चतुर्थकाण्डे अष्टमः प्रपाठकः
चतुर्थकाण्डे अष्टमः प्रपाठकः
तौ वृशश् चैवाषश् चाभवतां तद् वृशस्य चैवाषस्य च जन्म स मनुर् इन्द्रम् अब्रवीत् सं मे यज्ञं स्थापय मा मे यज्ञो विकृष्टो भूद् इति सो ऽब्रवीद् यत्काम एताम् आलब्धाः स ते कामः समृध्यताम् अथोत्सृजेति तां वा उदसृजत् तद् ऋद्ध्या एव पात्नीवतस् त्वाष्ट्रः स्यात् त्वाष्ट्रा हि पशवो ऽवाचीनं नाभ्याः कार्यो ऽवाचीनं हि नाभ्याः स्त्रिया वीर्यवद् व्यवव्लिनाति वा एकादशिनी यज्ञं यत् पात्नीवतः प्रत्युत्तब्ध्यै
॥४.८.१॥भूद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अमुष्मिन् वै लोके यजमानो बुभूषत्य् अमुष्य खलु वा आदित्यस्यासौ लोको यत् सौरीभ्यां जुहोत्य् अमुष्मिन् वा एतल् लोके यजमानो भवति द्वाभ्यां जुहोति द्विपाद् यजमानः प्रतिष्ठित्यै हिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति बद्धेन जुहोति दक्षिणानां वा एषो ऽन्वारम्भो द्यां गछ स्वर् गछेत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै रूपं वो रूपेणाभ्येमीति रूपं हिरण्यं रूपं पशवस् तुथो वो विश्ववेदा विभजत्व् इत्य् एष वै तुथो विश्ववेदा यद् अग्निर् एष वै तं वेद यो दक्षिणीयो यो ऽदक्षिणीय एतत् ते अग्ने राध एति सोमच्युतम् इत्य् अग्नीधे वा एतद् दीयते तत् सोमश् च्यावयति तन् मित्रस्य पथा नयेत्य् एष वै मित्रस्य पन्था यद् यज्ञ आग्नेय्याग्नीध्रे जुहोत्य् आग्नेयं ह्य् आग्नीध्रं वारुण्या द्वितीयया यद्य् अनो वा रथो वा दीयते वारुणं हि तद् ऋतस्य पथा प्रेतेत्य् एष वा ऋतस्य पन्था यद् यज्ञश् चन्द्रदक्षिणा इति चन्द्रं हि दीयते ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् इत्य् एष वै ब्राह्मणः पितृमान् पैतृमत्यो य आर्षेयः शुश्रुवान् सुधातुदक्षिणम् इति सुधात्व् एवास्य यज्ञं दधाति वि स्वः पश्य व्य् अन्तरिक्षम् इत्य् अद एव प्राप्य वदति यतस्व सदस्यैर् इत्य् अरातीयन्ति वा एत एतस्मै ददत ईश्वरा ब्राह्मणाः सोमपाश् चक्षुषापहन्तोस् तान् एव शमयत्य् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतेति तथा हैनम् अमुत्रागछन्ति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्या दक्षिणाश् च्यावयन्ति नामुत्र गछन्तीति यद् आहानवहायास्मान् देवयानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम् इति तथा हैनम् इह चामुत्र चागछन्ति
॥४.८.२॥बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यज्ञं वा एतद् घ्नन्ति यद् दक्षिणा दीयन्ते यज्ञं वा एतद् दक्षयन्ति तद् दक्षिणानां दक्षिणात्वं यत् तद् दक्षयन्ति स्वर्गो वै लोको माध्यन्दिनं सवनं यन् माध्यन्दिने सवने दक्षिणा दीयन्ते स्वर्गस्य लोकस्याक्रान्त्यै बहु देयं सेतुं वा एतत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै हिरण्यं हस्ते भवत्य् अथ नयति सत्यं वै हिरण्यं सत्येनैवैना नयत्य् अग्रेण गार्हपत्यं जघनेन सदस् ता उदीचीर् उत्सृजन्त्य् अन्तरा चात्वालं चाग्नीध्रं चैतेन वा अङ्गिरसः स्वर्गं लोकम् आयंस् तम् एवैनाः