मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गणेशभुजङ्गम्

Also spelled: Ganeshabhujangam

3

पारम्परिकम्

रणत् क्षुद्रघण्टानिनादाभिरामं

चलत् ताण्डवोद् दण्डवत्पद्मतालम् ।

लसत् तुन्दिलाङ्गोपरिव्यालहारं

गणाधीशमीशानसूनुं तमीडे ॥

॥१॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं

स्फुरच्छुण्डदण्डोल्लसद्‌बीजपूरम् ।

गलद्दर्पसौगन्ध्यलोलालिमालं

गणाधीशमीशानसूनुं तमीडे ॥

॥२॥

प्रकाशज्जपारक्तरत्नप्रसून-

प्रवालप्रभातारुणज्योतिरेकम् ।

प्रलम्बोदरं वक्रतुण्डैकदन्तं

गणाधीशमीशानसूनुं तमीडे ॥

॥३॥

विचित्रस्फुरद्रत्नमालाकिरीटं

किरीटोल्लसच्चन्द्ररेखाविभूषम् ।

विभूषैकभूषं भवध्वंसहेतुं

गणाधीशमीशानसूनुं तमीडे ॥

॥४॥

उदञ्चद्भुजावल्लरीदृश्यमूलोच्-

चलद्‌-भ्रूलता-विभ्रमभ्राजदक्षम् ।

मरुत्सुन्दरीचामरैः सेव्यमानं

गणाधीशमीशानसूनुं तमीडे ॥

॥५॥

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं

कृपाकोमलोदारलीलावतारम् ।

कलाबिन्दुगं गीयते योगिवर्यैर्-

गणाधीशमीशानसूनुं तमीडे ॥

॥६॥

यमेकाक्षरं निर्मलं निर्विकल्पं

गुणातीतमानन्दमाकारशून्यम् ।

परं पारमोङ्कारमाम्नायगर्भं

वदन्ति प्रगल्भं पुराणं तमीडे ॥

॥७॥

चिदानन्दसान्द्राय शान्ताय तुभ्यं

नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।

नमोऽनन्तलीलाय कैवल्यभासे

नमो विश्वबीज प्रसीदेशसूनो ॥

॥८॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या

पठेद् यस्तु मर्त्यो लभेत् सर्वकामान् ।

गणेशप्रसादेन सिद्ध्यन्ति वाचो

गणेशे विभौ दुर्लभं किं प्रसन्ने ॥

॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-गणेशभुजङ्गं सम्पूर्णम्