वा देयम् ईजानस्यास्य पशवो भूयांसो भवन्ति

॥४.२.७॥

प्रजापतिर् वै न व्याहरत् स आत्मन्य् एव पुण्यम् आयछद् आत्मनः पुण्यं न निरवदद् एतद् वै तद् यजुर् वदन् नान्यथा ब्रूयात् ॥

पुण्यं प्रशस्तम् ॥ इति ब्रूयाद् आत्मन्य् एव पुण्यं यछत्य् आत्मनः पुण्यं न निर्वदति याम् अदानीयाय ददाति ताम् अस्य पशवो ऽन्वपक्रामन्ति यदि मन्येतादानीयायादाम् इत्य् एतद् एव यजुर् वदेन् नमे तद् उपदम्भिषर् धृषिर् ब्रह्मा यद् ददा इति तद् एवैतेनापूरयति तद् आप्याययति समुद्र इव ह वा अस्य व्यच्य मानो न क्षीयते य एवं वेद ॥

मानो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

वीरवतीर् भूयास्त या नो वीरवतो ऽकर्त ॥ इति पुमांसं जातम् अभिमन्त्रयेत ॥

भूयसीर् भूयास्त या नो भूयसो ऽकर्त ॥ इति स्त्रियं जाताम् ॥

अन्नादा भूयास्त ये नो ऽन्नादान् अकर्त ॥ इति बलिहृतो ऽभिमन्त्रयेत ॥

भूयांसो भूयास्त ये नो भूयसो ऽकर्त ॥ इति सभासदः पादौ प्रत्यवहरेद् एते वै पशव उपोप ह वा एनं पशवो यन्ति नापयन्ति य एवं वेद ॥

पुण्या पुण्यम् असूच् चित्रा चित्रम् असूद् ऐडो मे भगवो ऽजनिष्ठा मैत्रावरुण ऊर्जा मे भगवः सह जनिष्ठाः संविदं मे विन्द ॥ इति पुमांसं जातम् अभिमन्त्रयेतोर्जैवास्मै सह जायते गछति पशूनां संविदम् ॥

ऐडो : फ़्न् एमेन्देद्। एद्।: दैडो

पुण्या पुण्याम् असूच् चित्रा चित्राम् असूद् ऐडी मे भगवत्य् अजनिष्ठा मैत्रावरुणी रायस्पोषेण मे भगवती सह जनिष्ठा ज्ञात्रं मे विन्द ॥ इति स्त्रियं जातां रायस्पोषेणैवास्मै सह जायते गछति पशूनां ज्ञात्रं ये प्राचीनम् एकाष्टकाया जायन्ते पूर्वस्य ते सस्यस्योत्तमा ये प्रतीचीनम् अपरस्य ते सस्यस्य प्रथमास् तान् उभयान्त् सहाभिमन्त्रयेतोभयान् एनान्त् सहावरुन्द्धे

॥४.२.८॥

ऐडी : फ़्न् एमेन्देद्। एद्।: दैडी

यो वै शक्तिं वेद स तञ् शक्नोति यञ् शिक्षतीयं वै शक्तिर् यो वा अस्या भूयिष्ठभाग् भवति स तञ् शक्नोति यञ् शिक्षति भूयिष्ठभाग् घ वा अस्या भवति य एवं वेद पशवो वै शक्तिर् यो वै पशूनां भूयिष्ठभाग् भवति स तञ् शक्नोति यञ् शिक्षति भूयिष्ठभाग् घ वै पशुमान् भवति य एवं वेद तस्या व्रतं न हतेति ब्रूयात् ॥

कुरुत इति ब्रूयान् नान्तर्वत्नीति ब्रूयाद् विजन्या इति ब्रूयाद् भुवनम् असि सहस्रम् इन्द्राय त्वा सृमो ऽददात् ॥ इति सृमो वै नामासुर आसीत् तस्येयं पृथिवी पशुभिः पूर्णासीत् तान् इन्द्रो ऽवृङ्क्त तस्माद् आहुर् ऐन्द्राः पशवा इति यावतीनाम् इदं करोमि भूयसीनाम् उत्तरां समां क्रियासम् ॥ इति गवां लक्ष्म कुर्याद् भूयसीनाम् एवोत्तरां समां करोति पशवो वै सृष्टा एकैकं नक्षत्रम् उपातिष्ठन्त तेन प्राजायन्त न भूमानम् अगछंस् तस्माद् यत् किञ्च पशूनां कुर्वीत तद् रेवत्यां कुर्वीतोप ह्य् एनं पशवस् तिष्ठन्ति प्रास्य पशवो भवन्ति य एवं वेद यस्य दक्षिणतः प्रतिभिन्नं दक्षिणत उपाश्चरत् तत् त्वष्टुर् लक्ष्म देवलक्ष्मं यज्ञियं यज्ञकामः कुर्वीतोप ह्य् एनं यज्ञो नमति यस्योभयतः प्रतिभिन्नम् उभयत उपाश्चरत् तद् गायत्रं लक्ष्म पशव्यं पशुकामः कुर्वीत पशुमान् भवति यस्योभयतः प्रतिभिन्नम् उभयत उपाश्चरत् तत् त्रैष्टुभं लक्ष्म पूतस्य रूपं प्रतिष्ठाकामः कुर्वीत गछति प्रतिष्ठां वसिष्ठस्य स्थूणाकर्ण्यो वसिष्ठो वै रयिम् अपश्यत् ताम् आत्मन्न् अधत्त यत् स्थूणाकर्णीः कुरुते पशुष्व् एव रयिं धत्ते जमदग्नेः कर्करिकर्ण्यो जमदग्निर् वै पुष्टिम् अपश्यत् ताम् आत्मन्न् अधत्त यत् कर्करिकर्णीः कुरुते पशुष्व् एव पुष्टिं धत्ते ऽसुराणां सास्नाकृत्यः क्षिप्रं बह्वीर् भवन्ति क्षिप्रं पराभवन्त्य् अमेध्याः कर्णाः क्षिप्रं बह्वीर् भवन्ति यज्ञस् त्व् एनान् अनूपनमतीव निरृत्याः छिद्रकर्ण्यो यच् छिद्रकर्णीः कुर्वीत निरृतिर् अस्य पशोर् निगृह्णीयान् न प्रछिन्द्या कर्ण्यः कार्या न दात्राकर्ण्यः पराचीनम् इव हि तन् निवृत्तम् अगस्त्यस्य विष्ट्यकर्ण्यः कश्यपस्य कम्बुन्युद्धता इन्द्रस्याक्लस्ता अथो आहुः प्रजापतेर् इत्य् उभयं ज्येष्ठलक्ष्मं ज्यैष्ठ्यकामः कुर्वीत प्र समानानां ज्यैष्ठ्यम् आप्नोति प्रजापतिः पशून् असृजत स वा असृग् एव नासृजतासृष्टं वा एतत् तद् अस्नो ऽसृक्त्वं क्रूरं पशूनां कार्ष्या इति वै सो ऽसृग् नासृजत क्रूरं वा एष पशूनां कुरुते यो ऽक्ष्णुते यद् अक्षितास् तेनाक्षिता अथ यद् अनक्षिता इति श्रूयन्ते तेनाक्षितास् तद् आहुर् न वा एतम् एता अमुत्रागछन्ति या अनक्षिता इति तस्माद् अक्षितव्या न तेजनेनाक्ष्णुयाद् वज्रो वै तेजनं यत् तेजनेनाक्ष्णुयाद् वज्रेण पशून् अर्पयेन् न श्यामेनायसा क्रूरं तद् अशान्तम् इक्षुकाण्डम् अप्सु वासयित्वा तेनाक्षितव्यास् तद् धि शिवं तञ् शान्तम् अथो आहुर् लोहितेनायसेति तद् धि शिवं तञ् शान्तम्

॥४.२.९॥

कम्बुन्युद्धतास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इह प्रजा विश्वरूपा रमन्ताम् अस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।

अग्निं कुलायम् अभि संविशन्तीः समासृजन्तु पयसा घृतेन ॥

इति गाः सायम् आयतीर् अभिमन्त्रयेताग्निर् वा एतासां योनिर् अग्निः कुलायं स्व एवैना योनौ स्वे कुलाये संवेशयति नास्य पशवो नक्तम् आर्तिम् आर्छन्ति य एवं वेद ॥

सं वः सृजत्व् अर्यमा सं पूषा सं बृहस्पतिः ।

सम् इन्द्रो यो धनञ्जयः ।

सञ्जग्माना अविह्रुता अस्मिन् गोष्ठे पुरीषिणीः ।

स्वावेशा ना आगत ॥

पूषा : फ़्न् एमेन्देद्। एद्।: पोषा।

इति गाः संसृजेद् या अस्य पुरा स्युर् याश् चान्यतो विन्देत पशवो वै घृतम् अग्नी रुद्रो यज् जुहुयाद् रुद्रायास्य पशून् अपिदध्यात् तत् संसृज्या एवोभयीर् ह भूयसीर् भवन्ति सं वः सृजत्व् अर्यमेति यज्ञो वा अर्यमा यज्ञेनैवैनाः संसृजति सं पूषेति पुष्टिर् वै पूषा पुष्ट्यैवैनाः संसृजति सं बृहस्पतिर् इति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनाः संसृजति सम् इन्द्रो यो धनञ्जय इतीन्द्रियं वा इन्द्र इन्द्रियेणैवैनाः संसृजति रेवती तन्तिः पृथिवी माता रेवतीर् आपा ओषधयः ॥

ता नो हिन्वन्तु सातये धिये जुषे ॥

इति तन्तिं वितनुयात् ताम् अनुमृज्यात् ॥ रय्या त्वा पुष्ट्यानुमार्ज्मि ॥ इति रय्यैवैनां पुष्ट्यानुमार्ष्टि तस्या व्रतं न रिक्ता स्यान् नोपर्युपरि सञ्चरेयुर् नाभिवर्षेन् नाभितपेद् एतद् वै बस्तो रामकायनो विदाञ्चकार तन्त्या वितननं स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति य एवं वेद ॥

पिता वत्सानां पतिर् अघ्न्यानाम् उतायं पिता महतां गर्गराणाम् ।

रेतोधां त्वा यशोधां रायस्पोषायोत्सृजेत् ॥

इत्य् ऋषभस्य कर्ण उत्सृजमानो वदेद् रेतोधाम् एवैनं यशोधां रायस्पोषायोत्सृजते यो वैश्यः शूद्रो वा बहुपुष्टः स्यात् तस्य गवां गोष्ठाद् एकविंशतिं शकान्य् आहृत्यैकविंशतिम् आहुतीर् जुहुयाद् एकविंशतिर् वै मनुष्यलोका मनुष्यलोकेभ्य एवास्मै पशून् अवरुन्द्ध एतैर् एव जुहुयात् गोनामैर् अग्रेत्वर्या गोर्भसदि पशुकामो मुखं वा एष पशूनां मुखत एवास्मै पशून् निनयति

॥४.२.१०॥

यासाम् इन्द्र उदाजत वसु नाम रूपं पशूनाम् उषसं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां बृहस्पतिर् उदाजतेडा नाम रूपं पशूनां सङ्गवं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां मरुत उदाजन्त ज्योतिर् नाम रूपं पशूनां मध्यन्दिनं धाम पश्यमानाः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां प्रजापतिर् उदाजतायुर् नाम रूपं पशूनाम् अपराह्णं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयाद् एतानि वा अह्नो रूपाण्य् एतेषु वा अह्नो रूपेषु देवाः पशूनां रूपाण्य् अवृञ्जत तद् एतेष्व् एवाह्नो रूपेषु यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते घृतेन जुहोति पशवो वै घृतं पशुभिर् एव पशून् वृङ्क्ते तन् न सूर्क्ष्यं प्रातर् एवान्तर्गोष्ठासु गोषु होतव्यं सर्वा एनाः सहावरुन्द्ध एतैर् एव जुहुयाद् गोष्व् आकृतासु योनितो वा एतत् पशून् अग्रहीद् अपिहीनाः परिपरिणस् कृण्वन्त्य् एतैर् एव जुहुयात् सङ्ग्रामे ऽथाश्वान् अभिमन्त्रयेत ॥

मित्रभृतः क्षत्रभृता ओजोभृतो बलभृतो वयं जयेम वयं सहेम वयं भवेम वयं पुषेम ॥

इति जयति सङ्ग्रामम् ॥

रोहिणीर् वो वृञ्जे गायत्रेण छन्दसारुणा वो वृञ्जे त्रैष्ट्भेन छन्दसा गौरीर् वो वृञ्जे जागतेन छन्दसा बभ्रुवो वो वृञ्जा आनुष्टुभेन छन्दसा गर्भान् वो वृञ्जे वृञ्जे पाङ्क्तेन छन्दसा रूपाणि वो वृञ्जे शाक्वरेण छन्दसा सर्वान् वो वृञ्जे ऽनाप्तेन छन्दसा तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे गायत्री प्रथमा गायत्र्य् उत्तमा तेजो वै गायत्री ब्रह्मवर्चसं तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयतः पशून् परिगृह्णाति

॥४.२.११॥

प्रजापतिर् वै त्रीन् महिम्नो ऽसृजताग्निं वायुं सूर्यं ते चत्वारः पितापुत्राः सत्त्रम् आसत ते स्वेदं समवौक्षंस् तद् अभवत् तद् वा अस्यैतन् नामाभूद् इति सर्वम् अभूद् इति तद् वा अस्यैते नामनी क्रूरे अशान्ते तस्माद् एते न ग्रहीतव्ये क्रूरे ह्य् एते अशान्ते प्रजापतिर् वै स्वां दुहितरम् अभ्यकामयतोषसं सा रोहिद् अभवत् ताम् ऋश्यो भूत्वाध्यैत् तस्मा अपव्रतम् अछदयत् तम् आयतयाभिपर्यावर्तत तस्माद् वा अबिभेत् सो ऽब्रवीत् पशूनां त्वा पतिं करोम्य् अथ मे मा स्था इति तद् वा अस्यैतन् नाम पशुपतिर् इति तम् अभ्यायत्याविध्यत् सो ऽरोदीत् तद् वा अस्यैतन् नाम रुद्र इति ते वा अस्यैते नामनी शिवे शान्ते तस्माद् एते कामं ग्रहीतव्ये शिवे ह्य् एते शान्ते ततो यत् प्रथमं रेतः परापतत् तद् अग्निना पर्यैन्द्ध तद् आसाम् अघ्न्यात्वं ततो यद् अत्यस्रवत् तद् बृहस्पतिर् उपागृह्णात् तद् आसाम् उस्रियात्वम् अशकामेति तद् आसां शक्वरीत्वं गातुम् अविदामेति तद् आसां गोत्वम् एतानि वा आसां नामानि सर्वैर् एवासां नामभिः सर्वैः कामैर् भुङ्क्ते य एवं वेद पशवो वै सृष्टा एतानि नक्षत्राण्य् अन्वपाक्रामन् पौर्णमासीम् अष्टकाम् अमावास्यां चित्राम् अश्वत्थं तस्मात् तेषु गौर् नापाकृत्या याम् अपाकुर्यात् ताम् अस्य पशवो ऽन्वपक्रामेयुः

॥४.२.१२॥

देवा वै सर्वे सहान्तर्वन्तो ऽभवंस् ते सर्वे सह व्यजायन्त तद् एकवृद् अशयत् संवृत्तं तद् देवा इत्थं चेत्थं च व्यत्यचरंस् तन् मित्रावरुणा अचायतां स्याद् वै य एनद् विकुर्याद् इति तद् गां द्विपदीम् अकुरुतां सा न प्रत्यतिष्ठत् तस्या अन्यत आहृत्येर्मौ प्रत्यधत्तां तस्माद् एता अबद्धा अस्थन् सा चतुष्पदी भूत्वा प्रत्यतिष्ठत् प्रति प्रजया च पशुभिश् च तिष्ठति य एवं वेद तस्यां वै पयः पर्यपश्यंस् तां देवा अदुह्र हरितेन पात्रेण यज्ञं चामृतं च दुहे यज्ञं चामृतं च य एवं वेदाथ पितरो ऽदुह्र रजतेन पात्रेणोर्जं च स्वधां च दुह ऊर्जं च स्वधां च य एवं वेदाथ मनुष्या अदुह्र दारुपात्रेणान्नं च प्रजां च दुहे ऽन्नं च प्रजां च य एवं वेदाथा ऋषयो ऽदुह्र चमसेन छन्दांसि च पशूंस् च दुहे छन्दांसि च पशूंश्च य एवं वेदाथ गन्धर्वाप्सरसो ऽदुह्र पुष्करपर्णेन पुण्यं गन्धं दुहे पुण्यं गन्धं य एवं वेदाथ सर्पा अदुह्रालापुना विषं दुहे भ्रातृव्याय विषं य एवं वेदाथासुरा अदुह्रायस्पात्रेण स्रवता भूतिं च पराभूतिं च दुहे भ्रातृव्यायाभूतिं च पराभूतिं च य एवं वेद तां वा इन्द्रो ऽनयैवोपासीदतेदं सर्वम् अदुहद् यद् इदं किञ्च तां दुग्ध्वा प्रत्यनुदत सा प्रतिनुत्ता कुमना अतिष्ठद् ध्यायन्ती तां प्रजापतिर् अचायद् ध्यायति वा इति सो ऽब्रवीत् किं ध्यायसीति साब्रवीद् ये माधुक्षत ते मा प्रत्यनुदन्तेति सो ऽब्रवीन् मा सूर्क्षस् तथा वै त्वा कर्ष्यामि यथोभयेषां देवमनुष्याणां प्रिया भविष्यसीति तस्या घृतं पद्भ्यो ऽक्षरत् तस्य घृतस्यादाय मुखं व्यमार्ट् ॥

उभयेषां त्वा देवमनुष्याणां प्रियां करोमि ॥ इति तस्माद् एषोभयेषां देवमनुष्याणां प्रियैतेनैव श्रोत्रियस्य मुखं विमृज्याद् उभये ह्य् एतं देवमनुष्या विदुर् एतेन कुमार्या एतेन पतिकामाया एतद् वै गोवर्चसं न सर्वस्मा इव कुर्याद् यस्मै तु कुर्यात् तेजस्वी स्यात्

॥४.२.१३॥

यो ललामः शितिपाञ् शितिककुञ् शितिभसञ् शितिवालः साशारिः सामक्ताष्टयूथा प्राष्टौ यूथान्य् आप्नोति यस्य तादृङ्ङ् ऋषभो भवति यस्य वालतुषः प्रतिष्ठितः सा प्रतिष्ठिता प्रति प्रजया च पशुभिश् च तिष्ठति यस्य तादृङ्ङ् ऋषभो भवति यः समन्तः शितिबाहुः सा समन्ता समन्तः प्रजया च पशुभिश् च भवति यस्य तादृङ्ङ् ऋषभो भवति यः शितिपृष्ठः सा तन्तिः पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवत्य् अथ यस्यैकरूपस्य सतो लक्ष्म भवति सादारसृन् नास्यामित्रो गा विधावति यस्य तादृङ्ङ् ऋषभो भवति याजलोम्नी सा पोषयिष्णुर् अजा इव प्रजायन्ते यस्य तादृङ्ङ् ऋषभो भवति या श्यामा सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्त्य् अपनिषादुकास् तु यारुणा सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्ति हिमेरवस् तु या श्वेता सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्ति दुश्चर्माणस् तु नाञ्जिः कार्यो न पृश्निर् अमिथुनं तद् अथो व्याघ्ररूपं वै पृश्निर् बिभ्यत्य् अस्मात् पशवः कनीयांसो ऽस्य पशवो भवन्ति यस्य तादृङ्ङ् ऋषभो भवति तद् आहुर् बीजम् एवोत्सृज्यम् इत्य् एतद् वा आसां बीजं यद् रोहितं रूपं पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवति यो धूम्रस् ताम्रधूम्रः स प्रजापतिः प्र प्रजया च पशुभिश् च जायते यस्य तादृङ्ङ् ऋषभो भवति यस्य लोमशा ककुत् स स्तम्बी स्तम्बीव प्रजया च पशुभिश् च भवति यस्य तादृङ्ङ् ऋषभो भवति यस्योर्ध्वा ककुत् ता ऊर्ध्वा आप्यायन्त ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति यस्य दक्षिणतः पन्नं सा पापी सा स्रवन्त्य् अथ यस्य सव्यत उन्नतं सा पुण्या सोपाहरन्ती या उत्पृष्टिस् ता ऊर्ध्वा आप्यायन्त ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति यस्य सव्यतः पन्नं सा पापी सा स्रवन्त्य् अथ यस्य दक्षिणत उन्नतं सा पुण्या सोपाहरन्ती या सव्यसाचिनी सा पुण्या सोपाहरन्ती या संशृङ्गी सा गोष्ठस् तां न प्रछिन्द्याद् अनुसृष्टस्य गोषु स्याताम् एतौ वै पशूनाम् अस्कन्नं हविर् अस्कन्नम् अस्य हविर् भवति यस्यानुसृष्टिर् गोषु भवत्य् उक्षा चास्य वेहच् च गोषु स्याताम् एतौ वै पशूनाम् ऊर्जं बिभृतो ऽक्षोधुका अस्य पशवो भवन्ति यस्योक्षा च वेहच् च गोषु भवतः

॥४.२.१४॥
प्रपाठक 3

चतुर्थकाण्डे तृतीयः प्रपाठकः

चतुर्थकाण्डे तृतीयः प्रपाठकः

अरातीयन्ति वा अन्ये पुरुषाय नान्ये ये ऽरातीयन्ति सा निरृतिर् ये नारातीयन्ति सानुमतिस् तेभ्य उभयेभ्यः सह निर्वपन्त्य् उभौ सह शृतौ कुर्वन्ति नैरृतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृता इरिण एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयत एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर् वेतु स्वाहा वासः कृष्णं भिन्नान्तं दक्षिणेत्य् एतद् धि निरृत्या रूपम् अर्धं वै पुरुषस्य निरृतिगृहीतम् अर्धम् अनिरृतिगृहीतं यन् निरृतिगृहीतं तद् एवास्मात् तेन निरवदयते पुनर् एत्यानुमत्या अष्टाकपालेन प्रचरन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् वाग् वय् अनुमतम् एवैनं सवम् आक्रमयत्य् अष्टाकपालो भवति गायत्री हीयं गायत्री वाग् धेनुर् दक्षिणैतद् ध्य् अनुमत्या रूपम् अथ य उदञ्चः शम्याम् अतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयाद् इदम् अमुष्यामुष्यायणस्य क्षेत्रियम् अवयजा इति तत् पुनर् अपिदधातीदम् अहम् अमुष्यामुष्यायणस्य क्षेत्रियम् अपिदधामीति क्षेत्रियं वा एतं गृह्णाति ये चैनम् अन्व् इयं क्षेत्रस्य पत्न्य् अस्याम् एव क्षेत्रियम् अवयज्याथैनं सवम् आक्रमयति श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् इत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् उभयोर् एव लोकयोर् ऋध्नोति वरो दक्षिणा वरेणैव स्वर्गं लोकम् अभ्यारोहति श्वो भूत आग्नावैष्णव एकादशकपाला इत्य् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः परस्ताद् उभयत एव यज्ञस्यान्ता उदग्रहीद् उभयत एव यज्ञस्यान्ता उद्गृह्य यथोत्सङ्ग आवपेतैवं वा एतद् यज्ञम् आवपते तस्य यथाकामं निर्वपमाण एत्य् अनड्वान् वामनो दक्षिणा यद् वही तेनाग्नेयो यद् वामनस् तेन वैष्णवो रूपेणैवैनं समर्धयति श्वो भूते ऽग्नीषोमीया एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् धिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव हन्ति श्वो भूत ऐन्द्राग्न एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतम् ऐन्द्राग्नम् अपश्यत् तेनौजो वीर्यम् आत्मन्न् अधत्तौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत ओजो वीर्यम् इन्द्राग्नी ओजसैवैनं वीर्येण समर्धयतो ऽनड्वान् ऋषभो दक्षिणा यद् वही तेनाग्नेयो यन् मुष्करस् तेनैन्द्रो रूपेणैवैनं समर्धयति श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधीत्य् ऋद्ध्या एवाग्नेय इन्द्रो वै वृत्रम् अहन् सो ऽन्यान् देवान् अत्यमन्यत स महेन्द्रो ऽभवत् स एतम् उद्धारम् उदहरद् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजयत् पयसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यत् पयः पयसैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यद् ऐन्द्रम् इन्द्रियेणैवैनं वीर्येण समर्धयति देवताभिर् वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते सर्वदेवत्यं वै वासो यद् वासः क्षौमं दक्षिणा देवताभिर् एवैनं समर्धयति

॥४.३.१॥

वै : फ़्न् एमेन्देद्। एद्।: वा

देवा ओषधीषु पक्वास्व् आजिम् अयुः स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति सो ऽब्रवीद् यतरो नौ पूर्व उज्जयेत् तन् नौ सहेति ता अग्निर् उदजयत् तद् इन्द्रो ऽनूदजयत् तस्माद् ऐन्द्राग्नम् अथो आहुर् आग्नेन्द्रं कार्यम् इत्य् अग्निर् हि ता अग्र उदजयत् तद् उज्जित्या एवाग्रायणो द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सराद् धि तद् अध्य् अभवत् सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् धि तद् अधि भवत्य् एका वै तर्हि यवस्य मुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य तद् विश्वे देवा अब्रुवन् वयं व एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति तद् विश्वे देवा अप्रथयंस् तद् भूम्न एव वैश्वदेवो ऽथो प्रथयत्य् एवैतेन पयसि स्याद् वैश्वदेवो वैश्वदेवं हि पयो ऽथ वा इयम् अब्रवीन् मयि वा एतद् अध्य् असौ वृष्ट्या पचति नैतद् इतो ऽध्य् उज्जेष्यथ भागो ना अस्त्व् इति तद् आभ्यां वावैष भागः क्रियत उज्जित्यय् अथो प्रतिष्ठित्या एव यद् द्यावापृथिवीयः सौमीर् वा ओषधयः सोमा ओषधीनाम् अधिराजस् तस्य वा एष भागो यद् अकृष्टपच्यं तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ग्राम्या वा अन्या ओषधय आरण्या अन्यास् ता एवास्यैतेनोभयीर् अवेष्टा भवन्ति याः फालकृष्टास् तासाम् एतेनाग्रायणं करोति या आरण्यास् तासाम् उत्तरेणानीतो वा एष देवानां य आहिताग्निर् यद् अकृत्वाग्रायणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अश्नीयाद् आर्तिम् आर्छेत् सर्वेभ्यो वा एषो ऽन्येभ्यो ऽभिषिच्यते यो राजसूय आग्रायणो ऽन्नाद्यस्यावरुद्ध्यै वत्सः प्रथमजो दक्षिणा रेत इव ह्य् एषो ऽप्रजातः प्रजात्यै

॥४.३.२॥

अथैतानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि परीज्यन्ते संवत्सराद् एवैनान्य् अध्य् आप्त्वावरुन्द्ध उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे पशवो वा एते चातुर्मास्येभ्यो ऽध्य् अतिरिच्यते यञ् शुनासीर्यं तान् एवाप्नोति वर्ष्य उदके यजेतैतद् धि पशूनां नेदिष्ठम् अथैतानि पञ्च हवींषि सन्तत्यै ग्रामकामो यजेत वायुर् वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते यद् वायवे वायुर् एवास्मै नस्योतां विशं निनयत्य् अन्नकामो यजेत संवत्सरो वा इन्द्रः शुनासीरः संवत्सरो ऽन्नाद्यस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा अन्नाद्यं प्रयछति वर्ष्य उदके यजेतैतद् ध्य् अन्नाद्यस्य नेदिष्टं वृष्टिकामो यजेत वायुर् वा इमे समीरयति स आप्याययति ततो वर्षति संवत्सरो वा इन्द्रः शुनासीरः संवत्सरम् अनुवर्षति

॥४.३.३॥

देवाश् च वा असुराश् चास्पर्धन्त स वृत्र इन्द्रम् अब्रवीत् त्वं देवानां श्रेष्ठो ऽस्य् अहम् असुराणां संशक्नवाव मा ना अन्यो ऽन्यं वधीद् इति तौ वै समामेताम् अनभिद्रोहाय ते देवा वृत्रम् अमन्यन्तायं वावेदं भविष्यतीति त इन्द्र ऐछन् हनामेमम् इति सो ऽब्रवीत् सन्धा वै मे संहितान् अभिद्रोहायेति तम् अग्निर् अब्रवीद् अहम् एव त्वेतः पास्यामीति पृथिव्या अहम् अन्तरिक्षाद् इति वरुणो ऽहं दिव इति रुद्रस् ततो वै देवा वृत्रम् अघ्नन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् देवाश् च वा असुराश् च समयतन्त तान् अग्निस् त्रेधात्मानं कृत्वा प्रत्ययतत अग्निर् एवास्मिंल् लोके भूत्वा वरुणो ऽन्तरिक्षे रुद्रो दिवि स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति सो ऽब्रवीद् अहं विश्वाभ्या आशाभ्या इति ततो वा अजयंस् तज् जित्या एवैतद् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् इन्द्रस् तुरीय उपसमपद्यत तस्माद् इन्द्रतुरीयं धेनुर् अनड्वाही दक्षिणा यद् वहिनी तेनाग्नेयी यद् धेनुः सती दान्ता तेन वारुणी यद् गौस् तेन रौद्री यत् पयस् तेनैन्द्री रूपैर् एवैनां समर्धयतीन्द्रो वै नमुचिं नालभत स रश्मीन् कुलायं कृत्वान्वारोहद् अमुम् आदित्यं तं वा अन्वमन्त्रयत सखाया असावेति सो ऽब्रवीन् नाहं हनिष्यामीति सो ऽब्रवीत् सन्धां ते सन्दधै यथा त्वा न दिवा हनानि न नक्तं न शुष्केण नार्द्रेणेति तस्य वा उपोदये सूर्यस्य नीहारं सन्तत्यापां फेनेन शिरो ऽछिनत् तद् वा एनम् अन्ववर्तत मित्रद्रुग् असीति पाप्मा वै नमुचेः शिरः पाप्मा वा एनं तद् अन्ववर्तत पाप्मानं वै स तेनापाहत तत् पाप्मानम् एवैतेनापहते ऽपां न्ययनाद् अपामार्गान् आहरन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वर आत्मानं हि तस्य तद् अन्ववर्तत ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेत्य् एतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽधि रक्षांस्य् अपहन्त्य् अनुपरिक्रामं जुहोति सर्वाभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपहन्तीदम् अहं रक्षोभिः समूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षा इत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यय् अथ यत् पुनः समूह्य जुहोति याभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपावधीत् ता भागिनीः करोत्य् अहिंसायै रथः पञ्चवाही दक्षिणा पञ्च दिशः पञ्च देवताः समृद्ध्यै

॥४.३.४॥

असुराणां : ⟨ असुराणाम्

असुराणां : फ़्न् एमेन्देद्। एद्।: असुराणम्।

वधीद् : फ़्न् एमेन्देद्। एद्।: ऽवधीद्।

सोमेनेजानं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति राजसूयेनाभिषिषिचानं याजयेत् पष्ठौही दक्षिणाशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकः पशुकामं याजयेच् छन्दांसि वै देविकाः पशवश् छन्दांसि गायत्र्य् अनुमतिस् त्रिष्टुब् राका जगती सिनीवाली कुहूर् अनुष्टुब् धाता वषट्कारो या पूर्वा पौर्णमासी सानुमतिर् योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूश् चन्द्रमा एव धाता यद् द्वे अवरे द्वे परे तन् मिथुनं यत् पूर्यते ऽन्यां नान्यां तन् मिथुनं यत् पश्यन्त्य् अन्यां नान्यां तन् मिथुनं यद् अमावास्याया अधि चन्द्रमाः प्रजायते तन् मिथुनं तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति प्रजाकामं याजयेद् धातारम् उत्तमं कुर्यात् स्त्रियो वै देविकाः पुमान् धाता पराचीर् वै प्रजा रेतो दधते पराचीष्व् एवासु रेतो दधाति तद् आहुर् न वै तेन पराधत्ते यद् अन्तरा प्रवीयता इति व्यवदध्याद् धातारं मध्यतः सर्वा एवैना वृषमोदिनीः करोति तद् आहुर् जायत एव पश्चाच्चर इव तु भवति स्त्रीभ्यो ह्य् एनं पश्चात् परिणयन्तीति स यदा जायेताथ धात्रे पुरस्तान् निर्वपेद् अग्रं वै धाताग्रम् एवैनं परिणयति

॥४.३.५॥

आमयाविनं याजयेद् धातारं मध्यतः कुर्यात् संवत्सरो वै धाता संवत्सरो हि वा एतस्य मुग्धो ऽथैतस्यामयति संवत्सरं वावास्मा एतन् मध्यतो ऽचीकॢपद् अथैनम् एतस्मान् मिथुनात् प्रजनयतीश्वराणि वा एतम् एतानि छन्दांस्य् ऋते पशोर् अशान्तानि निर्मृजः पशुर् अप्य् आलभ्यः शान्त्या अनिर्मार्गायैते वै पशवो यद् व्रीहयश् च यवाश् च यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुर् आलभ्यते शान्त्या अनिर्मार्गाय वीरस्था वा अन्ये पशवो ऽवीरस्था अन्ये ये पुरस्तात्पुरोडाशास् ते वीरस्था ये पश्चात्पुरोडाशास् ते ऽवीरस्था ये पुरस्तात्पुरोडाशा भुञ्जतस् त उपतिष्ठन्ते प्रजापतिं ह्य् एते प्रतिष्ठाम् अभ्यसृज्यन्त ये पश्चात्पुरोडाशाः परा ते भवन्ति यासु स्थालीषु सोमाः स्युस् ते चरवः स्युः सोमो वै रेतोधाः प्रजननाय सर्ववेदसेनेजानं याजयेत् पशुभिर् वा एष व्यृध्यते यः सर्वं ददात्य् अत्र वा एष जघन्यं पशून् पश्यति यत्रैनान् विभजति यत्रैवैनान् विभजति तत एनान् पुनर् अवरुन्द्धे य एव कश् च सोमेन यजेत तं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति

॥४.३.६॥

अथैतत् त्रिषंयुक्तं यत् पूर्वं त्रिषंयुक्तम् इत एवास्मै तेनोर्ध्वान् इमांल् लोकान् दाधार यद् उत्तरं त्रिषंयुक्तम् अमुत एवास्मै तेनार्वाच इमांल् लोकान् दाधार तद् एषां वावैते लोकानां विधृत्यै यत् पूर्वं त्रिषंयुक्तं वीरजननं तद् यद् उत्तरं पशुजननं तद् यत् पूर्वं त्रिषंयुक्तं वीरान् एवास्मै तेन जनयति यद् उत्तरं पशूंस् तेन यत् पूर्वं त्रिषंयुक्तं रेत एव तेन दधाति यद् उत्तरं प्र तेन जनयति यत् पूर्वं त्रिषंयुक्तं तेन यज्ञकामो यजेताग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धैन्द्रो वै यज्ञो विष्णुर् यज्ञस् तद् यज्ञस्यैवैष आरम्भो ऽथ यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति यद् उत्तरं त्रिषंयुक्तं तेन पशुकामो यजेत सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयतीन्द्रियेण वै पशवः प्रजायन्ते पूषा प्रजनयतीन्द्रियेणैवास्मै पूषा पशून् प्रजनयत्य् अथ यत् पौष्णः पशवो वै पूषा पशुष्व् एव प्रतितिष्ठत्य् अथैतद् वैश्वानरवारुणं संवत्सरो वा अग्निर् वैश्वानरस् तस्य वा एते स्वा यद् ऋतवस् तेषां वा एषो ऽभिषिक्तो राजाभिषिक्तो वै देवानां वरुण एतौ वै देवानां सूतव् एतौ सवपती एतौ सवस्येशाते ता एनं सुवाते यावन्तो वा एतस्य स्वा अनुका वै त एतम् अनुका देवा वरुणं यावन्त एवास्य स्वास् तान् अस्मा अनुकान् अविवादिनः करोतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति तस्माद् राजसूयाभिषिक्तस्य जरसा दन्ता अवशीयन्ते संवत्सरे ह्य् एनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति यो ज्योगामयावी स्यात् तम् एतेन याजयेद् वरुणेन हि वा एष पाप्मना गृहीतो ऽथैतस्य ज्योग् आमयति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति

॥४.३.७॥

अथैते रत्निनः क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतान्य् ओजस्वीनि भवन्ति तद् राष्ट्रम् ओजस्वी भवति तान्य् एवास्यौजस्वीनि करोति क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतानि तेजस्वीनि भवन्ति तद् राष्ट्रं तेजस्वी भवति तान्य् एवास्य ब्रह्मणा तेजस्वीनि करोति बार्हस्पत्यश् चरुर् ब्रह्मणो गृह इति ब्रह्म वै बृहस्पतिर् बृहस्पतिपुरोहित खलु वै राष्ट्रम् ऋध्नोति ब्रह्म वा एतत् पुरस्ताद् राष्ट्रस्यात्यौहीद् अथो ब्रह्मण एव राष्ट्रम् अनुकं करोत्य् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र इन्द्रिय एव प्रतितिष्ठत्य् आदित्यश् चरुर् महिष्या गृह इतीयं वा अदितिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति धेनुर् दक्षिणैतद् ध्य् अदित्या रूपं नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृह इति निरृतिगृहीता हि वा एषाथैतां परिवृञ्जन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति श्येनी वण्डापस्फुरा दक्षिणैतद् धि निरृत्या रूपम् आग्नेयो ऽष्टाकपालः सेनान्यो गृह इत्य् अग्निर् वै सर्वा देवता देवताभिर् एवास्य सेनामुखं जित्यै संश्यति हिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव जयत्य् आश्विनो द्विकपालः सङ्ग्रहीतुर् गृह इति रथरेषम् एवास्मात् तेन निरवदयते सवत्यौ दक्षिणेति सवत्या इव हि सव्यस्थसारथी रथम् अभि सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे प्रसूत्यय् अथो सवितेव ह्य् एष प्रजाभ्यः प्रसुवति वारुणो यवमयो दशकपालः सूतस्य गृहे मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृह इति सूतमुखा वै विट् क्षत्रम् उपतिष्ठते सूतमुखां वावास्मा एतद् विशं मुखतो ऽन्नाद्यायोपदधाति पौष्णश् चरुर् भागदुघस्य गृह इति पुष्टिर् वै पूषा पुष्टिम् एवास्य भागे दधाति वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृह इति विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चेत्य् अन्तत एवास्मात् तेन रुद्रं निरवदयते ऽथो रुद्र इव ह्य् एतौ पशू अभिमन्यते एकादश वा एतानि हवींष्य् एकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्य एव प्रतितिष्ठति नाना वा एत एतेषाम् आशिषो ऽवरुन्धते यत् सह निर्वपेयुर् अरत्निनः स्युर् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र एकधा वा एतद् यजमाने यज्ञस्याशीः प्रतितिष्ठत्य् ऐन्द्रो हि यजमानः

॥४.३.८॥

अभिमन्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् यद् एव किञ्चार्वाचीनं जनितोर् एनः करोति तत एनम् अंहोमुङ् मुञ्चतीन्द्राय सुत्राम्णा एकादशकपालं य एवोपवादी यो ऽभिदासति तत एनं सुत्रामा त्रायते ऽथैतन् मैत्राबार्हस्पत्यं सत्यं वै मित्रो ब्रह्म बृहस्पतिः सत्यं चैव ब्रह्म चालभ्य दीक्षते क्षत्रं वै मित्रो ब्रह्म बृहस्पतिः क्षत्रं चैव ब्रह्म चालभ्य दीक्षते यस्य राष्ट्रं शिथिरम् इव स्यात् तम् एतेन याजयेन् मैत्राबार्हस्पत्येन क्षत्रं वै मित्रो ब्रह्म बृहस्पतिर् ब्रह्मणि वा एतत् क्षत्रं प्रतिष्ठापयति द्रढिम्ने ऽशिथिरत्वायाथैते देवस्व एते वै देवानां सूता एते सवपतय एते सवस्येशते त एनं सुवते तस्माद् वा एतम् आहुः पूर्वेद्युर् वा एष सूयते ऽभितश् च सिच्यता इत्य् अथैष मारुत एकविंशतिकपालस् त्रिर् वै सप्तसप्त मरुतो विण् मरुतो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते वरुणस्य वा अभिषिच्यमानस्येन्द्रियं वीर्यम् अपाक्रामत् तत् त्रेधाभवद् भृगुस् तृतीयम् अभवच् छ्रायन्तीयं तृतीयं सरस्वतीं तृतीयं प्राविशद् यद् भार्गवो होता भवति श्रायन्तीयं ब्रह्मसामं सारस्वतीर् आपस् तद् एवेन्द्रियं वीर्यं तेज आप्नोति वाचा वा एतम् अभिषिञ्चन्ति यम् अभिषिञ्चन्ति वाक् सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते यावत्य् एव वाक् तया सूयते

॥४.३.९॥

अपां वा एतानि चित्राण्य् अपां वा एतच् चित्राणि सम्भरन्त्य् अपाम् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति तस्माद् वा एषो ऽभिषिक्तश् चित्रं राजेति श्रूयते ऽपां ह्य् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति यथा वा इदं मधुकृतो मधु सम्भरन्त्य् एवं वा एतद् अपाम् ओषधीनां रसं सम्भरन्त्य् अपाम् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति तस्माद् वा एतम् आहुर् असी राजा पुण्या इत्य् अपां ह्य् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति वरुणसवो वा एष वारुणीर् आपो यद् अद्भिर् अभिषिञ्चति वरुणम् एवैनम् अकर् विषुवान् वै सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते विषुवान् भवति षोडश ग्रहा गृह्यन्ते षोडश होमा हूयन्ते तद् द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुब् यावत्य् एव वाक् तया सूयते

॥४.३.१०॥
प्रपाठक 4

चतुर्थकाण्डे चतुर्थः प्रपाठकः

चतुर्थकाण्डे चतुर्थः प्रपाठकः

प्रतीपम् अन्य ऊर्मिर् युध्यत्य् अन्वीपम् अन्यो मिथुनत्वाय यत् तस्य गृह्णाति यः प्रतीपं युध्यत्य् ओजसा वा एष वीर्येण प्रतीपं युध्यत्य् ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् तस्य गृह्णाति यो ऽन्वीपम् ईरयति माहिषं तेन तोकं प्रजनयत्य् अथ यन् नदीपतेर् अपां वा एतन् मिथुनम् अपां वा एतन् मिथुनेन राष्ट्रे मिथुनं दधात्य् अथ यद् अप्रहावरीणां मध्यमेष्ठेयं तेनावरुन्द्धे ऽथ यत् परिवाहिणीनां पारेवस्यन्त्यास् तेन तोकं प्रजनयत्य् अथ या आपो ऽञ्शेरा ओजसा वा एता वीर्येणापो ऽञ्शेरा ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् कूप्यानाम् उभयीस् तेनापो ऽवरुन्द्धे याश् च समुद्रिया याश् चासमुद्रिया ईश्वरा वा एतम् एता स्रोतस्या आपो ऽशान्ता निर्मृजो यत् स्थावराणां गृह्णाति शान्त्या अनिर्मार्गाय या आतपति वर्षति याश् च परिददृश्रे ता आपो ब्रह्मवर्चस्यास् ताभी राष्ट्रे ब्रह्मवर्चसं दधात्य् अथ यद् ध्रादुनीनां विशस् तेन वीर्यम् अवरुन्द्धे ऽथ यत् पुष्पाणाम् आरण्यं तेनाथ यद् उल्ब्यानां वज्रो वै पशवो वज्रा उल्ब्या वज्रेण वा एतद् राष्ट्रे वज्रं दधात्य् अथ यत् पयसः पयसा वा एतद् राष्ट्रे पयो दधात्य् अथ यद् घृतस्यैता वा आपो ऽनाधृष्यास् ताभी राष्ट्रम् अनाधृष्यं करोत्य् अथ यन् मधोर् अपां वा एष ओषधीनां रसो ऽपां वा एतद् ओषधीनां रसेन राष्ट्रे रसं दधाति षोडश वा एते ग्रहाः प्राजापत्याः समानीतः सप्तदशः प्रजापतिः सप्तदशः प्रजापतिम् एवाप्नोति

॥४.४.१॥

देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वाना इत्य् एता हि क्षत्रस्य वन्त्रीर् अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीर् इत्य् एता हि क्षत्रस्य धात्रीर् अनिभृष्टम् असीत्य् अनिभृष्टं ह्य् एव राष्ट्रम् अकस् तपोजा इति तपोजा हि राष्ट्रं सोमस्य दात्रम् इति सोमस्य ह्य् एतद् दात्रं शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामीत्य् आयुर् वै हिरण्यम् आयुष्या एवैना अकर् वर्चो वै हिरण्यं वर्चस्या एवैना अकर् देवो वः सविता पुनात्व् अछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस रश्मयो ऽछिद्रेणैवैनाः पवित्रेण पुनाति स्वाहा राजसूया इति राजसूया ह्य् एताः सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति वारुण्या वारुणीर् ह्य् आपः स्वयैव देवतया रुद्र यत् ते गिरिपरं नामेति रुद्रम् एवास्मात् तेन निरवदयते तस्मिन् हुतम् असि यमेष्टम् असि स्वाहेति मृत्युर् वै यमो मृत्युम् एवास्मात् तेन निरवदयते सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्त्व् इत्य् एते वै देवा धर्मधृतो यद् इमे प्राणा यद् एनम् एतेभ्यो ऽप्रोच्याभिषिञ्चेयुर् अपरोधुका एनं स्युर् अथ यद् एनम् एतेभ्यः प्रोच्याभिषिञ्चन्ति तथा हैनम् अनपरोधुका भवन्ति पर्णस्य वा अग्रे ऽन्ते ब्रह्म समवदन्त तद् वाव सुश्रवा यत् तद् अशृणोत् पर्णमयेनाभिषिञ्चति ब्रह्माभिषिञ्चति ब्रह्मवर्चसेनैवैनम् अभिषिञ्चत्य् अथो ब्रह्म वै ब्रह्मा ब्रह्मणैवैनं ब्रह्माभिषिञ्चत्य् आश्वत्थेन वैश्यो विशो वीर्यम् अपाक्रामत् तद् अश्वत्थं प्राविशत् स तेन वीर्येण भर्भराभवत् तद् विश एवैतेन वीर्यम् अवरुन्द्ध औदुम्बरेण भ्रातृव्य ऊर्ग् वा उदुम्बरा ऊर्जं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते यो जन्यो मित्रं स नैयग्रोधेन मित्रेण वै क्षत्रं व्यवततम् अवरोधैर् न्यग्रोधो मित्रेण वा एतत् क्षत्रं व्यवतनोति द्रढिम्ने ऽशिथिरत्वाय

॥४.४.२॥

शुक्रा : फ़्न् एमेन्देद्। एद्।: श्रुक्रा। च्फ़्।२।६।८:६८।१२

स्वाहेति : फ़्न् एमेन्देद्। एद्।: स्वाहेसि।

क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् असीतीन्द्रो वै यद् अजायत तस्य वा एष योनिर् आसीद् यत् तार्प्यम् उल्बं पाण्डरं नाभिर् उष्णीषः सूतवशाया अध्यजायत सूना चतुःपद्य् ऊधर् आसीन् नीवाराः पीयूषस् तस्मान् नैवारः पुरोडाशः पञ्चाशतम् अन्यस्मिन्न् अक्षण्य् आनक्त्य् एकपञ्चाशतम् अन्यस्मिन् शतायुर् वै पुरुषः शतवीर्या आयुर् एव वीर्यम् आप्नोत्य् अप उपस्पृशत्य् अमृतं वा आपो ऽमृतेनैवैनं संरम्भयत्य् आवित्तो अग्निर् गृहपतिर् इति गार्हपत्यायैवैनम् आवेदयत्य् आवित्ता इन्द्रो वृद्धश्रवा इतीन्द्रियं वा इन्द्र इन्द्रियायैवैनम् आवेदयत्य् आवित्तौ मित्रावरुणौ धृतव्रता इत्य् अहोरात्रे वै मित्रावरुणव् अहोरात्राभ्याम् एवैनम् आवेदयत्य् आवित्ते द्यावापृथिवी ऋतावृधा इति द्यावापृथिवीभ्याम् एवैनम् आवेदयत्य् आवित्तः पूषा विश्ववेदा इति पशवो वै पूषा पशुभ्य एवैनम् आवेदयत्य् आवित्ता देव्य् अदितिर् इत्य् आदित्या वा इमाः प्रजास् ताभ्य एवैनम् आवेदयत्य् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशीति विश एवैनम् आवेदयति तस्माद् वा एष विशः प्रियो विशे ह्य् एनम् आवेदयत्य् एष ते जनते राजेति जनताया एवैनम् आवेदयति सोमो ऽस्माकं ब्राह्मणानां राजेति ब्रह्मोद्धरति सर्वेभ्य एवैनम् अन्येभ्यो भूतेभ्य आवेदयति ब्रह्मोद्धरति तस्माद् आहुर् ब्रह्मोद्धृतम् इति ब्रह्म ह्य् उद्धरतीन्द्रस्य वर्जो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याद् इति धनुः प्रयच्छति वज्रो वै धनुर् वज्रो राजन्यो वज्रेणैव वज्रं समर्धयति शत्रुबाधनाः स्थेति बाणवतो ऽन्तो वै बाणवन्तो ऽन्तो राजन्यो ऽन्तेनैवान्तं समर्धयति त्रीन् प्रयच्छति तिस्रो वै शरव्या दिव्या पार्थिवा समुद्रिया ता अस्माद् योयाव पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्धं दिग्भ्य एनं पातेति दिग्भ्य एनं पान्ति मित्रो ऽसीतीमम् अभिमन्त्रयते मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं हिरण्यवर्णम् उषसो व्युष्टा इत्य् उद्वता अभिमन्त्रयेतोर्ध्वबाहुं तिष्ठन्तम् अभिषिञ्चति बृहत् साम भवति स्वर्गम् एवैनं लोकम् अभिसन्तनोति

॥४.४.३॥

रूपं : ⟨ रूपम्

रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।

ऊर्ध्वबाहुं : फ़्न् एमेन्देद्। एद्।: ऊर्ध्वबाहुस्। धर्मधिकरि, प्।४८५

दिश एनं व्यास्थापयति वज्रेण वा एतद् इमा दिशो ऽभिजयति तस्माद् वा एतस्य सर्वा दिशो ऽभिजिता यांयाम् अभिपर्यावर्तते दिशो वै स्वर्गो लोक एतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽधि स्वर्गं लोकम् एति सोमस्य त्विषिर् असि त्विषिमत् तवेव मे त्विषिर् भूयाद् इति व्याघ्रचर्मं विवेष्टयति सोमे वा एका त्विषिर् व्याघ्र एका सर्प एका ता एवावरुन्द्धे प्रत्यस्तं नमुचेः शिरा इति सीसं पण्डगाय प्रत्यस्यति पाप्मा वै नमुचेः शिरः पाप्मानं वावास्मा एतत् प्रत्यस्यति स्वर्गं लोकम् अभ्यारोहन्न् अवेष्टा दन्दशूका इति लोहितायसं केशवापाय दन्दशूकान् एवास्मात् तेन निरवदयते तस्माद् वा एतस्य नाभिचारो ऽस्ति यावन्तो हि मृत्यवस् तान् अस्मान् निरवदयते मृत्योः पाहीति रजतं रुक्मम् अधस्ताद् उपोहते मृत्योर् वा एतद् रूपं यद् व्याघ्रो ऽमृतं हिरण्यम् अमृतेनैव मृत्युम् अन्तर्धत्ते दिदिवः पाहीति हरितं रुक्मम् उपरिष्टाद् अध्यूहते दिव्याया एवैनम् अशन्या योयावेयं वै रजतासौ हरिण्य् आभ्याम् एवैनं परिगृह्यायुर् वै हिरण्यम् आयुष्या एवैनम् अभ्यतिक्षरन्ति वर्चो वै हिरण्यं वर्चस्या एवैनम् अभ्यतिक्षरन्ति वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्यं निरघ्नन् यद् रुक्मम् अन्तर्दधातीन्द्रियस्य वीर्यस्यानिर्घाताय शतमानो भवति शतक्षरः शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति

॥४.४.४॥

अथैतानि पार्थानि संवत्सरो वै पार्थानि संवत्सरं वा एतन् मध्यतः प्रविशति तस्माद् वा एष दुःपराणोदः संवत्सरं हि मध्यतः प्रविशति गिरी वा एतौ राजसूयस्य बार्हस्पत्यम् अन्येषाम् उत्तमं भवत्य् ऐन्द्रम् अन्येषां प्रथमं वीर्यं वै बृहस्पतिर् वीर्यम् इन्द्रो वीर्य एवैनम् अभिसन्धत्त आदित्यनामानि वा एतान्य् आदित्या वा इमाः प्रजास् ताभ्य एव सूयते सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीत्य् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिर् अभिषिञ्चतीन्द्रस्य योनिर् असि जनयेत्य् अतो वा अधीन्द्रो ऽजायत स्वाद् एवैनं योनेर् जनयत्य् अति द्यून् पाहीत्य् आह स्वर्गस्य लोकस्य समष्ट्यै समाववृत्रन्न् अधराग् उदक् ता इति समुन्मार्ष्टीन्द्रियं वा एतद् वीर्यम् अभिषिच्यमानस्य व्यवैति तद् एव समुन्मार्ष्टि तेनैनं समर्धयत्य् ऐन्द्र्या त्रिष्टुभा ब्रह्मान्वेत्य् ऐन्द्रो वै राजन्यस् त्रिष्टुप्छन्दाः स्वेनैवैनं छन्दसान्वेत्य् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतेर् अधीन्द्रो ऽसूयत प्रजापतेर् एवाधि सूयत इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेद् इति रथम् उपावहरति स्वयैव देवतया मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति स्वयैव देवतया विष्णोः क्रमो ऽसि सपत्नहेति रथम् अभ्यातिष्ठत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते मरुतां प्रसवे जयेति मारुत एव गणो भूत्वोज्जयति राजन्यं जिनात्य् अन्तम् एवाक्रमीत् तद् अस्य न कश्चनाज्येय उञ्शिष्यते तस्मै ताम् इषुम् अस्यति तद् अस्यामोघायास्तम् अभूद् आप्तं मनः सम् इन्द्रियेणेत्य् उक्त्वा वर्तते ऽन्तम् एव गत्वावर्तत आत्मनो ऽहिंसायय् एष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेद् इति पत्न्यै धन्वार्तिं प्रयछत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतः

॥४.४.५॥

इयद् अस्य् आयुर् अस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति युङ्ङ् असि वर्चो ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधात्य् ऊर्ग् अस्य् ऊर्जं मयि धेहीतीयं वै रजतासौ हरिणीमे एवालभ्योर्ग् वा उदुम्बर ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च मित्रो ऽसीतीमम् उपावहरति मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं सद् असि सम् अहं विश्वैर् देवैर् इति हस्ता आमिक्षाम् अभ्यवहरति सद् वा आमिक्षा सद् एवाभ्यवहरति तत्र ते हिरण्ये ददाति सा दक्षिणा हिनस्ति खलु वा एष पशून् पृथिवीम् अभ्यवरोहन् नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहत्य् आरण्यान् एव पशून् अभ्यवरोहति वराहस् त्व् एवैतं सग्धुम् अर्हति तद् वराह एवैनं सघ्नोति प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोद् इति वरुणसवो वा एष वरुणायैवैनं प्राह नि त्रितो जरिमाणं न आनड् इति जरिमाणम् एवास्मिन् युनक्ति स्योनासि सुषदेति स्योना ह्य् एषा सुषदा स्योनाम् आसीद सुषदाम् आसीदेति सुषदैवैनं सादयति ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥ इति वरुणसवो वा एष वरुणम् एवैनम् अकर् अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहेति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति रथं वा एतत् परिवदति सह सारथिना रथवाहने रथम् आदधति सर्वत्वायैव प्रसवाय ब्रह्मा३ंस् त्वं ब्रह्मासीति किम् अभूं किम् अभूम् इति वा एतद् आह सवितासि सत्यसवा इतीदम् असीदम् असीति वावैनम् एतद् आह यद्यद् भवत्य् एष वज्रस् तेन मे रध्येति स्फ्यं प्रयछति वज्रो वै स्फ्यो वज्रेण वा एतद् राष्ट्रं रन्धयते तम् अवरस्परं प्रयछति तेनावरस्परं राष्ट्रं रन्धयमाण एति तस्माद् वा एत एतस्मा अवरस्परं रद्धा बलिं हरन्ति तेन स्फ्येनाधिदेवनं कुर्वन्ति तत्र पष्ठौहीं विदीव्यन्त आशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकस् ततश् चतुःशतम् अक्षाण् अवोह्याह ॥

उद्भिन्नं राज्ञः ॥ इति चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रस् तेषाम् एवैनम् उद्भेदयति ततः पञ्चाक्षान् प्रयछन्न् आह दिशो अभ्यभूद् अयम् इतीमा एवास्मै पञ्च दिशो ऽन्नाद्याय प्रयछति क्षेत्रं ददाति तेन क्षेत्रे धृतो भवति वरं वृणीते सो ऽस्मै कामः समृध्यते यत्कामो भवति मङ्गल्यनाम्नो ह्वयति यत् पूर्वं व्याहार्षं तन् नेन् मोघम् असद् इत्य् असा अमुष्य पुत्रो ऽमुष्यासौ पुत्र इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्ट्यै

॥४.४.६॥

समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् दशपेयश् छिद्यते यद् अवभृथम् अवयन्ति यद् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति जुह्वत आयन्ति यज्ञस्य सन्तत्या अविछेदाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवाः संसृप्स्व् अन्वैछन् यत् सावित्रः सवितृप्रसूता एवान्वैछन् यत् सारस्वतो वाग् वै सरस्वती वाच्य् एवान्वैछन् यत् पौष्णः पशवो वै पूषा पशुष्व् एवान्वैछन् यद् बार्हस्पत्यो ब्रह्म वै बृहस्पतिर् ब्रह्मण्य् एवान्वैछन् यद् ऐन्द्र इन्द्रियं वा इन्द्र इन्द्रिय एवान्वैछन् यद् वारुणो वरुण एवान्वैछन् यत् त्वाष्ट्रः संवत्सरो वै त्वष्टा संवत्सर एवान्वैछन् यद् आग्नेयो ऽग्निर् वै सर्वा देवता देवतास्व् एवान्वैछन् यत् सौम्यः सौमीर् वा ओषधय ओषधीष्व् एवान्वैछन् यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एवान्वैछंस् तं विष्णा अविन्दन् दशमे तस्माद् एष दशमो दशमे ह्य् अविन्दन् दश चमसा दश चमसाध्वर्यवो दशदश चमसान् अभिता आ दशमात् पुरुषाद् अन्वाचष्टे समृद्ध्यै दशसमृद्धो ह्य् एष यज्ञ एतं वै ते तद् यज्ञम् अन्वैछंस् त आर्ध्नुवंस् तद् य एतेन यजत ऋध्नोति सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्ध इन्द्रो वै वृत्रम् अहंस् तस्येमे रूपाण्य् उपैतां चित्राणीयम् नक्षत्राण्य् असौ नक्षत्राणां वा अवकाशे पुण्डरीकं जायते क्षत्रस्य वा एतद् रूपं क्षत्रस्यैव रूपं प्रतिमुञ्चते द्वादशपुण्डरीका भवन्ति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे

॥४.४.७॥

रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।

रुक्मो होतुर् आग्नेयो वै होता न वा एतस्मै व्युछति व्य् एवास्मै वासयति स्रग् उद्गातुः सौर्यो वा उद्गाताथो अमुम् एवास्मा आदित्यम् आप्त्वोन्नयति प्रावेपा अध्वर्योर् यमा इव ह्य् अध्वर्युः ॥

अश्वः प्रस्तोतुः प्राजापत्यो वा अश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्य् एष प्रोथति प्रेव प्रस्तोता धेनुः प्रतिहर्तुः प्रतीवा ह्य् एषा हरति प्रतीव प्रतिहर्ता वशा मैत्रावरुणस्य वशं मा नयाद् इत्य् ऋषभो ब्राह्मणाञ्शंसिनः सेन्द्रियत्वाय वासः पोतुः पवित्रत्वायानड्वान् नेष्टुर् अग्नीधो ऽन्यो युक्त्या एव स्थूरि यवाचितम् अछावाकस्य स्थूरीर् इव ह्य् एषा होत्रा स्वर्ग्या यद् अछावाक्याथो निर्वरुणत्वायैव यवा न वा अस्यै तर्हि सदस्येभ्यो दक्षिणा दीयन्ते त एवास्यै तेनाभीष्टाः प्रीता भवन्ति द्वादश पष्ठौहीर् गर्भिणीर् ब्रह्मणो वाग् वै धेनुर् गर्भो मन्त्रो वाच्य् एवास्य मन्त्रं दधात्य् आमन्त्रणीयो ह भवति धेनुम्भव्या भवन्ति द्वादश वै पयांसि तान्य् अस्मिन् दधाति तस्माद् वा एतम् आहुः पयस्वी राजा पुण्या इति यावद् धि पयस् तद् अस्मिन् धीयते

॥४.४.८॥

श्रायन्तीयं ब्रह्मसामं भवत्य् अनुष्टुप्सु यज्ञायज्ञियं प्रोहन्ति वारवन्तीयम् अग्निष्टोमसामम् इन्द्रो वै वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतत् सामापश्यत् तेनात्मानं समश्रयतौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते तद् एतेनैवात्मानं संश्रयते ब्रह्म वै यद् अग्रे व्यभवद् ऋक् साम यजुस् तस्य वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते वाग् अनुष्टुब् यद् अनुष्टुप्सु यज्ञायज्ञियं भवति वाच्य् एवास्य रसं दधातीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत इन्द्रियं वीर्यं वारवन्तीयं यद् वारवन्तीयम् अग्निष्टोमसामं भवतीन्द्रियस्य वीर्यस्यावरुद्ध्यय् अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेन तद् इन्द्रियस्यैवैते वीर्यस्य परिगृहीत्यै यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एता दिशाम् अवेष्टय इमं वा एतल् लोकं पुनर् उपावरोहत्य् अन्नकामो यजेतैतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽध्य् अन्नाद्यम् अवरुन्द्धे यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद् यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रम् एकधैवास्मिन्न् अन्नाद्यं प्रतिष्ठापयति समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् यज्ञश् छिद्यते यत् सन्तिष्ठते यद् एताः प्रयुज उपैति सायम् अन्याः प्रातर् अन्या द्वौ वा ऋतू अहश् च रात्रिश् च ता एव प्रयुङ्क्ते षड् अन्याः षड् अन्याः षड् वा ऋतव ऋतून् एव प्रयुङ्क्ते ता उभयीर् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एव प्रयुङ्क्ते ऽनड्वाहौ दक्षिणा युक्त्या एव मारुती पृश्निः पष्ठौही गर्भिणीति विड् वै मरुतो विशो वा एनम् एतद् गर्भं करोति तस्माद् वा एष विशः प्रियः प्रियो हि गर्भ आदित्याजा मलिहा गर्भिणीतीयं वा अदितिर् अस्या वा एनम् एतद् गर्भं करोति तस्माद् वा एष दुःपराणोदो ऽस्या हि गर्भो ऽथैते सत्यदूताः प्रसवाय सावित्रो देवा असुरैर् विजयम् उपयन्तो ऽश्विनोः पूषणि सत्यं न्यदधत वाग् वै सरस्वती वाचा सत्यं प्रहिणोति ॥

एतल् : फ़्न् एमेन्देद्। एद्।: एतं

अभ्यषिक्षि राजाभूम् ॥ इति श्रद् धास्मै सुषुवाणाय दधति संवत्सरम् अग्निहोत्रं जुहोत्य् अनुसन्तत्यै

॥४.४.९॥

अग्निष्टोमम् अग्रे ज्योतिष्टोमम् आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखम् एवालभ्य सवम् आक्रमते ऽथैष त्रिष्टोमस् तस्य त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं तेजो वै त्रिवृत् क्षत्रं पञ्चदशस् तेज एवास्य क्षत्रे दधाति न वा अत्रापि सप्तदशस् तायते प्रजापतिर् वै सप्तदशो यज्ञः प्रजापतिर् यद् यज्ञस् तायते तेन सप्तदशो ऽनन्तरितः पञ्चदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनम् इति विड् वा एकविंशः क्षत्रं पञ्चदशो विशि वावास्यैतत् क्षत्रं प्रतिष्ठापयाम् अकः सर्वे चतुस्त्रिंशाः पवमाना अभिषेचनीयस्य त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः प्रीता भवन्त्य् अथ य एष चतुस्त्रिंशः प्रजापतिर् वै चतुस्त्रिंशः प्रजापतिम् एवाप्नोति संशरो वा एष स्तोमानाम् अयथापूर्वं यद् विषमाः स्तोमा यत् समाः पवमानास् तेनैवासंशरस् तेन यथापूर्वम् आत्मना वा अग्निष्टोमेन ऋध्नोत्य् आत्मना पुण्यो भवति प्रजा वा उक्थानि पशव उक्थानि यद् उक्थ्यो ऽनुसन्तत्यै यो वै सवाद् एति नैनं सव उपनमति यः सामभ्या एति पापीयान्त् सुषुवाणो भवति यानि देवराजानां सामानि यत् तेभ्यो नैति तेनैव सवान् नैत्य् एतानि वै सामानि यत् पृष्ठानि यत् पृष्ठान्य् उपयन्ति तेनैव सामभ्यो नैति यानि देवराजानां सामानि तैर् अस्मिंल् लोक ऋध्नोति यानि मनुष्यराजानांस् तैर् अमुष्मिंस् तद् उभयोर् एवैतैर् लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् चोद्वतीषु स्रुवत उद्वद् वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यस् तस्माद् उद्वतीषु स्रुवते ऽनुष्टुप् प्रथमा भवत्य् अनुष्टुब् उत्तमा वाग् वा अनुष्टुब् वाचा वा एतत् प्रयन्ति वाचोद्यन्ति सौर्य् अनुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यय् एकविंशं केशवपनीयस्य बहिष्पवमानम् एकविंशम् अभिषेचनीयस्योत्तमम् इति विड् वा एकविंशः क्षत्रं सप्तदशो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एष प्रतीचीनस्तोम इमं वा एतल् लोकं पुनर् उपावरोहति

॥४.४.१०॥
प्रपाठक 5

चतुर्थकाण्डे पञ्चमः प्रपाठकः

चतुर्थकाण्डे पञ्चमः प्रपाठकः

अपो वै वृत्रः पर्यशयत् ततो या अत्यमुच्यन्त ता जीवा यज्ञिया गिरिर् वै वृत्रो या अतिमुमुचाना धावन्ति ता जीवा यज्ञिया यद् वहन्तीनां गृह्णाति या एव जीवा यज्ञियास् तासाम् एव गृह्णाति प्रतीपम् उपमारयत्य् अछम्बट्काराय सूर्यस्यावकाशे गृह्णाति सेन्द्रा एव गृह्णाति हविष्मतीर् इमा आपा इति हविष्मतीर् एव गृह्णात्य् आविःसूर्ये गृह्या उत्तरम् एव यज्ञक्रतुम् अभिगृह्णात्य् अनुष्टुभा गृह्णात्य् अनुष्टुब् वै सर्वाणि छन्दांसि सर्वैर् एवैनाश् छन्दोभिर् गृह्णाति वर्ष्म वा एषा छन्दसां वर्ष्मैनं समानानां गमयति चतुर्भिर् गृह्णाति त्रिभिः सादयति तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे ऽपो वै रात्रिर् दिवा भूते प्रविशति तस्माद् आपो दिवा कृष्णा अपो ऽहर् नक्तं तस्माद् आपो नक्तं शुक्ला यद् दिवा गृह्णात्य् उभे एवाहोरात्रे गृह्णाति दिवा वै मनुष्या यज्ञेन चरन्ति नक्तं देवास् तस्माद् रात्रिभिः श्रवस्यते संस्थाप्य वै मनुष्या यज्ञं निःपद्यन्त आपः खलु वै विश्वे देवा यद् अपः परिहरन्त्य् अद्भ्यो वा एतद् यज्ञं सम्प्रादाद् अन्यस्ते ऽस्य यज्ञे क्रियते यद् वै यज्ञस्यान्तर्यन्ति तच् छिद्रं तद् अनु रक्षांसि यज्ञम् अवयन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति यद् अपः परिहरन्ति रक्षसाम् अनन्ववायाय या दिवा गृह्णाति या अत्रीः प्रजास् तासाम् एता योनिस् ता एता अनुप्रजायन्ते या नक्तं गृह्णाति या आद्याः प्रजास् तासाम् एता योनिस् ता एता अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चाग्नीध्रे सादयत्य् एतद् वा अनभिजितम् अथो अत्र हि तां रात्रिं देवता उपवसन्ति देवा वै यज्ञस्य श्वस्तनं नापश्यंस् ते वा एतद् एव यज्ञस्य श्वस्तनम् अपश्यन् यद् वसतीवरीर् यद् वसतीवरीर् गृहीत्वोपवसन्ति श्वस्तनं वा एतद् यज्ञस्यालभ्योपवसन्त्य् अथो आपो वै विश्वे देवाः सर्वा वा एतद् देवता आलभ्योपवसन्ति यस्यागृहीताः सूर्यो ऽभिनिम्रोचेद् य आहिताग्निः सोमयाजी तस्य कुम्भाद् गृह्यास् तस्य हि गृहीता अग्निम् उपरिष्टाद् धारयेयुर् अथ गृह्णीयाद् ज्योतिष्मतीर् एवैना गृह्णाति हिरण्यं हस्ते भवत्य् अथ गृह्णाति सत्यं वै हिरण्यं सत्येनैवैना गृह्णाति वरो दक्षिणा वरेणैवैना गृह्णाति यत् तत्र धनम् अदास्यन्त् स्यात् तद् देयम्

॥४.५.१॥

प्रचरण्याम् अग्रे गृह्णात्य् एषा ह्य् अग्रे प्रचरत्य् अपो वै सोमस्य रसः प्रविष्टो ऽग्निः सर्वा देवता वैश्वदेवीर् आपो यज्ञमुखं ग्रावाणः सवितृप्रसूतो वा एतत् सर्वाभिर् देवताभिर् अपां सोमस्य रसम् अछैति शृणोत्व् अग्निः समिधा हवं मा इति यस्मिन्न् एवाग्नौ जुहोति तम् एतद् आह शृण्वन्त्व् आपा इति या एवापो ऽछैति ता एतद् आह धिषणा च देवीति वाग् वै धिषणा देवी वाचं वा एतद् आह शृणोत ग्रावाणो विदुषो नु यज्ञम् इति यज्ञमुखं हि ग्रावाणः शृणोतु देवः सविता हवं मा इत्य् आह प्रसूत्या एव ॥

अप इष्य होतः ॥ इति यज्ञं प्रेष्येति वा एतद् आह ॥

प्र ब्रह्मणा इति ब्रह्मणैव यज्ञम् अछैति मैत्रावरुणस्य चमसेनाछैत्य् एष ह्य् अग्रे प्रचरत्य् अथो मित्रावरुणौ ह्य् अपाम् ईशाते यज्ञमुखं वै मित्रावरुणौ यज्ञमुखम् आपो यज्ञमुखेनैव यज्ञमुखम् अछैति यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात् तद् अपो ऽध्वर्युर् गृह्णीयाद् यन् नोपशृणुयाद् बधिरः स्याद् वाचो हि छिद्यते ऽथ यज् जुहोति हविर् भूता एवैना गृह्णात्य् अथो अभिघृता एव तृणं प्रास्य जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एता घारयन्ति तस्माद् आहुतिम् अपप्लावयत्य् अथो आहुतिं नेद् धराणीति कार्ष्य् असीत्य् आहुतिम् अपप्लावयति समुद्रस्य वो ऽक्षित्या उन्नया इत्य् उपसारयत्य् अपाम् एवाक्षित्यय् अपो वै सोमस्य रसः प्रविष्टः सोमम् अपां रसो ऽपाच् च खलु वै नपाच् चापां सोमस्य रसस्येशाते तौ वा एतद् आहुत्या भागधेयेनापां सोमस्य रसं निरयाचिष्टोभे अहोरात्रे वसतीवरीषु ग्रहीतव्ये इत्य् आहुः पूर्वेद्युर् अन्या गृह्णाति पुरान्याः सूर्यस्योदेतोस् तथास्योभे अहोरात्रे वसतीवरीषु गृहीते भवतः पूर्वेद्युर् अन्या गृह्णाति पुरान्याः सूर्यस्योदेतोर् उभयीर् एवैनाः सद्योगृहीता अकर् भ्रातृव्या वा एता गृह्यन्ते या मैत्रावरुणस्य चमसे याश् च निग्राभ्यास् ता उभयीर् उपरिष्टाच् चात्वालस्य समनक्ति सञ्ज्ञानम् आभ्यः करोति मित्रम् आभ्यो ददाति चात्वालान् निर्गृह्यन्त एष वा अपां योनिः स्वाद् एव योनेर् निर्गृह्यन्ते ऽस्कन्नत्वाय ॥

