सम्प्रदायतः श्रीशङ्करकृता
ॐ पञ्चीकृतम्पञ्चमहाभूतानि तत्कार्यं च सर्वं विराडित्युच्यते । एतत्स्थुलशरिरमात्मनः । ईन्द्रियैरर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एतत् त्रयमकारः ॥
॥१॥अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्रणि तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि मनोबुद्धिश्चेति सप्तदशकं लिङ्कम् भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरिरमात्मनः ॥
॥२॥करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्न इत्युच्यते । यदुभयाभिमान्यात्मा तैजसः । एतत् त्रयमुकारः ॥
॥३॥शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत् कारणशरीरमात्मनः । तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं नापि भिन्नाभिन्नं कुतश्चित् न निरवयवं न सावयवं नोभयं किन्तु केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ॥
॥४॥सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनाऽवस्थानं सुषुप्तिः । तदुभयामिमान्यात्मा प्राज्ञः । एतत् त्रयम् मकारः ॥
॥५॥अकार उकारे उकारो मकारे मकार ओङ्कारे ओङ्कारोऽहम्येव । अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः नाज्ञानं नापि तत्कार्यं किन्तु नित्यशुद्धबुद्धमुक्तसत्यस्भावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मै वाहमस्मीत्यभेदेनावस्थानं समाधिः ॥
॥६॥तत्त्वमसि ब्रह्महमस्मि प्रज्ञानमानन्दं ब्रह्म अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ॥
॥७॥इति पञ्चीकरणं भवति ॥
इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम्