चतुर्थकाण्डे सप्तमः प्रपाठकः
चतुर्थकाण्डे सप्तमः प्रपाठकः
गायत्रो वै देवानां सविता गायत्र्या एष लोके सोमो गृह्यते यद् आग्रयणस् तस्माद् आग्रायणात् सावित्रो निर्गृह्यते सो ऽद आ तृतीयात् सवनात् परिशये क्रियमाणस्यक्रियमाणस्य प्रसवायान्तरिक्षं वा अन्तर्यामो ऽन्तरिक्षम् इमाः प्रजा यद् अन्तर्यामपात्रेण सावित्रं गृह्णाति सविता वा एतत् प्रजाः प्रसुवति प्रजननायासन्नो हूयते ऽसन्ना हीमाः प्रजा नेलयन्ति नानुयजति यद् अनुयजेत् सृष्टिं प्रजानां विछिन्द्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति देवा वै तृतीयसवनम् उद्यमं नाशक्नुवन् प्रातःसवने तर्हि सवितासीत् तं देवास् तृतीयसवनम् अभिपर्यौहंस् तेन तृतीयसवनम् उदयछन्त यत् सावित्रस् तृतीयसवने गृह्यते सवितृप्रसूता वा एतत् तृतीयं सवनम् उद्यछन्ते सावित्रस्य संस्रवे वैश्वदेवम् अभिगृह्णाति वैश्वदेवीर् इमाः प्रजाः सवितृप्रसूताः खलु वै प्रजाः प्रजायन्ते मनो वै सविता वैश्वदेवीर् इमाः प्रजाः सर्वासु वा एतत् प्रजासु मनो दधात्य् आशीर्मतः सवनस्य गृह्णाति वैश्वदेवत्वाय सुशर्मासि सुप्रतिष्ठान इति यत् स्वित् सोमः सोमे प्रतितिष्ठति बृहदुक्षे नमा इति यद् बृहद् इति तेन देवेभ्यो यन् नमा इति तेन पितृभ्य उक्थभाजो वै पितरो ऽस्तोमभाज उक्थायैष गृह्यते न स्तोत्राय यत्र गृह्यते तञ् शस्यते स्व आयतत्ने
॥४.७.१॥परिशये : फ़्न् एमेन्देद्। एद्।: परिशयेत्
उक्थायैष : फ़्न् एमेन्देद्। एद्।: उकायैष
घृतस्य यजत्य् एष वै प्रथमो धिष्ण्यानां यद् आहवनीयस् तं वा एतद् अग्रे व्याघारयत्य् आग्नावैष्णव्या व्याघारयति पराङ् वा एतर्हि यज्ञो ऽग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यत् सौम्यः सोमं वा एतत् सम्भावयन्ति सोमम् आपाययन्त्य् अवधिषुर् वा एतत् सोमं यद् अभ्यसुषुवुर् अनुस्तरणी वा एषा सोमस्य यत् सौम्यः पित्πणाम् अनुस्तरणी तस्मात् पितृमत्या यजति दक्षिणा तिष्ठन् जुहोति दक्षिणा हि पित्πणाम् उपसदां वा एते ऽनुयाजा आग्नावैष्णव्या घृतस्य यजति सौम्या सोमस्य या एवाद उपसत्सु देवता अयाक्षीत् ता एतद् अमुत्र वा एष भूताय क्रियते यद् वा एतस्य व्यार्धि यत् प्रामायि तद् अस्यामुं लोकं गछत्य् अथ पूत एवोञ्शिष्यते पवित्रं वै सौम्यो यजमानम् एवैतेन पुनाति सामदेवत्यो वै सोमः सोमस्य खलु वै सौम्यः साम्ने वा एतद् ध्रियते ॥
सत्रा त एतद् यद् उ त इह ॥ इति परिपश्यति यो ऽगतासुः स परिपश्यति यो गतासुर् न स परिपश्यति यदि न परिपश्येद् अथ वदेत् ॥
यन् मे मनो यमं गतं यद् वा मे अपरागतम् ।
राज्ञा सोमेन तद् वयम् अस्मासु धारयामसि ॥
हृदिस्पृक् क्रतुस्पृग् वर्चोधा असि वर्चो मे धेहि ॥ इति आशिषम् एवाशास्ते
॥४.७.२॥अथैते ऽतिग्राह्या देवा वै सोमम् अगृह्णताथ वा एतान् इन्द्रो ऽगृह्णीत सो ऽवेन् न वा अहम् इमान् ऋते ब्रह्मणः सविष्यामीति स ब्रह्मोपाधावत् तान् ब्रह्मणासघ्नोद् ब्रह्म वै गायत्री तस्माद् गायत्रीभिर् गृह्यन्ते यद् एवादः परम् अन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ये वा अमी वैराजस्य स्तोभा अतिरिक्तास् तैर् एते सामन्वन्तः सर्वे वा एत ऐन्द्रा य ऐन्द्र ऐन्द्रः सो ऽसा आदित्य इन्द्रः समानम् अग्निश् चासौ चादित्यो विराजो वै तेज आग्नेयः शक्वरीणाम् ऐन्द्रो रेवतीनां सौर्यो यत्र पृष्ठानि युज्येरंस् तद् एतान् जुहुयात् साम्नां सतेजस्त्वाय सं वा एतद् यज्ञः पश्चात् स्तोत्रेण च शस्त्रेण चाधीयते यद् अतिग्राह्याः प्रत्युत्तब्ध्यै चक्रियौ वा एते यज्ञस्य यत् पृष्ठान्य् उपस्तम्भनम् अतिग्राह्यास् तस्मात् प्रातःसवने गृह्याः प्रत्युत्तब्ध्यै यद् आग्नेयस् तेजस् तेनावरुन्द्धे यद् ऐन्द्र इन्द्रियं तेन यत् सौर्यो रुचं तेन त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति तेजो वा अग्निर् इन्द्रियम् इन्द्रो ब्रह्मवर्चसम् असा आदित्यस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥
अग्नेश् च त्वा ब्रह्मणश् च तेजसा जुहोमि तेजोदां तेजो मा मा हासीन् माहं तेजो हासिषं स्वाहेन्द्रस्य च त्वा क्षत्रस्य चौजसा जुहोम्य् ओजोदाम् ओजो मा मा हासीन् माहम् ओजो हासिषं स्वाहा सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमि वर्चोदां वर्चो मा मा हासीन् माहं वर्चो हासिषं स्वाहाग्न आयुःकारायुष्मांस् त्वं तेजस्वान् देवेष्व् एध्य् आयुष्मन्तं मां तेजस्वन्तं मनुष्येषु कुर्व् इन्द्रौजस्कारौजस्वांस् त्वं सहस्वान् देवेष्व् एध्य् ओजस्वन्तं मां सहस्वन्तं मनुष्येषु कुरु सूर्य भ्राजस्कार भ्राजस्वांस् त्वं वर्चस्वान् देवेष्व् एधि भ्राजस्वन्तं मां वर्चस्वन्तं मनुष्येषु कुरु ॥
एते होमा भक्षङ्कारश् च भवन्त्य् एतेषां वै वीर्येण बम्बविश्ववयसा इमांल् लोकान् अर्वाचश् च पराचश् च प्राजानीतां सं ह वा अस्मा इमे लोका अर्वाञ्चश् च पराञ्चश् च भान्ति य एवं वेद सुप्रज्ञाना वा इत इत्थं लोका अमुतस् त्वा अर्वाञ्चो दुःप्रज्ञाना एष ह त्व् एवामुतो ऽर्वाच इमांल् लोकान् प्रजानान्ति यस्यैते हूयन्ते
॥४.७.३॥उपांशुपात्रेण पात्नीवतं गृह्णाति प्राणो वा उपांशुः प्राणेन वा एतत् प्रयन्ति प्राणेनोद्यन्त्य् अथो प्राणानां प्रतिप्रज्ञात्यय् अथो यत् प्रथमं पात्रं युज्यते तद् उत्तमं विमुच्यते प्राणानां गोपीथाय होता वा अद्य प्रातर् उपांशुम् अयजद् यद् एतं होता वषट्कुर्याद् यत् पुरो ऽकस् तत् पश्चात् परिहरेत् प्रमायुकः स्यात् तस्माद् एतम् अग्नीद् वषट्करोति पुरो ह्य् अग्नीत् प्राणो वा उपांशुः प्राणाद् अधि प्रजाः प्रजायन्ते यद् उपांशुपात्रेण पात्नीवतं गृह्णाति प्रजननायासन्नो हूयते ऽसन्ना हि प्रजाः प्रजायन्ते नानुयजति यद् अनुयजेत् प्रजननम् अपिहन्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति मिथुनं वै घृतं च सोमश् च यत् पात्नीवतं घृतेन श्रीणाति मिथुनत्वाय बृहस्पतिसुतस्य ता इति ब्रह्म वै बृहस्पतिर् ब्रह्मणो वै योनेः प्रजापतिः प्रजा असृजत ब्रह्मणो वा एतद् योनेर् यजमानः प्रजायत इन्द इन्द्रियावता इतीन्द्रियं हि गर्भो ऽग्ना३इ पत्नीवा३न् इति मिथुनं वा अग्नीच् च पत्नीश् च सजूस् त्वष्ट्रा सोमं पिबेति त्वष्टा हि रूपाणि विकरोति घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् पात्नीवतं घृतेन श्रीणातीन्द्रियेण वा एतत् पत्नी व्यर्धयति तस्मान् निरिन्द्रिया स्त्री पुमान् इन्द्रियवांस् तस्मात् पुमांसः सभां यन्ति न स्त्रियो यद् इतरान्त् सोमाञ् श्रीणीयुर् न पात्नीवतं स्त्रियः सभाम् ईयुर् न पुमाम्स इन्द्रो वै वृत्रम् अहंस् तस्य यन् मूर्धानम् उदरुजत् स द्रोणकलशो ऽभवत् ततो यः सोमः समस्रवत् स हारियोजनस् तस्माद् एतं द्रोणकलशेन जुहोति योनिर् ह्य् अस्यैष इन्द्रो वृत्रं हत्वा तस्य यत् क्लोम्नो हृदयात् सोमं समसिञ्चत् स हारियोजनो ऽभवत् स इन्द्रो ऽमन्यत यद् इमम् असुर्यं सोमं होष्यामि तद् अन्व् असुरा आभविष्यन्ति यन् न होष्यामि तद् अन्व् आभविष्यन्तीति तं संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति तत् स्विद् उभयम् अकर् जुहोत्य् अह संस्थिते जुहोत्य् अतिरिक्तो वा एष ऋत्विजां य उन्नेता तस्माद् एतं न वृणते न वषट्करोत्य् अत्य् एष सोमो ऽरेचि स वा उन्नेतारम् एवाभ्यतिरिच्यते ऽध्वर्युर् वै पूर्वान्त् सोमान् जुहोति यद् एतम् अध्वर्युर् जुहुयाद् आहुतीः संसृजेत् समदं कुर्यात् तस्माद् एतम् उन्नेता जुहोति प्रजापतिर् वा एतम् अमन्यत सोमं होष्यंस् तम् अग्निर् अब्रवीन् न मयि त्वम् एतम् असुर्यं सोमं होष्यस्य् अशृतम् अद्वतीयं द्वितीयम् अस्त्व् इति यद् धानाभिः श्रीणाति शृतत्वायाथो द्वितीयत्वायाथैता धाना यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे प्रजापतिर् वा आग्रायणो यद् एषो ऽतिरिच्यते तस्माद् अयम् अतिरिक्तो ऽपरिमित इमाः प्रजा अभिपवत ऋक्सामे वा इन्द्रस्य हरी तयोः परिधय आधानं निराधानाय खलु वा अश्वाय घासम् अपिदधाति यत् संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति निराधानाभ्याम् एवाभ्यां घासम् अपिदधाति पशवो वै धाना यत् सङ्खादेत् पशून् हिंस्याद् यन् न सङ्खादेद् अयताः स्युः सन्दृश्य रय्यै त्वा पोषाय त्वेत्य् उपवपति तत् स्विद् उभयम् अकः पशूनां यत्यै भुञ्जन्त एनं पशवा उपतिष्ठन्ते
॥४.७.४॥आभविष्यन्तीति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
एवाभ्यतिरिच्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
दुदुह्रे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