पन्थाम् अपिनयति द्वाभ्यां गार्हपत्ये जुहोतीमां तेनाक्रमत आग्नेय्याग्नीध्रे ऽन्तरिक्षं तेनाथ यद् दक्षिणा दीयन्ते स्वर्गं तेन लोकम् अग्नीधे ऽग्रे ददाति यज्ञमुखं वा अग्नीद् यज्ञमुखम् एव नापाराड् अथो अग्निर् वै सर्वा देवता देवता एवास्य तयाभीष्टाः प्रीता भवन्ति ब्रह्मणे ददाति प्राजापत्यो वै ब्रह्मा प्रजापतिम् एव तया प्रीणात्य् ऋत्विग्भ्यो ददाति होत्रा एव तया प्रीणाति यां सदस्येभ्यो ददाति सोमपीथं तया निष्क्रीणीते याम् आर्षेयाय शुश्रुवुषे ददाति छन्दांसि तया प्रीणाति न हि तस्माद् अर्हन्ति सोमपीथं निष्क्रीयं याम् आर्षेयाय शुश्रुवुषे ददाति देवलोके तया ऋध्नोति याम् अनार्षेयाय शुश्रुवुषे मनुष्यलोके तया याम् अप्रसृप्ताय ददाति वनस्पतयस् तया प्रथन्ते यां याचमानाय ददाति भ्रातृव्यं तया जिन्वति यां भीषा क्षत्रं तया ब्रह्मात्ति यां प्रतिनुदते सा व्याघ्री दक्षिणा यत् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूता प्रव्लिनीयाद् अन्यया सह प्रतिगृह्या तथा हैनं न प्रव्लिनाति यद् अजं ददात्य् आग्नेयो वा अजो ऽग्नेर् एव तेन प्रियं धामोपैति यद् अविं ददात्य् आव्यन् तेनापजयति यद् गां ददाति वैश्वदेवी गौर् विश्वेषां देवानां तया प्रियं धामोपैति यद् वासो ददाति सर्वदेवत्यं वै वासो देवता एवास्य तेनाभीष्टाः प्रीता भवन्ति यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते यद् अनो वा रथं वा शरीरं तेन यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते यद् अश्वं ददाति प्राजापत्यो वा अश्वः प्रजापतेर् एव तेन प्रियं धामोपैत्य् अथो अमुष्यादित्यस्य लोकं जयत्य् अन्ततः प्रतिहर्त्रे देयं रौद्रो वै प्रतिहर्ता यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववनयेत् तस्माद् अन्ततः प्रैहर्त्रे देयं स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तम् अत्रिर् अन्वपश्यद् यद् आत्रेयाय हिरण्यं ददाति तम एवापहते ऽथो ज्योतिर् उपरिष्टाद् दधाति स्वर्गस्य लोकस्यानुक्शात्यै
॥४.८.३॥आव्यन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
विश्वरूपो वा एतत् त्वाष्ट्रो यज्ञस्य व्यृद्धम् अमन्यत यद् ऋक्सामे व्युह्येते स एतान्य् अपश्यद् यज्ञस्य निष्कृत्यै यद् एवात्र यज्ञस्य व्यृद्धं तस्यैतानि निष्कृत्यै हूयन्ते षड् ऋग्म्याणि भवन्ति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति त्रीणि यजूंषि त्रीणि वै सवनानि सवनान्य् एवाप्नोति नवैतानि समिष्टयजूंषि जुहोति नवभिर् बहिष्पवमाने स्तुवते तन् नव नव प्राणाः प्राणान् एवात्मन् धत्त ऊर्ध्वस् तिष्ठन् जुहोत्य् ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो यं द्विष्यात् तस्य तूष्णीं तिष्ठन् जुहुयात् प्राणान् अस्यान्तरेति सन्ततं जुहोति प्राणानां सन्तत्यय् अविछिन्दन् जुहोति प्राणानाम् अविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्यात् प्राणान् अस्य विछिनत्ति समानेन विग्राहं जुहोति समाना हीमे प्राणा यज्ञस्य वा एता आणी एतौ वै विश्वामित्रो यज्ञस्याणी अपश्यत् तद् यज्ञस्यैवैता आणी क्रियेते यतो यज्ञ आदीयते तत् पुनर् निधेया इति ह स्माह भरद्वाजो यतो वा एतद् यज्ञ आदीयते तत् पुनर् निधीयते
