मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवमोऽध्यायः

3
मनुस्मृतिः · 9

पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः

संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान्

॥१॥

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्

विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे

॥२॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने

रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति

॥३॥

कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः

मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता

॥४॥

सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः

द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः

॥५॥

इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम्

यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि

॥६॥

स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च

स्वं च धर्मं प्रयत्नेन जायां रक्षन्हि रक्षति

॥७॥

पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते

जायायास्तद्धि जायात्वं यदस्यां जायते पुनः

॥८॥

यादृशं भजते हि स्त्री सुतं सूते तथाविधम्

तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः

॥९॥

न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्

एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम्

॥१०॥

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्

शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे

॥११॥

अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः

आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः

॥१२॥

पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्

स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट्

॥१३॥

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः

सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते

॥१४॥

पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः

रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते

॥१५॥

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम्

परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति

॥१६॥

शय्यासनमलङ्कारं कामं क्रोधमनार्जवम्

द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत्

॥१७॥

नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः

निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्योऽनृतमिति स्थितिः

॥१८॥

तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि

स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः

॥१९॥

यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता

तन्मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम्

॥२०॥

ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा

तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते

॥२१॥

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि

तादृग्गुणा सा भवति समुद्रेणेव निम्नगा

॥२२॥

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा

शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम्

॥२३॥

एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः

उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः

॥२४॥

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा

प्रेत्येह च सुखोदर्कान्प्रजाधर्मान्निबोधत

॥२५॥

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः

स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन

॥२६॥

उत्पादनमपत्यस्य जातस्य परिपालनम्

प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम्

॥२७॥

अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा

दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह

॥२८॥

पतिं या नाभिचरति मनोवाग्देहसंयता

सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते

॥२९॥

व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्

सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते

॥३०॥

पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः

विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत

॥३१॥

भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि

आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः

॥३२॥

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्

क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम्

॥३३॥

विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित्

उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते

॥३४॥

बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते

सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता

॥३५॥

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते

तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः

॥३६॥

इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते

न च योनिगुणान्कांश्चिद्बीजं पुष्यति पुष्टिषु

॥३७॥

भूमावप्येककेदारे कालोप्तानि कृषीवलैः

नानारूपाणि जायन्ते बीजानीह स्वभावतः

॥३८॥

व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः

यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा

॥३९॥

अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते

उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति

॥४०॥

तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना

आयुष्कामेन वप्तव्यं न जातु परयोषिति

॥४१॥

अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः

यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे

॥४२॥

नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः

तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे

॥४३॥

पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः

स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम्

॥४४॥

एतावानेव पुरुषो यज्जायात्मा प्रजेति ह

विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना

॥४५॥

न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते

एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम्

॥४६॥

सकृदंशो निपतति सकृत्कन्या प्रदीयते

सकृदाह ददानीति त्रीण्येतानि सतां सकृत्

॥४७॥

यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च

नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि

॥४८॥

येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः

ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित्

॥४९॥

यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्

गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्

॥५०॥

तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः

कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम्

॥५१॥

फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा

प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गलीयसी

॥५२॥

क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत्प्रदीयते

तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च

॥५३॥

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति

क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम्

॥५४॥

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च

विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति

॥५५॥

एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम्

अतः परं प्रवक्ष्यामि योषितां धर्ममापदि

॥५६॥

भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा

यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता

॥५७॥

ज्येष्ठो यवीयसो भार्यां यवीयान्वाग्रजस्त्रियम्

पतितौ भवतो गत्वा नियुक्तावप्यनापदि

॥५८॥

देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया

प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये

॥५९॥

विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि

एकमुत्पादयेत्पुत्रं न द्वितीयं कथं चन

॥६०॥

द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः

अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः

॥६१॥

विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि

गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम्

॥६२॥

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः

तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ

॥६३॥

नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः

अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम्

॥६४॥

नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित्

न विवाहविधावुक्तं विधवावेदनं पुनः

॥६५॥

अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः

मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति

॥६६॥

स महीमखिलां भुञ्जन्राजर्षिप्रवरः पुरा

वर्णानां संकरं चक्रे कामोपहतचेतनः

॥६७॥

ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम्

नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः

॥६८॥

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः

तामनेन विधानेन निजो विन्देत देवरः

॥६९॥

यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्

मिथो भजेता प्रसवात्सकृत्सकृदृतावृतौ

॥७०॥

न दत्त्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः

दत्त्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम्

॥७१॥

विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्

व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम्

॥७२॥

यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत्

तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः

॥७३॥

विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः

अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि

॥७४॥

विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता

प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः

॥७५॥

प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः

विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान्

॥७६॥

संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः

ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत्

॥७७॥

अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा

सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा

॥७८॥

उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम्

न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम्

॥७९॥

मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत्

व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा

॥८०॥

वन्ध्याष्टमेऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा

एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी

॥८१॥

या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः

सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित्

॥८२॥

अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्

सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ

॥८३॥

प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि

प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट्

॥८४॥

यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः

तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च

॥८५॥

भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम्

स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथं चन

॥८६॥

यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया

यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः

॥८७॥

उत्कृष्टायाभिरूपाय वराय सदृशाय च

अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि

॥८८॥

काममा मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि

न चैवैनां प्रयच्चेत्तु गुणहीनाय कर्हि चित्

॥८९॥

त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती

ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्

॥९०॥

अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम्

नैनः किं चिदवाप्नोति न च यं साधिगच्छति

॥९१॥

अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा

मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत्

॥९२॥

पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन्

स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात्

॥९३॥

त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्

त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः

॥९४॥

देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः

तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन्

॥९५॥

प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः

तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः

॥९६॥

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः

देवराय प्रदातव्या यदि कन्यानुमन्यते

॥९७॥

आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन्

शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम्

॥९८॥

एतत्तु न परे चक्रुर्नापरे जातु साधवः

यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते

॥९९॥

नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु

शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम्

॥१००॥

अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः

एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः

॥१०१॥

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ

यथा नाभिचरेतां तौ वियुक्तावितरेतरम्

॥१०२॥

एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः

आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत

॥१०३॥

ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम्

भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः

॥१०४॥

ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः

शेषास्तमुपजीवेयुर्यथैव पितरं तथा

॥१०५॥

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः

पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति

॥१०६॥

यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते

स एव धर्मजः पुत्रः कामजानितरान्विदुः

॥१०७॥

पितेव पालयेत्पूत्रान्ज्येष्ठो भ्रातॄण्यवीयसः

पुत्रवच्चापि वर्तेरन्ज्येष्ठे भ्रातरि धर्मतः

॥१०८॥

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः

ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः

॥१०९॥

यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः

अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत्

॥११०॥

एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया

पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया

॥१११॥

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम्

ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः

॥११२॥

ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम्

येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्

॥११३॥

सर्वेषां धनजातानामाददीताग्र्यमग्रजः

यच्च सातिशयं किं चिद्दशतश्चाप्नुयाद्वरम्

॥११४॥

उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु

यत्किं चिदेव देयं तु ज्यायसे मानवर्धनम्

॥११५॥

एवं समुद्धृतोद्धारे समानंशान्प्रकल्पयेत्

उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना

॥११६॥

एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः

अंशमंशं यवीयांस इति धर्मो व्यवस्थितः

॥११७॥

स्वेभ्योऽंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक्

स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः

॥११८॥

अजाविकं सैकशफं न जातु विषमं भजेत्

अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते

॥११९॥

यवीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि

समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः

॥१२०॥

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते

पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत्

॥१२१॥

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः

कथं तत्र विभागः स्यादिति चेत्संशयो भवेत्

॥१२२॥

एकं वृषभमुद्धारं संहरेत स पूर्वजः

ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः

॥१२३॥

ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः

ततः स्वमातृतः शेषा भजेरन्निति धारणा

॥१२४॥

सदृशस्त्रीषु जातानां पुत्राणामविशेषतः

न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते

॥१२५॥

जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम्

यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता

॥१२६॥

अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्

यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्

॥१२७॥

अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः

विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः

॥१२८॥

ददौ स दश धर्माय कश्यपाय त्रयोदश

सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम्

॥१२९॥

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा

तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्

॥१३०॥

मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः

दौहित्र एव च हरेदपुत्रस्याखिलं धनम्

॥१३१॥

दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत्

स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च

॥१३२॥

पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः

तयोर्हि मातापितरौ संभूतौ तस्य देहतः

॥१३३॥

पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते

समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः

॥१३४॥

