- १ॐ नारायणकुलोद्भूताय नमः
- २ॐ नारायणपराय नमः
- ३ॐ वराय नमः
- ४ॐ नारायणावताराय नमः
- ५ॐ नारायणवशंवदाय नमः
- ६ॐ स्वयम्भूवंशसम्भूताय नमः
- ७ॐ वसिष्ठकुलदीपकाय नमः
- ८ॐ शक्तिपौत्राय नमः
- ९ॐ पापहन्त्रे नमः
- १०ॐ पराशरसुताय नमः
- ११ॐ अमलाय नमः
- १२ॐ द्वैपायनाय नमः
- १३ॐ मातृभक्ताय नमः
- १४ॐ शिष्टाय नमः
- १५ॐ सत्यवतीसुताय नमः
- १६ॐ स्वयमुद्भूतवेदाय नमः
- १७ॐ चतुर्वेदविभागकृते नमः
- १८ॐ महाभारतकर्त्रे नमः
- १९ॐ ब्रह्मसूत्रप्रजापतये नमः
- २०ॐ अष्टादशपुराणानां कर्त्रे नमः
- २१ॐ श्यामाय नमः
- २२ॐ प्रशिष्यकाय नमः
- २३ॐ शुकताताय नमः
- २४ॐ पिङ्गजटाय नमः
- २५ॐ प्रांशवे नमः
- २६ॐ दण्डिने नमः
- २७ॐ मृगाजिनाय नमः
- २८ॐ वश्यवाचे नमः
- २९ॐ ज्ञानदात्रे नमः
- ३०ॐ शङ्करायुःप्रदाय नमः
- ३१ॐ शुचये नमः
- ३२ॐ मातृवाक्यकराय नमः
- ३३ॐ धर्मिणे नमः
- ३४ॐ कर्मिणे नमः
- ३५ॐ तत्त्वार्थदर्शकाय नमः
- ३६ॐ सञ्जयज्ञानदात्रे नमः
- ३७ॐ प्रतिस्मृत्युपदेशकाय नमः
- ३८ॐ सर्वधर्मोपदेष्ट्रे नमः
- ३९ॐ मृतदर्शनपण्डिताय नमः
- ४०ॐ विचक्षणाय नमः
- ४१ॐ प्रहृष्टात्मने नमः
- ४२ॐ पर्वपूज्याय नमः
- ४३ॐ प्रभवे नमः
- ४४ॐ मुनये नमः
- ४५ॐ वीराय नमः
- ४६ॐ विश्रुतविज्ञानाय नमः
- ४७ॐ प्राज्ञाय नमः
- ४८ॐ अज्ञाननाशनाय नमः
- ४९ॐ ब्राह्मकृते नमः
- ५०ॐ पाद्मकृते नमः
- ५१ॐ धीराय नमः
- ५२ॐ विष्णुकृते नमः
- ५३ॐ शिवकृते नमः
- ५४ॐ श्रीभागवतकर्त्रे नमः
- ५५ॐ भविष्यरचनादराय नमः
- ५६ॐ नारदाख्यस्य कर्त्रे नमः
- ५७ॐ मार्कण्डेयकराय नमः
- ५८ॐ अग्निकृते नमः
- ५९ॐ ब्रह्मवैवर्तकर्त्रे नमः
- ६०ॐ लिङ्गकृते नमः
- ६१ॐ वराहकृते नमः
- ६२ॐ स्कान्दकर्त्रे नमः
- ६३ॐ वामनकृते नमः
- ६४ॐ कूर्मकर्त्रे नमः
- ६५ॐ मत्स्यकृते नमः
- ६६ॐ गरुडाख्यस्य कर्त्रे नमः
- ६७ॐ ब्रह्माण्डाख्यपुराणकृते नमः
- ६८ॐ उपपुराणानां कर्त्रे नमः
- ६९ॐ पुराणाय नमः
- ७०ॐ पुरुषोत्तमाय नमः
- ७१ॐ काशिवासिने नमः
- ७२ॐ ब्रह्मनिधये नमः
- ७३ॐ गीतादात्रे नमः
- ७४ॐ महामतये नमः
- ७५ॐ सर्वज्ञाय नमः
- ७६ॐ सर्वसिद्धये नमः
- ७७ॐ सर्वशास्त्रप्रवर्तकाय नमः
- ७८ॐ सर्वाश्रयाय नमः
- ७९ॐ सर्वहिताय नमः
- ८०ॐ सर्वस्मै नमः
- ८१ॐ सर्वगुणाश्रयाय नमः
- ८२ॐ विशुद्धाय नमः
- ८३ॐ शुद्धिकृते नमः
- ८४ॐ दक्षाय नमः
- ८५ॐ विष्णुभक्ताय नमः
- ८६ॐ शिवार्चकाय नमः
- ८७ॐ देवीभक्ताय नमः
- ८८ॐ स्कन्दरुचये नमः
- ८९ॐ गणेशादृते नमः
- ९०ॐ योगविदे नमः
- ९१ॐ पैलाचार्याय नमः
- ९२ॐ ऋचः कर्त्रे नमः
- ९३ॐ शाकल्यार्याय नमः
- ९४ॐ याजुषाय नमः
- ९५ॐ जैमिन्यार्याय नमः
- ९६ॐ सामकर्त्रे नमः
- ९७ॐ सुमन्त्वार्याय नमः
- ९८ॐ अथर्वकृते नमः
- ९९ॐ रोमहर्षणसूतार्याय नमः
- १००ॐ लोकाचार्याय नमः
- १०१ॐ महामुनये नमः
- १०२ॐ व्यासकाशीरतये नमः
- १०३ॐ विश्वपूज्याय नमः
- १०४ॐ विश्वेशपूजकाय नमः
- १०५ॐ शान्ताय नमः
- १०६ॐ शान्ताकृतये नमः
- १०७ॐ शान्तचित्ताय नमः
- १०८ॐ शान्तिप्रदाय नमः
इति श्री-व्यासाष्टोत्तरशतनामावलिः सम्पूर्णा