मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गणेश अष्टोत्तरशत नाम स्तोत्रम्

3

पारम्परिकम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।

स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥

॥१॥

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः ।

सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥

॥२॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः ।

शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः ॥

॥३॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।

एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥

॥४॥

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।

कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥

॥५॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।

अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः ॥

॥६॥

बीजपूरफलासक्तो वरदः शाश्वतः कृतिः ।

विद्वत्प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥

॥७॥

श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः ।

कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥

॥८॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।

आश्रितः श्रीकरः सौम्यो भक्तवाञ्छितदायकः ॥

॥९॥

शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ।

ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥

॥१०॥

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।

रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥

॥११॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियो परः ।

स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ॥

॥१२॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥

॥१३॥

स्वलावण्यसुधासारजितमन्मथविग्रहः

समस्तजगदाधारो मायी मूषिकवाहनः

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥

॥१४॥

इति श्री-गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्