प्र : फ़्न् एमेन्देद्। एद्।: प्र।

अवेर् अपो ऽध्वर्या३ओम् ॥ इत्य् अविदो यज्ञा३म् इति वा एतद् आह ॥

उतेम् अनम्नमुर् उतेमं पश्य ॥

अयं मे रद्ध इति वा एतद् आह यद्य् अग्निष्टोमो जुहोति न वा अग्निम् अग्निष्टोमस्य स्तोत्रेण न शस्त्रेणातियन्त्य् अग्निष्टोमम् एव यज्ञक्रतुम् अनुसन्तनोति यद्य् उक्थ्यः परिधिम् अनकति परे वा अग्नेः परिधयः पराणि परिधिभ्य उक्थान्य् उक्थान्य् एव यज्ञक्रतुम् अनुसन्तनोति यद्य् अतिरात्र एतद् एव यजुर् वदन् हविर्धानं प्रपद्येत परं वै परिधिभ्यो हविर्धानं परोक्थेभ्यो रात्री रात्रीम् एव यज्ञक्रतुम् अनुसन्तनोति स्तेनं मनो ऽनृतवादिनी वाग् अथ केन सोमा गृह्यन्ते केन हूयन्ता इति पृछेद् ऋतं वै सत्यं हिरण्यम् ऋतेनैव सत्येन गृह्यन्त ऋतेन हूयन्ते

॥४.५.२॥

देवेभ्यो वै मनुष्येभ्यः स्वर्गाय लोकाय यज्ञ आह्रियते यद् धृदे त्वेति तेन देवेभ्यो यन् मनसे त्वेति तेन मनुष्येभ्यो यद् आह दिवे त्वा सूर्याय त्वेति तद् अनु यज्ञं स्वर्गं लोकं समारोहयति वि वा एतद् यज्ञश् छिद्यते यस्मै कम् आह्रियते तद् ध्य् एनम् अनु स्वर्गं लोकं समारोहयति यद् आह दिवि देवेषु होत्रा यछेति होत्राभिर् वै यज्ञः सन्ततो होत्राभिर् एव यज्ञं सन्तनोति ॥

देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहि ॥ इति छन्दांसि वै देवाः प्रातर्यावाणश् छन्दोभ्यो वा एतद् अनुवाच आह पुरा वाचः प्रवदितोः प्रातरनुवाकम् अन्वाह यजमानायैव वाचं गृह्णाति न वा एतर्हि यजमानो हस्ता अवनेनिक्ते यद् अप्सुमतीं प्रथमाम् अन्वाह प्रातरवनेगो वा एष यजमानस्य यत्र वा अदो ऽपः परिहरन्त्य् अद्भ्यो वा एतद् यज्ञं सम्प्रादाद् यद् अप्सुमतीं प्रथमाम् अन्वाहाद्भ्यो वा एतद् यज्ञं पुनर् आलभते सर्वेषां वै देवानां प्रातरनुवाक आपः खलु वै विश्वे देवा यद् अप्सुमतीं प्रथमाम् अन्वाह सर्वा वा एतद् देवता अप्नोति सर्वा व्यश्नोति यथा वै सामिधेनीर् एवं प्रातरनुवाक आसाद्य वै हविः सामिधेनीर् अन्वाहुर् एतत् खलु वा एतर्हि हविर् यत् सोमस् तस्मात् सोमम् उपावहृत्यान्वाह गायत्रीं च सम्पादयति जगतीं च तद् द्वे छन्दसी एकं छन्दो ऽभिसम्पादयति बृहतीं त्रिष्टुभं च ककुभं च तद् द्वे छन्दसी एकं छन्दो ऽभिसम्पादयति बृहतीम् अनुष्टुभं च पङ्क्तिं च तत् षट् छन्दांस्य् एकं छन्दो ऽभिसम्पादयति बृहतीम् अनुष्टुप्प्रतिपत्कानि छन्दांसि कुर्याद् यज्ञावकीर्णस्य वाग् वा अनुष्टुब् वाचैवैनं भिषज्यति समया त्रिष्टुभं च जगतीं चानुब्रूयात् पशुकामस्य पशवो वै जगती पशुमान् भवति सर्वाणि छन्दांश्य् अन्वाह प्रजापतिर् वै छन्दांसि प्रजापतिम् एवाप्नोति प्रजापतेर् वा एतद् उक्थं यत् प्रातरनुवाको व्युष्टायां पुरा सूर्यस्योदेतोर् अनुब्रूयाद् एष हि प्रजापतेर् लोकः पवित्रं वै प्रातरनुवाको यजमानम् एवैतेन पुनाति शतम् अनुब्रूयाद् आयुःकामस्य शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति सप्त च शतानि विंशतिं चानुब्रूयात् पशुकामस्यैतावन्ति वै संवत्सरस्याहोरात्राणि संवत्सरेणैवास्मै पशून् अवरुन्द्धे सहस्रम् अनुब्रूयात् स्वर्गकामस्य यावद् वै सहस्रं तावद् इते ऽसौ लोकः स्वर्गस्य लोकस्य समष्ट्यय् अपरिमिता अन्वाहापरिमितस्यावरुद्ध्यै पङ्क्त्या परिदधात्य् उत्तरम् एव यज्ञक्रतुम् अभिगृह्णाति

॥४.५.३॥

यज्ञस्य वा एताः पन्नेजनीः पुंसाम् अग्नीत् स्त्रीणां नेष्टा यद् अग्नीन् नेष्टुर् उपस्थम् आसीदति मिथुनं वा एतत् सम्भवतो यत् तर्ह्य् अप उपप्रवर्तयति तस्मिन्न् एव मिथुने रेतो दधाति पत्न्य् उपप्रवर्तयति पत्न्या हि प्रजाः प्रजायन्त ऊरुणोपप्रवर्तयत्य् ऊरुं ह्य् अनु प्रजाः प्रजायन्ते दक्षिणेनोरुणोपप्रवर्तयति दक्षिणं ह्य् ·रुम् अनु प्रजाः प्रजायन्ते ऽन्तरत उपप्रवर्तयत्य् अन्तरतो हि प्रजाः प्रजायन्ते यद् दक्षिणा प्रवर्तयेत् पितृलोक एना निधुवेद् अथ यद् उदीचीर् उपप्रवर्तयति मनुष्यलोकम् एवैना उपप्रजनयति प्राजापत्यो वा उद्गाता सङ्क्शाप्यमानो वा उद्गाता पत्न्या रेता आदत्ते यद् आह वामी ते सन्दृशि विश्वं रेतो धेषीयेति तथा ह नादत्ते द्वादशे स्तोत्र उपप्रवर्तयति द्वादश मासाः संवत्सरो द्वादशाग्निष्टोमे स्तोत्राण्य् आपः शान्तिर् यत् तर्ह्य् अप उपप्रवर्तयति शमयत्य् एव देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्यू पूष्णो हस्ताभ्याम् इति देवताभिर् एव ग्रावासीति राते ह्य् एष देवेभ्यः सोमम् अध्वरकृद् देवेभ्या इत्य् अद्वरं ह्य् एष देवेभ्यः करोतीन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् इत्य् ऐन्द्रो हि यज्ञ इन्द्रं खलु वा एतर्ह्य् अन्या देवता अन्व् इन्द्राय त्वा वसुमते रुद्रवता इति वसवश् च ह्य् एनम् एतर्हि रुद्राश् चान्व् इन्द्राय त्वादित्यवता इत्य् आदित्या ह्य् एनम् एतर्ह्य् अन्व् अग्नये त्वा रायस्पोषद इत्य् अग्निर् वै सर्वा देवता एता ह्य् एनम् एतर्हि देवता अनु विष्णवे त्वेति विष्णुर् हि यज्ञो व्यानो वा उपांशुसवनः प्रजा अंशवो व्यानं वा एतत् प्रजासु दधाति श्वात्राः स्थ वृत्रतुरा इत्य् एष वा अपां सोमपीथ एतं वै विश्वामित्रो ऽपां सोमपीथं विदाञ्चकार तस्मै सिन्धवो धोक्षम् अनमन्तापां वा एष सोमपीथो ऽपो वा एतत् सोमपीथेन समर्धयति यो वा अपां सोमपीथं वेद न ह वा आस्व् आर्तिम् आर्छति करोत्य् आसु वीर्यं यत् ते सोम दिवि ज्योतिर् इति सोमो वै वाजस् तस्य चन्द्रमास् तृतीयम् अयं यः पवते स तृतीयं येन यजन्ते स तृतीयं गर्भान् अमुना दाधार प्राणान् अनेन यछत्य् अयं यः पवते ऽन्नम् अनेन दाधार येन यजन्ते तस्य वै वाजस्य सत्यं वाजिनम् अन्नं वाजिनं दक्षिणा वाजिनं ता वा अस्यैतत् तन्वः सम्भृत्य तं सर्वं सतनुं भूतम् आप्याययन्ति वज्रो वै ग्रावा हनू अधिषवणे क्रूरम् इव वा एतद् यज्ञे क्रियते यद् आह धिषणे ईडिते ईडेथाम् इति शमयत्य् एव

॥४.५.४॥

वसतीवरीभिः सोमम् आप्याययन्ति न हि सोमेन सोम आप्यायते ऽद्भिर् हि सोम आप्यायते निग्राभ्याभिर् उपांशुम् अतो हीतरे सोमा गृह्यन्ते प्राणो वा उपांशुर् अङ्गानीतरे ग्रहा यद् अन्यत आप्याययेयुः प्राणेन यज्ञं विछिन्द्युर् अष्टौ कृत्वः प्रातर् अभिषुणोत्य् अष्टाक्षरा गायत्री गायत्रीं वा एतत् प्रातःसवने व्यायातयन्ति देवाश् च वा असुराश् चास्पर्धन्त ते देवा उपांशौ यज्ञं संस्थाप्यम् अपश्यंस् तम् उपांशौ समस्थापयंस् तद् उपांशा एव यज्ञः संस्थाप्यो ऽष्टौ कृत्वः प्रातर् अभिषुणोत्य् अष्टाक्षरा गायत्री गायत्रीम् एवाप्नोति यद् एकादश त्रिष्टुभं तेन यद् द्वादश जगतीं तेन त्रिर् विगृह्णाति त्रीणि वै सवनानि सवनान्य् एवाप्नोत्य् एतद् वा उपांशौ यज्ञं समतिष्ठिपंस् तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति त्रिर् विगृह्णाति त्रयो हीमे प्राणाः प्राणो ऽपानो व्यानो ऽथो त्रयो वा इमे लोका इमान् एव लोकान् आप्नोत्य् असौ वा उपांशुर् अन्तरिक्षम् अन्तर्याम इयम् उपयामो यद् उपयामगृहीता गृह्यन्ते ऽनया वा एतद् गृह्यन्ते तद् अस्कन्ना वा एते ऽनया हि गृह्यन्ते यत् स्थाल्या गृह्यन्ते ऽनया वा एतद् गृह्यन्ते ऽस्या वा एषाधिक्रियते तद् अस्कन्ना वा एते ऽनया हि गृह्यन्ते यद् दारुमयेण गृह्यन्ते ऽनया वा एतद् गृह्यन्त इयं हि वनस्पतीनां योनिस् तद् अस्कन्ना वा एते ऽनया हि गृह्यन्त एष ते योनिर् इति सादयतीयं वै सोमस्य योनिर् अस्याः सोमो ऽधि जायते स्व एवैनं योनौ दधातीयं वै देवपात्रं तद् य एवं वेद प्र वसीयसः पात्रम् आप्नोति ब्रामणं तु पात्रे न मीमांसेत यः पात्रिय इव स्याद् अनुपयामगृहीतो गृह्यते ऽनुपयामगृहीतं हि प्रजाः प्राणम् उपजीवन्त्य् अपवित्रपूतो गृह्यते ऽपवित्रपूतं हि प्रजाः प्राणम् उपजीवन्त्य् असन्नो हूयते ऽसन्नं हि प्रजाः प्राणम् उपजीवन्ति पवित्रपूता वा अन्ये सोमा अथ वा एष वाक्पूतो यद् उपांशुस् तस्माद् वाचस्पतये पवस्वेत्य् आह वाक्पूतो ह्य् एषो ऽंशुभिः पावयति प्राणा वा अंशवः प्राणैर् एवैनं पावयति द्वाभ्यान्द्वाभ्यां पावयति द्वौद्वौ हीमे प्राणा देवो देवानां पवित्रम् असीति यत् स्वित् सोमं सोमेन पुनाति स्वाङ्कृतो ऽसीति प्राणम् एव स्वम् अकृत मनस् त्वाष्ट्व् इति मनसैव प्राणम् आप्नोति स्वाहा त्वा सुभव सूर्यायेति सूर्यदेवत्या हि सर्वे सोमा हूयन्ते ऽथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्धे देवेभ्यस् त्वा मरीचिपेभ्या इति रश्मयो वै देवा मरीचिपाः परिधयो रश्मयो ऽसा आदित्य आहवनीयस् तान् एव प्रीणात्य् ऊर्ध्वस् तिष्ठन् जुहोत्य् ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो यं द्विष्यात् तस्य जिह्मस् तिष्ठन् जुहुयात् प्राणान् अस्य व्लिनाति विह्वारुको भवति यद्य् अभिचरेद् आ तमितोस् तिष्ठेद् अग्निर् आहुतिम् अभित्वरमाणस् ताजग् अनुगछति यदि कामयेत वर्षेत् पर्जन्या इति परिमृज्योर्ध्वम् उन्मृज्याद् ओषधीभ्यो वा एषो ऽमुतो वर्षत्य् ओषधीर् एव नेदीयो वृष्ट्या अकर् यदि कामयेत वर्षेत् पर्जन्या इति परिमृज्यावाचीनम् अवमृज्याद् वैश्वानरेणैव वृष्टिम् अपि हन्ति नापिधेयो यद् अपिदध्यात् प्राणम् अस्यापिदध्यात् प्रमायुकः स्याद् यं द्विष्यात् तस्यापिदध्यात् प्राणम् एवास्यापिदधाति यद्य् अभिचरेत् ॥ इदम् अहम् अमुष्यामुष्यायणस्य प्राणम् अपिदधामि ॥ इत्य् अपिदध्यात् प्राणम् एवास्यापिदधाति ॥

इति : फ़्न् ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। ११४

इदम् अहम् अमुष्यामुष्यायणस्य प्राणे सादयामि ॥ इत्य् अभिचरन्त् सादयेत् प्राण एवास्य सादयति प्रमायुको भवति प्राणाय त्वेत्य् अनभिचरन्त् सादयेत्

॥४.५.५॥

पवित्रं वितन्वन्ति प्राणापानयोर् विधृत्यय् उपयामगृहीतो गृह्यते ऽपानेन वै प्राणो धृतः प्राणस्य धृत्यय् अन्तरिक्षं वा अन्तर्यामो ऽन्तरिक्षम् इमाः प्रजा यद् एतद् पात्रं सूदवत् सादयति प्रजास्व् एव रसं दधाति देवाश् च वा असुराश् चास्पर्धन्त ते देवा उपांशुम् अपश्यंस् तम् अगृह्णत तं पुरा स्तोत्रात् पुरा शस्त्राद् धोतुम् उपोदतिष्ठंस् ते ऽसुरा अचिकयुर् जुह्वति वा इति ते वज्रम् आदायाभ्यपतंस् ते देवा अन्तर्यामम् अपश्यंस् तम् अगृह्णत तेनासुरान् एभ्यो लोकेभ्यो ऽन्तरदधत ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् अन्तर्यामं गृह्णीते ऽन्तर्यामेनैव भ्रातृव्यम् एभ्यो लोकेभ्यो ऽन्तर्धत्ते भवत्य् आत्मना परास्य भ्रातृव्यो भवति प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एष ग्रावान्तरैते पात्रे साद्यते प्राणापानयोर् विधृत्यै यो वा एता ईजते येनैतौ विधृता एष वाव स उपांशुसवनो ग्रावा प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे एतं ग्रावाणम् आ तृतीयात् सवनान् न जहीतस् तस्मात् सुप्तस्य सर्वाण्य् अन्यानि श्रोत्राण्य् अपक्रामन्ति प्राणापानौ त्व् एनं न जहीतो ऽथ यत् पुनर् अर्दयति तस्मात् सुप्त्वा पुनः प्रबुध्यन्ते प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे एतं ग्रावाणम् आ तृतीयात् सवनान् न जहीतस् तस्मात् पक्षिणो वियत्य पक्षान् ईरयन्तो नावपद्यन्ते ऽथ यत् पुनर् अर्दयति तस्मात् पुनर् अभ्यायुवते प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे पुनः प्रयुज्येते तस्माद् इमौ द्वा अधस्तात् प्राणौ घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्त्य् अद्वर्युः प्रथमो ऽभिषुणोति व्यर्धुको भवति यत्र मूलं तद् अभिषुत्य एतद् वा अस्य विदेवतमं तथा हाव्यर्धुको ह भवति यो वै देवक्षेत्रं विद्वां समर्पयत्य् आर्तिम् आर्छति पात्राणि वाव देवक्षेत्रं यत्र वा अग्रे ऽध्वर्युः सोमं जुहोति तद् एनं देवताः प्रत्यासत इह नो परमा ह रिष्यतीति यत् ततो ऽन्यत्र जुहुयाद् यद् अस्य स्वं तद् अन्येभ्यः प्रयछेद् अस्वो ह भवत्य् एतद् वा अध्वर्योः स्वं यद् आश्रावयति यद् आश्राव्याहुत्वा प्रच्यवेत यद् अस्य स्वं तस्मात् प्रच्यवेतास्वो ह भवत्य् एतद् वा अध्वर्योः स्वं यद् वायव्यं यद् वायव्यम् अनालभ्याश्रावयेद् यद् अस्य स्वं तस्माच् छिद्येतास्वो ह भवति तद् य एवं विद्वान् आश्राव्य हुत्वा वाहुत्वा वा प्रच्यवते बह्व् अस्य स्वं भवति न स्वाच् छिद्यते वायव्यम् आलभ्याश्रावयति स्ववान् एव भवति

॥४.५.६॥

ब्रह्मवादिनो वदन्ति किं तद् यज्ञे क्रियते यस्माद् धस्तादाना अन्ये पशवो मुखादाना अन्य इति यद् उपांशुर् हस्तेन गृह्यते तस्मान् मर्कटः पुरुषो हस्ती ते हस्तादाना मुखं वै वायव्यं यद् वायव्ये नेतरे ग्रहा गृह्यन्ते तस्माद् इतरे पशवो मुखादाना ब्रह्मवादिनो वदन्ति किं तद् यज्ञे क्रियते यस्मात् सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरे पुरुषा इत्य् उपांश्वन्तर्यामौ वा अन्व् अन्ये पशवः पुरुषस् त्वै यज्ञेन सम्मितः प्राणापानौ वा उपांश्वन्तर्यामौ यद् एतौ ग्रहा असन्नौ हूयेते तस्मात् सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरो वा अग्निष्टोमो द्वादश मासाः संवत्सरो यद् एत इतरे ग्रहाः साद्यन्ते तस्मात् पुरुषो जातः संवत्सरे प्रतितिष्ठति यत् ते सोमादाभ्यं नाम जागृवीत्य् एष वै सोमस्य सोमपीथः सोमं वा एतत् सोमपीथेन समर्धयति यो वै सोमस्य सोमपीथं वेद न सोमपीथाच् छिद्यते सोमो वा इमा दिशो ऽभ्यकामयत प्राग् अपाग् अन्धराग् उदग् इत्य् आभिर् एनं दिग्भिः समूहत्य् आभिः समर्धयति कामम् एनं गमयति कामं ह गछति कामुका एनं स्त्रियो भवन्ति यां कामयेत तां तर्हि मनसा ध्यायेत् सा हैनं कामयते ऽम्ब निस्मरेति स्मरेति वा एतद् आह सम् अरिर् विदाम् इति सम् अनेन वित्स्वेति वा एतद् आह चत्वारो वै पृश्नेः स्तना आसंस् ततस् त्रिभिर् देवेभ्यो ऽदुहत् कुशीभिर् एको ऽनुनद्ध आसीत् तं वा इन्द्र एवापश्यत् तेनेन्द्रायैवादुहत् तद् वा अस्य कौशिकत्वं यद् आह ॥ ब्राह्मण कौशिका इव ॥ इति चतुर् निग्राभम् उपैति चत्वारि वै पयांसि यावद् एव पयस् तद् आप्नोति त्रिः सम्भरति तस्माद् एतस्यां त्रयो भागाः प्रातर् मध्यन्दिने सायं चतुर् निग्राभम् उपैति त्रिः सम्भरति तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे नव कृत्वो निग्राभम् उपैति त्रिः सम्भरति तद् द्वादश द्वादश मासाः संवत्सरो द्वादशाग्निष्टोमे स्तोत्राण्य् एषा यज्ञस्य मात्रा स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्य देवास् तमो ऽपाघ्नन् यत् प्रथमं तमो ऽपाघ्नन्त् साविः कृष्णाभवद् यद् द्वितीयं सा लोहिनी यत् तृतीयं सा बलक्षी स स्वेन रूपेण निरमुच्यत यद् बलक्षः पवित्रं भवति ततः शुक्रो गृह्यते यजमानस्य वा एतत् पवित्रं यजमानम् एवैतेन पुनात्य् अमोतं स्याद् आत्मन एवैनद् अकृत यद् अन्यत्रोतम् अपवित्रं तद् यजमानस्य

॥४.५.७॥

पुरुषो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

वाग् वा ऐन्द्रवायवः सा वै वाग् एकधावदद्यावदव्यावृत्तासीत् स इन्द्रो ऽब्रवीन् मह्यम् अत्रापि सोमं गृह्णीताहं व एतां वाचं व्यावर्तयिष्यामीति स वै वाचैव वाचं व्यावर्तयद् यद् ऐन्द्रवायवो गृह्यते वाचो व्यावृत्त्यै वायवे प्रथमं गृह्णाति वायव उत्तमं मध्यत इन्द्रायेन्द्रियेण वा इयं वाङ् मध्यतो विधृतेन्द्रियवतीं वाचं वदति य एवं वेद देवा वै सोमम् अजिघांसंस् तं नाशक्नुवन् हन्तुं वायुर् ह्य् अस्मिन्न् अन्तरासीत् प्राणस् तं देवा अपाशासुर् उप ना आवर्तस्वेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीन् मद्देवत्यान्य् एव पात्राण्य् आसन्न् इति तस्माद् अपतुरीयं वायोः पात्रम् अथ वायव्यान्य् उच्यन्ते ततो वै देवाः सोमम् अघ्नन् स हतो ऽपूयत् तस्माद् देवा उदबीभत्सन्त स वायुर् अब्रवीद् अहं व एतं सोमं स्वदयिष्यामि भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीन् मदग्रा एव ग्रहा गृह्यान्ता इति तं वायुर् मध्यतो व्यवाट् तम् अस्वद्यत् तस्माद् वाय्वग्रा ग्रहा गृह्यन्ते तस्माद् उ शुक्तं प्रवाते विषजन्ति देवा वै प्रातःसवनम् उद्यमं नाशक्नुवंस् तृतीयसवने तर्हि वायुर् आसीत् तं देवाः प्रातःसवनम् अभिपर्यौहंस् तेन प्रातःसवनम् उदयछन्त यद् ऐन्द्रवायवः प्रातःसवने गृह्यते प्राणो वै वायुः प्राणेन व एतन् मुखतो यज्ञम् उद्यछन्ते देवा वै वृत्रम् अजिघांसन् स मित्रो ऽब्रवीन् मित्रो ऽहम् अस्मि नाहं हनिष्यामीति ते ऽब्रुवन् जह्य् एवेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् पयसैव मे सोमं श्रीणान् इति तस्मात् पशवो ऽपाक्रामन् मित्रः सन्न् अद्रुहा इति पशूणां हि पयो यन् मैत्रावरुणं पयसा श्रीणाति पशुभिर् एवैनं सम्यञ्चं दधाति यन् मैत्रावरुणं पयसा श्रीणाति द्विदेवत्यत्वाय यञ् शीतं तेन मैत्रं यत् तप्तं तेन वारुणं ब्रह्म वै मित्रः क्षत्रं वरुणो ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे पञ्च वै ब्राह्मणस्य देवता अग्निः सोमः सविता बृहस्पतिः सरस्वती तस्माद् ब्राह्मणम् अन्ये मनुष्या उपधावन्त्य् एतस्य हि भूयिष्ठा देवतास् तासां तिस्रो ऽवान्तरं श्रोत्रियस्याग्निर् बृहस्पतिः सरस्वती तस्माञ् श्रोत्रियम् अश्रोत्रिया उपधावन्त्य् एतस्य ह्य् अवान्तरं भूयिष्ठा देवतास् ता मैत्रावरुणं प्रति न्यागछन्ति यन् मैत्रावरुणं पयसा श्रीणाति तास्व् एव पयो दधाति नाना वै पुरा मित्रावरुणाभ्यां सोमा अगृह्णंस् ताः प्रजा अन्यान्यस्याः परिहायम् आददत ततो मित्रावरुणाभ्यां सह सोमम् अगृह्णंस् ततो वा अकल्पत यन् मैत्रावरुणं पयसा श्रीणाति मित्रेण वा एतद् वरुणं कल्पयति वरुणेन मित्रं मित्रं वै वृत्रं जघ्निवांसं वरुणो ऽगृह्णात् स देवेष्व् अनाथत ते ऽब्रुवन् वरुणे नाथस्वेति स वरुणे ऽनाथत सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् सहैव नौ पयसा सोमं श्रीणान् इति यन् मैत्रावरुणं पयसा श्रीणाति यजमानस्य निर्वरुणत्वाय यद्य् एनं भ्रातृव्यो ऽतीव स्याद् अङ्गुल्याङ्गुष्ठम् अवगृह्णीयाद् यद्य् अन्व् अङ्गुष्ठेनाङ्गुलिम् ॥

वै : फ़्न् एमेन्देद्। एद्।: व

तस्मात् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यो नो मित्रावरुणा अभिदासात् सपत्नो भ्रातृव्य उत्पिपीते बृहस्पते ।

इदम् अहं तम् अधरं पादयामि यथाहम् उत्तमश् चेतयानि ॥ इत्य् उत्तमो ह चेतयति

॥४.५.८॥

देवा वै सत्त्रम् आसत कुरुक्षेत्रे ऽग्निर् मखो वायुर् इन्द्रस् ते ऽब्रुवन् यतमो नः प्रथम ऋध्नवत् तन् नः सहेति तेषां वै मख आर्ध्नोत् तन् न्यकामयत तन् न समसृजत तद् अस्य प्रासहादित्सन्त स इत एव तिस्रो ऽजनयतेतो धनुस् तत् तिसृणां च धन्वनश् च जन्म स प्रतिधायापाक्रामत् तन् नाभ्यधृष्णुवत् स धन्वार्तिं प्रतिष्कभ्यातिष्ठत् स इन्द्रो वम्रीर् अब्रवीद् एतां ज्याम् अप्यत्तेति ता अब्रुवन्न् अभिमृतायां वा अस्यां न शक्ष्यामो जीवितुं भागो नो ऽस्त्व् इति सो ऽब्रवीद् रसम् एवास्या उपजीवाथेति तस्माद् एताः शुष्काद् आर्द्रम् उद्दिहन्ति रसं ह्य् अस्या उपजीवन्ति ता वै ज्याम् अप्यादंस् तस्य धन्वार्तिर् उदर्द्य शिरो ऽछिनत् स सम्राड् अभवद् अथेतरं त्रेधा व्यगृह्णताग्निः पूर्वार्धम् इन्द्रो मध्यं वायुर् जघनार्धं तस्माद् आग्नेयं प्रातःसवनम् ऐन्द्रं माध्यन्दिनं सवनं वैश्वदेवं तृतीयसवनं वायुर् हि विश्वे देवाः प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो वाग् ऐन्द्रवायवो दक्षक्रतू मैत्रावरुण आश्विनः श्रोत्रं चक्षुषी शुक्रामन्थिनव् आत्माग्रायणो ऽङ्गान्य् उक्थ्यास् आयुर् ध्रुवः स्तना ऋतुपात्रे मूर्धा द्रोणकलशः कुक्षी कलशौ हनू अधिषवणे जिह्वाधिषवणं ग्रावाणो दन्ता अक्षाः परिधयो नासिकोत्तरवेदिः शिखा यूपः शिरो हविर्धानं पृष्ठम् आग्नीध्रम् उदरं सदो यद् अन्तर् उदरे तद् धिष्ण्याः पाणी आग्नीध्रश् च मार्जालीयश् च पार्ष्णी गार्हपत्यः प्रतिष्ठा वेदिर् एष वै प्रजापतिः पात्रीयः स ह त्वा एनं वेद य एवं वेद

॥४.५.९॥
प्रपाठक 6

चतुर्थकाण्डे षष्ठः प्रपाठकः

चतुर्थकाण्डे षष्ठः प्रपाठकः

नवैते प्रातर् ग्रहा गृह्यन्त इमे वा एते गृह्यन्ते नव प्राणा आश्विनो दशमो गृह्यते व्यानो वा एष गृह्यते नाभिर् एव दशमो गृह्यते तृतीयो हूयते तृतीयो ह्य् अयं प्राणः प्राणानां सन्तत्यै सर्वे वा एते ग्रहाः स्तोत्रवन्तः शस्त्रवन्तो निदानवन्तो निदानवान् भवति य एवं वेद होता वा अद्य प्रातर् उपांशुम् अयजत् तेनैत उक्थवन्तो ऽथ यं होता तूष्णींशंसं शंसति तेनैवैत उक्थवन्तो नवैते प्रातर् ग्रहा गृह्यन्ते नवभिर् बहिष्पवमाने स्तुवते तैर् एते सामन्वन्तो हिङ्कारेणाश्विनः सामन्वान् ऐन्द्रवायवेणैन्द्रवायवो मैत्रावरुणेन मैत्रावरुण ऐन्द्रेण शुक्रामन्थिनौ वैश्वदेवेनाग्रयण उक्थायोक्थ्यो गृह्यत उक्थाय ध्रुवः सन्तत्या ऐन्द्राग्नः सन्तत्यै म्रुत्वतीया अध्वर्युर् जुहोति होता वषट्करोति प्राणान् वा एतत् प्रधत्तो येन मन्त्रेणाध्वर्युः प्रयछति तेन होता प्रतिगृह्णाति प्राणानां गोपीथाय प्रजापतिर् वै स्वयं होतासीत् सो ऽताम्यत् तं देवा द्विदेवत्यैर् अभ्यधावन् प्राणा वै द्विदेवत्या यद् अध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारम् अभ्याद्रवति प्राणैर् वा एतद् धोतारम् अभिधिनोति वषट्कारेवषट्कारे वै होता प्राणस्यान्तं गछति प्राणा वै द्विदेवत्या यद् अध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारम् अभ्याद्रवति प्राणैर् वा एतद् धोतारम् अभिधिनोति प्राणा वै द्विदेवत्याः पशवा इडा यद् द्विदेवत्यान् अभक्षयित्वेडाम् उपह्वयेत पशुभिः प्राणान् अन्तरियाद् अथ यद् द्विदेवत्यान् भक्षयित्वेडाम् उपह्वयते प्राणान् वा एतद् आत्मन् धित्वाथ पशून् उपह्वयत इन्द्रियं वै सोमः पशव इन्द्रियं यत् सोमं भक्षयतीन्द्रियम् एवात्मन्धत्ते सर्वत आश्विनं परिहारं भक्षयति तस्मात् सर्वा दिशः शृणोति

॥४.६.१॥

प्रातर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यद् वै पात्रं रिक्तम् अनुन्मुक्तं तद् अनु रक्षांसि यज्ञम् अवयन्ति यद् ऐन्द्रवायवे पुरोडाशम् अवदधाति मैत्रावरुणे पयस्याम् आश्विने धानाम् अरिक्तत्वाय वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठते यद् एतानि पात्राण्य् आ तृतीयात् सवनात् परिशेरे यज्ञस्य सन्तत्या अविछेदाय वायव्यायां शस्यमानायां पात्राणि विमुञ्चति प्राणो वै वायुः प्राणेन यज्ञः सन्ततः प्राणेनैव यज्ञं सन्तनोति ॥

एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विंशत्या च तिसृभिश् च वहसे त्रिंशता च नियुद्भिर् वाय इह ता विमुञ्च ॥ इत्य् आह विमुक्त्या एवावगतं वा अध्वर्युपात्रं निरुद्धं प्रतिप्रस्थानं यदि कामयेत यो बहिस् तं ग्रामे कुर्यां यो ग्रामे तं बहिर् इति ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो निरूहामि ॥ इत्य् अध्वर्युपात्रं निरुह्य ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि सादयामि ॥ इति प्रातिप्रस्थानं सादयेद् यो बहिस् तं ग्रामे करोति यो ग्रामे तं बहिर् अध्वर्युपात्रं वै यजमानस्य पात्रं प्रतिप्रस्थानं भ्रातृव्यस्य यदि कामयेत समावद्वीर्यम् एनं भ्रातृव्येण कुर्याम् इति प्रबाहुग् गृह्णीयातां प्रबाहुक् सादयेतां प्रबाहुग् जुहुयातां समावद्वीर्यम् एवैनं भ्रातृव्येण करोत्य् अध्वर्युपात्रं वै पात्रं पापीयः प्रतिप्रस्थानं यदि कामयेत पापवसीयसं स्याद् इति पूर्वो गृह्णीयात् पूर्वः सादयेत् पूर्वो जुहुयाद् एतेन वै विपूजनः सौराकिः पापवसीयसं चकार तत् पापवसीयसम् एवैतेन करोति यज्ञस्य वै सृष्टस्य शिरो ऽछिद्यत तस्मै देवाः प्रायश्चित्तिम् ऐछन्न् अथ वा एतौ तर्हि देवानां भिषजा आस्ताम् अश्विना असोमपौ ता उपाधावन् यथा भिषजम् उपधावन्त्य् एवम् इदं यज्ञस्य शिरः प्रतिधत्तम् इति ता अब्रूतां भागो ना अस्त्व् इति वृणाथाम् इत्य् अब्रुवंस् ता अब्रूतां ग्रहं नौ गृह्णन्तु सोमपीथम् अश्नवावहा इति तद् वा अश्विनौ प्रत्यधत्तां तस्माद् आश्विनीभिर् अभिष्टुवन्त्य् अश्विनौ हि प्रत्यधत्तां तौ वै बहिष्पवमानेनैव पावयित्वा ताभ्यां पूताभ्यां यज्ञियाभ्यां भूताभ्यां ग्रहम् अगृह्णंस् तस्माद् बहिष्पवमाने स्तुत आश्विनौ गृह्येते तस्माद् ब्राह्मणेन बहिष्पवमानम् अभिसृप्यं पवित्रं हि तत् तस्माद् यं द्विष्यात् तं परिबाधेत तद् वै भेषजं त्रेधा विन्यदधुर् अग्नौ तृतीयं ब्राह्मणे तृतीयम् अप्सु तृतीयं तद् य एवं विद्वान् अग्नेर् अन्ते ब्राह्मणाय प्रोच्याप्सु भेषजं करोति समर्धुकं ह भवति यावद् धि भेषजं तत् क्रियते वास्तुहानि वा एतत् पात्राणि भवन्ति यद् ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति वैष्णव्य ऋचा पुनर् एत्य सम्मृशति विष्णुर् वै यज्ञो विष्णुनैवैनानि यज्ञेन स्वर्गं लोकं समारोहयति

॥४.६.२॥

प्रजापतेर् वा एते चक्षुषी यञ् शुक्रामन्थिनव् असा आदित्यः शुक्रश् चन्द्रमा मन्थी तस्य वै प्रजापतेः सव्यं चक्षुर् अश्वयत् ततो ये स्तोका अवापद्यन्त तैर् इदं वर्षत्य् एकविंशतिर् वै ते ऽवपेदुस् तान् वायुर् अमुतो विसृजति प्रजानां कॢप्त्यै तस्य या कनीनिका परापतत् स यवो ऽभवद् यन् मन्थिनं सक्तुभिः श्रीणाति चक्षुर् एवास्य सम्भावयति मिथुनं वै सोमश् च सक्तवश् च यन् मन्थिनं सक्तुभिः श्रीणाति मिथुनत्वायार्तं वा एतत् पात्रं यन् मन्थिपात्रं यं द्विष्याद् ऋत्विजां तस्मै हरेद् आर्तिम् आर्छति षण्डामर्कौ वा असुराणां पुरोहिता आस्तां तान् देवा नाशक्नुवन् हन्तुं ब्राह्मणवन्तो ह्य् आसंस् तौ देवा अपाशासुर् उप ना आवर्तेथाम् इति ता अब्रूतां भागो ना अस्त्व् इति वृणाथाम् इत्य् अब्रुवंस् ता एतौ शुक्रामन्थिना अवृणातां ते देवा अमन्यन्त यद् इमा असुर्यौ सोमौ होष्यामस् तद् अन्व् असुरा आभविष्यन्ति यन् न होष्यामस् तद् अन्व् आभविष्यन्तीति ता अपनुद्याथेन्द्रायाजुहुवुस् तस्माद् एता अन्यदेवत्यौ गृह्येते अथेन्द्राय हूयेते अपनुत्तौ षण्डामर्कौ सह तेन यं द्विष्म इति षण्डामर्कयोर् एवैनं सहापनोदेनापनुदते ॥

