skipLink.label

सर्प सूक्तम्

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।
ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥

ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । ते नः॑ स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑ सं॒चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् । तेभ्यः॑ स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ।

नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒त्स॒रो वि॑षू॒वर्णैः᳚ ।
नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् ॥