॥४.८.४॥पञ्चसवनो वै यज्ञस् त्रीणि सवनान्य् अवभृथो ऽनूबन्ध्या सवनानां पञ्चमी पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यद् वै यज्ञस्यातिरिच्यते तद् वरुणो गृह्णात्य् अतिरिक्तं वा एतद् यज्ञस्य यद् ऋजीषो ऽधिषवणम् अधिषवणे तस्मात् तेनावभृथम् अभ्यवयन्त्य् अपो ऽभ्यवयन्त्य् आपो हि वरुणः स्थावरा अभ्यवयन्ति ता हि साक्षाद् वरुणो यद् वहन्तीर् अभ्यवेयुः पशून् निर्वहेयुर् अथ यत् स्थावरा अभ्यवयन्ति पशूनाम् अनिर्वाहायापो वै वरुणो वातो वरुणो यद् उदञ्चो ऽवभृथम् अभ्यवेयुर् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् दक्षिणावभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वायोरुं हि राजा वरुणश् चकारेति चात्वालात् प्रयन्तो वदन्त्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति शतं ते राजन् भिषजः सहस्रम् इत्य् अपः परादृश्य वदन्त्य् अपो वा एतद् भूषन्ति पूताभिर् आभिः पूताश् चरन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठति तृणं प्रास्य जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजत्य् आज्यभागौ यजति यज्ञतायै वरुणं यजति निर्वरुणतायय् अग्नीवरुणौ यजत्य् उभयत एवैनं वरुणान् मुञ्चति नानुयाजान् यजति न संस्थापयन्त्य् अतिरिक्तम् इव हि तन् मन्यन्ते समुद्रे ते हृदयम् अप्स्व् अन्तर् इति सह स्रुचोपमारयति यद् एवात्र क्रूरं क्रियते तञ् शमयत्य् अवभृथ निचुङ्कुणेत्य् अवभृथ एवास्यैष ततो य ऋजीष उत्प्लवते तं भक्षयन्ति सोमपीथम् इव हि तन् मन्यन्ते वरुणो वा ऋजीषो यद् भक्षयेद् वरुणम् आत्मन्य् अञ्जीत तद् आहुर् भक्षयितव्यम् एव पशवो वा ऋजीषः पशून् एवात्मन्य् अङ्क्ता इति विचृत्तो वरुणस्य पाशा इति वरुणपाशम् एव विष्यति प्रत्यस्तो वरुणस्य पाशा इति वरुणपाशम् एव प्रत्यस्यति नमो वरुणस्य पाशायेति वरुणपाशायैव नमो ऽकर् अङ्गिरसो वा उत्तिष्ठतो रक्षांस्य् अनूदतिष्ठंस् तान् वा एतेन बृहस्पतिर् अन्ववैत् तेनैभ्यो रक्षांस्य् अपाहन् यद् एतेनान्ववैति रक्षसाम् अपहत्यै यद् ऊर्ध्वस्तोभं तेन बार्हस्पत्यम् अथ यत् त्रिस्तोभं त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो यज्ञाद् रक्षांस्य् अपहन्ति यद् अतिछन्दसा सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् वा एतच् छन्दोभिर् यज्ञाद् रक्षांस्य् अपहन्ति यद् आग्नेय्याग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अपो ऽभ्यवयन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यय् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिषीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव
॥४.८.५॥यः कामयेत सर्वो मे यज्ञः स्यात् सरसा इति स एतास् तिस्रो वशा आलभेत यज्ञस्य सर्वत्वायाथो सरसत्वाय वैश्वदेवीं मध्यत आलभेत रेतो वा एतन् मध्यतो दधाति मध्यतो हि रेतो ऽनिरुक्तया प्रचरन्त्य् अनिरुकम् इव हि रेतो यातयामं वा एतस्य देवताश् च ब्रह्म च यद् वैश्वदेवी च बार्हस्पत्या च वशे भवतो देवतानां च ब्रह्मणश् चायातयामत्वाय दुग्धानि वा एतस्य छन्दांसि यातयामानि भवन्ति छन्दस्य् एव रसं दधाति बार्हस्पत्याम् अन्तत आलभेत ब्रह्म वै बृहस्पतिर् ब्रह्मणि वा एतद् अन्ततो यज्ञस्य यजमानः प्रतितिष्ठति यद् वै यज्ञः सन्तिष्ठते मित्रो ऽस्य स्विष्टं युवते वरुणो दुरिष्टं यन् मैत्रावरुण्य् अनूबन्ध्या भवति मित्रेण वा एतन् मित्राद् यज्ञस्य स्विष्टं मुञ्चति वरुणेन वरुणाद् दुरिष्टम् उभयत एनं मुक्त्वा यजमानाय प्रयछति यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्य् एवम् उक्थामदानि यज्ञं प्रभिन्दन्ति यथा मत्यम् अन्ववास्यत्य् एवम् एषा यज्ञस्य यद् दुष्टुतं यद् दुःशस्तं यद् विलोमं तद् एतया कल्पयति विदेवो वा ईजानः सदेवो ऽनीजान आ ह्य् अनीजाने देवताः शंसन्ते यथा वा अनद्वान् विमुक्तो ऽपक्रामत्य् एवम् ईजानाद् देवता अपक्रामन्ति यद् आग्नेय उदवसानीयो भवत्य् अग्निर् वै सर्वा देवता देवता एव पुनर् आलभते ऽष्टाकपालो भवति गायत्रो ह्य् अग्निर् गायत्रछन्दाः पञ्चकपालः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यत्र वा अदो ऽग्नौ पुरुषं प्रमीतम् आदधति तद् एनम् अभि सत्यं सर्वा एनम् अन्या देवता जहत्य् अग्निर् एनं देवतानां न जहाति
॥४.८.६॥प्र वा ऋचा ह प्रयछति यजुषा गमयति ग्रहेण स्तोत्राय वा ऋक् शस्त्राय यजुः सम्बद्धे वै स्तोत्रं च शस्त्रं च सम्बद्धे ऋक् च यजुश् चोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा ते देवा अमन्यन्तेदं यज्ञस्य शिथिरम् इति तत् पुरोरुचम् उपादधुर् अशिथिरत्वाय देवता वै सर्वा आशंसन्ते ग्रहे गृह्यमाणे मह्यं गृह्णाति मह्यं गृह्णातीति यत् पुरोरुग् देवतानां व्यावृत्त्यै ॥
जीवा नाम स्थ ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत सञ्जीवा नाम स्थ ता इमं सञ्जीवयत ॥
इति यवान् एकविंशतिं दर्भपिञ्जूलानि चावधाय परिब्रूयाद् अथाभिमन्त्रयेत ॥
प्राणापानौ त उपांश्वन्तर्यामौ पातां व्यानं त उपांशुसवनः पातु वाचं त ऐन्द्रवायवः पातु दक्षक्रतु ते मैत्रावरुणः पातु श्रोत्रं त आश्विनः पातु चक्षुषी ते शुक्रामन्थिनौ पाताम् आत्मानं त आग्रायणः पात्व् अङ्गानि त उक्थ्यः पात्व् आयुस् ते ध्रुवः पातु स्तनौ त ऋतुपात्रे पातां मूर्धानं ते द्रोणकलशः पातु कुक्षी ते कलशौ पातां पुष्टपते चक्षुषे चक्षुः स्मने स्मानं वाचे वाचं प्राणाय प्राणं पुनर् देह्य् अस्मै स्वाहा ॥
इति जुहुयाद् एतद् ध स्म वा आह वासिष्ठः सात्यहव्यः पात्रेषु वा अहं तद् ब्राह्मणं वेद यथा पुरुषः सकृदाहृतिम् आहृयते सकृत् त्व् एव कुर्यान् न ततः पुरो यत् पुनः कुर्यात् प्रमीयेत यद्य् अभिचरेद् एतद् एव यजुर् उदित्वाथाभिमन्त्रयेत ॥
पुनर् इतरथा