आयुः पाहि प्रजां पाह्य् अमुष्य वीरतां पाहि ॥ इति सादयेद् यो ऽस्य प्रियः स्यात् तस्य शुक्रं वै प्रति राष्ट्रं मन्थिनं निरुद्धं मथ्यता इति ह्य् एतद् राष्ट्रम् आहुर् यन् निरुद्धं भवति यदि कामयेत यो बहिस् तं ग्रामे कुर्यां यो ग्रामे तं बहिर् इति ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो निरूहामि ॥ इति शुक्रपात्रं निरुह्य ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि सादयामि ॥ इति मन्थिपात्रं सादयेद् यो बहिस् तं ग्रामे करोति यो ग्रामे तं बहिर् आर्तं वा एतत् पात्रं यन् मन्थिपात्रं यञ् शुक्रपात्रं पुनः प्रयुज्यते तस्माद् इमे समावद्वीर्ये तस्माद् आभ्यां समावत् पश्यत्य् असौ वा आदित्यः शुक्रश् चन्द्रमा मन्थी यद् अपिधाय प्राञ्चा इतस् तस्माद् एतौ प्राञ्चौ यन्तौ न पश्यन्त्य् अथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस् तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति यद् अपिधाय प्राञ्चा इतस् तस्मात् पराङ् प्राणो ऽथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तु जुहुतस् तस्मात् पुनर् अपानो यद् अपिधाय प्राञ्चा इतस् तस्मात् पराञ्चो गर्भा धीयन्ते ऽथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस् तस्मात् प्रत्यञ्चः प्रजायन्ते चक्षुषी वै शुक्रामन्थिनौ नासिकोत्तरवेदिर् यद् अङ्गुष्ठाभ्याम् आक्रमेते चक्षुषी वा एतत् प्रधत्तो ऽथ यद् उपरिष्टाद् आक्रमेते तस्माद् इमे उपरिष्टाच् चक्षुषी तुथो ऽसि जनधाया देवास् त्वा शुक्रपाः प्रणयन्त्व् इति या अत्रीः प्रजास् तासाम् एष योनिस् ता एतम् अनुप्रजायन्ते तुथो ऽसि जनधाया देवास् त्वा मन्थिपाः प्रणयन्त्व् इति या आद्याः प्रजास् तासाम् एष योनिस् ता एतम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् च शुक्रम् अन्वारभन्ते तेजो वै शुक्रो ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अन्वारभन्त इन्द्रेण मन्युना युजेति शुक्रेण परियन्ति मन्युना वै युजेन्द्रो ऽसुरान् अवाबाधत मन्युना वा एतद् युजा यजमानो भ्रातृव्यम् अवबाधते सञ्जग्मानौ दिवा पृथिव्येत्य् अरत्नी सन्धत्त इमानि वा एतत् सन्धत्ते यत् पात्रे सन्दध्यातां नेदम् अन्तरा स्याद् अथ यद् अरत्नी सन्धत्तस् तस्माद् इदम् अन्तरा चक्षुषोर् विधृत्यै पुमांसं गर्भम् आधत्तं गवीन्योर् इति तद् अनु स्त्रीष्वो यजमानस्य गावो भवन्ति वीरं पत्नी जनयति शुक्रस्याधिष्ठानम् असि मन्थिनो ऽधिष्ठानम् असीति शकलौ प्रास्यतः समिद् वा एषैतयोर् अथो आहुतीनां प्रतिष्ठित्यै निरस्तः षण्डो निरस्तो मर्कः सह तेन यं द्विष्म इति शकलौ निरस्यत एतावांल् लोको यावद् उद्धतं यावान् एव लोकस् तस्माद् यजमानो भ्रातृव्यं निर्भजति श्रीणन्त्य् अन्यान्त् सोमान् नान्यांस् तत् सोमानां मिथुनं याञ् श्रीणन्ति तान् अनुवर्षति यान् न श्रीणन्ति तान् अनुवीध्रति दारुमयान्य् अन्यानि पात्राणि मृन्मयान्य् अन्यानि तत् पात्राणां मिथुनं यो वै सोमस्य च पात्राणां च मिथुनं वेद मिथुना एनं पशवा उपतिष्ठन्ते

॥४.६.३॥

प्रजापतिर् वा आग्रायणो ये देवा दिव्य् एकादश स्थेत्य् एतावन्तो वै देवा यावन्त एव देवास् तेभ्यो गृह्यत आग्रायणं वै गृहीत्वा देवाः स्वर्गं लोकम् आयन्न् अपासुरा अभ्रंशन्त ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् आग्रायणं गृह्णीते भवत्य् आत्मना परास्य भ्रातृव्यो भवति य आनुजावरः स्यात् स आग्रायणाग्रान् ग्रहान् गृह्णीताग्रं ह्य् आग्रायणो यद्य् अभिचरेत् ॥

देवा : फ़्न् ⟨ देवास्

देवा : फ़्न् एमेन्देद्। एद्।: दवा।

विदद् यदि सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः ।

अग्रं नयत् सुपद्य् अक्षराणाम् अछा रवं प्रहमा जानती गात् ॥

रुग्णम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इति पुरोरुचं कुर्याद् रुजति हैवाथो वाग् वै सरमा वाचम् एवैषां वृङ्क्ते सरा वा एषा यज्ञस्य तस्माद् यत् किञ्च प्राचीनम् आग्रायणात् तद् उपांशु चरन्त्य् अथ वा एतद् आग्रायणं प्रति वाचं विसृजन्ते यज्ञम् एवाप्त्वा वचं विसृजन्ते वाग् वै देवेभ्यो ऽपाक्रामत् ते देवास् तूष्णीं यज्ञम् अतन्वत सा वाग् अमन्यतान्तर् वै मा यज्ञाद् यन्तीति साग्रायणं प्रति न्याद्रवत् तस्माद् आग्रायणं प्रति वाचं विसृजन्ते हिङ्कृत्य वाचं विसृजन्ते प्राणो वै हिङ्कारो वाक् प्राणस् तद् वाच एवैष युक्तिस् त्रिर् हिङ्करोति त्रेधा हीयं वाग् वदति शनैर् उच्चैर् अथ सूच्चैर् यावत्य् एव वाक् सास्य युज्यते त्रयो वै प्राजापत्या ऋत्विज उद्गाता प्रस्तोता प्रतिहर्ता ते वा अस्यैतर्ह्य् अवृत्ता अयुक्ता यद् धिङ्करोति तेनैवास्य ते वृत्ता युक्ता भवन्ति वाक् च मनश् चावदेताम् अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति तौ प्रजापतिं प्रश्नम् ऐतां सा वाग् अब्रवीन् नैव मया किं चनानभ्युदितं क्रियता इत्य् अथ मनो ऽब्रवीन् नैव मया किं चनानभिगतं क्रियता इति स मनसे ऽन्वब्रवीत् सा वाग् अब्रवीद् अहव्यवाड् एवाहं तुभ्यम् असानीति तस्माद् एषा प्रजापतये ऽहव्यवाट् तस्माद् यत् किञ्चोपांशु क्रियते तद् आहुः कृतम् एतत् क्रियता इति प्रजापतये हि क्रियते द्वाभ्यां धाराभ्यां प्रातःसवने गृह्णाति तिसृभ्यो माध्यन्दिने सवने चतसृभ्यस् तृतीयसवने तन् नव नव प्राणा आत्माग्रायणः प्राणान् एवात्मन् धत्ते वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठन्ते ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुक्षितो महिनैकादश स्थेति देवताभिर् वै यज्ञः सन्ततो देवताभिर् एव यज्ञं सन्तनोति प्रजापतिर् वा आग्रायणो यत् सर्वेषु सवनेष्व् अभिप्रस्कन्दयति प्रजापतिर् वा एतत् प्रजा अभिजिघ्रति प्रजापतिर् वा आग्रायणो यत् सर्वेषु सवनेषु गृह्णात्य् आत्मनैव यज्ञं सन्तनोति प्रजापतिर् वा आग्रायणो यद् एषो ऽतिरिच्यते तस्मात् पुरुषः पशूनां दविष्ठम् एत्य् आग्रायणो वै गायत्र्या वत्सरस् तं वा एतद् आ तृतीयात् सवनाद् अभिप्रतिधावति गायत्र्या वा एते लोके सर्वे सोमा गृह्यन्ते तां वा एतत् सर्वाणि सवनान्य् अभिप्रतिधावन्त्य् अथ यत् स्थाल्या गृहीतो विज्ञातस्थाल्या होष्यन्ती३ दारुमयेणा३ इति तस्माद् अविज्ञातेन गर्भेण भ्रूणहाथ यत् स्थालीं रिञ्चन्ति न दारुमयं तस्मात् पुमान् दायादः स्त्र्य् अदायाद् अथ यत् स्थालीं परास्यन्ति न दारुमयं तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम् अथ स्त्रिय एवातिरिच्यन्ते

॥४.६.४॥

सरा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अदायात् : फ़्न् अदायादा?

इन्द्रो वै वृत्राय वज्रम् उदयछत् स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछद् यज्ञं वा अस्मै तत् प्रायछत् पशून् उक्थ्यम् एव यद् उक्थ्यो गृह्यते यज्ञस्य च पशूनां चावरुद्ध्यय् एतावान् वै यज्ञो यावान् उक्थ्यो ऽन्तःश्लेषणम् एवान्ये ग्रहाः प्लवो वा एष यज्ञस्य यद् उक्थ्यो यथा वा इदं प्लवं सन्नह्य प्रस्नात्य् एवं वा एतद् उक्थ्यम् आलभ्य प्रस्नाति स एनम् आ यज्ञस्योदृचः सम्पारयत्य् अङ्गानि वा उक्थ्यो यज्ञस्य सन्तत्यै गृह्यते तस्मै त्वा विष्णवे त्वेति विष्णुर् वै यज्ञो विष्णुना यज्ञः सन्ततो विष्णुनैव यज्ञेन यज्ञं सन्तनोत्य् एतेन वा इदम् उक्थानि सन्ततानि तस्मात् पुरुषः स्नावभिर् अनुसन्ततः सद आलभ्यावनयति यज्ञं वा एतत् सन्तत्य सम्प्राप्यावनयति चक्षुर् वै शुक्रश् चक्षुर् उक्थ्यश् चक्षुर् वा एतत् पुरस्ताद् ध्रियते ऽथो यथेदं पुरस्तात् पश्चात् पश्यन्न् अन्वेत्य् एवं तद् अथ यद् एकः संस् त्रेधा क्रियते तस्माद् एकः श्रेष्ठः पूर्वार्धे ऽवस्यति यद् एतौ ग्रहौ भूयिष्ठाः सोमा अनु हूयन्ते पापवसीयसस्य व्यावृत्त्यै यद् एतत् पात्रं भूयिष्ठाः सोमा अन्वायन्ति तस्माद् एकं श्रेष्ठं यन्तं बहवः पश्चाद् अनुयन्ति पात्राणि वा अध्वर्युं पुरो विदुह्र उक्थामदानि पश्चैन्द्र्या सदा उपचरत्य् आग्नेय्याग्नीध्रं वैष्णव्या हविर्धानं यथादेवतम् एवैनान्य् उपचरति तथा हैनं न विदुह्रे ऽन्तराहवनीयं च हविर्धानं चाध्वर्योर् लोको ऽन्तरा हविर्धानं च सदश् च यजमानस्य सदः सदस्यानां यदि कामयेताध्वर्युं यश ऋछेद् इत्य् अन्तराहवनीयं च हविर्धानं चावनयेत् सोमो वै यश एषो ऽध्वर्योर् लोको ऽध्वर्युम् एव यशसार्पयति यदि कामयेत यजमानं यश ऋछेद् इत्य् अन्तरा हविर्धानं च सदश् चावनयेत् सोमो वै यश एष यजमानस्य लोको यजमानम् एव यशसार्पयति यदि कामयेत सदस्यान् यश ऋछेद् इत्य् अन्तः सदस्यावनयेत् सोमो वै यश एष सदस्यानां लोकः सदयान् एव यशसार्पयति सद आलभ्यावनयत्य् ऐन्द्रं वै सद ऐन्द्राण्य् उक्थान्य् उक्थानां सन्तत्यय् उक्थानाम् अनपछेदाय ॥

उक्थामदानि : फ़्न् व्Wच्। एद्।: उक्थामदानि।

उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥

इति गृह्णाति प्रातःसवने मैत्रावरुणाय ॥

इन्द्राय त्वा ॥

इति ब्राह्मणाञ्शंसिने ॥

इन्द्राग्निभ्यां त्वा ॥

इत्य् अछावाकाय ॥

उपयामगृहीतो ऽसीन्द्राय त्वेन्द्राय त्वा ॥

इति गृह्णाति सर्वेभ्यो माध्यन्दिने सवने ॥

उपयामगृहीतो ऽसीन्द्रावरुणाभ्यां त्वा ॥

इति गृह्णाति तृतीयसवने मैत्रावरुणाय ॥

इन्द्राबृहस्पतिभ्यां त्वा ॥

इति ब्राह्मणाञ्शंसिने ॥

इन्द्राविष्णुभ्यां त्वा इत्य् अछावाकायैवम् अस्य यथोक्थं यथादेवतं गृहीता भवन्ति

॥४.६.५॥

आयुर् वै ध्रुवस् तम् उत्तमं गृह्णात्य् उत्तमं ह्य् आयुः स्थाल्या गृह्णात्य् आयुषो धृत्यै पूर्णं गृह्णाति सर्वम् आयुर् एति प्राणो वै गायत्र्य् आयुर् ध्रुवो यद् एष आ तृतीयात् सवनात् परिशये तस्माद् यावद् आयुस् तावान् प्राण आयुर् वै ध्रुवो यद् अग्निष्टोमम् आस्त आयुर् एवाप्त्वा निःसर्पत्य् आयुर् वै ध्रुवो यत् केवलं जुहुयाद् आयुः प्रजानां प्रदध्यात् परिधानीयायां शस्यमानायाम् अवनयति स ह्य् अन्तो होतुश् चमसे ऽवनयति वैश्वदेवो वै होता वैश्वदेवीर् इमाः प्रजाः सर्वासु वा एतत् प्रजास्व् आयुर् दधाति जनानाम् इत्य् आहुः सर्वासां वा एतत् प्रजानाम् आयुः सर्वाभ्यः प्रजाभ्यो गृह्यत उभयतोवैश्वानरो गृह्यत उभयतोवैश्वानरो ह्य् अयं प्राणो ऽयं वाव वैश्वानरो यो ऽयम् अवाङ् प्राणो यद् एष केवला उत्तरे हविर्धाने साद्यते तस्माद् एषो ऽर्धभाक् प्राणानाम् अर्धभाजा इतरे हिरण्ये ऽधि सादयेद् आयुःकामस्यामृतं वै हिरण्यम् आयुर् ध्रुवो ऽमृत एवास्यायुर् दधात्य् उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस् तस्माद् अस्थ्नान्ये पशवः प्रतितिष्ठन्ति मांसेन पुरुषः प्राणा वा उपरवा यद् एत उपोप्ते ग्रहाः साद्यन्ते स्वे वा एतद् योनौ साद्यन्ते पूर्वार्धे वा इमे मुखस्य प्राणा एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं तस्माद् दक्षिणे हविर्धाने प्राणा वा एत इतरे ग्रहा आयुर् ध्रुवो नव वै प्राणा आयुर् दशमं तस्माद् एष दशमो गृह्यते दशमं ह्य् आयुर् राजपुत्रो ध्रुवं गोपायति सर्वासां वा एतत् प्रजानाम् आयुर् गोपायति तस्माद् राजपुत्रो वीर्यवत्तमो यद्य् अभिचरेत ॥

परिशये : फ़्न् एमेन्देद्। एद्।: परिशयेत्

इदम् अहम् अमुष्यामुष्यायणस्यायुः प्रवर्तयामि ॥ इति ध्रुवं प्रवर्तयेद् आयुर् एवास्य प्रवर्तयति यत् प्रवर्तयेत् सर्वासां प्रजानाम् आयुः प्रवर्तयेच् छुक् प्रजा ऋछेद् अवर्तिर् यजमानं गृह्णीयात् क्षोधुको ऽध्वर्युः स्यात् तद् व्यङ्ग्य एव ॥

ध्रुवं त्वा ध्रुवक्षितिम् अमुम् आस्थानाच् च्यावयामि ॥ इत्य् आस्थानाद् एवैनं च्यावयति प्रमायुको भवति ध्रुवं वै प्रच्यवमानं विश्वा भूतानु प्रच्यवन्ते प्र यजमान आस्थानाच् च्यवते तद् अभिमृश्यो दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यां पार्थिवान् इति यथास्थाम वा एतत् प्रजा दृंहति स्व आयतने यजमानम् आयुषा वा एष वीर्येण व्यृध्यते यस्य ध्रुवः स्कन्दत्य् आयुर् वीर्यं ध्रुवस् तद् अभिमृश्यः ॥

आयुर्धा असि ध्रुवायुर् मे धेहि ॥ इत्य् आयुर् एवास्मिन् दधाति वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः पुत्रसेनस्य ह वै भैमसेने ध्रुव उपददास तं शृण्वानः स्थैरब्रह्मण ऋतेनैभ्यो लोकेभ्य आप्याययाञ्चकार ॥

स्वाहा दिव आप्यायस्व ॥ इति स तृतीयं बभूव ॥

स्वाहान्तरिक्षाद् आप्यायस्व ॥ इति स द्विभागं बभूव ॥

स्वाहा पृथिव्या आप्यायस्व ॥ इति स पुपूरे तद् ऋतेनैवैभ्यो लोकेभ्यो ध्रुव आप्याययितव्यो द्वादशे स्तोत्रे ऽवनयति ॥

द्वादश मासाः संवत्सरः संवत्सरो यज्ञो यज्ञः प्रजापतिः प्राजापत्यः पुरुषो यावान् एव पुरुषस् तस्मिन्न् आयुर् दधाति यत् स्तूयमाने ऽवनयेद् गर्भाः प्रपादुकाः स्युर् यञ् शस्यमाने युवानः प्रमीयेरन् यञ् शस्ते बहिः प्राणान् दध्यात् सकृञ् शस्तायां मध्यतो ऽवनीयो मध्यतो वा एतत् प्रजानाम् आयुर् दधाति ॥

स्वयम्भूर् असि श्रेष्ठो रश्मिः प्रियो देवानां संसदनीयः ॥

तं त्वा सुभव देवा अभिसंविशन्तु ॥

आयुर्धा असि ध्रुवायुर् मे धेहि ॥

इत्य् आयुर् एवास्मिन् दधाति ॥

वर्चोधा असि ध्रुव वर्चो मे धेहि ॥

इति वर्च एवास्मिन् दधाति ॥

इषो ऽसि त्वेषो ऽसि नृम्णो ऽसि व्रतो ऽसि दक्षो ऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य व्रतस्य दक्षस्य भक्षीय स्वस्य चारणस्य च शूद्रस्य चार्यस्य च यथा त्वं सूर्यासि विश्वदर्शत एवम् अहं विश्वदर्शतो भूयासम् ॥

इति विश्वदर्शतो ह भवत्य् असौ वा आदित्यः स्वयम्भूः श्रेष्ठो रश्मिर् यथैष स्वयम् अभवद् एवं स्वयं भवति य एवं वेद

॥४.६.६॥

अथैत ऋतुग्रहाः संवत्सरस्य वा एते विधृत्यै गृह्यन्ते द्वादश मासाः संवत्सरस् तस्माद् द्वादश ऋतुग्रहा मधुश् च माधवश् च वासन्तिका ऋतू असन्ना हूयन्ते ऽसन्ना हीम ऋतवो नान्योऽन्यम् अभिप्रपद्यते यद् अन्योऽन्यम् अभिप्रपद्येत ऋता ऋतुर् अभीयाद् अथ यद् अन्योऽन्यः प्रपद्यते तस्माद् इदम् ऋता ऋतुर् अनुनिहिताः परिप्लवन्त उभयतोमुखम् ऋतुपात्रम् उभयतोमुखा हीम ऋतवो न वै तद् विद्म यत ऋतूनां मुखं सह प्रथमं गृह्णाते सहोत्तमं सह युज्येते सह विमुच्येते चतुर्दश वा एतत् कुरुतो ऽति वा एतद् रेचयतो ऽस्ति मासस् त्रयोदशस् तम् एवैतेनाप्त्वावरुन्द्ध ऋतुभ्यो वै प्रजाः प्रजायन्ते यत् षड् ऋतुना चतुर् ऋतुभिर् ऋतुभ्यो वावास्मा एतच् चतुष्पदः पशून् प्रजनयतो ऽथ यच् चतुर् ऋतुभिर् द्विर् ऋतुनर्तुभ्यो वावास्मा एतद् द्विपदः पशून् प्रजनयतो यद् द्विर् ऋतुना द्वौ हीमा ऋतू अथ यद् द्वे ऋतुपात्रे द्वौद्वौ हीम ऋतवो नानुयजति वैश्वानरो वषट्कारो यद् अनुयजेद् वैश्वानरम् ऋतुष्व् अन्ववसृजेद् अन्धो वा इदम् आसीद् अव्यावृत्तम् अहर् आसीन् न रात्रिस् तद् देवा ऋतुग्रहैर् व्यावर्तयन् यद् ऋतुग्रहा गृह्यन्ते ऽहोरात्रयोर् व्यावृत्त्यै संवत्सरो वै स्वर्गो लोकस् तस्य वा एत आक्रमा यद् ऋतुग्रहा यद् ऋतुग्रहा गृह्यन्ते स्वर्गस्य लोकस्याक्रान्त्यै

॥४.६.७॥

नान्योऽन्यम् : फ़्न् एमेन्देद्। एद्।: नान्योऽन्यम्

अभिप्रपद्येत : फ़्न् म्। एद्।: अभिप्रपद्यत

अन्योऽन्यः : फ़्न् ह्। अन्द् ब्ब्। एद्।: अन्योऽन्यः

आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् ते वा इतः प्रतिसंहिताः पुरस्ताद् एवान्यत् सर्वं संवत्सरो वै स्वर्गो लोकः संवत्सरम् एतौ कल्पयितुं प्लायेते यद् अध्वर्यू यद् ऐन्द्राग्नम् ऋतुपात्रेण गृह्णाति संवत्सरं वा एतद् अन्वारभते स्वर्गाय लोकायाथो ज्योतिर् उपरिष्टाद् दधाति स्वर्गस्य लोकस्य समष्ट्यय् असौ वा आदित्यः शुक्रः पुरुषो वैश्वदेवो यञ् शुक्रपात्रेण वैश्वदेवं गृह्णाति तस्मात् पुरुष एवामुं प्रत्यक् सर्वे ऽन्ये न्यञ्चः पशवो देवाश् च वा असुराश् चास्पर्धन्त ते देवाः प्रातःसवने वैश्वदेवे यज्ञं संस्थाप्यम् अपश्यंस् तं प्रातःसवने समस्थापयन् यद् वैश्वदेवः प्रातःसवने गृह्यते प्रातःसवने वा एतद् वैश्वदेवे यज्ञं संस्थापयति तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति देवा वै सर्वे प्रातःसवनम् अभ्यायछन् नोत्तराभ्यां सवनाभ्याम् अतिष्ठन्त यद् वैश्वदेवः प्रातःसवने हूयते प्रातःसवने वा एतद् वैश्वदेवे देवतास् तर्पयन्ति तास् तृप्ता उत्तरे सवने अभिसृज्यमाना यन्ति वज्रो वै मरुत्वतीया वज्र एव प्रथमो ऽपगूर्तिर् द्वितीयः स्तृतिर् उत्तमो वज्रो वै धनुर् धनुर् एव प्रथमः प्रतिहितिर् द्वितीयो विसृष्टस् तृतीयश् चक्रियौ वा एते यज्ञस्य यन् मरुत्वतीया अक्षो मध्यमः पक्षसी अभितो मरुद्भिर् वै वीर्येणेन्द्रो वृत्रम् अहन् न ऋते मरुद्भ्यो ऽशक्नोद् वीर्यं कर्तुं यन् मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते तेन माध्यन्दिनं सवनं वीर्यवत् कथं सवनान्य् ऋतुमन्ति वेत्थेति पृछेद् ऋतुग्रहैः प्रातःसवनम् ऋतुमन् मरुत्वतीयैर् माध्यन्दिनं सवनं सावित्रेण तृतीयसवनं मरुत्वतीययोः सन्नयोर् दक्षिणा दीयन्ते स्वे वा एतद् योनौ दक्षिणा दीयन्ते परिधयो वा एते यज्ञस्य यन् मरुत्वतीयास् तस्मान् मरुत्वतीयान् दक्षिणा नातिदीयन्ते यद् अतिदद्याद् यथा बहिष्परिधि स्कन्नम् एवं स्याद् यदि कामयेत विड् ओजीयसी स्याद् अबलीयः क्षत्रम् इति यस्या मरुत्वतीयः पूर्वो ऽर्धऋचस् तां पुरोरुचं कुर्याद् विशं वा एतद् ओजीयसीम् अकर् अबलीयः क्षत्रं यदि कामयेत क्षत्रम् ओजीयः स्याद् अबलीयसी विड् इति यस्या ऐन्द्रः पूर्वो ऽर्धऋचस् तां पुरोरुचं कुर्यात् क्षत्रं वा एतद् ओजीयो ऽकर् अबलीयसीं विशं जामि वा एतद् यज्ञे क्रियते यन् मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते पशवो वै मरुतो ऽजामि पशवस् तेन तद् अजाम्य् ऋतुपात्रम् आलभ्य प्रतिगृह्णात्य् ऋतवो वै मरुतः संवत्सर ऋतव आयुः संवत्सर आयुषि वा एतद् अध्वर्युः श्रयते वृत्रं वा एष हन्ति यो मरुत्वतीयान् ग्रहान् गृह्णीते माहेन्द्रे सर्वे कामाः सर्वान् वा एतत् कामान् आप्नोति सर्वान् व्यश्नोतीन्द्रो वै वृत्रम् अहन् सो ऽन्यान् देवान् अत्यमन्यत स महेन्द्रो ऽभवत् स एतम् उद्धारम् उदहरत वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते शुक्रपात्रेण माहेन्द्रं गृह्णाति वदन्ति ग्रावाणो वदन्त्य् औलूखला मन्थन्त्य् आशिरम् इन्द्रे वा एतद् अग्रा आगते घोषम् अकुर्वताथो यजमान एव तेजो दधति

॥४.६.८॥

वा : फ़्न् एमेन्देद्। एद्।: वा।

वेत्थेति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एतद् वा एषाभ्यनूक्ता ॥

अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि ।

देवं उप प्रैत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥

इत्य् एष वाव स उपांशुसवनो ग्रावा तस्य वा एष सोमपीथो यद् आदित्यं मेक्षयन्ति ॥

विवस्वन्न् आदित्यैष ते सोमपीथः ॥ इति सोमपीथेनैवैनं समर्धयति व्यानो वा उपांशुसवनः प्रजा आदित्यो व्यानं वा एतत् प्रजासु दधाति पशवो वा आदित्यो यद् दध्ना मध्यतः श्रीणाति मध्यतो वा एतत् पशूनां पयो दधात्य् अथ यत् तप्तातङ्क्यं तस्माद् आमा सती पक्वं दुहे यदि कामयेत वर्षेत् पर्जन्या इति ॥ या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥ इति दध्नोपरिष्टाद् आदित्यं श्रीणीयात् पशवो वा आदित्यः पशुभ्य एषो ऽमुतो वर्षति पशून् एव वृष्ट्याभिजिघर्ति यदि कामयेत गर्भाः श्रीव्येयुर् इत्य् उद्गृह्यादित्यम् अवेक्षेत गर्भा ह श्रेवुका भवन्ति शुक्रवती वै पूर्वे सवने अशुक्रं तृतीयं सवनं यद् द्विदेवत्यानां संस्रवान् अवनयत्य् आग्रायणम् अभिप्रस्कन्दयति तेन तृतीयसवनं शुक्रवद् देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते नाथैषिणो न्यञ्चनैषिण एता देवता भूयिष्ठाः प्राविशन् यद् द्विदेवत्यांस् तस्माद् द्विदेवत्येभ्य आदित्यो निर्गृह्यते बृहतीभ्यां गृह्णाति पशवो वै बृहतीः प्रजा आदित्य एतावांल् लोको यावद् उद्धतं यत् सम्प्रसारयित्वा गृह्णाति लोकं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते ऽथो इमा एव प्रजा अन्नाद्यायावरुन्द्धे यद्य् अस्य भ्रातृव्यो यजेत बहिर्वेदि तिष्ठेत् तथा हैनं नावरुन्द्धे पशवो वा आदित्यो ऽग्नी रुद्रो ऽग्नेर् एतास् तन्वो यद् धिष्ण्या यत् सम्प्रसारयित्वा गृह्णाति रुद्राद् वा एतत् पशून् अन्तर्दधात्य् अपिधायोप निष्क्रामति पशूनां गोपीथायादित्यो वै द्विदेवत्यानाम् अनुयाजस् तस्मात् तान् नानुयजति द्विदेवत्या वा आदित्यस्य प्रयाजास् तस्मात् तान् नानुयजति पशवो वा आदित्यो ऽग्नी रुद्रो ब्राह्मण उपद्रष्टा यद् ईक्षमाणो जुहुयात् प्रधीयमानानाम् एषाम् उपद्रष्टा स्याद् अन्यत्रेक्षमाणेन होतव्यम् अनुपद्रष्टैषां भवति

॥४.६.९॥
प्रपाठक 7

चतुर्थकाण्डे सप्तमः प्रपाठकः

चतुर्थकाण्डे सप्तमः प्रपाठकः

गायत्रो वै देवानां सविता गायत्र्या एष लोके सोमो गृह्यते यद् आग्रयणस् तस्माद् आग्रायणात् सावित्रो निर्गृह्यते सो ऽद आ तृतीयात् सवनात् परिशये क्रियमाणस्यक्रियमाणस्य प्रसवायान्तरिक्षं वा अन्तर्यामो ऽन्तरिक्षम् इमाः प्रजा यद् अन्तर्यामपात्रेण सावित्रं गृह्णाति सविता वा एतत् प्रजाः प्रसुवति प्रजननायासन्नो हूयते ऽसन्ना हीमाः प्रजा नेलयन्ति नानुयजति यद् अनुयजेत् सृष्टिं प्रजानां विछिन्द्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति देवा वै तृतीयसवनम् उद्यमं नाशक्नुवन् प्रातःसवने तर्हि सवितासीत् तं देवास् तृतीयसवनम् अभिपर्यौहंस् तेन तृतीयसवनम् उदयछन्त यत् सावित्रस् तृतीयसवने गृह्यते सवितृप्रसूता वा एतत् तृतीयं सवनम् उद्यछन्ते सावित्रस्य संस्रवे वैश्वदेवम् अभिगृह्णाति वैश्वदेवीर् इमाः प्रजाः सवितृप्रसूताः खलु वै प्रजाः प्रजायन्ते मनो वै सविता वैश्वदेवीर् इमाः प्रजाः सर्वासु वा एतत् प्रजासु मनो दधात्य् आशीर्मतः सवनस्य गृह्णाति वैश्वदेवत्वाय सुशर्मासि सुप्रतिष्ठान इति यत् स्वित् सोमः सोमे प्रतितिष्ठति बृहदुक्षे नमा इति यद् बृहद् इति तेन देवेभ्यो यन् नमा इति तेन पितृभ्य उक्थभाजो वै पितरो ऽस्तोमभाज उक्थायैष गृह्यते न स्तोत्राय यत्र गृह्यते तञ् शस्यते स्व आयतत्ने

॥४.७.१॥

परिशये : फ़्न् एमेन्देद्। एद्।: परिशयेत्

उक्थायैष : फ़्न् एमेन्देद्। एद्।: उकायैष

घृतस्य यजत्य् एष वै प्रथमो धिष्ण्यानां यद् आहवनीयस् तं वा एतद् अग्रे व्याघारयत्य् आग्नावैष्णव्या व्याघारयति पराङ् वा एतर्हि यज्ञो ऽग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यत् सौम्यः सोमं वा एतत् सम्भावयन्ति सोमम् आपाययन्त्य् अवधिषुर् वा एतत् सोमं यद् अभ्यसुषुवुर् अनुस्तरणी वा एषा सोमस्य यत् सौम्यः पित्πणाम् अनुस्तरणी तस्मात् पितृमत्या यजति दक्षिणा तिष्ठन् जुहोति दक्षिणा हि पित्πणाम् उपसदां वा एते ऽनुयाजा आग्नावैष्णव्या घृतस्य यजति सौम्या सोमस्य या एवाद उपसत्सु देवता अयाक्षीत् ता एतद् अमुत्र वा एष भूताय क्रियते यद् वा एतस्य व्यार्धि यत् प्रामायि तद् अस्यामुं लोकं गछत्य् अथ पूत एवोञ्शिष्यते पवित्रं वै सौम्यो यजमानम् एवैतेन पुनाति सामदेवत्यो वै सोमः सोमस्य खलु वै सौम्यः साम्ने वा एतद् ध्रियते ॥

सत्रा त एतद् यद् उ त इह ॥ इति परिपश्यति यो ऽगतासुः स परिपश्यति यो गतासुर् न स परिपश्यति यदि न परिपश्येद् अथ वदेत् ॥

यन् मे मनो यमं गतं यद् वा मे अपरागतम् ।

राज्ञा सोमेन तद् वयम् अस्मासु धारयामसि ॥

हृदिस्पृक् क्रतुस्पृग् वर्चोधा असि वर्चो मे धेहि ॥ इति आशिषम् एवाशास्ते

॥४.७.२॥

अथैते ऽतिग्राह्या देवा वै सोमम् अगृह्णताथ वा एतान् इन्द्रो ऽगृह्णीत सो ऽवेन् न वा अहम् इमान् ऋते ब्रह्मणः सविष्यामीति स ब्रह्मोपाधावत् तान् ब्रह्मणासघ्नोद् ब्रह्म वै गायत्री तस्माद् गायत्रीभिर् गृह्यन्ते यद् एवादः परम् अन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ये वा अमी वैराजस्य स्तोभा अतिरिक्तास् तैर् एते सामन्वन्तः सर्वे वा एत ऐन्द्रा य ऐन्द्र ऐन्द्रः सो ऽसा आदित्य इन्द्रः समानम् अग्निश् चासौ चादित्यो विराजो वै तेज आग्नेयः शक्वरीणाम् ऐन्द्रो रेवतीनां सौर्यो यत्र पृष्ठानि युज्येरंस् तद् एतान् जुहुयात् साम्नां सतेजस्त्वाय सं वा एतद् यज्ञः पश्चात् स्तोत्रेण च शस्त्रेण चाधीयते यद् अतिग्राह्याः प्रत्युत्तब्ध्यै चक्रियौ वा एते यज्ञस्य यत् पृष्ठान्य् उपस्तम्भनम् अतिग्राह्यास् तस्मात् प्रातःसवने गृह्याः प्रत्युत्तब्ध्यै यद् आग्नेयस् तेजस् तेनावरुन्द्धे यद् ऐन्द्र इन्द्रियं तेन यत् सौर्यो रुचं तेन त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति तेजो वा अग्निर् इन्द्रियम् इन्द्रो ब्रह्मवर्चसम् असा आदित्यस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥

अग्नेश् च त्वा ब्रह्मणश् च तेजसा जुहोमि तेजोदां तेजो मा मा हासीन् माहं तेजो हासिषं स्वाहेन्द्रस्य च त्वा क्षत्रस्य चौजसा जुहोम्य् ओजोदाम् ओजो मा मा हासीन् माहम् ओजो हासिषं स्वाहा सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमि वर्चोदां वर्चो मा मा हासीन् माहं वर्चो हासिषं स्वाहाग्न आयुःकारायुष्मांस् त्वं तेजस्वान् देवेष्व् एध्य् आयुष्मन्तं मां तेजस्वन्तं मनुष्येषु कुर्व् इन्द्रौजस्कारौजस्वांस् त्वं सहस्वान् देवेष्व् एध्य् ओजस्वन्तं मां सहस्वन्तं मनुष्येषु कुरु सूर्य भ्राजस्कार भ्राजस्वांस् त्वं वर्चस्वान् देवेष्व् एधि भ्राजस्वन्तं मां वर्चस्वन्तं मनुष्येषु कुरु ॥

एते होमा भक्षङ्कारश् च भवन्त्य् एतेषां वै वीर्येण बम्बविश्ववयसा इमांल् लोकान् अर्वाचश् च पराचश् च प्राजानीतां सं ह वा अस्मा इमे लोका अर्वाञ्चश् च पराञ्चश् च भान्ति य एवं वेद सुप्रज्ञाना वा इत इत्थं लोका अमुतस् त्वा अर्वाञ्चो दुःप्रज्ञाना एष ह त्व् एवामुतो ऽर्वाच इमांल् लोकान् प्रजानान्ति यस्यैते हूयन्ते

