गणेशपुराणम्, उपासनाखण्डः, अध्यायः १३
श्रीगणेशाय नमः
ब्रह्मविष्णुमहेश्वरा ऊचुः
अजं निर्विकल्पं निराकारमेकं
निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परं ब्रह्मरूपं गणेशं भजेम ॥
॥१॥गुणातीतमाद्यं चिदानन्दरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परं ब्रह्मरूपं गणेशं भजेम ॥
॥२॥जगत्कारणं कारणाज्ञानहीनं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं
परं ब्रह्मरूपं गणेशं भजेम ॥
॥३॥रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
सदा ब्रह्मरूपं गणेशं नताः स्मः ॥
॥४॥सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं
सदा विष्णुरूपं गणेशं नताः स्मः ॥
॥५॥तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नताः स्मः ॥
॥६॥तमःस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं
सदा ब्रध्नरूपं गणेशं नताः स्मः ॥
॥७॥निजैरौषधैस्तर्पयन्तं करौघैः
सुरौघान् कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं
शशाङ्कस्वरूपं गणेशं नताः स्मः ॥
॥८॥प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नताः स्मः ॥
॥९॥प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नताः स्मः ॥
॥१०॥त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितेऽयं
जनो ध्वान्तबाधां कथं वा लभेत ॥
॥११॥वयं भ्रामिताः सर्वथाऽज्ञानयोगात्
अलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्
प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥
॥१२॥ब्रह्मोवाच
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥
॥१३॥गणेश उवाच
यदर्थं क्लेशिता यूयं यदर्थमिह चागताः ।
प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम् ॥
॥१४॥कृतञ्च मम यत्स्तोत्रं भवद्भिर्भावितात्मभिः ।
स्तोत्रराजमितिख्यातं भविष्यति ममाज्ञया ॥
॥१५॥इदं यः पठेत्प्रातरुत्थाय धीमांस्त्रिसन्ध्यं
सदा भक्तियुक्तो विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥
॥१६॥इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये ब्रह्मविष्णुमहेश्वराकृतो गणपतिस्तवः सम्पूर्णः ।