॥४.८.७॥पुनर् अन्यानि पात्राणि प्रयुज्यन्ते नान्यानि यानि पुनः प्रयुज्यन्ते तान्य् अस्मै लोकाय यानि न पुनः प्रयुज्यन्ते तान्य् अमुष्मै क्षयायाथैतद् उक्थ्यपात्रं पुनः प्रयुज्यत आरण्यान् वा एतत् पशून् प्रत्य् आरण्यान् एवैतेन पशून् दाधार यद् एतत् पुनः प्रयुज्यते तस्माद् एतान् पश्यतः परीत्य घ्नन्त्य् अथैतद् ऋतुपात्रं पुनः प्रयुज्यते ऽश्वं वा एतत् प्रत्य् अश्वम् एवैतेन दाधार यद् एतत् पुनः प्रयुज्यते तस्माद् एतस्याश्वस्येवाधस्ताञ् शफो ऽथैतद् आदित्यपात्रं पुनः प्रयुज्यते गां वा एतत् प्रति गाम् एवैतेन दाधार यद् भूयिष्ठाभिर् ऋग्भिर् भूयिष्ठः सोमो गृह्यते तस्माद् गौर् हन्यमानाद्यमाना पशूनां भूयिष्ठाथैतञ् शुक्रपात्रं पुनः प्रयुज्यते पुरुषं वा एतत् प्रति पुरुषम् एवैतेन दाधारासौ वा आदित्यः शुक्रो रश्मय ऋतवो ऽन्तरम् ऋतुपात्रं शुक्रपात्रं पुनः प्रयुज्यते ऽन्तरे ह्य् अमुष्माद् आदित्याद् रश्मयो ऽथैतद् उपांशुपात्रं पुनः प्रयुज्यते ऽविं वा एतत् प्रत्य् अविम् एवैतेन दाधाराथैतद् अन्तर्यामपात्रं पुनः प्रयुज्यते ऽजां वा एतत् प्रत्य् अजाम् एवैतेन दाधार प्रजापतिर् वा आग्रायणो यद् एष पुनः प्रयुज्यते तस्मात् प्रजापतिः प्रजा वेद प्रजापतेर् वा एतत् पात्रं यद् द्रोणकलशो यद् एष पुनः प्रयुज्यते तस्माद् अयं क्षयो ऽस्ति सप्त वै पात्राणि पुनः प्रयोगम् अर्हन्ति तानि हि बन्धुमन्ति सप्त छन्दांसि छन्दांसि वाग् यावत्य् एव वाक् ताम् आप्नोति सप्त छन्दांसि सप्त होत्राः सप्त ग्राम्याः पशवस् तान् एवावरुन्द्धे त्रीणि वै पात्राणि प्रत्यक्षबन्धूनि परोक्षबन्ध्व् एवान्यत् सर्वं गायत्र्य् ऐन्द्रवायवस् त्रिष्टुप् शुक्रो जगत्य् आग्रायणो ऽछिन्नं स्रावयितव्यः कामो हास्य समर्धुको भवत्य् अथो अजीमूतवर्षी पर्जन्यो भवति न चमसम् अभ्युपाकुर्याद् यच् चमसम् अभ्युपाकुर्याद् गर्भमृतः प्रजाः स्युर् येनैवाग्रे सर्पन्ति तेन पुनः सर्पेयुर् यद् अन्येन सर्पेयुर् गर्भा वेष्टुकाः स्युर् यूपेन वा आहुतयः स्वर्गं लोकं यन्त्य् अध्वर्युणा दक्षिणा ऊर्ध्वो यूपो मीयत ऊर्ध्वस् तिष्ठन् प्रतिगृणाति स्वर्गस्य लोकस्य समष्ट्यै
॥४.८.८॥यो ज्येष्ठबन्धुः स्यात् स ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीताग्रं ह्य् ऐन्द्रवायवो य आमयावी स मैत्रावरुणाग्रान् प्राणापाणौ हि मित्रावरुणौ यः पश्चात् सोमपीथः स आश्विनाग्रान् पश्चेव ह्य् एतौ सोमपीथम् आश्नुवातां यो ब्रह्मवर्चसकामः स शुक्राग्रांस् तेजो वै शुक्रो ब्रह्मवर्चसं यो ऽभिचरेत् स मन्थ्यग्रान् आर्तं वा एतत् पात्रं यन् मन्थिपात्रं य आनुजावरः स आग्रायणाग्रान् अग्रं ह्य् आग्रायण एति वा एष यज्ञमुखाद् य ऐन्द्रवायवाग्रेभ्यो ग्रहेभ्यो ऽन्याग्रान् ग्रहान् गृह्णीते धारयेयुस् तं यं कामाय गृह्णीयाद् अथैन्द्रवायवं सादयेद् यथापूर्वं वा एतत् क्रियते न यज्ञमुखाद् एति यद्य् आग्रायणः स्कन्देद् उप वा दस्येद् इतरेभ्यो ग्रहेभ्यो निर्गृह्णीयाद् यथा पिता पुत्रान् क्षित उपधावत्य् एवं तत् यदीतरे ग्रहाः स्कन्देयुर् उप वा दस्येयुर् आग्रायणान् निर्गृह्णीयाद् यथा पुत्राः पितरं क्षित उपधावन्त्य् एवं तत् द्रोणकलशान् निर्गृह्यन्त एष वा एतेषां योनिः स्वाद् एव योनेर् निर्गृह्यन्ते ऽस्कन्नत्वाय सोमः स्कन्त्स्यति तम् इतो ग्रहीष्यामीति तस्य वा एष परिशये यदा वा एतम् अवनयत्य् अथैष उभयतःशुक्रो ऽथो सर्वतःशुक्रः पशुभिर् वा एष व्यृध्यते यस्य सोमः स्कन्दति व्य् अस्य यज्ञश् छिद्यते पशवो वै पृषदाज्यं यत् पृषदाज्यं जुहोति पशुभिर् एवैनं सम्यञ्चं दधाति मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधात्व् इति यज्ञम् एव सन्दधाति ॥