यज्ञेन वै देवाः स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति ते छन्दांस्य् अपश्यंस् तानि व्यत्यषजन् स्वर्गस्य लोकस्याननुक्शात्यै यच् छन्दांसि व्यतिषजति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य मोहयति स्वर्गस्य लोकस्याननुक्शात्यै देवेषु वा अन्यानि छन्दांस्य् आसन्न् असुरेष्व् अन्यानि कनीयांसि देवेष्व् आसन् ज्यायांस्य् असुरेषु ते देवाः कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांस्य् असुराणाम् अवृञ्जत यत् कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांसि विशंसति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य वृङ्क्ते लोकम् एनम् अछन्दस्कम् अकर् अनुष्टुभं सर्वाणि छन्दांस्य् अभिसंशंसति वाग् वा अनुष्टुब् आनुष्टुभः पुरुषस् तस्मात् पुरुषः सर्वा वाचो वदति पशवो वै छन्दांसि वाग् अनुष्टुब् आनुष्टुभः पुरुषो यत् सर्वाणि छन्दांसि संशस्यानुष्टुभम् उत्तमां शंसति तस्मात् पुरुष उपरिष्टाद् अवाचः पशून् अत्ति सर्वाणि छन्दांसि संशंसति पजापतिर् वै छन्दांसि प्रजापतिम् एवाप्नोति षड् अक्षराणि स्तोत्राद् अतिरिच्यन्ते षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति ततश् चत्वारि शस्त्रं पुनर् उपावर्तन्ते चतुष्पदस् तेन पशून् अवरुन्द्धे ऽथ द्वे एवातिरिच्येते द्वे विराजम् अति सत्यं चानृतं च विराजम् एवाप्नोति
॥४.७.५॥सर्वाणि : फ़्न् एमेन्देद्। एद्।: सर्वाणि।
प्रजापतिर् वै देवेभ्यो यज्ञान् व्यकल्पयत् सो ऽमन्यतात्मानम् अन्तर् अगाम् इति तेषां वा इन्द्रियाणि वीर्याणि पुनः समबृहत् स षोडश्य् अभवद् अथ वै तर्हीन्द्रो देवानाम् आसीद् अवमतमः शिथिरतमस् तस्मै वा एतं षोडशिनं प्रायछत् तेनेन्द्रो ऽभवत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतं षोडशिनं गृह्णीते भवत्य् आत्मना परास्य भ्रातृव्यो भवति प्रजापतिर् वै देवेभ्यस् तनूर् व्यकल्पयत् तासां या हरिवत्य् आसीत् ताम् आत्मन्न् अशिंषत् प्रेणा यद् धरिवती पुरोरुग् ग्रहस्य भवति यैवास्य हरिवती प्रिया तनूस् ताम् आप्नोति न षोडसी नाम यज्ञो ऽस्तीत्य् आहुर् अथ कस्मात् षोडशीति यत् स्तोत्रेण च शस्त्रेण च सम्पद्यते तस्मात् षोडशी यज्ञेन वै देवाः स्वर्गं लोकम् आयन् स एषां न प्राभवत् तस्मिन् वा एतं षोडशिनं प्रत्यग्रथ्नंस् तेनामुं लोकं व्याप्नुवंस् तद् अमुष्य वाव लोकस्य व्याप्त्यै षोडशी गृह्यते ऽमुष्य लोकस्य समष्ट्यय् अग्निष्टोमे राजन्यस्य गृह्णीयाद् अशान्त एनं वज्रो भूत्या इन्द्धे ऽतिरात्रे ब्राह्मणस्य वज्रो वै षोडशीश्वरो ऽशान्तो यजमानं हिंसितो रात्रिर् एव वज्रं शमयति प्रातःसवने गृह्यस् तेजो वै प्रातःसवनं तेजस एव वज्रं निर्मिमीते माध्यन्दिने सवने गृह्य ओजो वै माध्यन्दिनं सवनम् ओजस एव वज्रं निर्मिमीते तृतीयसवने गृह्यः पशवो वै तृतीयसवनं पशुभ्य एव वज्रं निर्मिमीते यत् प्रातःसवने गृह्णीयाद् वज्रा उत्तरे