मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

परिसङ्ख्यानप्रकरणम्

3
उपदेशसाहस्री · गद्यबन्धः · 3

श्रीशङ्करभगवत्पादकृता

मुमुक्षूणामुपात्तपुण्यापुण्यक्षपणपराणामपुर्वानुपचयार्तिनां परिसंख्यानमिदमुच्यते । अविद्याहेतवो दोषा वाञ्मनःकायप्रवृत्तिहेतव्यः प्रवृत्तेश्चेष्टानिष्टमिश्रफलानि कर्माण्युपचीयन्त इति तन्मोक्षार्थम् ॥

॥११२॥

तत्र शब्दस्पर्शरूपरसगन्धानां विषयाणां श्रोतादिग्राह्यत्वात् स्वाट्मनि परेषु वा विज्ञानाभावः तेषामेव परिणतानां यथा लोष्टादीनाम् । श्रोत्रादिद्वारैश्च ज्ञायन्ते । येन च ज्ञायन्ते स ज्ञातृत्वादतज्जातीयः । ते हि शब्दादयोऽन्योन्यसंसर्गित्वाज् जन्मवृद्धि(वि) परिणामापक्षयनाशसंयोगवियोगाविर्भावतिरोभावविकारविकारिक्षेत्रबीजाद्यनेक् अधर्माणः सामान्येन च सुखदुःखाद्यनेकधर्माणः । तद्विज्ञातृत्वादेव तद्विज्ञाता सर्वशब्दादिधर्मविलक्षणः ॥

॥११३॥

तत्र शब्दादिभिरुपलभ्यमानैः पीद्यमानो विद्वानेवं परिसंचक्षीत ॥

॥११४॥

शब्दस्तु ध्वनिसामान्यमात्रेण विशेषधर्मैर्वा षड्जादिभिः प्रियैः, स्तुत्यादिभिरिष्टैः, अनिष्टैश्चासत्यबीभत्सपरिभवाक्रोशादिभिर्वचनैः मां दृक्स्वभावमसंसर्गिणमविक्रियमचलमनिधनमभयमत्यन्तसूक्ष्ममविषय ं गोचरीकृत्य स्प्रष्टुं नैवार्हत्यसंसर्गित्वादेव मम । अत एव न शब्दनिमित्ता हानिर्वृद्धिर्वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वादिलक्षणः शब्दः । अविवेकिनं हि शब्दमात्मत्वेन गतं प्रियः शब्दो वर्धयेदप्रियश्च क्षपयेतविवेकित्वात् न तु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सहत इति । एवमेव स्पर्शसामान्येन तद्विशेषैश्च शितोष्णमृदुकर्कशादिज्वरोदरशूलादिलक्षणैश्चाप्रियैः प्रियैश्च कैश्चिच्छरीरसमवायिभिर्बाह्यागन्तुकनिमित्तैश्च न मम काचिद् विक्रिया वृद्धिहानिलक्षणा अस्पर्शत्वात् क्रियते व्योम्न इव मुष्टिघातादिभिः । तथा रूपसामान्येन तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः अरूपत्वान् न मम काचिद् धानिर्वृद्धिर्वा क्रियते । तथा रससामान्येन तद्विशेषैश्च (प्रियाप्रियैः) मधुराम्ललवणकटुतिक्तकषायैर्मूढबुद्धिभिः परिगृहीतैः अरसात्मकस्य न मम काचिद् धानिर्वृद्धिर्वा क्रियते । तथा गन्धसामान्येन तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनुलेपनादिलक्षणैः अगन्धात्मकस्य न मम काचिद् धानिर्वृद्धिर्वा क्रियते । ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच् च यत्’ इति श्रुतेः ॥

॥११५॥

किं च य एव बाह्यः शब्दादयस्ते शरीराकारेण संस्थिताः तद्ग्राहकैश्च श्रोत्राद्याकारैरन्तःकरणद्वयतद्विषयाकारेण च, अन्योन्यसंसर्गित्वात् संहतत्वाच् च सर्वक्रियासु । तत्रैवं सति विदुषो मम न कश्चिच् छत्रुर्मित्रमुदासीनो वास्ति । तत्र यदि (कश्चिन्) मिथ्याज्ञानाभिमानेन प्रियमप्रियं वा प्रयुयुङ्क्षेत क्रियाफललक्षणम्, तन् मृषैव प्रयुयुङ्क्षति सः । तस्याविषयत्वान् मम -- ‘अव्यक्तोऽयमचिन्त्योऽयं’ इति स्मृतेः । तथा (सर्वेषां) पञ्चानामपि भूतानामविकार्यः अविषयत्वात् । ‘अच्छेद्योऽयमदाह्योऽयं’ इति स्मृतेः । यापि शरीरेन्द्रियसंस्थानमात्रमुपलक्ष्य मद्भक्तानां विपरीतानां च प्रियाप्रियादिप्रयुयुङ्क्षा तज्जा च धर्माधर्मादिप्राप्तिः सा तेषामेव न तु मय्यजरेऽमृतेऽभये ‘नैनं कृताकृते तपतः’ ‘न कर्मणा वर्धते नो कनीयान्’ ‘सबाह्याभ्यन्तरो ह्यजः’ ‘न लिप्यते लोकदुःखेन बाह्यः’ इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश्चासत्त्वादिति परमो हेतुः । आत्मनश्चाद्वयत्वविषयाणि द्वयस्यासत्त्वात् यानि सर्वाण्युपनिषद्वाक्यानि विस्तरशः समीक्षितव्यानि समीक्षितव्यानीति ॥

॥११६॥

इति परिसंख्यानप्रकरणम्