अपुत्रायां मृतायां तु पुत्रिकायां कथं चन

धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन्

॥१३५॥

अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम्

पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम्

॥१३६॥

पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते

अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्

॥१३७॥

पुंनाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः

तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा

॥१३८॥

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते

दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत्

॥१३९॥

मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः

द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः

॥१४०॥

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः

स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः

॥१४१॥

गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः क्व चित्

गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा

॥१४२॥

अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात्

उभौ तौ नार्हतो भागं जारजातककामजौ

॥१४३॥

नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः

नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः

॥१४४॥

हरेत्तत्र नियुक्तायां जातः पुत्रो यथाउरसः

क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः

॥१४५॥

धनं यो बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च

सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्

॥१४६॥

या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात्

तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते

॥१४७॥

एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु

बह्वीषु चैकजातानां नानास्त्रीषु निबोधत

॥१४८॥

ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः

तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः

॥१४९॥

कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च

विप्रस्याउद्धारिकं देयमेकांशश्च प्रधानतः

॥१५०॥

त्र्यंशं दायाद्धरेद्विप्रो द्वावंशौ क्षत्रियासुतः

वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत्

॥१५१॥

सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च

धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित्

॥१५२॥

चतुरोऽंशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः

वैश्यापुत्रो हरेद्द्व्यंशं अंशं शूद्रासुतो हरेत्

॥१५३॥

यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत्

नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः

॥१५४॥

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक्

यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत्

॥१५५॥

समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम्

उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम्

॥१५६॥

शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते

तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्

॥१५७॥

पुत्रान्द्वादश यानाह नॄणां स्वायंभुवो मनुः

तेषां षड्बन्धुदायादाः षडदायादबान्धवाः

॥१५८॥

औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च

गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट्

॥१५९॥

कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा

स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः

॥१६०॥

यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम्

तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः

॥१६१॥

यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ

यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः

॥१६२॥

एक एवाउरसः पुत्रः पित्र्यस्य वसुनः प्रभुः

शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम्

॥१६३॥

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात्

औरसो विभजन्दायं पित्र्यं पञ्चममेव वा

॥१६४॥

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ

दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः

॥१६५॥

स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम्

तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम्

॥१६६॥

यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा

स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः

॥१६७॥

माता पिता वा दद्यातां यमद्भिः पुत्रमापदि

सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः

॥१६८॥

सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्

पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः

॥१६९॥

उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः

स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः

॥१७०॥

मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा

यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते

॥१७१॥

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः

तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्

॥१७२॥

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती

वोढुः स गर्भो भवति सहोढ इति चोच्यते

॥१७३॥

क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्

स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा

॥१७४॥

या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया

उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते

॥१७५॥

सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा

पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति

॥१७६॥

मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात्

आत्मानमर्पयेद्यस्मै स्वयंदत्तस्तु स स्मृतः

॥१७७॥

यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्

स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः

॥१७८॥

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्

सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः

॥१७९॥

क्षेत्रजादीन्सुतानेतानेकादश यथोदितान्

पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः

॥१८०॥

य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः

यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु

॥१८१॥

भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत्

सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्

॥१८२॥

सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत्

सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः

॥१८३॥

श्रेयसः श्रेयसोऽलाभे पापीयान्रिक्थमर्हति

बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः

॥१८४॥

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः

पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च

॥१८५॥

त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते

चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते

॥१८६॥

अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्

अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा

॥१८७॥

सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः

त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते

॥१८८॥

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः

इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः

॥१८९॥

संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत्

तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत्

॥१९०॥

द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने

तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः

॥१९१॥

जनन्यां संस्थितायां तु समं सर्वे सहोदराः

भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः

॥१९२॥

यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः

मातामह्या धनात्किं चित्प्रदेयं प्रीतिपूर्वकम्

॥१९३॥

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि

भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्

॥१९४॥

अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत्

पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत्

॥१९५॥

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्वसु

अप्रजायामतीतायां भर्तुरेव तदिष्यते

॥१९६॥

यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु

अप्रजायामतीतायां मातापित्रोस्तदिष्यते

॥१९७॥

स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथं चन

ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत्

॥१९८॥

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात्

स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया

॥१९९॥

पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्

न तं भजेरन्दायादा भजमानाः पतन्ति ते

॥२००॥

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा

उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः

॥२०१॥

सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा

ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत्

॥२०२॥

यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथं चन

तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति

॥२०३॥

यत्किं चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति

भागो यवीयसां तत्र यदि विद्यानुपालिनः

॥२०४॥

अविद्यानां तु सर्वेषां ईहातश्चेद्धनं भवेत्

समस्तत्र विभागः स्यादपित्र्य इति धारणा

॥२०५॥

विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत्

मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च

॥२०६॥

भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा

स निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम्

॥२०७॥

अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम्

स्वयमीहितलब्धं तन्नाकामो दातुमर्हति

॥२०८॥

पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात्

न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम्

॥२०९॥

विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि

समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते

॥२१०॥

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः

म्रियेतान्यतरो वापि तस्य भागो न लुप्यते

॥२११॥

सोदर्या विभजेरंस्तं समेत्य सहिताः समम्

भ्रातरो ये च संसृष्टा भागिन्यश्च सनाभयः

॥२१२॥

यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातॄन्यवीयसः

सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः

॥२१३॥

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम्

न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्

॥२१४॥

भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह

न पुत्रभागं विषमं पिता दद्यात्कथं चन

॥२१५॥

ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्

संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह

॥२१६॥

अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात्

मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम्

॥२१७॥

ऋणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि

पश्चाद्दृश्येत यत्किं चित्तत्सर्वं समतां नयेत्

॥२१८॥

वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः

योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते

॥२१९॥

अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः

क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत

॥२२०॥

द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत्

राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम्

॥२२१॥

प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ

तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत्

॥२२२॥

अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते

प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः

॥२२३॥

द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा

तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः

॥२२४॥

कितवान्कुशीलवान्क्रूरान्पाषण्डस्थांश्च मानवान्

विकर्मस्थान्शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात्

॥२२५॥

एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः

विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः

॥२२६॥

द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत्

तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्

॥२२७॥

प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः

तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा

॥२२८॥

क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन्

आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः

॥२२९॥

स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम्

शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम्

॥२३०॥

ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्

धनोष्मणा पच्यमानास्तान्निःस्वान्कारयेन्नृपः

॥२३१॥

कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान्

स्त्रीबालब्राह्मणघ्नांश्च हन्याद्द्विट्सेविनस्तथा

॥२३२॥

तीरितं चानुशिष्टं च यत्र क्व चन यद्भवेत्

कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत्

॥२३३॥

अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा

तत्स्वयं नृपतिः कुर्यात्तान्सहस्रं च दण्डयेत्

॥२३४॥

ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः

एते सर्वे पृथग्ज्ञेया महापातकिनो नराः

॥२३५॥

चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम्

शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत्

॥२३६॥

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः

स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान्

॥२३७॥

असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः

चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः

॥२३८॥

ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः

निर्दया निर्नमस्कारास्तन्मनोरनुशासनम्

॥२३९॥

प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम्

नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम्

॥२४०॥

आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः

विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः

॥२४१॥

इतरे कृतवन्तस्तु पापान्येतान्यकामतः

सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम्

॥२४२॥

नाददीत नृपः साधुर्महापातकिनो धनम्

आददानस्तु तल्लोभात्तेन दोषेण लिप्यते

॥२४३॥

अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत्

श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत्

॥२४४॥

ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः

ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः

॥२४५॥

यत्र वर्जयते राजा पापकृद्भ्यो धनागमम्

तत्र कालेन जायन्ते मानवा दीर्घजीविनः

॥२४६॥

निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक्

बालाश्च न प्रमीयन्ते विकृतं च न जायते

॥२४७॥

ब्राह्मणान्बाधमानं तु कामादवरवर्णजम्

हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः

॥२४८॥

यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे

अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः

॥२४९॥

उदितोऽयं विस्तरशो मिथो विवादमानयोः

अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः

॥२५०॥

एवं धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः

देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत्

॥२५१॥

सम्यङ्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः

कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम्

॥२५२॥

रक्षनादार्यवृत्तानां कण्टकानां च शोधनात्

नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः

॥२५३॥

अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः

तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते

॥२५४॥

निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्

तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः

॥२५५॥

द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान्

प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः

॥२५६॥

प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः

प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः

॥२५७॥

उत्कोचकाश्चाउपधिका वञ्चकाः कितवास्तथा

मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह

॥२५८॥

असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः

शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः

॥२५९॥

एवमादीन्विजानीयात्प्रकाशांल्लोककण्टकान्

निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः

॥२६०॥

तान्विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः

चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत्

॥२६१॥

तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः

कुर्वीत शासनं राजा सम्यक्सारापराधतः

॥२६२॥

न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः

स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ

॥२६३॥

सभाप्रपापूपशालावेशमद्यान्नविक्रयाः

चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च

॥२६४॥

जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च

शून्यानि चाप्यगाराणि वनान्युपवनानि च

॥२६५॥

एवंविधान्नृपो देशान्गुल्मैः स्थावरजङ्गमैः

तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत्

॥२६६॥

तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः

विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः

॥२६७॥

भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः

शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम्