सवने अभ्यतिरिच्येत यन् माध्यन्दिने सवने मध्यतो वज्रो निहन्यात् तृतीयसवने गृह्यस् तत् सर्वेषु सवनेषु गृह्णाति न पूर्वे सवने आर्तिं नीतः पञ्चदशः कार्यो वज्रो वै पञ्चदशो वज्रम् एवास्मा आधात् तेन विजितिं भूतिं गछति षोडशी कार्यो यजमानो वै पञ्चदसो वज्रः षोडसी वज्रम् एवास्मा आधात् स एनं भूत्यै श्रेम्ण इन्द्धे सप्तदशः कार्यः प्रजापतिर् वै सप्तदशः प्राजापत्यः षोडशी स्व एवैनं योनौ दधात्य् एकविंशः कार्य एकविंशतिधाम्नी वा अनुष्टुब् आनुष्टुभः षोडश्य् एतद् वा अस्यायतनतमं तस्माद् एकविंशः कार्यो मध्यमे ऽहंस् त्रिरात्रस्य गृह्यो मध्यमं वा अहस् त्रिरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थे ऽहंश् चतूरात्रस्य गृह्यश् चतुर्थं वा अहश् चतूरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थेचतुर्थे ऽहन्न् अहीनस्य गृह्यश् चतुर्थञ्चतुर्थं वा अहर् अहीनस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय न द्विरात्रे ऽवकल्पते द्वे वा एते छन्दसी गायत्रं च त्रैष्टुभं चाछन्दस्कम् अनायतनं गृह्णीते ऽनायतनो यजमानो भवत्य् उत्तरे ऽहन् द्विरात्रस्य गृह्यो रात्रिम् एवायतनम् अभ्यतिरिच्यते
॥४.७.६॥अभ्यतिरिच्येत : फ़्न् एमेन्देद्। एद्।: अभ्यतिरिच्यते
अथैषो ऽदाभ्यो देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतम् अपश्यंस् तम् अगृह्णत तान् असुरा नादभ्नुवंस् तद् अदाभ्यस्यादाभ्यत्वं नैनं भ्रातृव्यो दभ्नोति य एतं गृह्णीते घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्त्य् एषा वै सोमस्यातिमोक्षिणी तनूर् यान् एतान् अंशून् प्रवृहन्त्य् एवं वा एतं लोकं यजमानो ऽन्वतिमुच्यते वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठन्ते यद् एतान् अंशून् पुनर् अप्यस्यति यज्ञस्य सन्तत्या अविछेदाय वृष्ट्यै वा एष गृह्यते मरुन्नामानि हि वर्षति पर्जन्यो यत्रैष गृह्यते ऽग्निः प्रातःसवनात् पात्व् अस्मान् इति सवनानि वा एतेन देवा असुराणाम् अवृञ्जत सवनान्य् एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते ऽग्नये त्वा प्रवृहामि गायत्रेण छन्दसेति छन्दांसि च वा एतेन देवताश् च देवा असुराणाम् अवृञ्जत छन्दांसि चैवैतेन देवताश् च यजमानो भ्रातृव्यस्य वृङ्क्ते चतुर् आधूनोति दिशो वा एतेन देवा असुराणाम् अवृञ्जत दिश एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते जीवग्रहो वा एष सोमस्याहुतस्य ह्य् अनभिषुतस्य गृह्यते यजुषा च वा आहुत्या च यज्ञः सन्ततो यद् यजुर् वदन्न् आहुतिं जुहोति यजुषा चैवाहुत्या च यज्ञं सन्तनोति देवा वै सोमम् अगृह्णत स प्रजापतिर् अवेद् यो वा इह प्रथमः सोमं ग्रहीष्यते स इदं भविष्यतीति स एतम् अगृह्णीत सो ऽभवद् यो भूतिकामः स्यात् स एतं गृह्णीते भवति यदि शक्नोति ग्रहीतुम् उभौ भवतो यदि न