॥४.७.३॥

उपांशुपात्रेण पात्नीवतं गृह्णाति प्राणो वा उपांशुः प्राणेन वा एतत् प्रयन्ति प्राणेनोद्यन्त्य् अथो प्राणानां प्रतिप्रज्ञात्यय् अथो यत् प्रथमं पात्रं युज्यते तद् उत्तमं विमुच्यते प्राणानां गोपीथाय होता वा अद्य प्रातर् उपांशुम् अयजद् यद् एतं होता वषट्कुर्याद् यत् पुरो ऽकस् तत् पश्चात् परिहरेत् प्रमायुकः स्यात् तस्माद् एतम् अग्नीद् वषट्करोति पुरो ह्य् अग्नीत् प्राणो वा उपांशुः प्राणाद् अधि प्रजाः प्रजायन्ते यद् उपांशुपात्रेण पात्नीवतं गृह्णाति प्रजननायासन्नो हूयते ऽसन्ना हि प्रजाः प्रजायन्ते नानुयजति यद् अनुयजेत् प्रजननम् अपिहन्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति मिथुनं वै घृतं च सोमश् च यत् पात्नीवतं घृतेन श्रीणाति मिथुनत्वाय बृहस्पतिसुतस्य ता इति ब्रह्म वै बृहस्पतिर् ब्रह्मणो वै योनेः प्रजापतिः प्रजा असृजत ब्रह्मणो वा एतद् योनेर् यजमानः प्रजायत इन्द इन्द्रियावता इतीन्द्रियं हि गर्भो ऽग्ना३इ पत्नीवा३न् इति मिथुनं वा अग्नीच् च पत्नीश् च सजूस् त्वष्ट्रा सोमं पिबेति त्वष्टा हि रूपाणि विकरोति घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् पात्नीवतं घृतेन श्रीणातीन्द्रियेण वा एतत् पत्नी व्यर्धयति तस्मान् निरिन्द्रिया स्त्री पुमान् इन्द्रियवांस् तस्मात् पुमांसः सभां यन्ति न स्त्रियो यद् इतरान्त् सोमाञ् श्रीणीयुर् न पात्नीवतं स्त्रियः सभाम् ईयुर् न पुमाम्स इन्द्रो वै वृत्रम् अहंस् तस्य यन् मूर्धानम् उदरुजत् स द्रोणकलशो ऽभवत् ततो यः सोमः समस्रवत् स हारियोजनस् तस्माद् एतं द्रोणकलशेन जुहोति योनिर् ह्य् अस्यैष इन्द्रो वृत्रं हत्वा तस्य यत् क्लोम्नो हृदयात् सोमं समसिञ्चत् स हारियोजनो ऽभवत् स इन्द्रो ऽमन्यत यद् इमम् असुर्यं सोमं होष्यामि तद् अन्व् असुरा आभविष्यन्ति यन् न होष्यामि तद् अन्व् आभविष्यन्तीति तं संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति तत् स्विद् उभयम् अकर् जुहोत्य् अह संस्थिते जुहोत्य् अतिरिक्तो वा एष ऋत्विजां य उन्नेता तस्माद् एतं न वृणते न वषट्करोत्य् अत्य् एष सोमो ऽरेचि स वा उन्नेतारम् एवाभ्यतिरिच्यते ऽध्वर्युर् वै पूर्वान्त् सोमान् जुहोति यद् एतम् अध्वर्युर् जुहुयाद् आहुतीः संसृजेत् समदं कुर्यात् तस्माद् एतम् उन्नेता जुहोति प्रजापतिर् वा एतम् अमन्यत सोमं होष्यंस् तम् अग्निर् अब्रवीन् न मयि त्वम् एतम् असुर्यं सोमं होष्यस्य् अशृतम् अद्वतीयं द्वितीयम् अस्त्व् इति यद् धानाभिः श्रीणाति शृतत्वायाथो द्वितीयत्वायाथैता धाना यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे प्रजापतिर् वा आग्रायणो यद् एषो ऽतिरिच्यते तस्माद् अयम् अतिरिक्तो ऽपरिमित इमाः प्रजा अभिपवत ऋक्सामे वा इन्द्रस्य हरी तयोः परिधय आधानं निराधानाय खलु वा अश्वाय घासम् अपिदधाति यत् संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति निराधानाभ्याम् एवाभ्यां घासम् अपिदधाति पशवो वै धाना यत् सङ्खादेत् पशून् हिंस्याद् यन् न सङ्खादेद् अयताः स्युः सन्दृश्य रय्यै त्वा पोषाय त्वेत्य् उपवपति तत् स्विद् उभयम् अकः पशूनां यत्यै भुञ्जन्त एनं पशवा उपतिष्ठन्ते

॥४.७.४॥

आभविष्यन्तीति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एवाभ्यतिरिच्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

दुदुह्रे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यज्ञेन वै देवाः स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति ते छन्दांस्य् अपश्यंस् तानि व्यत्यषजन् स्वर्गस्य लोकस्याननुक्शात्यै यच् छन्दांसि व्यतिषजति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य मोहयति स्वर्गस्य लोकस्याननुक्शात्यै देवेषु वा अन्यानि छन्दांस्य् आसन्न् असुरेष्व् अन्यानि कनीयांसि देवेष्व् आसन् ज्यायांस्य् असुरेषु ते देवाः कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांस्य् असुराणाम् अवृञ्जत यत् कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांसि विशंसति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य वृङ्क्ते लोकम् एनम् अछन्दस्कम् अकर् अनुष्टुभं सर्वाणि छन्दांस्य् अभिसंशंसति वाग् वा अनुष्टुब् आनुष्टुभः पुरुषस् तस्मात् पुरुषः सर्वा वाचो वदति पशवो वै छन्दांसि वाग् अनुष्टुब् आनुष्टुभः पुरुषो यत् सर्वाणि छन्दांसि संशस्यानुष्टुभम् उत्तमां शंसति तस्मात् पुरुष उपरिष्टाद् अवाचः पशून् अत्ति सर्वाणि छन्दांसि संशंसति पजापतिर् वै छन्दांसि प्रजापतिम् एवाप्नोति षड् अक्षराणि स्तोत्राद् अतिरिच्यन्ते षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति ततश् चत्वारि शस्त्रं पुनर् उपावर्तन्ते चतुष्पदस् तेन पशून् अवरुन्द्धे ऽथ द्वे एवातिरिच्येते द्वे विराजम् अति सत्यं चानृतं च विराजम् एवाप्नोति

॥४.७.५॥

सर्वाणि : फ़्न् एमेन्देद्। एद्।: सर्वाणि।

प्रजापतिर् वै देवेभ्यो यज्ञान् व्यकल्पयत् सो ऽमन्यतात्मानम् अन्तर् अगाम् इति तेषां वा इन्द्रियाणि वीर्याणि पुनः समबृहत् स षोडश्य् अभवद् अथ वै तर्हीन्द्रो देवानाम् आसीद् अवमतमः शिथिरतमस् तस्मै वा एतं षोडशिनं प्रायछत् तेनेन्द्रो ऽभवत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतं षोडशिनं गृह्णीते भवत्य् आत्मना परास्य भ्रातृव्यो भवति प्रजापतिर् वै देवेभ्यस् तनूर् व्यकल्पयत् तासां या हरिवत्य् आसीत् ताम् आत्मन्न् अशिंषत् प्रेणा यद् धरिवती पुरोरुग् ग्रहस्य भवति यैवास्य हरिवती प्रिया तनूस् ताम् आप्नोति न षोडसी नाम यज्ञो ऽस्तीत्य् आहुर् अथ कस्मात् षोडशीति यत् स्तोत्रेण च शस्त्रेण च सम्पद्यते तस्मात् षोडशी यज्ञेन वै देवाः स्वर्गं लोकम् आयन् स एषां न प्राभवत् तस्मिन् वा एतं षोडशिनं प्रत्यग्रथ्नंस् तेनामुं लोकं व्याप्नुवंस् तद् अमुष्य वाव लोकस्य व्याप्त्यै षोडशी गृह्यते ऽमुष्य लोकस्य समष्ट्यय् अग्निष्टोमे राजन्यस्य गृह्णीयाद् अशान्त एनं वज्रो भूत्या इन्द्धे ऽतिरात्रे ब्राह्मणस्य वज्रो वै षोडशीश्वरो ऽशान्तो यजमानं हिंसितो रात्रिर् एव वज्रं शमयति प्रातःसवने गृह्यस् तेजो वै प्रातःसवनं तेजस एव वज्रं निर्मिमीते माध्यन्दिने सवने गृह्य ओजो वै माध्यन्दिनं सवनम् ओजस एव वज्रं निर्मिमीते तृतीयसवने गृह्यः पशवो वै तृतीयसवनं पशुभ्य एव वज्रं निर्मिमीते यत् प्रातःसवने गृह्णीयाद् वज्रा उत्तरे सवने अभ्यतिरिच्येत यन् माध्यन्दिने सवने मध्यतो वज्रो निहन्यात् तृतीयसवने गृह्यस् तत् सर्वेषु सवनेषु गृह्णाति न पूर्वे सवने आर्तिं नीतः पञ्चदशः कार्यो वज्रो वै पञ्चदशो वज्रम् एवास्मा आधात् तेन विजितिं भूतिं गछति षोडशी कार्यो यजमानो वै पञ्चदसो वज्रः षोडसी वज्रम् एवास्मा आधात् स एनं भूत्यै श्रेम्ण इन्द्धे सप्तदशः कार्यः प्रजापतिर् वै सप्तदशः प्राजापत्यः षोडशी स्व एवैनं योनौ दधात्य् एकविंशः कार्य एकविंशतिधाम्नी वा अनुष्टुब् आनुष्टुभः षोडश्य् एतद् वा अस्यायतनतमं तस्माद् एकविंशः कार्यो मध्यमे ऽहंस् त्रिरात्रस्य गृह्यो मध्यमं वा अहस् त्रिरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थे ऽहंश् चतूरात्रस्य गृह्यश् चतुर्थं वा अहश् चतूरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थेचतुर्थे ऽहन्न् अहीनस्य गृह्यश् चतुर्थञ्चतुर्थं वा अहर् अहीनस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय न द्विरात्रे ऽवकल्पते द्वे वा एते छन्दसी गायत्रं च त्रैष्टुभं चाछन्दस्कम् अनायतनं गृह्णीते ऽनायतनो यजमानो भवत्य् उत्तरे ऽहन् द्विरात्रस्य गृह्यो रात्रिम् एवायतनम् अभ्यतिरिच्यते

॥४.७.६॥

अभ्यतिरिच्येत : फ़्न् एमेन्देद्। एद्।: अभ्यतिरिच्यते

अथैषो ऽदाभ्यो देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतम् अपश्यंस् तम् अगृह्णत तान् असुरा नादभ्नुवंस् तद् अदाभ्यस्यादाभ्यत्वं नैनं भ्रातृव्यो दभ्नोति य एतं गृह्णीते घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्त्य् एषा वै सोमस्यातिमोक्षिणी तनूर् यान् एतान् अंशून् प्रवृहन्त्य् एवं वा एतं लोकं यजमानो ऽन्वतिमुच्यते वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठन्ते यद् एतान् अंशून् पुनर् अप्यस्यति यज्ञस्य सन्तत्या अविछेदाय वृष्ट्यै वा एष गृह्यते मरुन्नामानि हि वर्षति पर्जन्यो यत्रैष गृह्यते ऽग्निः प्रातःसवनात् पात्व् अस्मान् इति सवनानि वा एतेन देवा असुराणाम् अवृञ्जत सवनान्य् एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते ऽग्नये त्वा प्रवृहामि गायत्रेण छन्दसेति छन्दांसि च वा एतेन देवताश् च देवा असुराणाम् अवृञ्जत छन्दांसि चैवैतेन देवताश् च यजमानो भ्रातृव्यस्य वृङ्क्ते चतुर् आधूनोति दिशो वा एतेन देवा असुराणाम् अवृञ्जत दिश एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते जीवग्रहो वा एष सोमस्याहुतस्य ह्य् अनभिषुतस्य गृह्यते यजुषा च वा आहुत्या च यज्ञः सन्ततो यद् यजुर् वदन्न् आहुतिं जुहोति यजुषा चैवाहुत्या च यज्ञं सन्तनोति देवा वै सोमम् अगृह्णत स प्रजापतिर् अवेद् यो वा इह प्रथमः सोमं ग्रहीष्यते स इदं भविष्यतीति स एतम् अगृह्णीत सो ऽभवद् यो भूतिकामः स्यात् स एतं गृह्णीते भवति यदि शक्नोति ग्रहीतुम् उभौ भवतो यदि न शक्नोति ग्रहीतुम् उभौ न भवतः पराचीनेन प्राणता ग्रहीतव्यः पराङ् हि स प्राणैः श्रियो ऽन्तम् अगछद् अपानता ग्रहीतव्यो ऽपानं हि स तम् अगृह्णीत प्राण्यापान्याव्यवानता ग्रहीतव्यो ऽव्यवानं हि स तम् अगृह्णीत यद् व्यवानेत् प्राणान् विछिन्द्याद् यदि व्यवानेद् धिरण्येनापिदध्याद् अमृतं वै हिरण्यम् अमृतेनैव प्राणान्त् सन्दधाति सकृद् अभिषुणोति सकृद् गृह्णात्य् एको वै प्रजापतिः प्रजापतिम् एवाप्नोति चतुःस्रक्तिना ग्रहीतव्यश् चतुःस्रक्तिना वा एतं प्रजापतिर् अगृह्णीत स सर्वासु दिक्ष्व् आर्ध्नोत् स सर्वासु दिक्ष्व् ऋध्नोति य एवं विद्वान् एतं चतुःस्रक्तिना गृह्णीते ऽपो वै सोमस्य रसः प्रविष्टः सोमम् अपां रसो यथा वा इदं गावौ सञ्जग्माने अन्यान्यां हत एवं वा एतौ सञ्जग्माना अन्यो ऽन्यस्येन्द्रियं वीर्यं विनिर्हतस् तयोर् वा एष रसो यद् दधि यद् दध्ना जुहोति स्वेनैवैनौ रसेन शमयति

॥४.७.७॥

कृष्णशीर्षाग्नेयो मेषी सारस्वती बभ्रुः सौम्यः श्यामः पौष्णः शितिपृष्ठो बार्हस्पत्यः पिशङ्गो वैश्वदेवो वृष्णिर् ऐन्द्रः कल्माषो मारुतः संहित ऐन्द्राग्नो ऽधोरामः सावित्रः पेत्वो वारुणः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एताम् एकादशिनीम् अपश्यत् तयात्मानम् आप्रीणीत यज्ञो वै प्रजापतिस् तद् य एवं विद्वान् एताम् एकादशिनीं विबध्नीते यद् एवास्यात्मन ऊनं तद् आप्रीणीते प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एतानीन्द्रियाणि वीर्याण्य् अपश्यत् तानि द्वन्द्वम् आत्मानम् अभिसमबध्नीतात्माग्नेयो वाक् सरस्वतीन्द्रियं सोमो वाचं चैवेन्द्रियं चात्मानम् अभिसमबध्नीत पुष्टिः पौष्णो ब्रह्म बृहस्पतिः पुष्टिं चैव ब्रह्म चात्मानम् अभिसमबध्नीत बलं विश्वे देवा वीर्यम् इन्द्रो बलं चैव वीर्यं चात्मानम् अभिसमबध्नीतौजो मरुतः सह इन्द्राग्नी ओजश् चैव सहसश् चात्मानम् अभिसमबध्नीत प्रसवाय सावित्रो निर्वरुणत्वाय वारुण आग्नेयाय सर्वा उपबध्यन्ते ऽग्निर् वै सर्वा देवताः सर्वाभ्य एव देवताभ्य उपबध्यन्ते मिथुनत्वायैव सारस्वत्य् अथ यत् सौम्यः सोमो वै रेतोधा रेतो ऽस्मिन् दधात्य् अथ यत् पौष्णः प्रजननं वै पूषा प्रजननाय ब्रह्म बृहस्पतिर् वैश्वदेवीर् इमाः प्रजा ब्रह्म वा एतत् पुरस्ताद् आसां प्रजानाम् अत्यौहीद् अथो ब्रह्मण एवेमाः प्रजा अनुकाः करोति विण् मरुतो विशं वा एतत् क्षत्राय नियुनक्त्य् अथो विशम् एव क्षत्रायानुकां करोत्य् ओजसा वा एतद् विशं क्षत्राय परिगृह्णात्य् आलब्ध आग्नेय आलब्ध ऐन्द्रो ऽथैष ऐन्द्राग्न आलभ्यते ब्रह्म चैव क्षत्रं च सयुजा अकर् यद् अग्निश् चेन्द्रश् च भूयिष्ठभाजौ देवतानां तस्माद् ब्राह्मणश् च राजा च भूयिष्ठभाजौ मनुष्याणां प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः समुद्रो वै वरुणो दक्षिणा समुद्रो यद् वारुणो दक्षिणार्ध आलभ्यते यजमानस्य निर्वरुणत्वायैतद् वा एषाभ्यनूक्ता ॥

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।

अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥

इति

॥४.७.८॥

ये देवानां बलपतयस् तेभ्यो दक्षिणार्ध आलभ्यन्ते तस्मात् प्रजा दक्षिणाभिजयन्तीर् यन्ति यद् आग्नेयः सौम्यो बार्हस्पत्यस् ते सार्धम् आलभ्यन्त ओज एवैतत् सन्धीयते यद् आग्नेयश् च बार्हस्पत्यश् च सौम्यम् अभितस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णात्य् एकादश वा एतेषां पशूनां देवता मेषी सारस्वती देवतानां द्वादशी यद् एषातिरिच्यते तस्मात् स्त्रियः पुंसो ऽतिरिच्यन्ते ऽथ द्वे एकस्य रशने द्वे एकस्य तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम् अथ स्त्रिय एवातिरिच्यन्ते यं वा अमुम् इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधाभवद् यद् अग्रं तेजा आसीत् स स्फ्यो ऽभवद् यन् मध्यं स रथो यज्जघनं स यूपः स्फ्येन परिलिखति रथाक्षेण विमिमीते यूपो भवति वज्र एवैष सम्भ्रियत एतावती वा इयं पृथिवी यावती वेदिर् वज्र एकादशिनी तिरश्चीं मिनोति वज्रेण वा एतद् इमां जयति दक्षिणत उन्नता मेतव्या देवयजनस्य रूपम् अथो वज्रं वा एतद् यजमानो भ्रातृव्यायोञ्श्रयति त्रयो मध्यतः समा मेतव्याः समत्वाय समं हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति यं कामयेत पितृलोक ऋध्नुयाद् इति तस्योपरसम्मितां मिनुयात् पितृलोक एव ऋध्नोत्य् अथ यं कामयेत मनुष्यलोक ऋध्नुयाद् इति तस्य मध्यसम्मितां मिनुयान् मनुष्यलोक एव ऋध्नोत्य् अथ यं कामयेत देवलोक ऋध्नुयाद् इति तस्य चषालसम्मितां मिनुयाद् देवलोक एव ऋध्नोति तासां वा एषा समृद्धतमा या चषालसम्मिता तस्माच् चषालसम्मिता मेतव्या समृद्धत्वाय यस्य पश्चाद् उपस्थः पुरस्तान् निर्णतं तं मिनुयाद् यं कामयेत भ्रातृव्याय लोकं कुर्याद् यजमानं निर्बाधेतेति भ्रातृव्यायैव लोकं करोति यजमानं निर्बाधते ऽथ यस्य पुरस्ताद् उपस्थः पश्चान् निर्णतं तं मिनुयाद् यं कामयेत यजमानाय लोकं कुर्याद् भ्रातृव्यं निर्बाधेतेति यजमानायैव लोकं करोति भ्रातृव्यं निर्बाधते सर्वे ऽग्निष्ठाः कार्या या अग्निष्ठा अश्रयस् ता अग्निष्ठाः कार्यास् तेन सर्वे ऽग्निष्ठा अथ यद् अग्निष्ठाद् अधि रशना विह्रियन्ते तेन सर्वे ऽग्निष्ठा नाना वा एतेषां पशवो नाना देवता अथ य एष द्वादशो यजमान एवैतस्य पशुर् यद् अस्मै पशुं न निर्दिशेत् तत् प्रमायुको यजमानः स्याद् यं द्विष्यात् तं ब्रूयात् ॥

एवातिरिच्यन्ते : फ़्न् एमेन्देद्। एद्।: एवातिरच्यन्ते

असौ ते पशुः ॥ इति तम् एवास्मै पशुं निर्दिशति प्रमायुको भवति यद्य् अभिचरेत् ॥

इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् इन्द्रवज्रेणाभिनिदधामि ॥ इत्य् अभिनिदध्याद् इन्द्रवज्रेणैवैनम् अभिनिदधाति प्रमायुको भवत्य् अथो द्वादशस्यैवैष मासो ऽवरुद्ध्यै

॥४.७.९॥
प्रपाठक 8

चतुर्थकाण्डे अष्टमः प्रपाठकः

चतुर्थकाण्डे अष्टमः प्रपाठकः

तौ वृशश् चैवाषश् चाभवतां तद् वृशस्य चैवाषस्य च जन्म स मनुर् इन्द्रम् अब्रवीत् सं मे यज्ञं स्थापय मा मे यज्ञो विकृष्टो भूद् इति सो ऽब्रवीद् यत्काम एताम् आलब्धाः स ते कामः समृध्यताम् अथोत्सृजेति तां वा उदसृजत् तद् ऋद्ध्या एव पात्नीवतस् त्वाष्ट्रः स्यात् त्वाष्ट्रा हि पशवो ऽवाचीनं नाभ्याः कार्यो ऽवाचीनं हि नाभ्याः स्त्रिया वीर्यवद् व्यवव्लिनाति वा एकादशिनी यज्ञं यत् पात्नीवतः प्रत्युत्तब्ध्यै

॥४.८.१॥

भूद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अमुष्मिन् वै लोके यजमानो बुभूषत्य् अमुष्य खलु वा आदित्यस्यासौ लोको यत् सौरीभ्यां जुहोत्य् अमुष्मिन् वा एतल् लोके यजमानो भवति द्वाभ्यां जुहोति द्विपाद् यजमानः प्रतिष्ठित्यै हिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति बद्धेन जुहोति दक्षिणानां वा एषो ऽन्वारम्भो द्यां गछ स्वर् गछेत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै रूपं वो रूपेणाभ्येमीति रूपं हिरण्यं रूपं पशवस् तुथो वो विश्ववेदा विभजत्व् इत्य् एष वै तुथो विश्ववेदा यद् अग्निर् एष वै तं वेद यो दक्षिणीयो यो ऽदक्षिणीय एतत् ते अग्ने राध एति सोमच्युतम् इत्य् अग्नीधे वा एतद् दीयते तत् सोमश् च्यावयति तन् मित्रस्य पथा नयेत्य् एष वै मित्रस्य पन्था यद् यज्ञ आग्नेय्याग्नीध्रे जुहोत्य् आग्नेयं ह्य् आग्नीध्रं वारुण्या द्वितीयया यद्य् अनो वा रथो वा दीयते वारुणं हि तद् ऋतस्य पथा प्रेतेत्य् एष वा ऋतस्य पन्था यद् यज्ञश् चन्द्रदक्षिणा इति चन्द्रं हि दीयते ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् इत्य् एष वै ब्राह्मणः पितृमान् पैतृमत्यो य आर्षेयः शुश्रुवान् सुधातुदक्षिणम् इति सुधात्व् एवास्य यज्ञं दधाति वि स्वः पश्य व्य् अन्तरिक्षम् इत्य् अद एव प्राप्य वदति यतस्व सदस्यैर् इत्य् अरातीयन्ति वा एत एतस्मै ददत ईश्वरा ब्राह्मणाः सोमपाश् चक्षुषापहन्तोस् तान् एव शमयत्य् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतेति तथा हैनम् अमुत्रागछन्ति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्या दक्षिणाश् च्यावयन्ति नामुत्र गछन्तीति यद् आहानवहायास्मान् देवयानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम् इति तथा हैनम् इह चामुत्र चागछन्ति

॥४.८.२॥

बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यज्ञं वा एतद् घ्नन्ति यद् दक्षिणा दीयन्ते यज्ञं वा एतद् दक्षयन्ति तद् दक्षिणानां दक्षिणात्वं यत् तद् दक्षयन्ति स्वर्गो वै लोको माध्यन्दिनं सवनं यन् माध्यन्दिने सवने दक्षिणा दीयन्ते स्वर्गस्य लोकस्याक्रान्त्यै बहु देयं सेतुं वा एतत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै हिरण्यं हस्ते भवत्य् अथ नयति सत्यं वै हिरण्यं सत्येनैवैना नयत्य् अग्रेण गार्हपत्यं जघनेन सदस् ता उदीचीर् उत्सृजन्त्य् अन्तरा चात्वालं चाग्नीध्रं चैतेन वा अङ्गिरसः स्वर्गं लोकम् आयंस् तम् एवैनाः पन्थाम् अपिनयति द्वाभ्यां गार्हपत्ये जुहोतीमां तेनाक्रमत आग्नेय्याग्नीध्रे ऽन्तरिक्षं तेनाथ यद् दक्षिणा दीयन्ते स्वर्गं तेन लोकम् अग्नीधे ऽग्रे ददाति यज्ञमुखं वा अग्नीद् यज्ञमुखम् एव नापाराड् अथो अग्निर् वै सर्वा देवता देवता एवास्य तयाभीष्टाः प्रीता भवन्ति ब्रह्मणे ददाति प्राजापत्यो वै ब्रह्मा प्रजापतिम् एव तया प्रीणात्य् ऋत्विग्भ्यो ददाति होत्रा एव तया प्रीणाति यां सदस्येभ्यो ददाति सोमपीथं तया निष्क्रीणीते याम् आर्षेयाय शुश्रुवुषे ददाति छन्दांसि तया प्रीणाति न हि तस्माद् अर्हन्ति सोमपीथं निष्क्रीयं याम् आर्षेयाय शुश्रुवुषे ददाति देवलोके तया ऋध्नोति याम् अनार्षेयाय शुश्रुवुषे मनुष्यलोके तया याम् अप्रसृप्ताय ददाति वनस्पतयस् तया प्रथन्ते यां याचमानाय ददाति भ्रातृव्यं तया जिन्वति यां भीषा क्षत्रं तया ब्रह्मात्ति यां प्रतिनुदते सा व्याघ्री दक्षिणा यत् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूता प्रव्लिनीयाद् अन्यया सह प्रतिगृह्या तथा हैनं न प्रव्लिनाति यद् अजं ददात्य् आग्नेयो वा अजो ऽग्नेर् एव तेन प्रियं धामोपैति यद् अविं ददात्य् आव्यन् तेनापजयति यद् गां ददाति वैश्वदेवी गौर् विश्वेषां देवानां तया प्रियं धामोपैति यद् वासो ददाति सर्वदेवत्यं वै वासो देवता एवास्य तेनाभीष्टाः प्रीता भवन्ति यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते यद् अनो वा रथं वा शरीरं तेन यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते यद् अश्वं ददाति प्राजापत्यो वा अश्वः प्रजापतेर् एव तेन प्रियं धामोपैत्य् अथो अमुष्यादित्यस्य लोकं जयत्य् अन्ततः प्रतिहर्त्रे देयं रौद्रो वै प्रतिहर्ता यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववनयेत् तस्माद् अन्ततः प्रैहर्त्रे देयं स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तम् अत्रिर् अन्वपश्यद् यद् आत्रेयाय हिरण्यं ददाति तम एवापहते ऽथो ज्योतिर् उपरिष्टाद् दधाति स्वर्गस्य लोकस्यानुक्शात्यै

॥४.८.३॥

आव्यन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

विश्वरूपो वा एतत् त्वाष्ट्रो यज्ञस्य व्यृद्धम् अमन्यत यद् ऋक्सामे व्युह्येते स एतान्य् अपश्यद् यज्ञस्य निष्कृत्यै यद् एवात्र यज्ञस्य व्यृद्धं तस्यैतानि निष्कृत्यै हूयन्ते षड् ऋग्म्याणि भवन्ति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति त्रीणि यजूंषि त्रीणि वै सवनानि सवनान्य् एवाप्नोति नवैतानि समिष्टयजूंषि जुहोति नवभिर् बहिष्पवमाने स्तुवते तन् नव नव प्राणाः प्राणान् एवात्मन् धत्त ऊर्ध्वस् तिष्ठन् जुहोत्य् ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो यं द्विष्यात् तस्य तूष्णीं तिष्ठन् जुहुयात् प्राणान् अस्यान्तरेति सन्ततं जुहोति प्राणानां सन्तत्यय् अविछिन्दन् जुहोति प्राणानाम् अविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्यात् प्राणान् अस्य विछिनत्ति समानेन विग्राहं जुहोति समाना हीमे प्राणा यज्ञस्य वा एता आणी एतौ वै विश्वामित्रो यज्ञस्याणी अपश्यत् तद् यज्ञस्यैवैता आणी क्रियेते यतो यज्ञ आदीयते तत् पुनर् निधेया इति ह स्माह भरद्वाजो यतो वा एतद् यज्ञ आदीयते तत् पुनर् निधीयते

॥४.८.४॥

पञ्चसवनो वै यज्ञस् त्रीणि सवनान्य् अवभृथो ऽनूबन्ध्या सवनानां पञ्चमी पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यद् वै यज्ञस्यातिरिच्यते तद् वरुणो गृह्णात्य् अतिरिक्तं वा एतद् यज्ञस्य यद् ऋजीषो ऽधिषवणम् अधिषवणे तस्मात् तेनावभृथम् अभ्यवयन्त्य् अपो ऽभ्यवयन्त्य् आपो हि वरुणः स्थावरा अभ्यवयन्ति ता हि साक्षाद् वरुणो यद् वहन्तीर् अभ्यवेयुः पशून् निर्वहेयुर् अथ यत् स्थावरा अभ्यवयन्ति पशूनाम् अनिर्वाहायापो वै वरुणो वातो वरुणो यद् उदञ्चो ऽवभृथम् अभ्यवेयुर् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् दक्षिणावभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वायोरुं हि राजा वरुणश् चकारेति चात्वालात् प्रयन्तो वदन्त्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति शतं ते राजन् भिषजः सहस्रम् इत्य् अपः परादृश्य वदन्त्य् अपो वा एतद् भूषन्ति पूताभिर् आभिः पूताश् चरन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठति तृणं प्रास्य जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजत्य् आज्यभागौ यजति यज्ञतायै वरुणं यजति निर्वरुणतायय् अग्नीवरुणौ यजत्य् उभयत एवैनं वरुणान् मुञ्चति नानुयाजान् यजति न संस्थापयन्त्य् अतिरिक्तम् इव हि तन् मन्यन्ते समुद्रे ते हृदयम् अप्स्व् अन्तर् इति सह स्रुचोपमारयति यद् एवात्र क्रूरं क्रियते तञ् शमयत्य् अवभृथ निचुङ्कुणेत्य् अवभृथ एवास्यैष ततो य ऋजीष उत्प्लवते तं भक्षयन्ति सोमपीथम् इव हि तन् मन्यन्ते वरुणो वा ऋजीषो यद् भक्षयेद् वरुणम् आत्मन्य् अञ्जीत तद् आहुर् भक्षयितव्यम् एव पशवो वा ऋजीषः पशून् एवात्मन्य् अङ्क्ता इति विचृत्तो वरुणस्य पाशा इति वरुणपाशम् एव विष्यति प्रत्यस्तो वरुणस्य पाशा इति वरुणपाशम् एव प्रत्यस्यति नमो वरुणस्य पाशायेति वरुणपाशायैव नमो ऽकर् अङ्गिरसो वा उत्तिष्ठतो रक्षांस्य् अनूदतिष्ठंस् तान् वा एतेन बृहस्पतिर् अन्ववैत् तेनैभ्यो रक्षांस्य् अपाहन् यद् एतेनान्ववैति रक्षसाम् अपहत्यै यद् ऊर्ध्वस्तोभं तेन बार्हस्पत्यम् अथ यत् त्रिस्तोभं त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो यज्ञाद् रक्षांस्य् अपहन्ति यद् अतिछन्दसा सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् वा एतच् छन्दोभिर् यज्ञाद् रक्षांस्य् अपहन्ति यद् आग्नेय्याग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अपो ऽभ्यवयन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यय् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिषीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव

॥४.८.५॥

यः कामयेत सर्वो मे यज्ञः स्यात् सरसा इति स एतास् तिस्रो वशा आलभेत यज्ञस्य सर्वत्वायाथो सरसत्वाय वैश्वदेवीं मध्यत आलभेत रेतो वा एतन् मध्यतो दधाति मध्यतो हि रेतो ऽनिरुक्तया प्रचरन्त्य् अनिरुकम् इव हि रेतो यातयामं वा एतस्य देवताश् च ब्रह्म च यद् वैश्वदेवी च बार्हस्पत्या च वशे भवतो देवतानां च ब्रह्मणश् चायातयामत्वाय दुग्धानि वा एतस्य छन्दांसि यातयामानि भवन्ति छन्दस्य् एव रसं दधाति बार्हस्पत्याम् अन्तत आलभेत ब्रह्म वै बृहस्पतिर् ब्रह्मणि वा एतद् अन्ततो यज्ञस्य यजमानः प्रतितिष्ठति यद् वै यज्ञः सन्तिष्ठते मित्रो ऽस्य स्विष्टं युवते वरुणो दुरिष्टं यन् मैत्रावरुण्य् अनूबन्ध्या भवति मित्रेण वा एतन् मित्राद् यज्ञस्य स्विष्टं मुञ्चति वरुणेन वरुणाद् दुरिष्टम् उभयत एनं मुक्त्वा यजमानाय प्रयछति यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्य् एवम् उक्थामदानि यज्ञं प्रभिन्दन्ति यथा मत्यम् अन्ववास्यत्य् एवम् एषा यज्ञस्य यद् दुष्टुतं यद् दुःशस्तं यद् विलोमं तद् एतया कल्पयति विदेवो वा ईजानः सदेवो ऽनीजान आ ह्य् अनीजाने देवताः शंसन्ते यथा वा अनद्वान् विमुक्तो ऽपक्रामत्य् एवम् ईजानाद् देवता अपक्रामन्ति यद् आग्नेय उदवसानीयो भवत्य् अग्निर् वै सर्वा देवता देवता एव पुनर् आलभते ऽष्टाकपालो भवति गायत्रो ह्य् अग्निर् गायत्रछन्दाः पञ्चकपालः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यत्र वा अदो ऽग्नौ पुरुषं प्रमीतम् आदधति तद् एनम् अभि सत्यं सर्वा एनम् अन्या देवता जहत्य् अग्निर् एनं देवतानां न जहाति

॥४.८.६॥

प्र वा ऋचा ह प्रयछति यजुषा गमयति ग्रहेण स्तोत्राय वा ऋक् शस्त्राय यजुः सम्बद्धे वै स्तोत्रं च शस्त्रं च सम्बद्धे ऋक् च यजुश् चोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा ते देवा अमन्यन्तेदं यज्ञस्य शिथिरम् इति तत् पुरोरुचम् उपादधुर् अशिथिरत्वाय देवता वै सर्वा आशंसन्ते ग्रहे गृह्यमाणे मह्यं गृह्णाति मह्यं गृह्णातीति यत् पुरोरुग् देवतानां व्यावृत्त्यै ॥

जीवा नाम स्थ ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत सञ्जीवा नाम स्थ ता इमं सञ्जीवयत ॥

इति यवान् एकविंशतिं दर्भपिञ्जूलानि चावधाय परिब्रूयाद् अथाभिमन्त्रयेत ॥

प्राणापानौ त उपांश्वन्तर्यामौ पातां व्यानं त उपांशुसवनः पातु वाचं त ऐन्द्रवायवः पातु दक्षक्रतु ते मैत्रावरुणः पातु श्रोत्रं त आश्विनः पातु चक्षुषी ते शुक्रामन्थिनौ पाताम् आत्मानं त आग्रायणः पात्व् अङ्गानि त उक्थ्यः पात्व् आयुस् ते ध्रुवः पातु स्तनौ त ऋतुपात्रे पातां मूर्धानं ते द्रोणकलशः पातु कुक्षी ते कलशौ पातां पुष्टपते चक्षुषे चक्षुः स्मने स्मानं वाचे वाचं प्राणाय प्राणं पुनर् देह्य् अस्मै स्वाहा ॥

इति जुहुयाद् एतद् ध स्म वा आह वासिष्ठः सात्यहव्यः पात्रेषु वा अहं तद् ब्राह्मणं वेद यथा पुरुषः सकृदाहृतिम् आहृयते सकृत् त्व् एव कुर्यान् न ततः पुरो यत् पुनः कुर्यात् प्रमीयेत यद्य् अभिचरेद् एतद् एव यजुर् उदित्वाथाभिमन्त्रयेत ॥