क्रियते : फ़्न् बेन्। एद्।: क्रियते
एति : फ़्न् एमेन्देद्। एद्।: एति
वर्धतां भूतिर् दध्ना घृतेन मुञ्चतु यज्ञं यज्ञपतिम् अंहसः ॥ स्वाहा ॥
इति जुहुयाद् इयं वा एतद् यज्ञस्य गृह्णाति यद् आर्छतीयं भूतिर् अस्या एवैनद् अधि मुञ्चति द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनत् प्रतिष्ठापयति त्रयस्त्रिंशद् अपो ऽन्वतिषिञ्चत्य् आपो हि यज्ञो यज्ञं वा एतस्य विमथ्नते यस्य पशुं विमथ्नते व्य् अस्य यज्ञश् छिद्यते यद् अवदानं न विन्देत् तद् आज्यस्यावद्येत् सर्वा वा अन्या देवता यातयाम्नीः प्रजापतिर् एवायातयामा प्राजापत्यम् आज्यं प्राजापत्या देवाः प्रजापतिहुतम् एवास्य भवति यदि कामयेत ये पशुं व्यमथिषत त आर्तिम् आर्छेयुर् इति कुविद् अङ्ग यवमन्तो यवं चिद् इति नमौक्तिमत्य ऋचाग्नीध्रे जुहुयान् नमौक्तीर् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्त्य् अथैषाष्टापदी यद् गर्भस्यावद्येद् अवदानान्य् अतिरेचयेद् यन् नावद्येत् प्रोक्षितस्य हविषो नावद्येद् रसेन जुहोत्य् अव प्रोक्षितस्य हविषो द्यति नावदानान्य् अतिरेचयति
॥४.८.९॥यथा वै शालैवं संवत्सरस् तस्य यथा पक्षसी एवं पक्षसी यथा मध्यमो वम्श एवं दिवाकीर्त्यं यथा वा इदं शालायाः पक्षसी मध्यमं वंशम् अभिसमागछन्त्य् एवं वा एतत् संवत्सरस्य पक्षसी दिवाकीर्त्यम् अभिसन्तनोति यथा मध्यमो वम्श एवं दिवाकीर्त्यं यद् एष शिथिरः स्याद् अवशीर्येत यद् एतस्मिन्न् अहन्य् एते ग्रहा गृह्यन्ते ऽह्नो द्रढिम्ने ऽशिथिरत्वाय शुक्राग्रा एतद् अहर् ग्रहा भवन्ति त्रैष्टुभो वै शुक्रस् त्रैष्टुभम् एतद् अहः प्रत्युत्तब्ध्यै सयत्त्वाय सौर्यो ग्रहो गृह्यते सौर्यः पशुर् आलभ्यते ऽसा आदित्य एतद् अहस् तं साक्षाद् ऋध्नोति षड् ग्रहा गृह्यन्ते पशुः सप्तम आलभ्यते सप्त वै शीर्षन् प्राणा असा आदित्यः शिरः शीर्षन् वा एतत् प्राणान् दधातीन्द्रो वै वृत्रम् अहन् स इमं लोकम् अभ्यजयद् अमुं तु लोकं नाभ्यजयत् तं विश्वकर्मा भूत्वाभ्यजयद् यद् वैश्वकर्मणो ग्रहो गृह्यते ऽमुष्य लोकस्याभिजित्यै यन्ति वा एते ऽस्माल् लोकाद् ये वैश्वकर्मणं ग्रहं गृह्णते पराञ्चो हि यन्तीश्वराः प्रमेतोः श्वो भूत आदित्यं गृह्णीरन्न् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् अव प्रतितिष्ठन्ति तयोर् अन्यमन्यम् आ परार्धात् पक्षसो गृह्णीरन् विश्वम् अन्येन कर्म कुर्वाणा यन्तीयं वा अदितिर् अस्याम् अन्येन प्रतितिष्ठन्ति ता उभौ सहार्के गृह्णीरन्न् अन्तं गत्वान्तम् एव गत्वोभयोर् लोकयोः प्रतितिष्ठन्त्य् आदित्येनास्मिंल् लोके वैश्वकर्मणेनामुष्मिन्
॥४.८.१०॥