शक्नोति ग्रहीतुम् उभौ न भवतः पराचीनेन प्राणता ग्रहीतव्यः पराङ् हि स प्राणैः श्रियो ऽन्तम् अगछद् अपानता ग्रहीतव्यो ऽपानं हि स तम् अगृह्णीत प्राण्यापान्याव्यवानता ग्रहीतव्यो ऽव्यवानं हि स तम् अगृह्णीत यद् व्यवानेत् प्राणान् विछिन्द्याद् यदि व्यवानेद् धिरण्येनापिदध्याद् अमृतं वै हिरण्यम् अमृतेनैव प्राणान्त् सन्दधाति सकृद् अभिषुणोति सकृद् गृह्णात्य् एको वै प्रजापतिः प्रजापतिम् एवाप्नोति चतुःस्रक्तिना ग्रहीतव्यश् चतुःस्रक्तिना वा एतं प्रजापतिर् अगृह्णीत स सर्वासु दिक्ष्व् आर्ध्नोत् स सर्वासु दिक्ष्व् ऋध्नोति य एवं विद्वान् एतं चतुःस्रक्तिना गृह्णीते ऽपो वै सोमस्य रसः प्रविष्टः सोमम् अपां रसो यथा वा इदं गावौ सञ्जग्माने अन्यान्यां हत एवं वा एतौ सञ्जग्माना अन्यो ऽन्यस्येन्द्रियं वीर्यं विनिर्हतस् तयोर् वा एष रसो यद् दधि यद् दध्ना जुहोति स्वेनैवैनौ रसेन शमयति
॥४.७.७॥कृष्णशीर्षाग्नेयो मेषी सारस्वती बभ्रुः सौम्यः श्यामः पौष्णः शितिपृष्ठो बार्हस्पत्यः पिशङ्गो वैश्वदेवो वृष्णिर् ऐन्द्रः कल्माषो मारुतः संहित ऐन्द्राग्नो ऽधोरामः सावित्रः पेत्वो वारुणः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एताम् एकादशिनीम् अपश्यत् तयात्मानम् आप्रीणीत यज्ञो वै प्रजापतिस् तद् य एवं विद्वान् एताम् एकादशिनीं विबध्नीते यद् एवास्यात्मन ऊनं तद् आप्रीणीते प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एतानीन्द्रियाणि वीर्याण्य् अपश्यत् तानि द्वन्द्वम् आत्मानम् अभिसमबध्नीतात्माग्नेयो वाक् सरस्वतीन्द्रियं सोमो वाचं चैवेन्द्रियं चात्मानम् अभिसमबध्नीत पुष्टिः पौष्णो ब्रह्म बृहस्पतिः पुष्टिं चैव ब्रह्म चात्मानम् अभिसमबध्नीत बलं विश्वे देवा वीर्यम् इन्द्रो बलं चैव वीर्यं चात्मानम् अभिसमबध्नीतौजो मरुतः सह इन्द्राग्नी ओजश् चैव सहसश् चात्मानम् अभिसमबध्नीत प्रसवाय सावित्रो निर्वरुणत्वाय वारुण आग्नेयाय सर्वा उपबध्यन्ते ऽग्निर् वै सर्वा देवताः सर्वाभ्य एव देवताभ्य उपबध्यन्ते मिथुनत्वायैव सारस्वत्य् अथ यत् सौम्यः सोमो वै रेतोधा रेतो ऽस्मिन् दधात्य् अथ यत् पौष्णः प्रजननं वै पूषा प्रजननाय ब्रह्म बृहस्पतिर् वैश्वदेवीर् इमाः प्रजा ब्रह्म वा एतत् पुरस्ताद् आसां प्रजानाम् अत्यौहीद् अथो ब्रह्मण एवेमाः प्रजा अनुकाः करोति विण् मरुतो विशं वा एतत् क्षत्राय नियुनक्त्य् अथो विशम् एव क्षत्रायानुकां करोत्य् ओजसा वा एतद् विशं क्षत्राय परिगृह्णात्य् आलब्ध आग्नेय आलब्ध ऐन्द्रो ऽथैष ऐन्द्राग्न आलभ्यते ब्रह्म चैव क्षत्रं च सयुजा अकर् यद् अग्निश् चेन्द्रश् च भूयिष्ठभाजौ देवतानां तस्माद् ब्राह्मणश् च राजा च भूयिष्ठभाजौ मनुष्याणां प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः समुद्रो वै वरुणो दक्षिणा समुद्रो यद् वारुणो दक्षिणार्ध आलभ्यते यजमानस्य निर्वरुणत्वायैतद् वा एषाभ्यनूक्ता ॥