पुनर् इतरथा

॥४.८.७॥

पुनर् अन्यानि पात्राणि प्रयुज्यन्ते नान्यानि यानि पुनः प्रयुज्यन्ते तान्य् अस्मै लोकाय यानि न पुनः प्रयुज्यन्ते तान्य् अमुष्मै क्षयायाथैतद् उक्थ्यपात्रं पुनः प्रयुज्यत आरण्यान् वा एतत् पशून् प्रत्य् आरण्यान् एवैतेन पशून् दाधार यद् एतत् पुनः प्रयुज्यते तस्माद् एतान् पश्यतः परीत्य घ्नन्त्य् अथैतद् ऋतुपात्रं पुनः प्रयुज्यते ऽश्वं वा एतत् प्रत्य् अश्वम् एवैतेन दाधार यद् एतत् पुनः प्रयुज्यते तस्माद् एतस्याश्वस्येवाधस्ताञ् शफो ऽथैतद् आदित्यपात्रं पुनः प्रयुज्यते गां वा एतत् प्रति गाम् एवैतेन दाधार यद् भूयिष्ठाभिर् ऋग्भिर् भूयिष्ठः सोमो गृह्यते तस्माद् गौर् हन्यमानाद्यमाना पशूनां भूयिष्ठाथैतञ् शुक्रपात्रं पुनः प्रयुज्यते पुरुषं वा एतत् प्रति पुरुषम् एवैतेन दाधारासौ वा आदित्यः शुक्रो रश्मय ऋतवो ऽन्तरम् ऋतुपात्रं शुक्रपात्रं पुनः प्रयुज्यते ऽन्तरे ह्य् अमुष्माद् आदित्याद् रश्मयो ऽथैतद् उपांशुपात्रं पुनः प्रयुज्यते ऽविं वा एतत् प्रत्य् अविम् एवैतेन दाधाराथैतद् अन्तर्यामपात्रं पुनः प्रयुज्यते ऽजां वा एतत् प्रत्य् अजाम् एवैतेन दाधार प्रजापतिर् वा आग्रायणो यद् एष पुनः प्रयुज्यते तस्मात् प्रजापतिः प्रजा वेद प्रजापतेर् वा एतत् पात्रं यद् द्रोणकलशो यद् एष पुनः प्रयुज्यते तस्माद् अयं क्षयो ऽस्ति सप्त वै पात्राणि पुनः प्रयोगम् अर्हन्ति तानि हि बन्धुमन्ति सप्त छन्दांसि छन्दांसि वाग् यावत्य् एव वाक् ताम् आप्नोति सप्त छन्दांसि सप्त होत्राः सप्त ग्राम्याः पशवस् तान् एवावरुन्द्धे त्रीणि वै पात्राणि प्रत्यक्षबन्धूनि परोक्षबन्ध्व् एवान्यत् सर्वं गायत्र्य् ऐन्द्रवायवस् त्रिष्टुप् शुक्रो जगत्य् आग्रायणो ऽछिन्नं स्रावयितव्यः कामो हास्य समर्धुको भवत्य् अथो अजीमूतवर्षी पर्जन्यो भवति न चमसम् अभ्युपाकुर्याद् यच् चमसम् अभ्युपाकुर्याद् गर्भमृतः प्रजाः स्युर् येनैवाग्रे सर्पन्ति तेन पुनः सर्पेयुर् यद् अन्येन सर्पेयुर् गर्भा वेष्टुकाः स्युर् यूपेन वा आहुतयः स्वर्गं लोकं यन्त्य् अध्वर्युणा दक्षिणा ऊर्ध्वो यूपो मीयत ऊर्ध्वस् तिष्ठन् प्रतिगृणाति स्वर्गस्य लोकस्य समष्ट्यै

॥४.८.८॥

यो ज्येष्ठबन्धुः स्यात् स ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीताग्रं ह्य् ऐन्द्रवायवो य आमयावी स मैत्रावरुणाग्रान् प्राणापाणौ हि मित्रावरुणौ यः पश्चात् सोमपीथः स आश्विनाग्रान् पश्चेव ह्य् एतौ सोमपीथम् आश्नुवातां यो ब्रह्मवर्चसकामः स शुक्राग्रांस् तेजो वै शुक्रो ब्रह्मवर्चसं यो ऽभिचरेत् स मन्थ्यग्रान् आर्तं वा एतत् पात्रं यन् मन्थिपात्रं य आनुजावरः स आग्रायणाग्रान् अग्रं ह्य् आग्रायण एति वा एष यज्ञमुखाद् य ऐन्द्रवायवाग्रेभ्यो ग्रहेभ्यो ऽन्याग्रान् ग्रहान् गृह्णीते धारयेयुस् तं यं कामाय गृह्णीयाद् अथैन्द्रवायवं सादयेद् यथापूर्वं वा एतत् क्रियते न यज्ञमुखाद् एति यद्य् आग्रायणः स्कन्देद् उप वा दस्येद् इतरेभ्यो ग्रहेभ्यो निर्गृह्णीयाद् यथा पिता पुत्रान् क्षित उपधावत्य् एवं तत् यदीतरे ग्रहाः स्कन्देयुर् उप वा दस्येयुर् आग्रायणान् निर्गृह्णीयाद् यथा पुत्राः पितरं क्षित उपधावन्त्य् एवं तत् द्रोणकलशान् निर्गृह्यन्त एष वा एतेषां योनिः स्वाद् एव योनेर् निर्गृह्यन्ते ऽस्कन्नत्वाय सोमः स्कन्त्स्यति तम् इतो ग्रहीष्यामीति तस्य वा एष परिशये यदा वा एतम् अवनयत्य् अथैष उभयतःशुक्रो ऽथो सर्वतःशुक्रः पशुभिर् वा एष व्यृध्यते यस्य सोमः स्कन्दति व्य् अस्य यज्ञश् छिद्यते पशवो वै पृषदाज्यं यत् पृषदाज्यं जुहोति पशुभिर् एवैनं सम्यञ्चं दधाति मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधात्व् इति यज्ञम् एव सन्दधाति ॥

क्रियते : फ़्न् बेन्। एद्।: क्रियते

एति : फ़्न् एमेन्देद्। एद्।: एति

वर्धतां भूतिर् दध्ना घृतेन मुञ्चतु यज्ञं यज्ञपतिम् अंहसः ॥ स्वाहा ॥

इति जुहुयाद् इयं वा एतद् यज्ञस्य गृह्णाति यद् आर्छतीयं भूतिर् अस्या एवैनद् अधि मुञ्चति द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनत् प्रतिष्ठापयति त्रयस्त्रिंशद् अपो ऽन्वतिषिञ्चत्य् आपो हि यज्ञो यज्ञं वा एतस्य विमथ्नते यस्य पशुं विमथ्नते व्य् अस्य यज्ञश् छिद्यते यद् अवदानं न विन्देत् तद् आज्यस्यावद्येत् सर्वा वा अन्या देवता यातयाम्नीः प्रजापतिर् एवायातयामा प्राजापत्यम् आज्यं प्राजापत्या देवाः प्रजापतिहुतम् एवास्य भवति यदि कामयेत ये पशुं व्यमथिषत त आर्तिम् आर्छेयुर् इति कुविद् अङ्ग यवमन्तो यवं चिद् इति नमौक्तिमत्य ऋचाग्नीध्रे जुहुयान् नमौक्तीर् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्त्य् अथैषाष्टापदी यद् गर्भस्यावद्येद् अवदानान्य् अतिरेचयेद् यन् नावद्येत् प्रोक्षितस्य हविषो नावद्येद् रसेन जुहोत्य् अव प्रोक्षितस्य हविषो द्यति नावदानान्य् अतिरेचयति

॥४.८.९॥

यथा वै शालैवं संवत्सरस् तस्य यथा पक्षसी एवं पक्षसी यथा मध्यमो वम्श एवं दिवाकीर्त्यं यथा वा इदं शालायाः पक्षसी मध्यमं वंशम् अभिसमागछन्त्य् एवं वा एतत् संवत्सरस्य पक्षसी दिवाकीर्त्यम् अभिसन्तनोति यथा मध्यमो वम्श एवं दिवाकीर्त्यं यद् एष शिथिरः स्याद् अवशीर्येत यद् एतस्मिन्न् अहन्य् एते ग्रहा गृह्यन्ते ऽह्नो द्रढिम्ने ऽशिथिरत्वाय शुक्राग्रा एतद् अहर् ग्रहा भवन्ति त्रैष्टुभो वै शुक्रस् त्रैष्टुभम् एतद् अहः प्रत्युत्तब्ध्यै सयत्त्वाय सौर्यो ग्रहो गृह्यते सौर्यः पशुर् आलभ्यते ऽसा आदित्य एतद् अहस् तं साक्षाद् ऋध्नोति षड् ग्रहा गृह्यन्ते पशुः सप्तम आलभ्यते सप्त वै शीर्षन् प्राणा असा आदित्यः शिरः शीर्षन् वा एतत् प्राणान् दधातीन्द्रो वै वृत्रम् अहन् स इमं लोकम् अभ्यजयद् अमुं तु लोकं नाभ्यजयत् तं विश्वकर्मा भूत्वाभ्यजयद् यद् वैश्वकर्मणो ग्रहो गृह्यते ऽमुष्य लोकस्याभिजित्यै यन्ति वा एते ऽस्माल् लोकाद् ये वैश्वकर्मणं ग्रहं गृह्णते पराञ्चो हि यन्तीश्वराः प्रमेतोः श्वो भूत आदित्यं गृह्णीरन्न् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् अव प्रतितिष्ठन्ति तयोर् अन्यमन्यम् आ परार्धात् पक्षसो गृह्णीरन् विश्वम् अन्येन कर्म कुर्वाणा यन्तीयं वा अदितिर् अस्याम् अन्येन प्रतितिष्ठन्ति ता उभौ सहार्के गृह्णीरन्न् अन्तं गत्वान्तम् एव गत्वोभयोर् लोकयोः प्रतितिष्ठन्त्य् आदित्येनास्मिंल् लोके वैश्वकर्मणेनामुष्मिन्

॥४.८.१०॥
प्रपाठक 9

चतुर्थकाण्डे नवमः प्रपाठकः

चतुर्थकाण्डे नवमः प्रपाठकः

देवपुरश् चरस ऋध्यासं त्वा

॥४.९.१॥

चरस : फ़्न् ⟨ चरसे

नमो वाचे नमो वाचस्पतये या चोदिता या च नोदिता तस्यै वाचे नमो नमा ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्यो मन्त्रपतिभ्यो मा माम् ऋषयो मन्त्रकृतो मन्त्रविदः प्रादुर् दैवीं वाचम् उद्यासं जुष्टां देवेभ्यः स्वधावरीं पितृभ्यो ऽनुमतान् मनुष्येभ्यस् तन् मा देवा अवन्तु शोभायि पितरो ऽनुमदन्तु ॥

गायत्रीं छन्दः प्रपद्ये त्रिष्टुभं छन्दः प्रपद्ये जगतीं छन्दः प्रपद्ये ऽनुष्टुभं छन्दः प्रपद्ये पङ्क्तिं छन्दः प्रपद्ये छन्दांसि छन्दः प्रपद्ये ॥

तानि नो ऽवन्तु तानि नः पालयन्तु तानि सा ऋछतु यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् अग्नीद् रजनरोहिणौ पुरोडाशाव् अधिश्रय प्रतिप्रस्थातर् विहर प्रस्तोतः सामानि गाय ॥

यजुर् युक्तं सामभिर् ऋक्तखन्ता विश्वाभिर् धीभिः सम्भृतं दक्षिणाभिः ।

प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानाः ॥

भूर् भुवः स्वर् देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता ॥

बृहस्पतिप्रसूता : फ़्न् ह्, ब्ब्: बृहस्पतिः प्रसूता

ॐ इन्द्रवन्तः प्रचरत

॥४.९.२॥

यमाय त्वा ॥

मखाय त्वा ॥

सूर्यस्य हरसे त्वा ॥

देवस् त्वा सविता मध्वानक्तु ॥

पृथिव्याः सम्पृचस् पाहि ॥

अर्चिषे त्वा शोचिषे त्वा ज्योतिषे त्वा तपसे त्वा ॥

अर्चिर् असि शोचिर् असि ज्योतिर् असि तपो ऽसि सूर्यस्य तपस् तपः ॥

संसीदस्व महं असि शोचस्व देववीतमः ।

वि धूमम् अग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥

अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तो नाग्निना तपन्तः ।

पितुर् न पुत्र उपसि प्रेष्ठा आ घर्मो अग्निर् अमृतो न सादि ॥

अनाधृष्टासि पुरस्ताद् अग्नेर् आधिपत्या आयुर् मे दाः पुत्रवती दक्षिणत इन्द्रस्याधिपत्ये प्रजां मे दाः ॥

सुषदा पश्चात् सवितुर् आधिपत्ये चक्षुर् मे दाः ॥

आश्रुतिर् उत्तरतो मित्रावरुणयोर् आधिपत्ये श्रोत्रं मे दाः ॥

विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये वाचं मे दाः ॥

ब्रह्म मे दाः क्षत्रं मे दाः पयो मे दाः ॥

मनोर् अश्वासि भूरिपुत्रा सूपसदना विश्वाभ्यो मा दंष्ट्राभ्यस् पाहि

॥४.९.३॥

चिद् असि ॥

स्वाहा मरुद्भ्यः परिश्रयस्व ॥

मासि ॥

प्रमासि ॥

प्रतिमासि ॥

विमासि ॥

सम्मासि ॥

उन्मासि ॥

अन्तरिक्षस्यान्तर्धिर् असि ॥

दिवः सम्पृचस् पाहि ॥

अर्हन् बिभर्षि सायकानि धन्वा ।

अर्हन् निष्कं यजतं विश्वरूपम् ।

अर्हन्न् इदं दयसे विश्वम् आ धन्वा ।

ओजीयो रुद्रस् तद् अस्ति ॥

गायत्रो ऽसि ॥

त्रैष्टुभो ऽसि ॥

जागतम् असि ॥

मधु । मधु । मधु ॥

रुचितो घर्मः

॥४.९.४॥

दश प्राचीर् दश भासि दक्षिणा दश प्रतीचीर् दश भास्य् उदीचीर् दशोर्ध्वा भासि सुमनस्यमानः ॥

सा नः प्रजां पशून् पाह्य् अरणीयमानः ॥

अग्निष् ट्वा वसुभिः पुरस्ताद् रोचयतु स मा रुचितो रोचय ॥

पितरस् त्वा यमराजानः पितृभिर् दक्षिणतो रोचयन्तु स मा रुचितो रोचय ॥

सविता त्वादित्यैः पश्चाद् रोचयतु स मा रुचितो रोचय ॥

मित्रावरुणौ त्वोत्तरतो मरुद्भी रोचयेतां स मा रुचितो रोचय ॥

बृहस्पतिष् ट्वा विश्वैर् देवैर् उपरिष्टाद् रोचयतु स मा रुचितो रोचय ॥

देव घर्म रुचितस् त्वं देवेष्व् आ सुरुचितं मां देवमनुष्येषु कुरु रुचं मयि धेहि रुचिर् असि रुचो ऽसि स यथा त्वं रुच्या रोचस एवम् अहं रुच्या रोचिषीय तवेव मे रोचमानस्य रोचो भूयासुर् ध्राजिर् असि ध्राजो ऽसि स यथा त्वं ध्राज्या ध्राजस एवम् अहं ध्राज्या ध्राजिषीय तवेव मे ध्राजमानस्य ध्राजो भूयासुर् भ्राजिर् असि भ्राजो ऽसि स यथा त्वं भ्राज्या भ्राजस एवम् अहं भ्राज्या भ्राजिषीय तवेव मे भ्राजमानस्य भ्राजो भूयासुः

॥४.९.५॥

अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।

स सध्रीचीः स विषूचीर् वसाना आवरीवर्ति भुवनेष्व् अन्तः ॥

गर्भो देवानां जनिता मतीनां मतिः कवीनां पतिः प्रजानां धर्ता क्षत्रस्य ॥

सं देवो देवेन सवित्रा यजत्र सं सूर्येण रोचते ॥

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ॥

ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यछ ॥

धर्ता दिवो रजसो विभाति धर्ता पृथिव्या धर्तोरोर् अन्तरिक्षस्य धर्ता ॥

देवो देवानाम् अमर्त्यस् तपोजा अप्सु प्रावीः ॥

विश्वासां भुवां पते विश्वस्य भुवनस्पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते विश्वस्य ब्रह्मणस्पते ॥

देवश्रुत् त्वं देव घर्म देवान् पाहि तपोजान् ॥

वाजम् अस्मिन् निधेहि देवायुवम् ॥

मधु माध्वीभ्यां मधु माधूचीभ्यां मधुमान् देववीतये ॥

सम् अग्निर् अग्निनागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणारोचिष्ट स्वाहा ॥

सम् अग्निस् तपसागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणायुक्तायुर्दास् त्वम् अस्मभ्यं घर्म वर्चोदा असि पितासि पिता नो बोधिषीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥

त्वष्ट्रिमन्तस् त्वा सपेम

॥४.९.६॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥

अदित्या रास्नासि ॥

इडा एह्य् अदिता एह्य् असाव् एहि सरस्वत्य् एह्य् असाव् एहि ॥

यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि ॥

अदित्या उष्णीषम् असि ॥

पूषा त्वोपावसीदतु ॥

वायुर् अस्य् अश्विभ्यां प्रधापय ॥

घर्माय शङ्क्ष्व ॥

बृहस्पतिष् ट्वोपसीदतु ॥

दानवः स्थ ॥

प्रेरवः स्थ ॥

अश्विभ्यां पिन्वस्व ॥

सरस्वत्यै पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्व ॥

उप मेहि सहोर्जो भागेन ॥

मधुहविर् असि स्वाहा त्वा वाताय सूर्यस्य रश्मये सिता वृष्टिसनये सञ्जुहोमि स्वाहा ॥

सूर्यस्य : फ़्न् एमेन्देद्। एद्।: सुर्यस्य।

इन्द्राश्विना मधुनः सारघस्य घर्मं पात वसवो यजत्रा वेट् ॥

गायत्रम् असि ॥

त्रैष्टुभम् असि ॥

जागतासि ॥

द्यावापृथिवीभ्यां त्वा परिगृह्णामि ॥

अन्तरिक्षेणोपयछामि ॥

दिविस्पृङ् मा मा हिंसीः ॥

अन्तरिक्षस्पृङ् मा मा हिंसीः ॥

पृथिवीस्पृङ् मा मा हिंसीः ॥

तेजो ऽसि तेजो ऽनुप्रेहि

॥४.९.७॥

सलिलाय त्वा वाताय स्वाहार्णवाय त्वा वाताय स्वाहा सिन्धवे त्वा वाताय स्वाहा समुद्राय त्वा वाताय स्वाहा शिमिद्वते त्वा वाताय स्वाहा कुमुद्वते त्वा वाताय स्वाहावस्यवे त्वा वाताय स्वाहा दुवस्यवे त्वा वाताय स्वाहानाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहाग्नये त्वा वसुमते स्वाहा सोमाय त्वा रुद्रवते स्वाहेन्द्राय त्वा मरुत्वते स्वाहा यमाय त्वा पितृमते ऽङ्गिरस्वते स्वाहा ॥

सवित्रे त्वर्भूमते विभूमते वाजवते बृहस्पतिवते विश्वदेव्यावते स्वाहा ॥

अहः केतुना जुषतां स्वर्ज्योतिर् जुषतां स्वाहा ॥

रात्रिः केतुना जुषतां स्वर्ज्योतिर् जुषतां स्वाहा

॥४.९.८॥

दिवि धा इमं यज्ञम् इमं यज्ञं दिवि धाः स्वस्ति घर्माय सवति घर्मपित्वे ॥

विश्वा आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ॥

ॐ श्रावय ॥

अस्तु श्रौषट् ॥

घर्मस्य यज ॥

अश्विना घर्मं पिबतं हार्द्रानुम् अनु मां द्यावापृथिवी अनु मे ऽमंसाताम् इहैव रातयः सन्ति सं यजुर्भिः स्वाहेन्द्राय स्वाहेन्द्राय वट् ॥

स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना घर्मम् अपातम् अश्विना वहद् दिव्याभिर् ऊतिभिः स्वं पेद्रवं यथा वेट् ॥

यथा : फ़्न् एमेन्देद्। एद्।: यथा।

इषे पिपीहि ॥

ऊर्जे पिपीहि ॥

अस्मै ब्रह्मणे पिपीहि ॥

अस्मै क्षत्राय पिपीहि ॥

इष ऊर्जे पिपीहि ॥

सुभूताय पिपीहि ॥

ब्रह्मवर्चसाय पिपीहि ॥

अस्यै विशे मह्यं ज्यैष्ठ्याय पिपीहि ॥

घर्मो ऽसि घर्मम् एम्य् अस्मे ब्रह्माणि धारय ॥

क्षत्रं धारय ॥

विशं धारय ॥

पूष्णे शरसि स्वाहा ॥

ग्रावभ्यः स्वाहा ॥

प्रतिरवेभ्यः स्वाहा ॥

द्यावापृथिवीभ्यां स्वाहा पितृभ्यो घर्मपेभ्यः स्वाहा ॥

रुद्राय रुद्रहोत्रे स्वाहा ॥

हुतं हविर् मधुहविर् असीन्द्रतमे ऽग्नौ स्वाहा ॥

अश्याम ते देव घर्म ऋभूमतो विभूमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः पितृमतो ऽङ्गिरस्वत उशीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥

संसाद्यमानायानुब्रूहि ॥

अह्ने स्वाहा ॥

रात्र्यै स्वाहा

॥४.९.९॥

पशूनां ज्योतिर् असि विभृतं देवत्रा ज्योतिर् भा असि ॥

वनस्पतीनाम् अपाम् ओषधीनां रसो वाजिनं त्वा वाजिन्य् अवनयाम्य् ऊर्ध्वं मनः स्वर्ग्यम् ॥

पयो ऽसि पयस्वी भूयासम् ॥

घर्म या ते दिवि शुग् या दिवि या बृहति या स्तनयित्नौ या जागते छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥

घर्म या ते ऽन्तरिक्षे शुग् यान्तरिक्षे या वाते या वामदेव्ये या त्रैष्टुभे छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥

घर्म या ते पृथिव्यां शुग् या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसीयं ते ताम् अवयजे तस्यै ते स्वाहा ॥

प्रस्तोतः साम गाय ॥

अन्व् अद्य न इत्य् एषा ब्रह्मणस् त्वा परस्पाय क्षत्रस्य तन्वस् पाहि ॥

विशस् त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे ॥

प्रस्तोतः साम गाय ॥

अन्व् अद्य न इत्य् एषा प्राणस्य त्वा परस्पाय चक्षुषस् तन्वस् पाहि ॥

श्रोत्रस्य त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे ॥

प्रस्तोतः साम गाय ॥

अन्व् अद्य न इत्य् एषा दिवस् त्वा परस्पाय ॥ अन्तरिक्षस्य तन्वस् पाहि ॥

पृथिव्यास् त्वा धर्मणा वयम् अनु परिक्रामाम सुविताय नव्यसे चतुःस्रक्तिर् ऋतस्य नाभिः सदो घर्मो विश्वायुः शर्म सप्रथाः ॥

अप द्वेषो अप ह्वरो अन्यव्रतस्य सश्चिम वल्गुर् असि शंयोर्धायाः ॥

शिशुर् जनधायाः ॥

शं च वक्षि ॥

परि च वक्षि ॥

घर्मैतत् ते ऽन्नम् एतत् पुरीषम् ॥

तेन वर्धस्व चाप्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च व्य् असौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः

॥४.९.१०॥

असौ : फ़्न् एमेन्देद्। एद्।: असौ।

रन्तिर् नामासि दिव्यो गन्धर्वस् तस्य ते पद्वद् धविर्धानम् अग्निर् अध्यक्षो रुद्रो अधिपतिर् विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेनान्ववायंस् तद् इन्द्रस्य वै रुद्रो रारहाण आसां परि सूर्यस्य परिधींर् अपोर्णु वीरेभिर् अधि तन् नो गृणानो रजसो विमानो यद् वा घा सत्यम् उत यन् न विद्म ॥

धिय इन्वानो धिय इन् नो अव्यात् ॥

सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अस्मद्रथानाम् ॥

प्रासां गन्धर्वो अमृतानि वोचत् ॥

इन्दुं दक्षं परिददाद् अहीनाम् ॥

वार्षाहरं साम गाय ॥

चिद् असि समुद्रयोनिः ॥

इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।

महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥

सोमपीथानु मेहि ॥

इष्टाहोत्रीयं साम गाय पुनर् ऊर्जा सह रय्येत्य् एके श्यैतं साम गाय ॥

उद् उ त्यं चित्रम् इत्य् एके ॥

वामदेव्यं साम गाय ॥

इमम् उ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् ॥

अग्निर् देवेषु प्र वोच ॥

भूः स्वाहा

॥४.९.११॥

मा नो घर्म व्यथितो विव्यधीन् मा न आयुः परम् अवरं मानदोनैः ।

मो ष्वत्वम् अस्मान् तराधान् मा रुद्रियासो अभि गुल्बधानः ॥

मा नः क्रतुभिर् हीडिषेभिर् अस्मद्द्विषः सुनीथो मा परा दैः ।

मा नो अग्निं निरृतिर् मा न आष्टान् मा नो द्यावापृथिवी हीडिषेथाम् ॥

उता नो मित्रावरुणा इहागतं मन्मा दीध्याना उता नः सखाया ।

आदित्यानां प्रसृतिर् हेतिर् उग्रा शरा वाष्टाद् धविषा वार्णः ॥

विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।

देवस्य पश्य काव्यं महित्वाद्या ममार सह्यः समानः ॥

जगार : फ़्न् प्। एद्।: जगाद।

जरि चेतीद् अभिशिषः पुरा चकृभ्या आतृद ।

सन्धाता सन्धिर् मघवा पुरुवसुर् निष्कर्ता विह्रुतं पुनः ॥

उद् उ तिष्ठ स्वध्वर ऊर्ध्व ऊ षु ण इत्य् एके ॥

स्वध्वरस् : फ़्न् पद। एद्।: ॥। स्वध्वर ऊर्ध्व ॥।

पुनर् ऊर्जा सह रय्येत्य् एके ॥

उद् उ त्यं चित्रम् इत्य् एके ॥

भूः स्वाहा ॥

भुवः स्वाहा ॥

स्वः स्वाहा ॥

भूर् भुवः स्वः स्वाहा

॥४.९.१२॥

भूर् भुवः स्वर् मयि तद् इन्द्रियं वीर्यं मयि रायो मयि रक्षो मयि दक्षो मयि क्रतुर् मयि धेहि सुवीर्यम् ॥

तिसृभिर् घर्मो विभात्य् आकूत्या मनसा सह विराजा ज्योतिषा सह तपसा ब्रह्मणा सह तस्य दोहम् अशीमहि तस्य भक्षम् अशीमहि तस्य ता उपहूता उपहूतस्य भक्षयामि

॥४.९.१३॥

उद् अस्य शुष्माद् भानोर् नाव्या बिभर्ति भारं पृथिवी न भूमीः ॥

बिभर्ति : फ़्न् एमेन्देद्। एद्।: बिभर्ति

प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाणीः

॥४.९.१४॥

सुतष्टो : फ़्न् पद। एद्।: सुतष्टो।

चिद् असि ॥

बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद

॥४.९.१५॥

प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद

॥४.९.१६॥

उग्रश् च भीमश् च ध्वान्तश् च धनवांश् च सहसावांश् च सहीयसः ॥

विक्षिपः ॥

विज्ये विव्ये विक्षिपेत्

॥४.९.१७॥

संवत्सरो ऽसि परिवत्सरो ऽसीदावत्सरो ऽस्य् उद्वत्सरो ऽसि वत्सरो ऽसि ॥

तस्य ते वसन्तः शिरो ग्रीष्मो दक्षिणं पक्शं वर्षा उत्तरं शरत् पुछम् ॥

हेमन्तो मध्यं शिशिरं प्रतिष्ठानं तस्य ते मासाश् चार्धमासाश् च ऋतवः परिवत्सराः ॥

अहोरात्रे ते कल्पेताम् एहि प्रेहि वीहि समिह्य् उदीची

॥४.९.१८॥

असृङ्मुखो रुधिरेणाभ्यक्तो यमस्य दूतश् च वाग् विधावति ॥

गृध्रः सुपर्णः कुणपं निषेवति यमस्य दूतः प्रहित एष एति व्य् असौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः

॥४.९.१९॥

तच् चक्षुर् देवहितं पुरस्ताञ् शुक्रम् उच्चरत् ॥

पश्येम श्रदः शतं जीवेम शरदः शतं प्रब्रुवाम शरदः शतं शृणुयाम शरदः शतम्

॥४.९.२०॥

निधायो वा३ निधायो वा३ निधायो वा३ ॐ वा३ ॐ वा३ ॐ वा३ ए ऐ ॐ स्वर्णज्योतिः

॥४.९.२१॥

बृहद्भा३ बृहद्भा३ बृहद्भा३ बृहद्भा इम् बृहद्भा इम् बृहद्भा इम् ॥

इम् इम् इम् स्वर्णज्योतिः

॥४.९.२२॥

पृथिवी समित् ताम् अग्निः समिन्द्धे साग्निं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥

अन्तरिक्षं समित् तां वायुः समिन्द्धे सा वायुं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥

द्यौः समित् ताम् आदित्यः समिन्द्धे सादित्यं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥

दिशः समित् तां प्रजापतिः समिन्द्धे सा प्रजापतिं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा

॥४.९.२३॥

अग्ने व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥

वायो व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥

सूर्य व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥

व्रतानां व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन राध्यासम्

॥४.९.२४॥

पृथिवी समित् ताम् अग्निः समिन्धिष्ट साग्निं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥

अन्तरिक्षं समित् तां वायुः समिन्धिष्ट सा वयुं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥

द्यौः समित् ताम् आदित्यः समिन्धिष्ट सादित्यं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥

दिशः समित् तां प्रजापतिः समिन्धिष्ट सा प्रजापतिं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा

॥४.९.२५॥

अग्ने व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥

वायो व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥

सूर्य व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥

व्रतानां व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम्

॥४.९.२६॥

शं नो वातो ऽभिवातु शं नस् तपतु सूर्यः ॥

अहानि शं भवन्तु नः शं रात्री प्रतिधीयताम् ॥

पृथिवी शान्तिः सौषधीभिः शान्तिर् अन्तरिक्षं शान्तिस् तद् वायुना शान्तिर् द्यौः शान्तिः सा वृष्ट्या शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिर् ब्राह्मणाः शान्तिः शान्तिः सर्वशान्तिस् त्वयाहं शान्त्या सर्वशान्त्या मह्यं द्विपदे च चतुष्पदे च शान्तिं करोमि शान्तिर् बभूव शान्तिर् असि शान्तिर् नो अस्त्व् अभयं नो अस्तु ॥

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।

महे रणाय चक्षसे ॥

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।

उशतीर् इव मातरः ॥

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।

आपो जनयथा च नः ॥

ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।

अपो याताम् अभेषजं ता नः कृण्वन्तु भेषजम् ॥

कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।

कया शचिष्ठया वृता ॥

कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।

दृढा चिद् आरुजे वसु ॥

अभी षु णः सखीनाम् अविता जरित्πणाम् ।

शतं भवास्य् ऊतिभिः ॥

त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।

हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥

स्वस्ति ना इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥

यथादित्या अंशुम् आप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।

एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥

उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।

देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

मित्रस्य वश् चक्षुषा समीक्षामहे ॥

मित्रस्य वश् चक्षुषा समीक्षध्वम् ॥

ब्रह्मण उपस्तरणम् असि ब्रह्मणे त्वोपस्तृणामि

॥४.९.२७॥
प्रपाठक 10

चतुर्थकाण्डे दशमः प्रपाठकः

चतुर्थकाण्डे दशमः प्रपाठकः

युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमा अमुञ्चतं गृभीतान्

॥४.१०.१॥

अग्ना आयाहि वीतये गृणानो हव्यदातये ।

नि होता सत्सि बर्हिषि ॥

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।

अस्य यज्ञस्य सुक्रतुम् ॥

अग्निनाग्निः समिध्यते कविर् गृहपतिर् युवा ।

हव्यवाड् जुह्वास्यः ॥

अग्निर् वृत्राणि जङ्घनद् अग्निं स्तोमेन बोधयाग्ना आयूंषि पवसे ऽग्ने तम् अद्य आभिष् टे अद्य ॥

एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः ।

अग्ने विश्वेभिः सुमना अनीकैः ॥

ज्योतिः : फ़्न् पद: स्वर् । न । ज्योतिः। एद्।: स्वर्णज्योतिः

अधा ह्य् अग्ने ॥

अग्नेः स्तोमं मनामहे सिध्रम् अद्य दिविस्पृशः ।

देवस्य द्रविणस्यवः ॥

अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।

भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥

त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः ।

त्वया यज्ञं वितन्वते ॥

वृषा सोम द्युमं असि वृषा देव वृषव्रतः ।

वृषा धर्माणि दधिषे ॥

अग्निर् जातो अरोचत घ्नन् दस्यून् ज्योतिषा तमः ।

अविन्दद् गा अपः स्वः ॥

अग्रे बृहन् ॥

अग्रे : फ़्न् एमेन्देद्। एद्।: अग्ने। च्फ़्। २।७।८:८५।१४

इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।

त्वाम् अवस्युर् आचके ॥

श्रुधी : फ़्न् पद: श्रुधि

तत् त्वा याम्य् अग्निनाग्निः ॥

त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता ।

सखा सख्या समिध्यसे ॥

प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन ।

न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥

अनमीवासा ईडया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः ।

आदित्यस्य व्रतम् उपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥

अनमीवासा : फ़्न् एमेन्देद्। एद्।: अनमीमासा। च्फ़्। ४।१२।६:१९७।८

तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततं सञ्जभार ।

यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥

सञ्जभार : फ़्न् एमेन्देद्। एद्।: सजभार।

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।

नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥

त्वम् अग्ने व्रतपा असि ॥

यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।

अग्निष् टद् विश्वम् आपृणाति विद्वान् येभिर् देवं ऋतुभिः कल्पयाति ॥

अग्ने नय ॥

आ देवानाम् अपि पन्थाम् अगन्म यञ् शक्नवाम तद् अनु प्रवोढुम् ।

अग्निर् विद्वान्त् स यजात् सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥

अग्निः शुचिव्रततम उद् अग्ने शुचयस् तवाक्रन्दद् अग्निर् नक्तोषासा ॥

आयाहि तपसा जनिष्वाग्ने पावको अर्चिषा ।

उपेमां सुष्टुतिं मम ॥

आ नो याहि तपसा जनिष्वाग्ने पावक दीद्यत् ।

हव्या देवेषु नो दधत्

॥४.१०.२॥

अभि त्वा देव सवितर् ईशानं वार्याणाम् ।

सदावन् भागम् ईमहे ॥

मही द्यौः पृथिवी च नस् त्वाम् अग्ने पुष्कराद् अधि तम् उ त्वा दध्यङ्ङ् ऋषिस् तम् उ त्वा पाथ्यो वृषा ॥

उत ब्रुवन्तु जन्तवा उद् अग्निर् वृत्रहाजनि ।

धनञ्जयो रणेरणे ॥

आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।

विशाम् अग्निं स्वध्वरम् ॥

प्र देवं देववीतये भरता वसुवित्तमम् ।

आ स्वे योनौ निषीदतु ॥

आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।

स्योन आ गृहपतिम् ॥

अग्निनाग्निस् त्वं ह्य् अग्ने अग्निना ॥

तं मर्जयन्त सुक्रतुं पुरोयावानम् आजिषु ।

स्वेषु क्षयेषु वाजिनम् ॥

यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।

ते ह नाकं मिहिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

समिधो अग्ना आज्यस्य व्यन्तु तनूनपाद् अग्ना आज्यस्य वेत्व् इडो अग्ना आज्यस्य व्यन्तु बर्हिर् अग्ना आज्यस्य वेतु दुरो अग्ना आज्यस्य व्यन्तूषासानक्ताग्ना आज्यस्य वीतां दैव्या होताराग्ना आज्यस्य वीतां तिस्रो देवीर् अग्ना आज्यस्य व्यन्तु स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहाग्निं होत्रात् स्वाहा देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु ॥

अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि ।

स इद् देवेषु गछति ॥

त्वं नः सोम विश्वतो ऽग्निर् मूर्धा भुवो यज्ञस्य ॥

सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे ।

ताभिर् नो ऽविता भव ॥

या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु ।

तेभिर् नो विश्वैः सुमना अहेडन् राजन्त् सोम प्रति हव्या गृभाय ॥

तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ॥

अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पुरुषत्वता ।

देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥

पावका नः सरस्वत्य् आ नो दिवः ॥

पूषा गा अन्वेतु नः पूषा रक्षत्व् अर्वतः ।

पूषा वाजं सनोतु नः ॥

शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि ।

विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥

इहेह वः स्वतवसः कवयः सूर्यत्वचः ।

यज्ञं मरुता आवृणे ॥

प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।

ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥

विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः ।

जुषन्तां युज्यं पयः ॥

विश्वे देवासो अस्रिधा एहिमायासो अद्रुहः ।

मेधं जुषन्त वह्नयः ॥

द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् ।

यज्ञं देवेषु यछताम् ॥

प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य ।

आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥

स हव्यवाड् अग्निं स्तोमेन ॥

देवं बर्हिर् वसुवने वसुधेयस्य वेतु देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस् तिस्रस् तिस्रो देवीर् वसुवने वसुधेयस्य व्यन्तु देवो नराशंसो वसुवने वसुधेयस्य वेतु देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुर् आयजीयान् अग्ने यान् देवान् अयाड् यं अपिप्रेर् ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञम् एरयेमं स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि ॥

वाजेवाजे शं नो भवन्तु

॥४.१०.३॥

प्र देवं देव्या धिया भरता जातवेदसम् ।

हव्या नो वक्षद् आनुषक् ॥

अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते ।

रथो न योर् अभीवृतो घृणीवाञ् चेतति त्मना ॥

अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः ।

सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥

इडायास् त्वा पदे वयम् ॥

अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तं प्रथमः सीद योनिम् ।

कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥

सीद होतर् नि होता ॥

त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्या आ वृषभ प्रणेता ।

अग्ने तोकस्य नस् तने तनूनाम् अप्रयुछन् दीद्यद् बोधि गोपाः ॥

अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे ।

यशसं वीरवत्तमम् ॥

गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः ।

सुमित्रः सोम नो भव ॥

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।

तद् वां चेति प्र वीर्यम् ॥

प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च ।

प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥

मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे ।

आ तू ना उपगन्तन ॥

या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यछताधि ।

अस्मभ्यं तानि मरुतो वियन्त रयिं नो धत्त वृषणः सुवीरम् ॥

इमं मे वरुण तत् त्वा यामि कया नः को अद्य पिप्रीहि देवान् अग्ने यद् अद्याप्स्व् अग्ने सधिष् टव ॥

अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।

आपश् च विश्वशम्भुवः ॥

उद् उत्तमं वरुण पाशम् अस्मत् ॥

अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः ।

क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥

त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः ।

यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् ॥

स त्वं नो अग्ने ऽअवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।

अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि

॥४.१०.४॥

अग्निर् वृत्राणि जङ्घनत् त्वं सोमासि सत्पतिः ॥

अनीकैर् द्वेषो अर्दयाग्ने विश्वाभिर् ऊतिभिः ।

रयिं नो धेहि यज्ञियम् ॥

सैनानीकेन सुविदत्रो अस्मे यष्टा देवं आयजिष्ठः स्वस्ति ।

अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥

पिप्रीहि देवान् आ देवानाम् ॥

सान्तपना इदं हविर् मरुतस् तज् जुजुष्टन ।

युष्माकोती रिशादसः ॥

यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति ।

द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥

द्रुहः : फ़्न् एमेन्देद्। एद्।: द्रहः।

अग्निः प्रत्नेन मन्मना सोम गीर्भिष् ट्वा वयम् ॥

गृहमेधासा आगत मरुतो मापभूतन ।

इमा हव्या जुजुष्टन ॥

प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस् तिरध्वम् ।

सहस्रियं दम्यं भागम् एतं गृहमेधीयं मरुतो जुषध्वम् ॥

प्रेद्धो अग्न इमो अग्ने ॥

अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् ।

होतारं रत्नधातमम् ॥

वृषा सोम द्युमं असि ॥

क्रीडं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् ।

कण्वा अभि प्रगायत ॥

अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।

ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥

तं हि शश्वन्तो ऽग्निमग्निम् ॥

इन्द्राग्नी नवतिं पुरो दासपत्नीर् अधूनुतम् ।

साकम् एकेन कर्मणा ॥

श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् ।

इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥

तम् इन्द्रं वाजयामसि ॥

युजे रथं गाएषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम् अस्थुः ।

विबाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती जघन्वान् ॥

गाएषणं : फ़्न् Ṛव्।७।२३।३ गवेषणम्।

विश्वकर्मन् वाचस्पतिम्

॥४.१०.५॥

उशन्तस् त्वा हवामहे ॥

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।

मार्डीकं धेहि जीवसे ॥

त्वं सोम महे भगं त्वं यून ऋतायते ।

दक्षं दधासि जीवसे ॥

त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् ।

तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।

वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥

त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आततन्थ ।

तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥

बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।

त आगतावसा शन्तमेनाथा नः शं योर् अरपो दधातन ॥

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।

त आगमन्तु त इह श्रुवन्त्व् अधिब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

आहं पितॄन्त् सुविदत्रं अवित्सि नपातं च विक्रमणं च विष्णोः ।

बर्हिषदः स्वधया ये सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥

इदं पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः ।

ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

उदीरताम् अवरा उत् परासा उन् मध्यमाः पितरः सोम्यासः ।

असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥

अग्निष्वात्ता ऋतावृधः पितरो मृडता सु नः ।

दीर्घायुत्वाय जीवसे ॥

अग्निष्वात्तान् ऋतुमतो हवामहे नराशंसे सोमपीथं य आशुः ।

ते नो विप्रासः सुहवा मृडन्तु शं नो भवन्तु द्विपदे शं चतुष्पदे ॥

अग्निष्वात्ताः पितरा एह गछत सदःसदः सदत सुप्रणीतयः ।

अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥

स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बड् अधत्त विश्वा ।

आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥

स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् ।

विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥

स : फ़्न् एमेन्देद्। एद्।: स।

ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।

आग्ने याहि सुविदत्रेभिर् अर्वाक् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥

प्र वायुम् अछा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।

द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥

प्र याभिर् यासि दाश्वांसम् अछा नियुद्भिर् वाय इष्टये दुरोणे ।

नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥

इन्द्रं वयं शुनासीरम् अस्मिन् यज्ञे हवामहे ।

स नः पर्षद् अति द्विषः ॥

सो ऽहोरात्रैः सो ऽर्धमासैः स मासैः स ऋतुभिः परि यज्ञं बभूव ।

संवत्सरस्य महिमानम् एतं शुनासीरम् इन्द्रम् अद्याहुवेम ॥

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।

शोचिःकेशं पुरुप्रिय ॥

तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।

विश्वम् आभासि रोचनम्

॥४.१०.६॥
प्रपाठक 11

चतुर्थकाण्डे एकादशः प्रपाठकः

चतुर्थकाण्डे एकादशः प्रपाठकः

द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा

॥४.११.१॥

पृथुपाजास् तं सबाधः ॥

ईडे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।

श्रुष्टीवानं धितावानम् ॥

अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।

अति द्वेषांसि तरेम ॥

उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।

अग्ने संसृज्महे गिरः ॥

उप छायाम् इव घृणेर् अगन्म शर्म ते वयम् ।

अग्ने हिरण्यसन्दृशः ॥

अग्निर् वृत्राणि जङ्घनत् त्वं सोमासि सत्पतिर् अग्नीषोमा युवम् एतानि श्रीणाम् उदारः ॥

सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै ।

देवं अछा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।

जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥

इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा ।

आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥

उत नो ब्रह्मन् हविष उक्थेषु देवहूतमः ।

शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥

नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु ।

द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥

त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः ।

अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥

ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः ।

अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रं प्रतिरम् एम्य् आयुः ॥

त्वं नो अग्ने स त्वं नो अग्ने ऽग्निं वः पूर्व्यं गिरा ॥

मक्षू देववतो रथः शूरो वा पृत्सु कासुचित् ।

देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

नकिष् टं कर्मणा नशन् न प्रयोषन् न योषति ।

देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् ।

देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

उपक्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।

पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उपयन्ति विश्वतः ॥

सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् ।

अवस्यतं मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥

सोमारुद्रा धारयेथाम् असुर्यं प्र वाम् इष्टयो ऽरम् अश्नुवन्तु ।

दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥

सोमारुद्रा विवृहतं विषूचीम् अमीवा या नो गयम् आविवेश ।

आरे बाधेथां निरृतिं पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥

तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्रा इह सु मृडतं नः ।

मुमुक्तम् अस्मान् ग्रसितान् अभीके प्रयछतं वृषणा शन्तमानि ॥

अग्नाविष्णू सजोषसाग्नाविष्णू महि धाम प्रियं वाम् ॥

अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।

दमेदमे सुष्टुती वावृधाना नु वां जिह्वा घृतम् आचरण्यत् ॥

पावका नः सरस्वती ॥

सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा ना आधक् ।

जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरण्यानि गन्म ॥

आ नो दिवः ॥

बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।

रास्व रत्नानि दाशुषे ॥

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः ।

बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।

मध्वा रजांसि सुक्रतू ॥

प्र बाहवा सिसृतं जीवसे ना आ नो गव्यूतिम् उक्षतं घृतेन ।

आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥

और्वभृगुवञ् शुचिम् अप्नवानवद् आहुवे ।

अग्निं समुद्रवाससम् ॥

आ सवं सवितुर् यथा भगस्येव भुजिं हुवे ।

अग्निं समुद्रवाससम् ॥

हुवे वातस्वनं कविं पर्जन्यक्रद्यं सहः ।

अग्निं समुद्रवाससम् ॥

वृषा सोम द्युमं असि ॥

आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् अर्णवम् ।

मरुद्भिर् अग्ना आगहि ॥

आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।

अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥

यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।

विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥

अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध ।

अस्मात् समुद्राद् बृहतो दिवो नो ऽपां भूमानम् उप नः सृजेह ॥

प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानः ॥

श्रियसे कं भानुभिः सम्मिमिक्षिरे ते रश्म्मिभिस् त ऋक्वभिः सुखादयः ।

ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥

मरुतो यद् ध वो दिवः ॥

प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे ।

ते क्रीडयो धुनयो भ्राजदृष्ट्यः स्वयं महित्वं पनयन्त धूतयः

॥४.११.२॥

कया शुभा सवयसः सनीडाः समान्या मरुतः सम्मिमिक्षुः ।

कया मती कुता एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥

कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुता आववर्त ।

श्येनं इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥

कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था ।

सम्पृछसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे ॥

ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।

आशासते प्रतिहर्यन्त्य् उक्थेमा हरी वहतस् ता नो अछ ॥

अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः ।

महोभिर् एकम् उपयुज्महे न्व् इन्द्रः स्वधाम् अनु हि नो बभूथ ॥

क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये ।

अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥

भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः ।

भूरीणि हि कृणवामा शविष्ठेन्द्रः कृत्वा मरुतो यद् वशाम ॥

वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।

अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥

अनुत्तम् आ ते मघवन् नकिर् णु न त्वावं अस्ति देवता विदानः ।

न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा ॥

अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्रा इद् ईश एषाम् ॥

अमन्दन् मा मरुतः स्तोमो अत्र यन् मे नरः श्रुत्यं ब्रह्म चक्र ।

इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥

एवेद् एते प्रति मा रोचमाना अनेद्यः श्रवा एषो दधानाः ।

सञ्चक्ष्या मरुतश् चन्द्रवर्णा अछान्त मे छदयाथा च नूनम् ॥

को न्व् अत्र मरुतो मामहे वः प्रयातन सखींर् अछा सखायः ।

मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥

आ यद् दुवस्याद् दुवसे न कारुर् अस्मांश् चक्रे मान्यस्य मेधा ।

ओ षू वर्त मरुतो विप्रम् अछेमा ब्रह्माणि जरिता वो अर्चत् ॥

एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।

एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्

॥४.११.३॥

इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।

अस्माकम् अस्तु केवलः ॥

आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् ।

आ विश्वतो अभि समेत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥

मरुतो यद् ध वो दिवो या वः शर्म ॥

आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आगहि ।

महान् महीभिर् ऊतिभिः ॥

त्वं महं इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।

त्वं वृत्रं शवसा जघन्वान्त् सृजः सिन्धूंर् अहिना जग्रसानान् ॥

मरुतो यद् ध वो बलं जनं अचुच्यवीतन ।

गिरींर् अचुच्यवीतन ॥

ऋष्टयो वो मरुतो अंसयोर् अधि सहा ओजो बाह्वोर् वो बलं हितम् ।

नृम्णा शीर्षस्व् आयुधा रथेषु नो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥

पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः ।

समत्सु त्वा हवामहे ॥

समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे ।

वाजेषु चित्रराधसम् ॥

अग्ने नया देवानां त्वम् अग्ने व्रतपा असि यद् वो वयम् ॥

त्वम् अग्ने व्रतभृञ् शुचिर् अग्ने देवं इहावह ।

उप यज्ञं हविश् च नः ॥

व्रता नु बिभ्रद् व्रतपा अदब्धो यजानो देवो अजरः सुवीरः ।

दधद् रत्नानि सुमृडीको अग्ने गोपाय नो जीवसे जातवेदः ॥

श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आभर ।

वसो पुरुस्पृहं रयिम् ॥

तुभ्यं भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तिता ओत दूरात् ।

आ भन्दिष्ठस्य सुमतिं चिकिद्धि महत् ते अग्ने महि शर्म भद्रम् ॥

त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।

स नो रास्व सुवीर्यम् ॥

अयं नो अग्निर् अनीकैर् द्वेषो अर्दय सैनानीकेनेदं विष्णुः प्र तद् विष्णुः ॥

आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।

अग्निं पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥

कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये ।

परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥

उक्षान्नाय वशान्नाय ॥

वातोपधूत इषितो वशं अनु त्रिषु यद् अन्ना वेविषद् वितिष्ठसे ।

आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्य् अग्ने अजराणि धक्षतः

॥४.११.४॥

कृणुष्व पाजा इति पञ्च ॥

स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् ।

विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभिद्यौत् ॥

सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः ।

पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥

अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः ।

स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥

इह त्वा भूर्य् आचरेद् उप त्मन् दोषावस्तर् दीदिवांसम् अनु द्यून् ।

क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥

यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।

तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥

महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्वियाय ।

त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥

अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः ।

ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥

ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् ।

ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्ता इद् रिपवो नाह देभुः ॥

त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् ।

उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥

अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।

दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥

अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः ।

शुचिः पावक ईड्यः ॥

त्वं नः सोम विश्वतः

॥४.११.५॥

युक्ष्वा हि देवहूतमान् ॥

उत नो देव देवं अछा वोचो विदुष्टरः ।

श्रद् विश्वा वार्या कृधि ॥

त्वं ह यद् यविष्ठ्य सहसः सून आहुत ।

ऋतावा यज्ञियो भुवः ॥

अयम् अग्निः सहस्रिणः ॥

तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः ।

नेदीयो यज्ञम् अङ्गिरः ॥

तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया ।

वृष्णे चोदस्व सुष्टुतिम् ॥

कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः ।

पणिं गोषु स्तरामहे ॥

मा नो देवानां विशः प्रस्नातीर् इवोस्राः ।

कृशं न हासुर् अघ्न्याः ॥

मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।

ऊर्मिर् न नावम् आवधीत् ॥

नमस् ते अग्ना ओजसे गृणन्ति देव कृष्टयः ।

अमैर् अमित्रम् अर्दय ॥

इमं यज्ञम् इदं वचो जुजुषाण उपागहि ।

सोम त्वं नो वृधे भव ॥

कुवित् सु नो गैष्टये ऽग्ने संवेषिषो रयिम् ।

उरुकृद् उरु णस् कृधि ॥

मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा ।

संवर्गं सं रयिं जय ॥

यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा ।

तं हेद् अग्निर् विधावति ॥

अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुछुना ।

वर्धा नो अमवञ् शवः

॥४.११.६॥
प्रपाठक 12

चतुर्थकाण्डे द्वादशः प्रपाठकः

चतुर्थकाण्डे द्वादशः प्रपाठकः

वाचस्पतिर् बला तेषां तन्वो ऽद्य दधातु मे

॥४.१२.१॥

अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रैर् अभिरक्षतु त्मना ।

इन्द्रो मरुद्भिर् ऋतुथा कृणोत्व् आदित्यैर् नो वरुणः शर्म यंसत् ॥

सम् अग्निर् वसुभिर् नो अव्यात् सं सोमो रुद्रियाभिस् तनूभिः ।

सम् इन्द्रो रातहव्यो मरुद्भिः सम् आदित्यैर् वरुणो विश्ववेदाः ॥

अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।

शिशीहि नः सूनुमतः ॥

दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपावृधि ।

प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम् उषसो विदिद्युतुः ॥

हिरण्यपाणिम् ऊतये सवितारम् उपह्वये ।

स चेत्ता देवता पदम् ॥

वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यं सावीः ॥

वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥

प्र वायुं प्र याभिः ॥

स्योना पृथिवि भवानृक्षरा निवेशनी ।

यछा नः शर्म सप्रथः ॥

बड् इत्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।

प्र या भूमिं प्रवत्वति मह्ना हिनोषि महिनि ॥

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परियातो अध्वरम् ।

विश्वान्य् अन्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ॥

नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् ।

भागं देवेभ्यो विदधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥

यथादित्या अंशुम् आप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।

एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥

प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् व्रात्रहासि ।

यत्र यन्ति स्रोत्यास् तज् जितं ते दक्षिणतो वृषभो हव्य एधि ॥

अस्येद् एव प्ररिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् ।

स्वराड् इन्द्रो दमा आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ॥

त्वम् इन्द्रास्य् अधिराजस् त्वं भवाधिपतिर् जनानाम् ।

दैवीर् विशस् त्वम् उता विराजौजस्वत् क्षत्रम् अजरं ते अस्तु ॥

आ यस्मिन्त् सप्त वासवा रोहन्ति पूर्व्या रुहः ।

ऋषिर् ह दीर्घश्रुत्तमा इन्द्रस्य घर्मो अतिथिः ॥

मदो न यः सोम्यो बोधिचक्षा वातश् च नु च्यवन इन्दुविक्षाः ।

स तप्नुः शुचसे न सूरः स स्वेदयुः शुशुचानो न घर्मः ॥

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।

इन्द्र तानि ता आवृणे ॥

अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये ।

अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥

अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।

ब्रह्माणा इन्द्रं महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥

वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः ।

अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून्

॥४.१२.२॥

विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः ।

अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥

अंहोमुचे प्रभरेमा मनीषां भूयिष्ठदाव्ने सुमतिम् आवृणानः ।

इदम् इन्द्र प्रति हव्यं जुषस्व सत्याः सन्तु यजमानस्य कामाः ॥

त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।

हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥

मा ते अस्यां सहसावन् परिष्टा अघाय भूम हरिवः परादैः ।

त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥

अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् ।

करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥

अनु द्यावापृथिवी तत् ता ओजो ऽमर्त्या जिहत इन्द्र देवाः ।

कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥

अभि प्रभर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् ।

अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥

अस्मा इद् उ प्रभरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः ।

गोर् न पर्व विरदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥

वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।

अधस्पदं तम् ईं कृधि यो अस्मं अभिदासति ॥

मृगो न भीमः कुचरो गिरिष्ठाः परावता आजगन्था परस्याः ।

सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

आकरे वसोर् जरिता पनस्यते ऽनेहसः स्तुभा इन्द्रो दुवस्यति ।

विवस्वतः सदना आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥

त्वं सपत्नान् पृतनासु जिष्णुर् इन्द्राभिषाड् अभिमातीर् अपघ्नन् ।

पिबा सोमं वज्रबाहो विषह्यास्मभ्यं पणींर् अर्वस्व् आमुखाय ॥

पुरुष्टुतस्य नामभिः शतेन महयामसि ।

इन्द्रस्य चर्षणीसहः ॥

पुरुष्टुतस्य : फ़्न् एमेन्देद्। एद् Ṛव्।३।३७।४: पुरुष्टुतस्य।

नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।

इन्द्राभिमातिषाह्ये ॥

अर्वावतो ना आगहि परावतश् च वृत्रहन् ।

इमा जुषस्व नो गिरः ॥

यद् अन्तरा परावतम् अर्वावतं च हूयसे ।

इन्द्रेह तता आगहि ॥

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।

वर्षिष्ठम् ऊतये भर ॥

प्रससाहिषे पुरुहूत शत्रून् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु ।

इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥

इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः ।

शूरो नृषाता श्रवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥

हृदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।

त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥

अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः ।

इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥

तम् इन्द्रं वाजयामसि युजे रथम् ॥

वृत्रतुरं मघवानं शचीपतिम् इन्द्रं गिरो बृहतीर् अभ्यनूषत ।

वावृधानं पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवेदिवे ॥

वृत्रतुरं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद् (व्च्): वृत्रतरम्।

अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन ।

स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥

वृत्रतरं : फ़्न् एमेन्देद्। एद्।: वृन्त्रतरम्।

अभितिष्ठ पृतन्यतो ऽधरे सन्तु शत्रवः ।

इन्द्र इव दस्युहा भवापः क्षेत्राणि सञ्जय ॥

आशीर् ना ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणं सवर्चसम् ।

सञ्जयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्यं अधरान्त् सपत्नान् ॥

त्वम् इन्द्रास्य् अधिराजः ॥

इन्द्रो जयति न पराजयते अधिराजो राजसु राजयते ।

विश्वा अभिष्टिः पृतना जयत्य् उपसद्यो नमस्यो यथासत् ॥

आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः ।

पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् विचारीत् ॥

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।

यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनासा इन्द्रः ॥

मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो विश्ववेदाः ।

मन्युं विश ईडते मानुषीर् या अवा नो मन्यो तपसा सजोषाः ॥

त्वं हि मन्यो अभिभूत्योजाः स्वयञ्जो भामो अभिमातिषाहः ।

विश्वचर्षणिः सहुरिः सहावान्त् स हूयमानो अमृताय गछत् ॥

इडाम् अग्ने त्वं नो अग्ने किम् इत् ते विष्णो प्र तत् ते अद्य ॥

दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयछसि ।

यजमानाय सुन्वते ॥

भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।

का ते निषत्तिः किम् उ नो ममत्सि किं नोद् उद् उ हर्षसे दातवा उ

॥४.१२.३॥

निषत्तिः : फ़्न् एमेन्देद्। एद्।: निषत्रिः। च्फ़्। Ṛव्।४।२१।९।

इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यछतम् ।

दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥

सम्राड् अन्यः स्वराड् अन्य उच्यते वां महान्ता इन्द्रावरुणा महावसू ।

विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सं बलं दधुः ॥

विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिहृताः सनुयाम वाजम् ।

तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

एनां मुखेन वायुम् इन्द्रवन्तो ऽचिष्याम वृजने विश्व ऊती ।

तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने ।

अर्हन्तश् चिद् यम् इन्धते सञ्जनयन्ति जन्तवः ॥

सं यद् इषो वनामहे सं हव्या मानुषाणाम् ।

उत द्युम्नस्य शवस ऋतस्य रश्मिम् आददे ॥

यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् ।

वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥

उद् वां पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहञ् शुक्रम् अर्णः ।

यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥

उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे ।

अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥

सम् अन्या यन्ति ॥

अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः ।

तस्य ज्येष्ठं महिमानं वहन्तीर् हिरण्यवर्णाः परियन्ति यह्वीः ॥

तम् अस्मेरा युवतयो युवानं मर्मृज्यमानाः परियन्त्य् आपः ।

स शुक्रेभिः शिक्वभी रेवद् अग्निर् दीदायानिध्मां घृतनिर्णिग् अप्सु ॥

अग्ना आयूंषि पवसे ॥

आयुर्दा देव जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।

घृतं पिबन्न् अमृतं चारु गव्यं पितेव पुत्रं जरसे म एमम् ॥

गयस्फानो अमीवहा ॥

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।

गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥

सुत्रामानं महीम् ऊ ष्व् इमं मे वरुण तत् त्वा यामि वैश्वानरो न ऊत्या पृष्टो दिव्य् अभि त्वा शूर नोनुमस् त्वाम् इद् धि हवामहे ॥

आपप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।

अस्मं अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥

बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।

इमा ब्रह्म सधमादे जुषस्व ॥

रेवतीर् नः सधमादा इन्द्रे सन्तु तुविवाजाः ।

क्षुमन्तो याभिर् मदेम ॥

प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।

अभीके चिद् उलोककृत् सङ्गे समत्सु वृत्रहा ।

अस्माकं बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥

आ नो अग्ने सुचेतुना ॥

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।

विश्वासु पृत्सु दुष्टरम् ॥

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।

तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥

मदेमदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः ।

सङ्गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आभर ॥

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।

व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।

प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥

घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् ।

तत् ते रुक्मो न रोचत स्वधावः ॥

ओभे सुश्चन्द्र विश्पते ॥

आर्यमा याति वृषभस् तुराषाड् दाता वसूनि विदधे तनूपाः ।

सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥

ये ते ऽर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति ।

तेभिर् नो देव महि शर्म यछ शं नो भव द्विपदे शं चतुष्पदे ॥

उद् अग्ने शुचयस् तवायम् अग्निर् वीरतमस् तत् सूर्यस्य भद्रा अश्वाः सप्त त्वा हरितो रथे तरणिर् विश्वदर्शतः ॥

चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः ।

सं चेदं वि च पश्येम ॥

सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य ।

वि पश्येम नृचक्षसः

॥४.१२.४॥

युवं सुरामम् अश्विना ॥

होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रं सुराम्णां सोमानां पिबतु मदन्तां व्यन्तु होतर् यज ।

पुत्रम् इव पितरौ ॥

इन्द्रः सुत्रामा स्ववं अवोभिः सुमृडीको भवतु विश्ववेदाः ।

बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।

स सुत्रामा स्ववं इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु ॥

अग्ने वाजस्य गोमतः ॥

भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।

भद्रा उत प्रशस्तयः ॥

संसम् इद् एना वो अग्निम् आ ते अग्ना इधीमह्य् अग्ने त्री ते वाजिना त्री षधस्था ॥

त्रिर् अग्निर् बलभिद् बलं भित्त्वा सहस्रम् ऐरयत् ।

शूरो जेतापराजितः ॥

त्रिर् अह्नः पवते वृषा सोमः शुक्राभिर् ऊतिभिः ।

वाजी सहस्रसातमः ॥

सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य ।

जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥

उभा जिग्यथुः ॥

इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।

शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥

उत माता महिषम् अन्ववेनद् अमी त्वा जहति पुत्र देवाः ।

अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं विक्रमस्व ॥

त्रीण्य् आयूंषि तव जातवेदः ॥

अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म आसन् ।

अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥

विद्मा ते अग्ने त्रेधा त्रयाणि ॥

वृषणं त्वा त्रिककुभं त्रिमूर्धानं त्रिसन्दृशम् ।

वर्ष्मन् पृथिव्या ईमहे अग्ने हव्याय वोढवे ॥

अतिविद्धास्येद् एवा ॥

एवा : फ़्न् पद: । विद्धास्ये । देव ।

पर्जन्याय प्रगायत दिवस् पुत्राय मीढुषे ।

स नो यवसम् इछतु ॥

प्र वाता वान्ति पतयन्ति विद्युता उद् ओषधीर् जिहते पिन्वते स्वः ।

इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥

यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण ।

तं प्रत्नासा ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥

विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् ।

बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत्पतन्ति ।

त आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्युद्यते ॥

आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् ।

शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्य् अभ्रा ॥

वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।

यद् एषां वृष्टिर् असर्जि ॥

पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः ।

यत् क्रीडथ मरुत ऋष्टिमन्ता आप इव सध्र्यञ्चो धवध्वे ॥

सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे ।

ते भानुभिर् वितस्थिरे ॥

बहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म ।

दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥

सूर्यो अपो विगाहते रश्मिभिर् वाजसातमः ।

बोधात् स्तोमैर् वयो दधत्

॥४.१२.५॥

अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।

त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

प्र वा एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास ।

आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥

आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।

येषाम् इन्द्रो युवा सखा ॥

याभ्यां स्वर् अजनन्न् अग्र एव या आतस्थतुर् भुवनानि विश्वा ।

प्र चर्षणी वृषणा वज्रबाहुम् अग्निम् इन्द्रं वृत्रहणं हुवेम ॥

अग्ना इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोपयातम् ।

अमर्धन्ता सोमपेयाय देवा ॥

अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वम् ॥

राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।

सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥

यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि ।

ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥

रराणा : फ़्न् एमेन्देद्। एद्।: रराण। च्फ़्। Ṛव्।२।३२।५।

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।

जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥

या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी ।

तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

कुहूम् अहं सुकृतं विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि ।

सा नो ददातु श्रवणं पित्πणां तस्यै ते देवि हविषा विधेम ॥

कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।

स दाशुषे किरतु भूरि वामं रायस्पोषं चिकितुषे दधातु ॥

धाता दधातु नो रयिं प्राचीं जीवातुम् अक्षिताम् ।

वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥

धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे ।

तस्मै देवा अमृताः संव्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥

प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् ।

उतान्यो अस्मद् यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥

प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्राद् अररुषः पिबातः ।

प्रातर् हि यज्ञम् अश्विना दधाते प्रशंसन्ति कवयः पूर्वभाजः ॥

इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।

हुवेम वाजसातये ॥

यन् निर्णिजा ॥

त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे ।

कविर् गृहपतिर् युवा ॥

हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे ।

सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम्मिमीहि श्रवांसि ॥

त्वं च सोम नो वशो जीवातुं न मरामहे ।

प्रियस्तोत्रो वनस्पतिः ॥

ब्रह्मा देवानां पदवीः कवीनां कविर् विप्राणां महिषो मृगाणाम् ।

श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्येति रेभन् ॥

आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे ।

सत्यसवं सवितारम् ॥

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।

हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् ॥

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।

गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥

हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् ।

बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वं अगायत् ॥

त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।

इन्द्र ज्यैष्ठ्याय सुक्रतो ॥

भुवस् त्वम् इन्द्र ब्रह्मणो महान् भुवो विश्वेषु सवनेषु यज्ञियः ।

भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥

प्र स मित्रानमीवासः ॥

मित्र : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् ।

मिनीमसि द्यविद्यवि ॥

यत् किञ्चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश् चरामसि ।

अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥

यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।

यथा तोकाय रुद्रियम् ॥

मा नस् तोके तनये मा ना आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥

य इमा विश्वा जातान्य् आश्रावयति श्लोकेन ।

प्र च सुवाति सविता ॥

विश्वा रूपाणि ॥

अश्विना यज्ञम् आगतं दाशुषः पुरुदंससा ।

पूषा रक्षतु नो रयिम् ॥

इमं यज्ञम् अश्विना वर्धयन्तेमौ वीर्यं यजमानाय धत्ताम् ।

इमौ पशून् रक्षतां विश्वतो नः पूषा नः पातु सदम् अप्रयुछन् ॥

प्र ते महे सरस्वति सुभगे वाजिनीवति ।

सत्यवाचे भरे मतिम् ॥

इदं ते हव्यं घृतवत् सरस्वति सत्यवाचे प्रयतेमा हवींषि ।

इमानि त उदिता शन्तमानि तेभिर् वयं सुभगासः स्याम

॥४.१२.६॥
प्रपाठक 13

चतुर्थकाण्डे त्रयोदशः प्रपाठकः

चतुर्थकाण्डे त्रयोदशः प्रपाठकः

तं धीरासः कवया उन्नयन्ति स्वाध्यो मनसा देवयन्तः

॥४.१३.१॥

अभि त्वा देव सवितर् इति त्रयोदश होता यक्षद् अग्निं समिधा सुषमिधा समिद्धं नाभा पृथिव्याः सङ्गथे वामस्य वर्ष्मन् दिव इडस् पदे वेत्व् आज्यस्य होतर् यज होता यक्षत् तनूनपातम् अदितेर् गर्भं भुवनस्य गोपां मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं नृशस्तं नॄंष्प्रणेत्रं गोभिर् वपावान्त् स्याद् वीरैः शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निम् इड ईडितो देवो देवं आ च वक्षद् दूतो हव्यवाड् अमूरा उपेमं यज्ञम् उपेमां देवो देवहूतिम् अवतु वेत्व् आज्यस्य होतर् यज होता यक्षद् बर्हिः सुष्टरीमोर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथतां स्वासस्थं देवेभ्य एम् एनद् अद्य वसवो रुद्रा आदित्याः स्वदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज होता यक्षद् दुर ऋष्वाः कवष्यो कोशधावनीर् उद् आताभिर् जिहतां वि पक्षोभिः श्रयन्तां सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् उषासानक्ता बृहती सुपेशसा नॄंष् पतिभ्यो योनिं कृण्वाने संस्मयमाने इन्द्रेण देवैर् एदं बर्हिः सीदतां वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमो ऽछिद्रम् अद्येदम् अपस् तन्वतां देवेभ्यो देवीर् देवम् अपो व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारम् अचिष्टुम् अपाकं रेतोधां विश्रवसं यशोधां पुरुरूपम् अकामकर्शनं सुपोषः पोषैः स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारं शशमन् नरः स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज

॥४.१३.२॥

देवहूतिम् : फ़्न् एमेन्देद्। एद्।: देवहतिम्।

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।

आ च वह मित्रमहश् चकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।

मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

नराशंसस्य महिमानम् एषाम् उपस्तोषाम यजतस्य यज्ञैः ।

ये सुक्रतवः शुचयो धियन्धाः स्वदन्तु देवा उभयानि हव्या ॥

आजुह्वाना ईड्यो वन्द्यश् चायाह्य् अग्ने वसुभिः सजोषाः ।

त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।

व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

व्यचस्वतीर् उर्विया विश्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।

देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।

दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।

प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।

तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥

य इमे द्यावापृथिवी जन्त्री रूपैर् अपिंशद् भुवनानि विश्वा ।

तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।

वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन

॥४.१३.३॥

अग्निर् होता नो अध्वरे वाजी सन् परिणीयते ।

देवो देवेषु यज्ञियः ॥

परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव ।

आ देवेषु प्रयो दधत् ॥

परि वाजपतिः कविः ॥

अजैद् अग्निर् असनद् वाजं नि देवो देवेभ्यो हव्यावाट् प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन्न् उपप्रेष्य होतर् हव्या देवेभ्यो दैव्याः शमितार उत मनुष्या आरभध्वम् उपनयत मेध्या दुर आशासाना मेधपतये मेधं प्रास्मा अग्निं भरत स्तृणीत बर्हिर् अन्व् एनं माता मन्यताम् अनु पितानु भ्राता सङ्गर्भ्यो ऽनु सखा सयूथ्य उदीचीनां अस्य पदो निधत्तात् सूर्यं चक्षुर् गमयताद् वातं प्राणम् अन्ववसृजताद् अन्तर्क्षम् असुं पृथिवीं शरीरम् एकधास्य त्वचम् आछ्यतात् पुरा नाभ्या अपिशसो वपाम् उत्खिदताद् अन्तर् एवोष्माणं वारयताच् छ्येनम् अस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपेवांसाछिद्रे श्रोणी कवषोरू स्रेकपर्णाष्ठीवन्ता षड्विंशतिर् अस्य वङ्क्रयस् ता अनुष्ठुयोच्च्यावयताद् गात्रङ्गात्रम् अस्यानूनं कृणुताद् ऊवध्यगोहं पार्थिवं खनताद् अस्ना रक्षः संसृजताद् वनिष्टुम् अस्य मा राविष्टोरूकं मन्यमाना नेद् वस् तोके तनये रविता रवद् अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वम् अध्रिगो ॥

अध्रिगुश् च विपापश् च देवानां शमितारौ ।

ता एनं प्रविद्वांसौ श्रपयतं यथास्य श्रपणं तथा

॥४.१३.४॥

जुषस्व सप्रथस्तमम् ॥

इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व ।

स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान पह्रथमो निषद्य ॥

घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।

स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥

तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य ।

ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥

तुभ्यं श्चोतन्त्य् अध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।

कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥

ओजिष्ठं ते मध्यतो मेदा उद्भृतं प्र ते वयं ददामहे ।

श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥

होता यक्षद् अग्निं स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानां स्वाहा स्वाहाकृतीनां स्वाहा हव्यसूक्तीनां स्वाहा देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु होतर् यज ॥

सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।

अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥

अग्निर् वृत्राणि जङ्घनत् ॥

होता यक्षद् अग्निम् आज्यस्य जुषतां हविर् होतर् यज ॥

त्वं सोमासि सत्पतिः ॥

होता यक्षत् सोमम् आज्यस्य जुषतां हविर् होतर् यज ॥

शुचिं नु स्तोमम् ॥

होता यक्षद् इन्द्राग्नी छागस्य वपाया मेदसो जुषेतां हविर् होतर् यज ॥

श्नथद् वृत्रम् उभा वाम् इन्द्राग्नी ॥

होता यक्षद् इन्द्राग्नी पुरोडाशस्य जुषेतां हविर् होतर् यज ॥

प्र चर्षणिभ्य इडाम् अग्ने होता यक्षद् अग्निं पुरोडाशस्य जुषतां हविर् होतर् यज ॥

अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः ।

त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥

इडोपहूतोपहूतेडोपास्मं इडा ह्वयताम् इडोपहूता मानवी घृतपदी मैत्रावरुणी ॥

ब्रह्म देवकृतम् उपहूतं दैव्या अध्वर्यवा उपहूता उपहूता मनुष्या य इमं यज्ञम् अवान् ये च यज्ञपतिं वर्धान् उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे उपहूतो ऽयं यजमाना उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविःकरणे दिव्ये धामन्न् उपहूतो देवा म इदं हविर् जुषन्ताम् इति तस्मिन्न् उपहूतः