॥२६८॥

ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये

तान्प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान्

॥२६९॥

न होढेन विना चौरं घातयेद्धार्मिको नृपः

सहोढं सोपकरणं घातयेदविचारयन्

॥२७०॥

ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः

भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत्

॥२७१॥

राष्ट्रेषु रक्षाधिकृतान्सामन्तांश्चैव चोदितान्

अभ्याघातेषु मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम्

॥२७२॥

यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः

दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम्

॥२७३॥

ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने

शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः

॥२७४॥

राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान्

घातयेद्विविधैर्दण्डैररीणां चोपजापकान्

॥२७५॥

संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः

तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत्

॥२७६॥

अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे

द्वितीये हस्तचरणौ तृतीये वधमर्हति

॥२७७॥

अग्निदान्भक्तदांश्चैव तथा शस्त्रावकाशदान्

संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः

॥२७८॥

तडागभेदकं हन्यादप्सु शुद्धवधेन वा

यद्वापि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम्

॥२७९॥

कोष्ठागारायुधागारदेवतागारभेदकान्

हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन्

॥२८०॥

यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत्

आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम्

॥२८१॥

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि

स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत्

॥२८२॥

आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा

परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः

॥२८३॥

चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः

अमानुषेषु प्रथमो मानुषेषु तु मध्यमः

॥२८४॥

संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः

प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च

॥२८५॥

अदूषितानां द्रव्याणां दूषणे भेदने तथा

मणीनामपवेधे च दण्डः प्रथमसाहसः

॥२८६॥

समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा

समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा

॥२८७॥

बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत्

दुःखिता यत्र दृश्येरन्विकृताः पापकारिणह्

॥२८८॥

प्राकारस्य च भेत्तारं परिखाणां च पूरकम्

द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत्

॥२८९॥

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः

मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च

॥२९०॥

अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च

मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम्

॥२९१॥

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः

प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः

॥२९२॥

सीताद्रव्यापहरणे शस्त्राणामौषधस्य च

कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत्

॥२९३॥

स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा

सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते

॥२९४॥

सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्

पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत्

॥२९५॥

सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत्

अन्योन्यगुणवैशेष्यान्न किं चिदतिरिच्यते

॥२९६॥

तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते

येन यत्साध्यते कार्यं तत्तस्मिञ्श्रेष्ठमुच्यते

॥२९७॥

चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्

स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः

॥२९८॥

पीडनानि च सर्वाणि व्यसनानि तथैव च

आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम्

॥२९९॥

आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः

कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते

॥३००॥

कृतं त्रेतायुगं चैव द्वापरं कलिरेव च

राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते

॥३०१॥

कलिः प्रसुप्तो भवति स जाग्रद्द्वापरं युगम्

कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम्

॥३०२॥

इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च

चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत्

॥३०३॥

वार्षिकांश्चतुरो मासान्यथेन्द्रोऽभिप्रवर्षति

तथाभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन्

॥३०४॥

अष्टौ मासान्यथादित्यस्तोयं हरति रश्मिभिः

तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत्

॥३०५॥

प्रविश्य सर्वभूतानि यथा चरति मारुतः

तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्

॥३०६॥

यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति

तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्

॥३०७॥

वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते

तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम्

॥३०८॥

परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः

तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृपः

॥३०९॥

प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु

दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम्

॥३१०॥

यथा सर्वाणि भूतानि धरा धारयते समम्

तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्

॥३११॥

एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः

स्तेनान्राजा निगृह्णीयात्स्वराष्ट्रे पर एव च

॥३१२॥

परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत्

ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम्

॥३१३॥

यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः

क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान्

॥३१४॥

लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः

देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्समृध्नुयात्

॥३१५॥

यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा

ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः

॥३१६॥

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्

प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्

॥३१७॥

श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति

हूयमानश्च यज्ञेषु भूय एवाभिवर्धते

॥३१८॥

एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु

सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत्

॥३१९॥

क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः

ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्

॥३२०॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

॥३२१॥

नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते

ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते

॥३२२॥

दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम्

पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे

॥३२३॥

एवं चरन्सदा युक्तो राजधर्मेषु पार्थिवः

हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत्

॥३२४॥

एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः

इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः

॥३२५॥

वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम्

वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे

॥३२६॥

प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्

ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः

॥३२७॥

न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति

वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन

॥३२८॥

मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च

गन्धानां च रसानां च विद्यादर्घबलाबलम्

॥३२९॥

बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च

मानयोगं च जानीयात्तुलायोगांश्च सर्वशः

॥३३०॥

सारासारं च भाण्डानां देशानां च गुणागुणान्

लाभालाभं च पण्यानां पशूनां परिवर्धनम्

॥३३१॥

भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणां

द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च

॥३३२॥

धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम्

दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः

॥३३३॥

विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम्

शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः

॥३३४॥

शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहंकृतः

ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते

॥३३५॥

एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः

आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत

॥३३६॥