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥
इति
॥४.७.८॥ये देवानां बलपतयस् तेभ्यो दक्षिणार्ध आलभ्यन्ते तस्मात् प्रजा दक्षिणाभिजयन्तीर् यन्ति यद् आग्नेयः सौम्यो बार्हस्पत्यस् ते सार्धम् आलभ्यन्त ओज एवैतत् सन्धीयते यद् आग्नेयश् च बार्हस्पत्यश् च सौम्यम् अभितस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णात्य् एकादश वा एतेषां पशूनां देवता मेषी सारस्वती देवतानां द्वादशी यद् एषातिरिच्यते तस्मात् स्त्रियः पुंसो ऽतिरिच्यन्ते ऽथ द्वे एकस्य रशने द्वे एकस्य तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम् अथ स्त्रिय एवातिरिच्यन्ते यं वा अमुम् इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधाभवद् यद् अग्रं तेजा आसीत् स स्फ्यो ऽभवद् यन् मध्यं स रथो यज्जघनं स यूपः स्फ्येन परिलिखति रथाक्षेण विमिमीते यूपो भवति वज्र एवैष सम्भ्रियत एतावती वा इयं पृथिवी यावती वेदिर् वज्र एकादशिनी तिरश्चीं मिनोति वज्रेण वा एतद् इमां जयति दक्षिणत उन्नता मेतव्या देवयजनस्य रूपम् अथो वज्रं वा एतद् यजमानो भ्रातृव्यायोञ्श्रयति त्रयो मध्यतः समा मेतव्याः समत्वाय समं हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति यं कामयेत पितृलोक ऋध्नुयाद् इति तस्योपरसम्मितां मिनुयात् पितृलोक एव ऋध्नोत्य् अथ यं कामयेत मनुष्यलोक ऋध्नुयाद् इति तस्य मध्यसम्मितां मिनुयान् मनुष्यलोक एव ऋध्नोत्य् अथ यं कामयेत देवलोक ऋध्नुयाद् इति तस्य चषालसम्मितां मिनुयाद् देवलोक एव ऋध्नोति तासां वा एषा समृद्धतमा या चषालसम्मिता तस्माच् चषालसम्मिता मेतव्या समृद्धत्वाय यस्य पश्चाद् उपस्थः पुरस्तान् निर्णतं तं मिनुयाद् यं कामयेत भ्रातृव्याय लोकं कुर्याद् यजमानं निर्बाधेतेति भ्रातृव्यायैव लोकं करोति यजमानं निर्बाधते ऽथ यस्य पुरस्ताद् उपस्थः पश्चान् निर्णतं तं मिनुयाद् यं कामयेत यजमानाय लोकं कुर्याद् भ्रातृव्यं निर्बाधेतेति यजमानायैव लोकं करोति भ्रातृव्यं निर्बाधते सर्वे ऽग्निष्ठाः कार्या या अग्निष्ठा अश्रयस् ता अग्निष्ठाः कार्यास् तेन सर्वे ऽग्निष्ठा अथ यद् अग्निष्ठाद् अधि रशना विह्रियन्ते तेन सर्वे ऽग्निष्ठा नाना वा एतेषां पशवो नाना देवता अथ य एष द्वादशो यजमान एवैतस्य पशुर् यद् अस्मै पशुं न निर्दिशेत् तत् प्रमायुको यजमानः स्याद् यं द्विष्यात् तं ब्रूयात् ॥
एवातिरिच्यन्ते : फ़्न् एमेन्देद्। एद्।: एवातिरच्यन्ते
असौ ते पशुः ॥ इति तम् एवास्मै पशुं निर्दिशति प्रमायुको भवति यद्य् अभिचरेत् ॥
इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् इन्द्रवज्रेणाभिनिदधामि ॥ इत्य् अभिनिदध्याद् इन्द्रवज्रेणैवैनम् अभिनिदधाति प्रमायुको भवत्य् अथो द्वादशस्यैवैष मासो ऽवरुद्ध्यै
॥४.७.९॥