॥४.१३.५॥

उपहूता : फ़्न् ⟨ उपहूतास्

उपहूता : फ़्न् एमेन्देद्। एद्।: उपहूता।

देवयज्यायाम् : फ़्न् एमेन्देद्। एद्।: देवयाज्यायाम्

त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।

त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥

अधा होता न्यसीदो यजीयान् इडस् पद इषयन्न् ईड्यः सन् ।

त्वं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनुग्मन् ॥

वृतेव यन्तं बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनुग्मन् ।

रुशन्तम् अग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥

पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् ।

नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त सन्दृष्टौ ॥

त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।

त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥

सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो निषसादा यजीयान् ।

तं त्वा वयं दमा आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥

तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः ।

त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।

प्रेतीषणिम् इषयन्तं पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥

सो अग्न ईजे शशमे च मर्तो यस् ता आनट् समिधा हव्यदातिम् ।

य आहुतिं परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥

अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः ।

वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥

आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः ।

बृहद्भिर् वाजैः स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं विभाहि ॥

नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः ।

पूर्वीर् इषो बृहतीर् आरेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥

पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।

पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे

॥४.१३.६॥

आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् ।

युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥

होता यक्षद् इन्द्राग्नी छागस्य हविषा आत्ताम् अद्य मध्यतो मेदा उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो ऽङ्गादङ्गाद् अवत्तानां करत एवेन्द्राग्नी जुषेतां हविर् होतर् यज ॥

गीर्भिर् विप्रः प्रमतिम् इछमाना ईट्टे रयिं यशसं पूर्वभाजम् ।

इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥

देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस् ते अर्थम् ।

प्रदक्षिणिद् रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥

होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित यत्राग्नेर् आज्यस्य प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्रेन्द्राग्न्योश् छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयांसम् इव कृत्वी करद् एवं देवो वनस्पतिर् जुषतां हविर् होतर् यज ॥

वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।

वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ॥

पिप्रीहि देवान् ॥

होता यक्षद् अग्निं स्विष्टकृतम् अयाड् अग्निर् अग्नेः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् इन्द्राग्न्योश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आयजताम् एज्या इषः कृणोतु सो अध्वराञ् जातवेदा जुषतां हविर् होतर् यज ॥

अग्ने यद् अद्येडोपहूता

॥४.१३.७॥

देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वसुवने वसुधेयस्य वेतु देवीर् द्वारः सङ्घाते वीड्वीर् यामञ् शिथिरा ध्रुवा देवहूतौ वत्स ईम् एनास् तरुणा आमिमीयात् कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनं दैवीर् विशः प्रायासिष्टां सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्या वक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती इषम् ऊर्जम् अन्या वक्षत् सग्धिं सपीतिम् अन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं ताम् ऊर्जम् ऊर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा पोतारा नेष्टारा हताघशंसा आभरद्वसू वसुवने वसुधेयस्य वीतां यज देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्यां भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमं रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज देवीस् तिस्रस् तिस्रो देवीर् वसुवने वसुधेयस्य व्यन्तु देवो नराशंसस् त्रिशीर्षा षडक्षः शतम् इद् एनं शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पतिः स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज देवो नराशंसो वसुवने वसुधेयस्य वेतु देवो वनस्पतिर् वर्षप्रावा घृतनिर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज देवो वनस्पतिर् वसुवने वसुधेयस्य वेतु देवं बर्हिर् वारितीनां निधेधासि प्रच्युतीनाम् अप्रच्युतं निकामधरणं पुरुषस्पार्हं यशस्वद् एना बर्हिषान्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनां वसुवने वसुधेयस्य वेतु देवो अग्निः स्विष्टकृद् यज देवो अग्निः स्विष्टकृत्

॥४.१३.८॥

अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं गृह्णन्न् अग्नया आज्यं गृह्णन्त् सोमायाज्यं बध्नन्न् इन्द्राग्निभ्यां छागं सूपस्था अद्य देवो वनस्पतिर् अभवद् अग्नया आज्येन सोमायाज्येनेन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रतिपचताग्रभीष्टाम् अवीवृधेतां पुरोडाशेन त्वाम् अद्य ऋष आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्या आ सङ्गतेभ्य एष मे देवेषु वसु वार्यायक्ष्यता इति ता या देवा देवदानान्य् अदुस् तान्य् अस्मा आ च शास्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीदं द्यावापृथिवी भद्रम् अभूद् आर्ध्म सूक्तवाकम् उत नमोवाकम् ऋध्यास्म सूक्तोच्यम् अग्ने त्वं सूक्तवाग् अस्य् उपश्रुति दिवस् पृथिव्योर् ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्तां शङ्गवी जीरदानू अत्रस्नू अप्रवेदे असम्बाधे उरुगव्यूती अभयङ्कृतौ वृष्टिद्यावा रीत्यापा शम्भुवौ मयोभुवऊर्जस्वती च पयस्वती च सूपचरणा च स्वधिचरणा च तयोर् आविद्य् अग्निर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत सोम इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतेन्द्राग्नी इदं हविर् अजुषेताम् अवीवृधेतां महो ज्यायो ऽक्रातां वनस्पतिर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत देवा आज्यपा आज्यम् अजुषन्तावीवृधन्त महो ज्यायो ऽक्रत अग्निर् होत्रेणेदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतास्याम् ऋधद् धोत्रायां देवङ्गमायाम् आशास्ते ऽयं यजमान आयुर् आशास्ते सुप्रजास्त्वम् आशास्ते विश्वं प्रियम् आशास्ते यद् अनेन हविषाशास्ते तद् अश्यात् तद् ऋध्यात् तद् अस्मै देवा रासन्तां तद् अग्निर् देवो देवेभ्यो वनुतां वयम् अग्नेर् मानुषा इष्टं च वीतं चोभे च नो द्यावापृथिवी अंहसस् पाताम् एह गतिर् वामस्येदं नमो देवेभ्यः

॥४.१३.९॥

होतर् : फ़्न् प्। एद्।: होतर्। च्फ़्। त्ब्।३।६।१५।१

तञ् शंयोर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिर् अस्तु नः सवस्तिर् मानुषेभ्यः ।

ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

आप्यायस्व सं ते पयांसि ॥

इह त्वष्टारम् अग्रियं विश्वरूपम् उपह्वये ।

अस्माकम् अस्तु केवलः ॥

तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

देवानां पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये ।

याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यछत ॥

उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।

आ रोदषी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥

राकाम् अहं यास् ते राके सिनीवालि या सुपाणिः कुहूम् अहं कुहूर् देवानाम् ॥

अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।

देवानाम् उत यो मर्त्यानां यजिष्ठः स प्रयजताम् ऋतावा ॥

हव्यवाड् अग्निर् इडोपहूता

॥४.१३.१०॥
प्रपाठक 14

चतुर्थकाण्डे चतुर्दशः प्रपाठकः

चतुर्थकाण्डे चतुर्दशः प्रपाठकः

प्रजापतिः प्रथमजा ऋतस्य सहस्रधामा जुषतां हविर् नः

॥४.१४.१॥

वायो शतं हरीणां युवस्व पोष्याणाम् ।

उत वा ते सहस्रिणो रथा आयातु पाजसा ॥

ईशानाय प्रहुतिं यस् ता आनट् शुचिं सोमं शुचिपास् तुभ्यं वायो ।

कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्य् अस्य ॥

युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।

आन् नो वायो मधु पिबास्माकं सवनागहि ॥

कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यासा आसन् ।

ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥

आ नो वायो महे तने याहि मखाय पाजसे ।

वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥

सं ते वायुः ॥

पीवोअन्नं रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।

ते वायवे समनसो वितस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥

राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।

अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥

आ वायो प्र वायुं प्र याभिः ॥

आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उपयाहि यज्ञम् ।

वायो अस्मिन्त् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

देवानां भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो निवर्तताम् ।

देवानां सख्यम् उपसेदिमा वयं देवा ना आयुः प्रतिरन्तु जीवसे ॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः ।

स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यद् आयुः ॥

शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥

आ वो देवास ईमहे ॥

उत देवा अवहितं देवा उन्नयथा पुनः ।

उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥

यज्ञेन यज्ञम् अयजन्त देवाः

॥४.१४.२॥

अग्ने नय ॥

प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।

यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥

अग्ने त्वं पारय ॥

अछा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणं भिक्षमाणाः ।

सुसन्दृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिं मानुषाणाम् ॥

अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।

पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥

प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।

दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥

उद् उत्तमम् अस्तभ्नाद् द्याम् इमां धियम् ॥

कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म ।

सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥

अव ते हेडो वरुण तत् त्वा यामि ॥

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।

ग्नाभिर् अछिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥

आ नो दिवः ॥

इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।

तव शर्मन् प्रियतमे दधाना उपस्थेयाम शरणं न वृक्षम् ॥

यस् ते स्तनः शशयो यो मयोभूर् येण विश्वा पुष्यसि वार्याणि ।

यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥

सरस्वत्य् अभि नो नेषि वस्य इदं ते हव्यम्

॥४.१४.३॥

आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् ।

सादद्योनिं दमा आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥

स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः ।

बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥

बृहस्पतिः स सुष्टुभा ॥

बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।

यद् दीदयञ् शवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥

एवा पित्रे विश्वदेवाय वृष्णे ॥

सूर्यो देवीम् उषसं रोचमानां मर्यो न योषाम् अभ्येति पश्चा ।

यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

भद्रा अश्वास् तत् सूर्यस्य ॥

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्यौर् उपस्थे ।

अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम्भरन्ति ॥

अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् ।

तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

चित्रं देवानाम् उदगाद् अनीकं सुत्रामाणं महीम् ऊ ष्व् अदितिः पाशान् ॥

अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।

विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥

विष्टम्भो दिवः स्तीर्णं बर्हिः

॥४.१४.४॥

विष्णोर् नु कं तद् अस्य प्र तद् विष्णुः ॥

परो मात्रया तन्वा वृधान न ते महित्वम् अन्वश्नुवन्ति ।

उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥

विचक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् ।

ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥

त्रिर् देवः पृथिवीम् एष एतां विचक्रमे शतर्चसं महित्वा ।

प्र विष्णुर् अस्तु तवसस् तवीयांस् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥

इन्द्रं नरो नेमधिता युजे रथम् ॥

जगृह्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।

विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य ।

गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥

सम् इन्द्र नः ॥

आराञ् शत्रुम् अपबाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन ।

अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥

इन्द्रो बलं रक्षितारं दुघानां करेणेव विचकर्ता रवेण ।

स्वेदाञ्जिभिर् आशिरम् इछमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥

अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अपि हि बलं वः ।

तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥

इन्द्रा ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् ।

बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥

यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य ।

यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनासा इन्द्रः ॥

अभि स्ववृष्टिम् ॥

भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् ।

रिणग् रोधांसि कृत्रिमान्य् एषां सोमस्य ता मदा इन्द्रश् चकार

॥४.१४.५॥

विष्णुं देवं वरुणम् ऊतये भगं मेदसा देवा वपया यजध्वम् ।

ता नो यज्ञम् आगतं विश्वधेना प्रजावद् अस्मे द्रविणेह धत्तम् ॥

मेदसा देवा वपया यजध्वं विष्णुं च देवं वरुणं च रातिम् ।

ता नो अमीवाम् अपबाधमाना इमं यज्ञं जुषमाणा उपेतम् ॥

विष्णूवरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यछतम् ।

दीर्घप्रयज्यू हविषा वृधाना ज्योतिषारातीर् दहतं तमांसि ॥

ययोर् ओजसा स्कभिता रजांसि वीरेभिर् वीरतमा शविष्ठा ।

या पत्येते अप्रतीता सहोभिर् विष्णू अगन् वरुणा पूर्वहूतिम् ॥

विष्णूवरुणा अभिशस्तिपावा देवा यजन्त हविषा घृतेन ।

अपामीवां सेधतं रक्षसश् चाथा धत्तं यजमानाय शं योः ॥

अंहोमुचा वृषभा सुप्रतूर्ती देवानां देवतमा शविष्ठा ।

विष्णूवरुणा प्रतिहर्यतं न इदं नरा प्रयतम् ऊतये हविः ॥

आ देवो याति सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः ।

हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥

अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।

आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥

स घा नो देवः सविता सहावासाविषद् वसुपतिर् वसूनि ।

विश्रयमाणो अमतिम् उरूचीं मर्तभोजनम् अध रासते नः ॥

आ कृष्णेन रजसा वामम् अद्य ॥

भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्यात् ।

आये वामस्य सङ्गथे रयीणां प्रिया देवस्य सवितुः स्याम ॥

या ओषधयो ऽश्वावतीम् ओषधीर् इति मातरो ऽति विश्वाः परिष्ठा यद् ओषधयः सङ्गछन्ते ऽन्या वो अन्याम्

॥४.१४.६॥

वो : फ़्न् एमेन्देद्। एद्।: वो

मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः ।

यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥

प्र पूर्वजे ॥

स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान ।

उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥

भूरि द्वे अचरन्ती चरन्तं पद्वन्तं गर्भम् अपदी दधाते ।

नित्यं न सूनुं पित्रोर् उपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् ।

भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥

उर्वी पृथ्वी बहुले दूरेअन्ते उपब्रुवे नमसा यज्ञे अस्मिन् ।

दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

इन्द्रो भूतस्य भुवनस्य राजेन्द्रो दाधार पृथिवीम् उतेमाम् ।

इन्द्रे ह विश्वा भुवना श्रितानीन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रः पृणन्तं पपुरिं चेन्द्रा इन्द्रः स्तुवन्तं स्तवितारम् इन्द्रः ।

दधाति शक्रः सुकृतस्य लोक इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो द्यौर् उर्व्य् उत भूमिर् इन्द्रा इन्द्रः समुद्रो अभवद् गभीरः ।

उर्व् अन्तरिक्षं स जनासा इन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो वृत्रं वज्रेणावधीद् धीन्द्रो व्यंसम् उत शुष्णम् इन्द्रः ।

इन्द्रः पुरः शम्बरस्याभिनद् धीन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो बभूव ब्रह्मणा गभीर इन्द्रा आभूतः परिभूष्व् इन्द्रः ।

इन्द्रो भविष्यद् उत भूतम् इन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो ऽस्मं अवतु वज्रबाहुर् इन्द्रे भूतानि भुवनानीन्द्रे ।

अस्माकम् इन्द्रो भवतु प्रसाह इन्द्रं मन्ये पितरं मातरं च ॥

उत स्या नः सरस्वती जुषाणोपश्रुवत् सुभगा यज्ञे अस्मिन् ।

द्युतद्युभिर् नमस्यैर् इयाणा राया युजा चिद् उत्तरा सखिभ्यः ॥

प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः ।

प्र बाधमाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥

एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्या आ समुद्रात् ।

रायश् चेतन्ती भुवनस्य भूरेर् घृतं पयो दुदुहे नाहुषाय ॥

इदम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्रीयश्वाय दाशुषे ।

या शस्वन्तम् आचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥

अयम् उ ते सरस्वति वसिष्ठो द्वारा ऋतस्य सुभगे व्यावः ।

वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात स्वस्तिभिः सदा नः ॥

इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः ।

पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आविवासेम धीतिभिः

॥४.१४.७॥

शुचिं नु स्तोमं श्नथद् वृत्रम् उभा वाम् इन्द्राग्नी प्र चर्षणिभ्य आ वृत्रहणा गीर्भिर् विप्रस् त्वष्टा दधत् तन् नस् तुरीपं त्वष्टा वीरम् ॥

पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।

प्रजां त्वष्टा विष्यतु नाभिम् अस्मे अधा देवानाम् अप्येतु पाथः ॥

देव त्वष्टः ॥

आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे ।

उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहं प्रतिचेतयेते ॥

जगृह्मा ते दक्षिणम् इन्द्र हस्तम् ॥

सुब्रह्माणं देववन्तं महान्तम् उरुं गभीरं पृथुबुध्नम् इन्द्र ।

श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

वनीवानो मम दूतासा इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयाणाः ।

हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।

चर्कृत्यं शंस्यं भूरिवारम् उग्रम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र ।

भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

सनद्वाजं विप्रवीरं तरुत्रं धनुस्पृतं शूशुवांसं सुदक्षम् ।

दस्युहनं पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः

॥४.१४.८॥

त्वष्टा पत्नीभिर् इह नः सजोषा देवो देवीभिर् हविषो जुषाणः ।

उपो रयिं बहुलं विष्यता नः शृणोत नः सुमतिं यज्ञियासः ॥

रेतोधा यस्य भुवनस्य देवः ससाद योनौ जनिता जनिष्ठः ।

रूपाणि कृण्वन् विदधद् वपूंषि त्वष्टा पत्नीभिश् चरति प्रजानन् ॥

त्वष्टा पत्नीभिर् अनु मंहनेवाग्रेयावा धिषणे यं दधाते ।

विश्वा वसु हस्तयोर् आदधानो ऽन्तर् मही रोदसी याति साधन् ॥

आ नो वीरेभिर् जनिता मतीनां गोभिर् अश्वेभिर् वसुभिर् वसूयन् ।

समञ्जानो धामभिर् विश्वरूपैस् त्वष्टा पत्नीभिश् चरति प्रजानन् ॥

त्वष्टा रेतो भुवनस्य पत्नीर् विकृण्वानास् तनयं भूरि पश्वः ।

ग्ना वो देवी रोदसी तञ् शृणोता नो रयिं जनत विश्ववारम् ॥

यज्ञं च नस् तन्वं च प्रजां च रयिं च नो जनत विश्वरूपम् ।

योनौ रेतो दधद् अस्मे नु त्वष्टा देवीः पत्नीर् जनत जीवसे नः ॥

वि मञ् श्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य ।

मा तन्तुश् छेदि वयतो धियं मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥

पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् ।

अव्युष्टा इन् नु भूयसीर् उषासा आ नो वीरान् वरुण तासु शाधि ॥

अपो षु म्यक्ष वरुण भियसं मत् सम्राड् ऋतावो ऽनु नो गृभाय ।

दामेव वत्साद् विमुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥

विमुमुग्ध्य् : फ़्न् एमेन्देद्। एद्।: विमुमुग्ध्य्।

यो मे राजन् युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यम् आह ।

स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥

मा नो वधैर् वरुण ये त इष्टा एनः कृण्वन्तम् अरुण भ्रीणन्ति ।

मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥

क्व त्यानि नौ सख्या बभूवुः सचावहै यद् अवृकं पुरा चित् ।

बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥

मूर्धानं दिवः पृष्टो दिवि वैश्वानरस्य सुमतौ स्याम त्वम् अग्ने शोचिषा शोशुचानो ऽग्निः प्रातः सवनाद् विश्वं विव्याच

॥४.१४.९॥

आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः ।

घृतवर्तनिः पविभी रुचान इषां वोढा नृपतिर् वाजिनीवान् ॥

स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसायातु युक्तः ।

विशो येन गछथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥

स्वश्वा यशसायातम् अर्वाग् दस्रा निधिं मधुमन्तं पिबाथः ।

वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥

यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।

तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥

युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।

यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥

युवं भुज्युम् अवविद्धं समुद्र उदूहथुर् अर्णसो अस्रिधानैः ।

पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥

ब्रह्मणस्पते त्वम् अस्य यन्ता ॥

स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः ।

ब्रह्मणस्पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्यानट् ॥

ब्रह्मणस्पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः ।

यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥

इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्या इत् ।

जातेन जातम् अति स प्रसर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

ब्रह्मणस्पते सूयमस्य विश्वहा ॥

स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजं भरते धना नृभिः ।

देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥

आयातं मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना ।

सं या अप्नःस्थो अपसेव जनाञ् श्रुधीयतश् चिद् यतथो महित्वा ॥

युवं वस्त्राणि पीवसा वसाथे युवोर् अछिद्रा मन्तवो ह सर्गाः ।

अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥

को नु वां मित्रावरुणा ऋतायन् दिवो वा महः पार्थिवस्य वा दे ।

ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो नु वाजान् ॥

तत् सु वां मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे ।

विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आववर्त ॥

यद् बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा ।

तेन नो मित्रावरुणा अविष्टं सिषासन्तो जिगीवांसः स्याम ॥

गोपा : फ़्न् बेन्, पद। ह्, ब्ब्: गोपाः

प्र बाहवा

॥४.१४.१०॥

आ नो विश्वा आस्क्रा गमन्त देवा मित्रो अर्यमा वरुणः सजोषाः ।

भुवन् यथा नो विश्वे वृधासः करन्त् सुषाहा विथुरं न शवः ॥

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु ।

शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥

ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।

ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥

सुगा वो देवा विश्वे देवाः ॥

द्यौः पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृडता नः ।

विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वियन्त ॥

द्यौः : फ़्न् एद्।: द्यौः। च्फ़्। नोते १०

ईडे अग्निं स्ववसं नमोभिर् इह प्रसत्तो विचयत् कृतं नः ।

रथैर् इव प्रभरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् अश्याम् ॥

त्विषीमन्तो अध्वरस्येव दिद्युत् त्रिषुच्यवसो जुह्वो नाग्नेः ।

अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥

अग्ने याहि दूत्यं मा रिषण्यो देवं अछा ब्रह्मकृता गणेन ।

सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥

प्र चित्रम् अर्कं गृणते तुराय ॥

ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त ।

अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥

आ वो यन्तूदवाहासो अद्य ॥

सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञाः पृथिवीं धारयन्ति ।

सा नो भूतस्य भुवनस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोतु ॥

असम्बाधा या मध्यतो मानवेभ्यो यस्या उद्वतः प्रवतः समं महत् ।

नानारूपा ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥

यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् ।

सा नो मधु घृतं दुहाम् अथो उक्षतु वर्चसा ॥

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।

या बिभर्ति बहुधा प्राणद् एजत् सा नो भूमिः पूर्वपेयं दधातु ॥

यास् ते प्राचीः प्रदिशो या उदीचीर् याश् च भूम्य् अधराग् याश् च पश्चा ।

शिवास् ता मह्यं चरते भवन्तु मा निपप्तं भुवने शिश्रियाणः ॥

विश्वम्भरा वसुधानी पुरुक्षुद् धिरण्यवर्णा जगतः प्रतिष्ठा ।

वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्र ऋषभा द्रविणं नो दधातु

॥४.१४.११॥

आ वां मित्रावरुणा हव्यदातिं नमसा देवा अवसा ववृत्याम् ।

अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥

ऋतस्य गोपा अधितिष्ठथो रथं सत्यधर्माणा परमे व्योमन् ।

यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥

वाचं सु मित्रावरुणा ऋतावरीं पर्जन्यश् चित्रां वदति त्विषीमतीम् ।

अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥

वसत : फ़्न् पद। एद्।: वसथ

सम्राजा अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।

वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी विचरन्ति तन्यवः ॥

आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इडाभिः ।

प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥

सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी ।

चित्रेभिर् अभ्रैर् उपतिष्ठतो रवं द्यां वर्षयतो असुरस्य मायया ॥

आ ते महो यो जात एवाभि गोत्राणि ॥

आभिः स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र ।

आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽवतारीर् दासीः ॥

अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्रकृणुते युधा गाः ।

यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृढं भयता एजद् अस्मात् ॥

अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्या आ नाव्यानाम् ।

सध्रीचीनेन मनसा तम् इन्द्रा ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥

इन्द्रस् तरस्वान् अभिमातिहोग्रो हिरण्यवर्ण इषिरः स्वर्षाः ।

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥

हिरण्यवर्णो अभयं कृणोत्व् अभिमातिहेन्द्रः पृतनासु जिष्णुः ।

स नः शर्म त्रिवरूथं वियंसद् यूयं पात स्वस्तिभिः सदा नः ॥

इन्द्रं स्तुहि वज्रिणं सोमपृष्ठं पुरोडाशस्य जुषतां हविर् नः ।

हत्वाभिमातीः पृतनाः सहस्वान् अथाभयं कृणुहि विश्वतो नः ॥

स्तुहि शूरं वज्रिणम् अप्रतीकं वृत्रहणं पुरुहूतम् इन्द्रम् ।

य एका इञ् शतपतिर् जनेषु तस्मा इन्द्राय हविषा जुहोत ॥

इन्द्रो देवानाम् अधिपाः पुरोहितो विशां पतिर् अभवद् वाजिनीवान् ।

अभिमातिहा तविषस् तुविष्मान् अस्मभ्यं चित्रं वृषणं रयिं दात् ॥

य इमे द्यावापृथिवी महित्वा बलेनादृंहद् अभिमातिहेन्द्रः ।

स नो हविः प्रतिगृभ्णातु रातये देवानां देवो निधिपा नो अव्यात्

॥४.१४.१२॥

इन्द्रो वृत्रम् अतरद् वृत्रतूर्ये ऽनाधृष्यो मघवा शूरा इन्द्रः ।

अन्व् एनं विशो अमदन्त पूर्वीर् अयं राजा जगतश् चर्षणीनाम् ॥

स एव वीरः स उ वीर्यावान्त् स एकराजो जगतः परस्पाः ।

यदा वृत्रम् अतरञ् शूरा इन्द्रो अथैकराजो अभवज् जनानाम् ॥

इन्द्रो यज्ञं वर्धयन् विश्ववेदाः पुरोडाशस्य जुषतां हविर् नः ।

वृत्रं तीर्त्वा दानवं वज्रबाहुर् दिशो ऽदृंहद् दृंहिता दृंहणेन ॥

इमं यज्ञं वर्धयन् विश्ववेदाः पुरोडाशं प्रतिगृभ्णात्व् इन्द्रः ।

यदा वृत्रम् अतरञ् शूरा इन्द्रो अथाभवद् दमिताभिक्रतूनाम् ॥

अहन् वृत्रम् ॥

इन्द्रो देवाञ् शम्बरहत्य आवद् इन्द्रो देवानाम् अभवत् पुरोगाः ।

इन्द्रो यज्ञे हविषा वावृधानो वृत्रतूर् नो अभयं शर्म यंसत् ॥

इन्द्रस्य वृष्णो जनिष्ठा उग्र इन्द्र एषां नेता भूरि चकर्थ ॥

त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।

स्तवानेभिः स्तवस इन्द्र देवैर् विद्यामेषं वृजनं जीरदानुम् ॥

यः सप्त सिन्धूंर् अदधात् पृथिव्यां यः सप्त लोकान् अकृणोद् दिशश् च ।

इन्द्रो हविष्मान्त् सगणो मरुद्भिर् वृत्रतूर् नो यज्ञम् इहोपयासत् ॥

समिद्धा इन्द्रो ऽनवस् ते ॥

इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री ।

अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥

अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।

वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अवजग्मुर् आपः ॥

इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।

सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥

अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् ।

सं वज्रेणाभिनद् वृत्रम् इन्द्रः प्र स्वां मतिम् अतिरञ् शाशदानः

॥४.१४.१३॥

त्वम् अपो वि दुरो विषूचीर् इन्द्र दृढम् अरुजः पर्वतस्य ।

राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥

इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति ।

ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥

स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः ।

या इन्द्रेण सयावरीर् दस्रा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥

युध्मस्य ते वृषभस्य स्वराज्ञ उग्रस्य यूनः स्थविरस्य घृष्वेः ।

अजूर्यतो वज्रिणो वीर्याणीन्द्रः श्रुतस्य महतो महानि ॥

इदं नमो वृषभाय स्वराज्ञ उक्थशुष्माय तवसे ऽवाचि ।

अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन्त् स्याम ॥

अस्माकम् इन्द्रः समृतेषु ध्वजेषु ॥

आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन ।

अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥

न दक्षिणा विचिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा ।

पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥

धारयन्तः ॥

तिस्रो भूमीर् धारयंस् त्रीन्र् उत द्यूंस् त्रीणि व्रता विदथे अन्तर् एषाम् ।

ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥

यज्ञो देवानां प्रत्येतु सुम्नम् ॥

शुचिर् अपः सूयवसा अदब्धा उपक्षयन्ति वृद्धवयाः सुवीरः ।

नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानां भवति प्रणीतौ ॥

आदित्यो देव उदगात् पुरस्ताद् विश्वा भूतानि प्रति मोदमानः ।

तस्य देवाः प्रसवं यन्ति सर्वे यत्रास्य नाम परमं गुहा विदुः ॥

यस्य भान्ति केतवो यस्य रश्मयो यस्येमा विश्वा भुवनानि सर्वा ।

तस्यादित्यस्य प्रसवं मनामहे यस् तेजसा प्रथमजा विभाति ॥

विभाति केतुर् अरुणः पुरस्ताद् आदित्यो विश्वा भुवनानि सर्वा ।

सुगं नु पन्थाम् अन्वेति प्रजानन् पिता देवानाम् असुरो विपश्चित् ॥

व्रतेन यं व्रतिनो वर्धयन्ति देवा मनुष्याः पितरश् च सर्वे ।

तस्यादित्यस्य प्रसवं मनामहे यस् तेजसा प्रथमजा विभाति ॥

आदित्यः शुक्र उदगात् पुरस्ताज् ज्योतिः कृण्वन् वि तमो बाधमानः ।

आभासमानः प्रदिशो नु सर्वा भद्रस्य कर्ता रोचमाना आगात् ॥

यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् ।

यदा चरिष्णू मिथुना अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा

॥४.१४.१४॥

वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् ।

अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा संशिशाधि ॥

अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे ।

यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥

तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् ।

अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥

आ यद् इषे नृपतिं तेजा आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।

अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥

स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।

अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥

स इद् अस्तेव प्रतिधाद् असिष्यञ् शिशीत तेजो ऽयसो न धाराम् ।

चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजंहाः ॥

हव्यवाड् अग्निर् अजरः पिता नः ॥

मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।

नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥

अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ ।

ज्येष्ठेभिर् यो भानुभिर् ऋभूणां पर्येति परिवीतो विभावा ॥

अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची ।

आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥

स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् ।

विश्वायुर् यो अमृतो मर्त्येषु पर्य् अभूद् अतिथिर् जातवेदाः ॥

यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः ।

आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥

यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र ।

रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥

एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।

शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥

वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः ।

सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥

आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ।

अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कृधी नः ॥

कुर्मस् ता आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः ।

अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥

हविषीव भजमानो ना आभाग् देवेभ्यः शिक्षन्न् उत मानुषेभ्यः ।

त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान्

॥४.१४.१५॥

अग्ने दा दा नो अग्ने ऽग्निर् ददात्य् अन्नपते अन्नस्य नो देह्य् अग्निना रयिम् अश्नवत् संसम् इद् युवसे वृषन् यास् ते ॥

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ ।

यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥

प्रेहि प्रेहि पथिभिः पूर्वेभिर् यत्रा नः पूर्वे पितरः परेताः ।

उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥

अङ्गिरोभिर् आगहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व ।

विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥

इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः ।

आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥

मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः ।

यांश् च देवा वावृधुर् ये च देवान्त् स्वाहान्ये स्वधयान्ये मदन्ति ॥

परेयिवांसं प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् ।

वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य ॥

यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति ।

ताभिर् यासि दूत्यं सूर्यस्य कामेन कृतः श्रव इछमानः ॥

शुक्रं ते अन्यद् यजतं ते अन्यत् ॥

पूषेमा आशा अनुवेद सर्वाः सो अस्मं अभयतमेन मेषत् ।

स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुछन् पुर एतु प्रजानन् ॥

प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।

उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥

पूषा सुबन्धुर् दिव आ पृथिव्या इडस् पतिर् मघवा दस्मवर्चाः ।

यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥

अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः ।

अष्ट्रां पूषा शिथिराम् उद्वरीवृजत् सञ्चक्षाणो भुवना देव ईयते

॥४.१४.१६॥

यद् देवा देवहेडनं यद् वाचानृतम् ओदिम ।

आदित्यास् तस्मान् मुञ्चतर्तस्य त्व् एनम् आमुतः ॥

देवा जीवनकाम्या यद् वाचानृतम् ओदिम ।

तस्मान् न इह मुञ्चत विश्वे देवाः सजोषसः ॥

ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति ।

कृतान् नः पाह्य् अंहसो यत् किञ्चानृतम् ओदिम ॥

इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः ।

ते नो मुञ्चन्त्व् एनसो यत् किञ्चानृतम् ओदिम ॥

सजातशंसाद् उत जामिशंसाज् ज्यायसः शंसाद् उत वा कनीयसः ।

अनाधृष्टं देवकृतं यद् एनस् तस्मात् त्वम् अस्मान् जातवेदो मुमुग्धि ॥

यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम ।

अग्निर् नस् तस्माद् एनसो गार्हपत्यः प्रमुञ्चतु दुरितानि यानि कानि च चकृम ॥

येन त्रितो अर्णवान् निर्बभूव येन सूर्यं तमसो निरमोचि ।

येनेन्द्रो विश्वा अजहाद् अरातीस् तेनाहं ज्योतिषा ज्योतिर् आनशान अयाक्षि ॥

यद् दैव्यम् ऋणम् अहं बभूव धिप्स्यं वा सञ्चकर जनेभ्यः ।

अग्निर् नस् तस्माद् इन्द्रश् च संविदानौ प्रमुञ्चताम् ॥

यत् कुसीदम् अप्रतीतं मयेह येन यमस्य निधिना चरावः ।

एतत् तद् अग्ने अनृणो भवामि जीवन्न् एव प्रति हस्तानृणानि ॥

यद् धस्ताभ्यां चकर किल्बिषान्य् अक्षाणां वग्मुम् अवजिघ्रम् आपः ।

उग्रं पश्याच् च राष्ट्रभृच् च तान्य् अप्सरसाम् अनुदत्तानृणानि ॥

उग्रं पश्येद् राष्टभृत् किल्बिषानि यद् अक्षवृत्तम् अनुदत्तम् एतत् ।

नेम् न ऋणान् ऋणवान् ईप्समानो यमस्य लोके निधिर् अजराय ॥

इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।

त्वाम् अवस्युर् आचके ॥

तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः ।

अहेडमानो वरुणेह बोध्य् उरुशम्स मा ना आयुः प्रमोषीः ॥

उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।

अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥

अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः ।

क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥

त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः ।

यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् ॥

स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।

अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि ॥

सङ्कसुको विकसुको निरृतो यश् च निस्वनः ।

ते ऽस्मद् यक्ष्मम् अनागसो दूराद् दूरम् अचीचतम् ॥

निर् यक्ष्मम् अचीचते कृत्यां निरृतिं चकार ।

तेन यो ऽस्मत् समृछातै तम् अस्मै प्रसुवामसि ॥

दुःशंसानुशंसाभ्यां घनेनानुघनेन च ।

तेन यो ऽस्मत् समृछातै तम् अस्मै प्रसुवामसि ॥

सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।

त्वष्टा सुदत्रो विदधातु रायो ऽनु नो मार्ष्टु तन्वो यद् विरिष्टम्

॥४.१४.१७॥

शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः ।

ऋतेन सत्यम् ऋतसाप आयञ् शुचिजन्मानः शुचयः पावकाः ॥

या वः शर्म शशमानाय सन्ति ॥

अंसेष्व् आ मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः ।

वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यछमानाः ॥

ऋष्टयो वो मरुतो अंसयोर् अधि ॥

इमे तुरं मरुतो रामयन्तीमे सहः सहसा आनमन्ति ।

इमे शंसं वनुष्यतो निपान्ति गुरु द्वेषो अररुषे दधन्ति ॥

अरा इवेद् अचरमा अहेव प्रप्रजायन्ते अकवा महोभिः ॥

पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम्मिमिक्षुः ॥

अग्नीषोमा इमं युवम् एतानि ॥

अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति ।

तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥

आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यं परि श्येनो अद्रेः ।

अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उलोकम् ॥

अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् ।

स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥

अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।

सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥

आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।

स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणायाह्य् अर्वाक् ॥

विवेष यन् मा धिषणा जजान ॥

तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् ।

समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा आविशन्ति ॥

सत्यम् इत् तन् न त्वावं अन्यो ऽस्तीन्द्र देवो न मर्त्यो ज्यायान् ।

अहन्न् अहिं परिशयानम् अर्णो ऽवासृजो अपो अछा समुद्रम् ॥

प्रससाहिषे पुरुहूत शत्रून् ॥

स शेवृधम् अधिधा द्युम्नम् अस्मे महि क्षत्रं जनाषाड् इन्द्र तव्यम् ।

रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः

॥४.१४.१८॥